अद्वैतशारदा

आनन्दगिरिटीका (काठक)

द्वितीयोऽध्यायः: चतुर्थी वल्ली

अना­दि­र­वि­द्या­प्र­ति­बन्धः प्रागु­क्तोऽ­धु­नाऽऽ­ग­न्तु­क­प्र­ति­ब­न्ध­द­र्श­ना­यो­त्त­र­व­ल्ल्या­रम्भ इति सम्बन्धमाह -
एष सर्वे­ष्वि­त्या­दिना ।
यदी­न्द्रि­या­ण्य­न्त­र्मु­खानि स्युस्तदा तान्या­त्म­नि­ष्ठ­त­याऽ­मृ­त­त्व­मी­यु­रत इन्द्रियाणि बहिर्मुखानि सृष्टानीति यत्तत्तेषां हननमेव कृतमिर्त्थः । ‘आप्लृ’ व्याप्ताविति धात्व­र्था­नु­सा­रेण व्यापक आत्मशब्दार्थः । यद्यस्मादादत्ते संहरति स्वात्मन्येव सर्वमिति जगदुपादानं लभ्यते विष­या­न­त्ती­त्या­त्मेति व्युत्पत्त्या स्वचै­त­न्या­भा­से­नो­प­ल­ब्धृ­त्व­मा­त्म­श­ब्दार्थः । येन कार­णे­ना­स्याऽऽ­त्मनः सन्ततो निरन्तरा भावः कल्पि­त­स्या­धि­ष्ठा­न­स­त्ता­म­न्त­रेण सत्ताभावाद्यथा रज्ज्वामध्यस्ते सर्पे रज्ज्वाः सातत्यं तथा कल्पितं सर्वं येन स्वस्वरूपवत्स आत्मेत्यर्थः ॥ १ - २ ॥

कथं तदधिगम इति किं वैदि­क­त्वा­द्ध­र्म­व­त्प­रो­क्ष­त्वेन किंवा घटा­दि­व­त्सि­द्ध­त्वा­द­प­रो­क्ष­त्वे­ना­पी­त्या­का­ङ्क्षा­या­मा­त्म­त्वाद् ब्रह्म­णोऽ­प­रो­क्ष­त्वे­नै­वा­व­गमः सम्यगवगम इत्युच्यते -
येनेत्यादिना ।

मूूढानां व्यति­रि­क्ते­नाऽऽ­त्मना देहा­दे­र्वे­द्यत्वं यद्यपि न प्रसिद्धं तथाऽपि विचारकाणां व्यतिरिक्तेनैव वेद्यत्वं प्रसिद्धं ततो यच्छब्देन प्रसि­द्ध­व­त्प­रा­मर्शो न विरुध्यत इति परिहरति -
न त्वेवं देहादीत्यादिना ।
दैहिकाः शब्दादयो न स्वात्मानमन्यं च विजानीयुः शब्दादित्वाद् दृश्यत्वाच्च बाह्यवत् ।

विपक्षे बाधकमाह -
यदि हीति ॥ ३ - ४ - ५ ॥

यदिति ।
यः कश्चित्पूर्वं तपसो जातं पश्यति स प्रकृतं ब्रह्मैव पश्यतीति सम्बन्धः । अद्भ्यः पूर्वमित्यादिना हिरण्यगर्भस्य विशे­ष­णा­न्तः­क­र­णां­शेन जीवा­व­च्छे­द­क­त्वा­ज्जी­व­ता­दा­त्म्य­वि­व­क्षया विशेषणं शब्दा­दी­नु­प­ल­भ­मा­न­मिति । यस्माल्लोके सुवर्णाज्जातं कुण्डलं सुवर्णमेव भवति तद्वद्ब्रह्मणो जातो हिरण्यगर्भोऽपि ब्रह्मात्मक एवेत्यर्थः ॥ ६ ॥

हिरण्यगर्भस्यैव विशेषणान्तरमाह -
किञ्चेति ॥ ७ - ८ - ९ ॥

सर्वात्मकं ब्रह्मोक्तं तदसत् , उपा­ध्य­व­च्छि­न्न­चै­त­न्यस्य जीवस्य संसा­रि­त्वा­द्वि­रु­द्ध­ध­र्मा­क्रा­न्त­यो­रै­क्या­यो­गा­दि­त्याऽऽ­शङ्क्य विरु­द्ध­ध­र्म­त्व­स्यो­पा­धि­नि­ब­न्ध­न­त्वा­त्स्व­भा­वैक्ये न किञ्चि­द­नु­प­प­न्न­मि­त्याह -
यद्ब्र­ह्मा­दी­त्या­दिना ।
अमु­ष्मि­ञ्ज­ग­त्का­र­ण­त्वो­पाद्यौ । उपाधिस्वभावश्च भेददृष्टिश्च ताभ्यां कारणतया लक्ष्यत इत्यु­पा­धि­स्व­भा­व­भे­द­दृ­ष्टि­ल­क्षणा । न ह्यन्तः­क­र­णा­द्यु­पा­धे­र्भे­द­दृ­ष्टे­श्चा­नि­र्वा­च्या­वि­द्या­म­न्त­रेण सम्भवः कार्यकारणभावस्य संवि­त्स­म्ब­न्धस्य च दुर्निरूपत्वात् । नाने­वे­त्यु­प­मार्थ इवशब्दः । यथा स्वप्ने नानात्वाभावेऽपि नाना­त्व­म­ध्या­रोप्य सत्य­त्वा­भि­नि­वे­शेन व्यवहरति तथा जागरितेऽपि नाना­त्व­म­ध्या­रोप्य सत्य­त्वा­भि­नि­वे­शेन यो व्यवहरति तस्य निन्दि­त­त्वा­दे­क­रसं ब्रह्मैवास्मीति प्रति­प­त्त­व्य­मि­त्यर्थः ॥ १० ॥

एकरसं चेद् ब्रह्म कथं ज्ञातृ­ज्ञे­य­वि­भाग इत्या­श­ङ्क्याज्ञं प्रति कल्पि­त­भेे­दे­ने­त्याह -
प्रागे­क­त्व­वि­ज्ञा­ना­दिति ॥ ११ ॥

अङ्गुष्ठपरिमाणं जीवमनूद्य ब्रह्म­भा­व­वि­धा­ना­द्वि­धी­य­मा­न­वि­रो­धा­द­ङ्गु­ष्ठ­मा­त्र­स्या­वि­व­क्षि­त­त्वा­द्ब्र­ह्म­प­र­मेव वाक्यमित्याह -
पुनरपि तदेवेति ॥ १२ - १३ - १४ - १५ ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीम­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञा­न­वि­र­चिते काठ­को­प­नि­ष­द्भा­ष्य­व्या­ख्याने द्वितीयाध्याये प्रथमवल्ली समाप्ता ॥

पौनरुक्त्यं परि­ह­र­न्स­म्ब­न्ध­माह -
पुनरपीति ।
भूयोऽपि पथ्यं वक्तव्यमिति न्याये­नो­पा­या­न्त­रेण ब्रह्म ज्ञाप्यते तत्रोपाया एव भिद्यन्ते नोपेयस्य भेदोऽस्तीति । पुरेणासंहतत्वं स्वामिनः पुरो­प­च­या­प­च­या­भ्या­मु­प­च­या­प­च­य­रा­हि­त्यम् । तत्स­त्ता­प्र­ती­ति­म­न्त­रेण सत्ता­प्र­ती­ति­मत्त्वं स्वातन्त्र्यम् ॥ १ ॥

या यज्ञे प्रसिद्धा वेदिः पृथिव्याः परोऽन्तः, परस्वभाव इति वेद्याः पृथि­वी­स्व­भा­व­त्व­स­ङ्की­र्त­ना­त्पृ­थिवी वेदिशब्दवाच्या भवतीत्यर्थः । असौ वा आदित्यो हंसः शुचिषदिति ब्राह्म­णे­नाऽऽ­दित्यो मन्त्रार्थतया व्याख्यातः कथं तद्विरुद्धमिदं व्याख्या­त­मि­त्या­श­ङ्क्याऽऽह -
यदाऽप्यादित्य एवेति ।
सूर्य आत्मा जग­त­स्त­स्थु­ष­श्चेति मन्त्रा­न्म­ण्ड­लो­प­ल­क्षि­तस्य चिद्धातोरिष्यत एव सर्वा­त्म­त्व­मि­त्यर्थः ॥ २ ॥

येयं प्रेते विचिकित्सा मनुष्य इति या पूर्वं विचिकित्सा प्रश्न­मू­ल­त्वे­नो­द्भा­विता साऽपि निर्मू­ले­त्ये­त­द्द­र्श­यितुं देह­व्य­ति­रि­क्ता­त्मा­स्तित्वं साधयति -
आत्मनः स्वरूपाधिगम इत्यादिना ।
सर्वे प्राण­क­र­ण­व्या­पा­रा­श्चे­त­ना­र्था­स्त­त्प्र­युक्ता भवितुमर्हन्ति जड­चे­ष्टा­त्वा­द्र­थ­चे­ष्टा­व­दि­त्यर्थः ॥ ३ ॥

शरीरं चेतनशेषं तद्विगमे भोगा­न­र्ह­त्वा­द्रा­ज­पु­र­व­दि­त्याह -
किं चास्येति ॥ ४ ॥

अन्यथासिद्धिं शङ्कते -
स्यान्मतमिति ।

ननु जीव प्राणधारण इति धातु­स्म­र­णा­च्छ­री­रस्य जीवनं नाम प्राणधारणं प्राणसंयोगश्च प्राणधारणं कुण्डे दधिधारणवत्तत्र च प्राणस्यैव हेतुत्वं संयो­गा­श्र­य­त्वात् । कथमुच्यते जीवनहेतुत्वं प्राणादीनां न सम्भवतीति तत्राऽऽह -
स्वार्थे­ना­सं­ह­तेनेति ।
कादाचित्कस्य प्राण­श­री­र­सं­यो­गस्य स्वभा­व­तोऽ­नु­प­पत्तेः सङ्घातस्य च लोके परप्रयुक्तस्यैव दर्श­ना­द्भ­वि­त­व्य­म­न्येन सङ्घा­त­प्र­यो­ज­के­ने­त्यर्थः ॥ ५ ॥

येयं प्रेत इति प्रष्टुः पर­लो­केऽ­स्ति­त्वेऽपि सन्देह आसीत् । विशे­ष­त­स्त­न्नि­वृ­त्त्य­र्थ­मु­च्यत आह -
हन्तेदानीमिति ॥ ६ - ७ - ८ ॥

ननु जन्ममरणकारणानां प्रति­नि­य­मा­द­यु­ग­प­त्प्र­वृ­त्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगु­ण्य­वि­प­र्य­या­च्चेति । नानात्मानो व्यवस्थात इत्य­ने­क­ता­र्कि­क­बु­द्धि­वि­रो­धा­त्स­र्व­पु­र­व­र्त्येक एवाऽऽत्मेत्यत्र न चित्तस्थैर्यं सम्भ­व­ती­त्या­श­ङ्क्यौ­पा­धि­क­भे­द­सा­धने सिद्धसाधनं स्वाभा­वि­क­भे­द­सा­धने चानैकान्तिकत्वं दर्शयितुं प्रक्रमत इत्याह -
अने­क­ता­र्कि­के­त्या­दिना ।
प्रतिरूपः उपा­धि­स­दृ­श­श्च­तु­ष्को­ण­त्वा­दि­ध­र्मके हि दारुणि तद्रूपो वह्निरपि लक्ष्यत इत्यर्थः ॥ ९ - १० ॥

परमात्मा दुःखी स्याद्दुः­ख्य­भि­न्न­त्वा­ल्लो­क­व­दि­त्याह -
एकस्य सर्वात्मकत्व इति ।
अविद्यायां प्रति­बि­म्बि­त­श्चि­द्धा­तु­रज्ञो भ्रान्तो भवति । भ्रान्तश्च कामा­दि­दो­ष­प्र­युक्तः कर्म कुरुते तन्निमित्तं च दुःखं स्वात्म­न्य­ध्य­स्यति ।

परमात्मा तु निर­वि­द्य­त्वा­द्दुः­ख­सा­ध­न­शू­न्य­त्वान्न दुःखी ततो न प्रयोजको हेतुरित्याह -
लोको ह्यविद्ययेति ।
स्वरूपेण भ्रामाविषयत्वं विप­री­त­बु­द्ध्य­ध्या­स­बा­ह्यत्वं रज्ज्वादीनां तथा चैत­न्य­स्यो­पा­धि­स्व­रू­पे­णा­ध्या­सा­श्र­य­त्वेऽपि निरु­पा­धि­क­बि­म्ब­क­ल्प­ब्र­ह्म­रू­पे­णा­ध्या­सा­ना­श्र­य­त्वान्न दुःखि­त्व­प्रा­प्ति­रि­त्यर्थः ॥ ११ ॥

परोत्कर्षदर्शनं पारतन्त्र्यं च स्वस्य हीनत्वं दुःखकारणं प्रसिद्धं तदभावन्न परमात्मा दुःखी तत­स्त­त्प्राप्तिः परः पुरुषार्थो भविष्यतीत्याह -
किञ्च स हीत्यादिना ॥ १२ ॥

इदानीं पर­मा­त्म­न्यु­प­प­त्ति­प्र­द­र्श­ना­र्थ­माह -
किञ्च नित्य इति ।
सूर्याचन्द्रमसौ धाता यथा­पू­र्व­म­क­ल्प­य­दि­त्या­दि­श्रु­ते­र­कृ­ता­भ्या­ग­म­कृ­त­वि­प्र­णा­श­प्र­स­ङ्ग­प­रि­हा­राच्च कल्पा­न्त­री­य­भा­वानां प्रलीनानां कल्पान्तरे सजा­ती­य­रू­पे­णो­त्पादः प्रतीयते स तदा स्याद्यदि विनाशिनां भावानां शक्तिशेषो लयः स्यात् । ततः प्रलये विनश्यत्सर्वं यत्र शक्तिशेषं विलीयते सोऽभ्युपगन्तव्य इत्यर्थः ।

बुद्धिमतामपि ब्रह्मे­न्द्रा­दीनां पर­मा­न­न्दा­भि­मुख्यं हित्वा या बहिर्मुखा चेतनोपलभ्यते साऽपि नियन्तारं गमयतीत्याह -
चेत­न­श्चे­त­ना­ना­मिति ।
ब्रह्मा­दि­श­ब्द­वा­च्यानां सङ्घातानां वा चेतयितृत्वं यच्चै­त­न्य­नि­मित्तं सेऽस्ति पर आत्मेत्यर्थः ।

विमतं कर्मफलं तत्स्व­रू­पा­द्य­भि­ज्ञेन दीयमानं व्यव­हि­त­फ­ल­त्वा­त्से­वा­फ­ल­व­दि­त्याह -
किञ्च स इति ॥ १३ ॥

विद्वदनुभवोऽपि परमानन्दे प्रमाणमित्याह -
यत्त­दा­त्म­वि­ज्ञा­न­मिति ।

तस्मा­द­स­म्भा­वि­त­तया न जिहासितव्यं परमात्मदर्शनं किन्तु श्रद्दधानतया विचा­र­यि­त­व्य­मे­वे­त्याह -
कथं न्विति ॥ १४ - १५ ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञा­न­वि­र­चिते काठ­को­प­नि­ष­द्भा­ष्य­व्या­ख्याने द्वितीयाध्याये द्विती­य­व­ल्ली­भा­ष्य­टीका समाप्ता ॥

शाल्म­ल्या­दि­तू­ल­द­र्श­ने­ना­दृ­ष्ट­मपि वृक्षमूलं यथाऽ­स्ती­त्य­व­धा­र्यते तद्व­द­दृ­ष्ट­स्यापि ब्रह्म­णोऽ­व­धा­र­णाय प्रक्रमत इत्याह -
तूलावधारणेनेति ।

वृक्ष­श­ब्द­प्र­वृ­त्ति­नि­मि­त्त­माह -
व्रश्चनादिति ।
“व्रश्चू छेदने” अस्य धातोः सप्रत्ययान्तस्य रूपं वृक्ष इति ।

छेद्यत्वे युक्तिमाह -
जन्मजरेत्यादिना ।

प्रसि­द्ध­वृ­क्ष­सा­म्याद्वा वृक्षशब्दप्रयोग इत्य­भि­प्रे­त्याऽऽह -
अवसाने चेत्यादिना ।
प्रसिद्धो वृक्षः स्थाणुर्वा पुरुषो वेति विकल्पास्पदो दृष्टस्तथाऽयमपि सङ्घातो वा परिमाणो वाऽऽरब्धो वा सद्वाऽ­स­द्वे­त्या­दी­ना­म­ने­केषां शत­स­ङ्ख्या­क­पा­ष­ण्ड­बु­द्धि­वि­क­ल्पानां विषय इत्यर्थः । किंसंज्ञकोऽयं वृक्ष इत्य­न­ध्य­व­सा­य­गो­चरः कश्चिद्वृक्षो दृष्ट­स्त­थाऽ­य­म­पीति साम्यम् ।

साम्यान्तरमाह -
तत्त्व­वि­जि­ज्ञा­सु­भि­रिति ।
अपरब्रह्मणो विज्ञा­न­क्रि­या­श­क्ति­द्व­या­त्मको हिरण्यगर्भः प्रथ­मोऽ­व­स्था­भे­दोऽ­ङ्कु­रोऽ­स्येति तथोक्तः । बुद्धी­न्द्रि­याणां विषयाः शब्दादयः प्रवालाङ्कुराः किसलयान्यस्येति स तथोक्तः । श्रुत्यादीनि पलाशानि पत्राण्यस्येति । सुखदुःखे प्राणिवेदना एवानेको रसोऽस्येति । फलतृष्णैव सलिलावसेकस्तेन प्ररूढानि कर्मवासनादीनि सात्त्वि­का­दि­भा­वेन मिश्रीकृतानि दृढ­ब­न्ध­ना­न्य­वा­न्त­र­मू­ला­न्यस्य वटवृक्षस्येव तथोक्तः । सत्यनामादिषु सप्तलोकेषु ब्रह्मादीनि भूतान्येव पक्षिणस्तैः कृतं नीडं यस्मिन् । प्राणिनां सुख­दुः­खा­भ्या­मु­द्भूतौ हर्षशोकौ ताभ्यां यथासङ्ख्येन जातानि नृत्यादीनि रुदि­ता­दि­श­ब्दा­श्चैतैः कृतस्तुमुलीभूतो महारवो यस्मिन्निति विग्रहः ॥ १ ॥

कार्यस्य शून्यतापर्यन्तं नष्ट­स्या­स­त्त्व­पू­र्व­क­मेव जन्म ततो नास्ति मूलमिति शङ्कते -
यद्विज्ञानादिति ।
तन्न । शशविषाणादेरसतः समु­त्प­त्त्य­द­र्श­ना­त्स­त्पू­र्व­क­त्व­प्र­सि­द्धे­श्चास्ति सद्रूपं वस्तु जगतो मूलं तच्च प्राणपदलक्ष्यं प्राण­प्र­वृ­त्ते­रपि हेतु­त्वा­दि­त्यर्थः ॥ २ ॥

सूर्यादीनां निय­त­प्र­वृ­त्त्य­नु­प­पत्त्या नियामकत्वेन सम्भावितं यत्पारमेश्वरं रूपं तदवगमायेहैव यत्नः कर्तव्य इत्याह -
तच्चेति ।
इहैव बोद्धुं शक्तः सन्निहैव चेज्जानाति तदा मुच्यत एवेति सम्बन्धः ॥ ३ - ४ - ५ ॥

‘इन्द्रियेभ्यः परा ह्यर्था’(क. उ. १ । ३ । १०) इति पूर्वमुक्तमिह त्वर्था­ना­म­ग्र­ह­णा­त्स­र्व­प्र­त्य­गा­त्मत्वं न सम्भ­व­ती­त्या­श­ङ्क्याऽऽह -
अर्थानामिहेति ॥ ६ - ७ ॥

बुद्धि­सु­ख­दुः­खादिः साश्रयो गुण­त्वा­द्रू­प­व­दिति वैशेषिका अनुमिमते । तदसत् । साश्र­य­त्व­मा­त्र­सा­धने सिद्ध­सा­ध­न­त्वा­न्म­नस एव कामा­दि­गु­ण­व­त्त्व­श्र­व­णा­दा­त्मा­श्र­य­त्व­क­ल्पने च निर्गु­ण­त्व­शा­स्त्र­वि­रु­द्ध­त्वा­दा­त्मना सह बुद्ध्या­दे­र­वि­ना­भा­वा­ग्र­ह­णाच्च बुद्ध्यादि नाऽऽत्म­लि­ङ्ग­मि­त्याह -
लिङ्ग्यते गम्यते येनेति ॥ ८ ॥

कथं दर्शनमुपपद्यत इति प्रष्टुः कोऽभिप्रायः किं विषयतया दर्शनं वक्त­व्य­मु­ता­वि­ष­य­त­यैव दर्शनोपायो वाच्यः, प्रथमं प्रत्याह -
न सन्दृश इति ।
रूपा­दि­म­त्त­द्वि­शे­षणं च दर्शनविषययोग्यं भवति तदभावादित्यर्थः ।

द्वितीयं प्रत्याह -
कथं तर्हीति ।

बाह्य­क­र­ण­ग्रा­मो­प­र­मेऽपि यदा मनो विष­या­न्स­ङ्क­ल्प­यते तदा मुमु­क्षो­र्बु­द्धि­स्तस्य नियन्त्री भवति । हे मनः किमर्थं त्वं पिशा­च­व­त्प्र­धा­वसि । न ताव­त्स्व­प्र­यो­ज­ना­र्थम् । तव जड­त्वा­त्प्र­यो­ज­न­स­म्ब­न्धा­नु­प­प­त्ते­र्वि­ष­याणां च क्षयि­ष्णु­त्वा­दि­दो­ष­दु­ष्टानां सम्बन्धेन प्रयो­ज­ना­नु­प­पत्तेः । नापि चेतनार्थम् । तस्या­स­ङ्ग­त्वा­त्प­र­मा­न­न्द­स्व­भा­व­त्वा­च्चेति नियन्तृत्वेन बुद्धि­र्म­नी­डु­च्यत इत्याह -
मनस इति ।

अवि­क­ल्प­यि­त्र्येति ।
विष­य­क­ल्प­ना­शू­न्यया ब्रह्मा­स्मी­त्य­वि­ष­य­त­यैव ब्रह्म­भा­व­व्य­ञ्जि­कया महावाक्योत्थया बुद्धिवृत्त्या ज्ञातुं शक्यत इति सम्बन्धः ।

कथम्भूत आत्मेत्यत आह -
मनसेति ।
यद्यन्मया दृश्यते बाह्यं घटादि तत्तदहं यथा न भवामि तथाऽस्मिन्नपि सङ्घाते यद्यद्दृश्यं तत्तदहं न भवामि किन्तु योऽत्र ज्ञोंऽशः सोऽपि सर्व­श­री­रे­ष्वे­क­ल­क्ष­ण­ल­क्षि­त­त्वा­देक एवेति विचारेण प्रथमं सम्भावित इत्यर्थः ॥ ९ ॥

श्रुत­वे­दा­न्ता­ना­मपि केषा­ञ्चि­द्ब्र­ह्मा­स्मी­ति­बु­द्धि­स्थै­र्या­द­र्श­ना­दस्ति किञ्चि­त्प्र­ति­ब­न्ध­का­न्तरं तद­प­न­यो­पा­योऽ­प्यन्यो वक्तव्य इत्य­भि­प्रे­त्याऽऽह -
सा हृदिति ।
श्रवणमननाभ्यां प्रमा­ण­प्र­मे­या­स­म्भा­व­ना­नि­रा­सेऽपि चित्त­स्या­ने­का­ग्र­ता­दोषः प्रतिबन्धकः सम्भवति तदपनयाय योगोऽनुष्ठातव्य उपदिश्यत इत्यर्थः ।

यदनुगतानीति ।
येन येन मनसाऽधिष्ठितानि तेन तेन सहावतिष्ठन्ते निवृ­त्त­व्या­पा­राणि भवन्तीत्यर्थः ॥ १० ॥

वियोगमेव सन्तं योगमिति विरुद्धलक्षणया मन्यन्त इत्युक्तं तत्स्फुटयति -
सर्वानर्थेति ।
उपसंहृतं मनो यदि सुषुप्तिं गच्छेत्तदा साऽन­र्थ­बी­जा­वस्था भवति । तद्व्यावृत्तये पूर्णं ब्रह्मा­स्मी­त्या­वृत्तौ योजयेदावृतौ नियुक्तं विषयेषु विक्षिप्तं चेत्स्या­त्त­द्दो­ष­द­र्श­नेन ततोऽपि व्यावर्तयेत् । व्यावृत्तमपि ततस्तटस्थं चेत्स्यात्साऽपि तावत्कषायावस्था ; ततो निरुद्धं मनो यदा न जागर्ति न स्वपिति न चान्तरालावस्थं भवति पूर्ण­ब्र­ह्मा­व­भा­स­क­त­यैव क्षीणं भवति तदा सर्वा­न­र्थ­वि­यो­ग­ल­क्षणा साऽवस्था भवतीत्यर्थः ।

योगारम्भकाले प्रमादवर्जनं विधेयतया व्याख्या­या­नु­वा­द­प­र­तया व्याचष्टे -
अथवेति ।

विधिपक्षे हेतुं पृच्छति -
कुत इति ॥ ११ ॥

उत्त­र­म­न्त्र­म­व­ता­र­यितुं शङ्कामुद्भावयति -
बुद्ध्या­दि­चे­ष्टा­वि­षयं चेदिति ।
घटोऽस्तीति प्रतिपन्नस्य घटस्य मुद्ग­रा­भि­घा­ता­द्वि­ला­पने घटाकार एव विलीयते नास्ति­त्वां­श­स्तस्य कपा­ला­दा­व­प्य­नु­वृ­त्ति­द­र्श­नात् ।

अतः कार्य­वि­ला­प­न­स्या­स्ति­त्व­नि­ष्ठ­त्वान्न शून्य­ता­प­र्य­व­सायी लय इत्यु­क्त­मे­त­त्स्फु­ट­यति -
तथा हीति ।
स्थूलस्य कार्यस्य विलये सूक्ष्मं तत्का­र­ण­म­व­शि­ष्यते तस्यापि विलये ततः सूक्ष्ममिति यावद्दर्शनं व्याप्तिमुपलभ्य यत्र न दृश्यते तत्रापि मूर्त­वि­ल­य­स्या­व­श्य­म्भा­वि­त्वा­त्स­न्मा­त्र­मे­वा­मू­र्त­म­व­ति­ष्ठत इति कार्यमेव सूक्ष्म­ता­र­त­म्य­पा­र­म्प­र्ये­णा­नु­स्रि­य­माणं सद्बु­द्धि­निष्ठां पुरुषस्य गमयतीत्यर्थः ।

ननु यद्दृश्यं तदसद्यथा स्वप्नदर्शनमिति व्याप्ति­द­र्श­ना­द­स्ति­त्वेन दृश्य­स्या­स­त्त्वा­त्स­द्बु­द्धि­रपि नास्त्ये­वे­त्या­श­ङ्क्याऽऽह -
यदाऽपीति ।
सद्बुद्धिरपि नास्ती­त्ये­व­म्भूतः प्रत्य­योऽ­व­श्य­म­स्ती­त्य­भ्यु­प­ग­न्त­व्यम् । अन्यथा निषे­ध­व्य­व­हा­रा­यो­गात् । अतोऽन्ततो गत्वा सद्बुद्धिः स्वीकृता स्यादित्यर्थः ।

ततः किमित्यत आह -
बुद्धिर्हीति ।
व्यभिचारिष्वपि विषयेषु सन्मा­त्र­बु­द्धे­र­व्य­भि­चा­र­द­र्श­ना­द्बु­द्धेश्च स्वतः प्रामा­ण्या­त्स­न्मात्रं वस्त्व­भ्यु­प­ग­न्त­व्य­मि­त्यर्थः ।

इतश्च सदेव मूलं जगतो वाच्यमित्याह -
मूलं चेदिति ।

नास्ति जगतो मूलं ब्रह्मे­त्य­व­ग­मेऽपि प्रतियोगितया ब्रह्म­ज्ञा­न­स­म्भ­वा­त्कि­मिति मुमुक्षुणा ब्रह्म­ज्ञा­न­का­मे­ना­स्ती­त्ये­वो­प­ल­ब्घ­व्य­मि­त्याह -
कस्मादिति ।

प्रतियोगितया ज्ञानस्य निषे­ध्य­त्वा­दा­त्म­तया ज्ञानं न स्यादतो ब्रह्म­ज्ञा­न­का­मे­नास्ति जग­न्मू­ल­मि­त्य­व­ग­न्त­व्य­मे­वे­त्याह -
अस्तीति ब्रुवत इत्यादिना ॥ १२ ॥

सोपा­धि­क­स्याऽऽ­त्मनो ज्ञाना­न्मु­क्त्य­स­म्भ­वा­न्नि­रु­पा­धि­क­ज्ञा­ना­यापि प्रय­ति­त­व्य­मि­त्याह -
यदा त्विति ।

सोपाधिके प्रथमं स्थिरीभूतस्य तद्द्वारेण लक्ष्य­प­दा­र्था­व­गमे सति क्रमेण वाक्यार्थावगतिः सम्भाव्यत इत्याह -
तत्रा­प्यु­भ­यो­रि­त्या­दिना ।
सदुपलभ्यमानं कार्य­मु­पा­धि­र्यस्य कारणत्वस्य तत्कृतो योऽस्ति­त्व­प्र­त्ययः कारणत्वादस्ति पर आत्मेति तेनोपलब्धस्येति योजना ॥ १३ ॥

सर्वे कामा इति ।
प्रवृ­त्त­फ­ल­क­र्मो­प­स्था­पिते शरी­र­स्थि­ति­नि­मि­त्ता­न्न­पा­नादौ प्रवृ­त्ति­का­र­णे­च्छा­व्य­ति­रिक्ताः सर्वे कामाः काम्येन ज्योति­ष्टो­मा­दिना स्वर्गं प्राप्स्यामि त्रैपु­र्या­रा­ध­नेन जनं वशी­क­रि­ष्या­मी­त्ये­व­मा­दयः ; स्वर्गा­दि­दे­हे­ष्व­प्य­ह­मेव तिष्ठामि तद्भोगाश्च प्राप्ता एवा­प्रा­प्त­वि­ष­यश्य कामो व्यर्थो मिथ्या चासाविति विचारेण विशीर्यन्त इत्यर्थः ।

कामाश्रय आत्मेति वैशेषिकमतं श्रुति­बा­ह्य­त्वा­न्नाऽऽ­द­र­णी­य­मे­वे­त्याह -
बुद्धिर्हीति ॥ १४ ॥

कामप्रविलयस्य सुषुप्तेऽपि भावा­द­मृ­त­त्व­चि­ह्नत्वं न भवतीति मत्वाऽऽह -
कदा पुनरिति ॥ १५ ॥

प्रक­र­ण­वि­च्छे­दे­नो­क्तस्य सम्बन्धं दर्शयति -
निर­स्ता­शे­षे­त्या­दिना ।
यदभाणि भास्करेण प्रक­र­णा­द्ब्र­ह्म­वि­द्वि­ष­यै­वेयं गतिरिति । तदसत् । गतिश्रवणेन लिङ्गेन परिच्छिन्ने गमनयोग्येऽस्या गतेः सम्बन्धावगमे सति दुर्बलेन प्रकरणेन प्रकृ­त­ब्र­ह्म­वि­त्स­म्ब­न्धा­नु­प­पत्तेः । नाड्यन्तराणामपि तत्स­म्ब­न्ध­प्र­स­ङ्गा­च्छ्रु­ति­वि­रु­द्ध­त्व­प्र­स­ङ्गाच्च । विस्तरश्च प्रकटार्थ द्रष्टव्यः ॥ १६ ॥

आत्मानं देहमधिकृत्य वर्तत इत्यध्यात्मम् । प्रत्य­क्स्व­रू­प­मेव ब्रह्म प्राप्य विमृत्युर्भवति नान्य­द्रू­प­म­र्चि­रा­दि­मा­र्ग­गम्यं प्राप्य संयोगस्य वियो­गा­व­सा­न­त्वा­दि­त्यर्थः । एवंशब्दस्य विच्छब्देन सह सबन्ध एवंविदिति ॥ १७ - १८ - १९ ॥
इति काठ­को­प­नि­ष­द्भा­ष्य­टी­कायां द्वितीयाध्याये तृतीया वल्ली समाप्ता ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­च्छु­द्धा­न­न्द­पू­च्य­पा­द­शि­ष्या­न­न्द­ज्ञा­न­वि­र­चिते काठ­को­प­नि­ष­द्भा­ष्य­व्या­ख्याने द्वितीयाध्यायः समाप्तः ॥