आनन्दगिरिटीका (काठक)
द्वितीयोऽध्यायः: चतुर्थी वल्ली
अनादिरविद्याप्रतिबन्धः प्रागुक्तोऽधुनाऽऽगन्तुकप्रतिबन्धदर्शनायोत्तरवल्ल्यारम्भ इति सम्बन्धमाह -
एष सर्वेष्वित्यादिना ।
यदीन्द्रियाण्यन्तर्मुखानि स्युस्तदा तान्यात्मनिष्ठतयाऽमृतत्वमीयुरत इन्द्रियाणि बहिर्मुखानि सृष्टानीति यत्तत्तेषां हननमेव कृतमिर्त्थः । ‘आप्लृ’ व्याप्ताविति धात्वर्थानुसारेण व्यापक आत्मशब्दार्थः । यद्यस्मादादत्ते संहरति स्वात्मन्येव सर्वमिति जगदुपादानं लभ्यते विषयानत्तीत्यात्मेति व्युत्पत्त्या स्वचैतन्याभासेनोपलब्धृत्वमात्मशब्दार्थः । येन कारणेनास्याऽऽत्मनः सन्ततो निरन्तरा भावः कल्पितस्याधिष्ठानसत्तामन्तरेण सत्ताभावाद्यथा रज्ज्वामध्यस्ते सर्पे रज्ज्वाः सातत्यं तथा कल्पितं सर्वं येन स्वस्वरूपवत्स आत्मेत्यर्थः ॥ १ - २ ॥
कथं तदधिगम इति किं वैदिकत्वाद्धर्मवत्परोक्षत्वेन किंवा घटादिवत्सिद्धत्वादपरोक्षत्वेनापीत्याकाङ्क्षायामात्मत्वाद् ब्रह्मणोऽपरोक्षत्वेनैवावगमः सम्यगवगम इत्युच्यते -
येनेत्यादिना ।
मूूढानां व्यतिरिक्तेनाऽऽत्मना देहादेर्वेद्यत्वं यद्यपि न प्रसिद्धं तथाऽपि विचारकाणां व्यतिरिक्तेनैव वेद्यत्वं प्रसिद्धं ततो यच्छब्देन प्रसिद्धवत्परामर्शो न विरुध्यत इति परिहरति -
न त्वेवं देहादीत्यादिना ।
दैहिकाः शब्दादयो न स्वात्मानमन्यं च विजानीयुः शब्दादित्वाद् दृश्यत्वाच्च बाह्यवत् ।
विपक्षे बाधकमाह -
यदि हीति ॥ ३ - ४ - ५ ॥
यदिति ।
यः कश्चित्पूर्वं तपसो जातं पश्यति स प्रकृतं ब्रह्मैव पश्यतीति सम्बन्धः । अद्भ्यः पूर्वमित्यादिना हिरण्यगर्भस्य विशेषणान्तःकरणांशेन जीवावच्छेदकत्वाज्जीवतादात्म्यविवक्षया विशेषणं शब्दादीनुपलभमानमिति । यस्माल्लोके सुवर्णाज्जातं कुण्डलं सुवर्णमेव भवति तद्वद्ब्रह्मणो जातो हिरण्यगर्भोऽपि ब्रह्मात्मक एवेत्यर्थः ॥ ६ ॥
हिरण्यगर्भस्यैव विशेषणान्तरमाह -
किञ्चेति ॥ ७ - ८ - ९ ॥
सर्वात्मकं ब्रह्मोक्तं तदसत् , उपाध्यवच्छिन्नचैतन्यस्य जीवस्य संसारित्वाद्विरुद्धधर्माक्रान्तयोरैक्यायोगादित्याऽऽशङ्क्य विरुद्धधर्मत्वस्योपाधिनिबन्धनत्वात्स्वभावैक्ये न किञ्चिदनुपपन्नमित्याह -
यद्ब्रह्मादीत्यादिना ।
अमुष्मिञ्जगत्कारणत्वोपाद्यौ । उपाधिस्वभावश्च भेददृष्टिश्च ताभ्यां कारणतया लक्ष्यत इत्युपाधिस्वभावभेददृष्टिलक्षणा । न ह्यन्तःकरणाद्युपाधेर्भेददृष्टेश्चानिर्वाच्याविद्यामन्तरेण सम्भवः कार्यकारणभावस्य संवित्सम्बन्धस्य च दुर्निरूपत्वात् । नानेवेत्युपमार्थ इवशब्दः । यथा स्वप्ने नानात्वाभावेऽपि नानात्वमध्यारोप्य सत्यत्वाभिनिवेशेन व्यवहरति तथा जागरितेऽपि नानात्वमध्यारोप्य सत्यत्वाभिनिवेशेन यो व्यवहरति तस्य निन्दितत्वादेकरसं ब्रह्मैवास्मीति प्रतिपत्तव्यमित्यर्थः ॥ १० ॥
एकरसं चेद् ब्रह्म कथं ज्ञातृज्ञेयविभाग इत्याशङ्क्याज्ञं प्रति कल्पितभेेदेनेत्याह -
प्रागेकत्वविज्ञानादिति ॥ ११ ॥
अङ्गुष्ठपरिमाणं जीवमनूद्य ब्रह्मभावविधानाद्विधीयमानविरोधादङ्गुष्ठमात्रस्याविवक्षितत्वाद्ब्रह्मपरमेव वाक्यमित्याह -
पुनरपि तदेवेति ॥ १२ - १३ - १४ - १५ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते काठकोपनिषद्भाष्यव्याख्याने द्वितीयाध्याये प्रथमवल्ली समाप्ता ॥
पौनरुक्त्यं परिहरन्सम्बन्धमाह -
पुनरपीति ।
भूयोऽपि पथ्यं वक्तव्यमिति न्यायेनोपायान्तरेण ब्रह्म ज्ञाप्यते तत्रोपाया एव भिद्यन्ते नोपेयस्य भेदोऽस्तीति । पुरेणासंहतत्वं स्वामिनः पुरोपचयापचयाभ्यामुपचयापचयराहित्यम् । तत्सत्ताप्रतीतिमन्तरेण सत्ताप्रतीतिमत्त्वं स्वातन्त्र्यम् ॥ १ ॥
या यज्ञे प्रसिद्धा वेदिः पृथिव्याः परोऽन्तः, परस्वभाव इति वेद्याः पृथिवीस्वभावत्वसङ्कीर्तनात्पृथिवी वेदिशब्दवाच्या भवतीत्यर्थः । असौ वा आदित्यो हंसः शुचिषदिति ब्राह्मणेनाऽऽदित्यो मन्त्रार्थतया व्याख्यातः कथं तद्विरुद्धमिदं व्याख्यातमित्याशङ्क्याऽऽह -
यदाऽप्यादित्य एवेति ।
सूर्य आत्मा जगतस्तस्थुषश्चेति मन्त्रान्मण्डलोपलक्षितस्य चिद्धातोरिष्यत एव सर्वात्मत्वमित्यर्थः ॥ २ ॥
येयं प्रेते विचिकित्सा मनुष्य इति या पूर्वं विचिकित्सा प्रश्नमूलत्वेनोद्भाविता साऽपि निर्मूलेत्येतद्दर्शयितुं देहव्यतिरिक्तात्मास्तित्वं साधयति -
आत्मनः स्वरूपाधिगम इत्यादिना ।
सर्वे प्राणकरणव्यापाराश्चेतनार्थास्तत्प्रयुक्ता भवितुमर्हन्ति जडचेष्टात्वाद्रथचेष्टावदित्यर्थः ॥ ३ ॥
शरीरं चेतनशेषं तद्विगमे भोगानर्हत्वाद्राजपुरवदित्याह -
किं चास्येति ॥ ४ ॥
अन्यथासिद्धिं शङ्कते -
स्यान्मतमिति ।
ननु जीव प्राणधारण इति धातुस्मरणाच्छरीरस्य जीवनं नाम प्राणधारणं प्राणसंयोगश्च प्राणधारणं कुण्डे दधिधारणवत्तत्र च प्राणस्यैव हेतुत्वं संयोगाश्रयत्वात् । कथमुच्यते जीवनहेतुत्वं प्राणादीनां न सम्भवतीति तत्राऽऽह -
स्वार्थेनासंहतेनेति ।
कादाचित्कस्य प्राणशरीरसंयोगस्य स्वभावतोऽनुपपत्तेः सङ्घातस्य च लोके परप्रयुक्तस्यैव दर्शनाद्भवितव्यमन्येन सङ्घातप्रयोजकेनेत्यर्थः ॥ ५ ॥
येयं प्रेत इति प्रष्टुः परलोकेऽस्तित्वेऽपि सन्देह आसीत् । विशेषतस्तन्निवृत्त्यर्थमुच्यत आह -
हन्तेदानीमिति ॥ ६ - ७ - ८ ॥
ननु जन्ममरणकारणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चेति । नानात्मानो व्यवस्थात इत्यनेकतार्किकबुद्धिविरोधात्सर्वपुरवर्त्येक एवाऽऽत्मेत्यत्र न चित्तस्थैर्यं सम्भवतीत्याशङ्क्यौपाधिकभेदसाधने सिद्धसाधनं स्वाभाविकभेदसाधने चानैकान्तिकत्वं दर्शयितुं प्रक्रमत इत्याह -
अनेकतार्किकेत्यादिना ।
प्रतिरूपः उपाधिसदृशश्चतुष्कोणत्वादिधर्मके हि दारुणि तद्रूपो वह्निरपि लक्ष्यत इत्यर्थः ॥ ९ - १० ॥
परमात्मा दुःखी स्याद्दुःख्यभिन्नत्वाल्लोकवदित्याह -
एकस्य सर्वात्मकत्व इति ।
अविद्यायां प्रतिबिम्बितश्चिद्धातुरज्ञो भ्रान्तो भवति । भ्रान्तश्च कामादिदोषप्रयुक्तः कर्म कुरुते तन्निमित्तं च दुःखं स्वात्मन्यध्यस्यति ।
परमात्मा तु निरविद्यत्वाद्दुःखसाधनशून्यत्वान्न दुःखी ततो न प्रयोजको हेतुरित्याह -
लोको ह्यविद्ययेति ।
स्वरूपेण भ्रामाविषयत्वं विपरीतबुद्ध्यध्यासबाह्यत्वं रज्ज्वादीनां तथा चैतन्यस्योपाधिस्वरूपेणाध्यासाश्रयत्वेऽपि निरुपाधिकबिम्बकल्पब्रह्मरूपेणाध्यासानाश्रयत्वान्न दुःखित्वप्राप्तिरित्यर्थः ॥ ११ ॥
परोत्कर्षदर्शनं पारतन्त्र्यं च स्वस्य हीनत्वं दुःखकारणं प्रसिद्धं तदभावन्न परमात्मा दुःखी ततस्तत्प्राप्तिः परः पुरुषार्थो भविष्यतीत्याह -
किञ्च स हीत्यादिना ॥ १२ ॥
इदानीं परमात्मन्युपपत्तिप्रदर्शनार्थमाह -
किञ्च नित्य इति ।
सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयदित्यादिश्रुतेरकृताभ्यागमकृतविप्रणाशप्रसङ्गपरिहाराच्च कल्पान्तरीयभावानां प्रलीनानां कल्पान्तरे सजातीयरूपेणोत्पादः प्रतीयते स तदा स्याद्यदि विनाशिनां भावानां शक्तिशेषो लयः स्यात् । ततः प्रलये विनश्यत्सर्वं यत्र शक्तिशेषं विलीयते सोऽभ्युपगन्तव्य इत्यर्थः ।
बुद्धिमतामपि ब्रह्मेन्द्रादीनां परमानन्दाभिमुख्यं हित्वा या बहिर्मुखा चेतनोपलभ्यते साऽपि नियन्तारं गमयतीत्याह -
चेतनश्चेतनानामिति ।
ब्रह्मादिशब्दवाच्यानां सङ्घातानां वा चेतयितृत्वं यच्चैतन्यनिमित्तं सेऽस्ति पर आत्मेत्यर्थः ।
विमतं कर्मफलं तत्स्वरूपाद्यभिज्ञेन दीयमानं व्यवहितफलत्वात्सेवाफलवदित्याह -
किञ्च स इति ॥ १३ ॥
विद्वदनुभवोऽपि परमानन्दे प्रमाणमित्याह -
यत्तदात्मविज्ञानमिति ।
तस्मादसम्भाविततया न जिहासितव्यं परमात्मदर्शनं किन्तु श्रद्दधानतया विचारयितव्यमेवेत्याह -
कथं न्विति ॥ १४ - १५ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते काठकोपनिषद्भाष्यव्याख्याने द्वितीयाध्याये द्वितीयवल्लीभाष्यटीका समाप्ता ॥
शाल्मल्यादितूलदर्शनेनादृष्टमपि वृक्षमूलं यथाऽस्तीत्यवधार्यते तद्वददृष्टस्यापि ब्रह्मणोऽवधारणाय प्रक्रमत इत्याह -
तूलावधारणेनेति ।
वृक्षशब्दप्रवृत्तिनिमित्तमाह -
व्रश्चनादिति ।
“व्रश्चू छेदने” अस्य धातोः सप्रत्ययान्तस्य रूपं वृक्ष इति ।
छेद्यत्वे युक्तिमाह -
जन्मजरेत्यादिना ।
प्रसिद्धवृक्षसाम्याद्वा वृक्षशब्दप्रयोग इत्यभिप्रेत्याऽऽह -
अवसाने चेत्यादिना ।
प्रसिद्धो वृक्षः स्थाणुर्वा पुरुषो वेति विकल्पास्पदो दृष्टस्तथाऽयमपि सङ्घातो वा परिमाणो वाऽऽरब्धो वा सद्वाऽसद्वेत्यादीनामनेकेषां शतसङ्ख्याकपाषण्डबुद्धिविकल्पानां विषय इत्यर्थः । किंसंज्ञकोऽयं वृक्ष इत्यनध्यवसायगोचरः कश्चिद्वृक्षो दृष्टस्तथाऽयमपीति साम्यम् ।
साम्यान्तरमाह -
तत्त्वविजिज्ञासुभिरिति ।
अपरब्रह्मणो विज्ञानक्रियाशक्तिद्वयात्मको हिरण्यगर्भः प्रथमोऽवस्थाभेदोऽङ्कुरोऽस्येति तथोक्तः । बुद्धीन्द्रियाणां विषयाः शब्दादयः प्रवालाङ्कुराः किसलयान्यस्येति स तथोक्तः । श्रुत्यादीनि पलाशानि पत्राण्यस्येति । सुखदुःखे प्राणिवेदना एवानेको रसोऽस्येति । फलतृष्णैव सलिलावसेकस्तेन प्ररूढानि कर्मवासनादीनि सात्त्विकादिभावेन मिश्रीकृतानि दृढबन्धनान्यवान्तरमूलान्यस्य वटवृक्षस्येव तथोक्तः । सत्यनामादिषु सप्तलोकेषु ब्रह्मादीनि भूतान्येव पक्षिणस्तैः कृतं नीडं यस्मिन् । प्राणिनां सुखदुःखाभ्यामुद्भूतौ हर्षशोकौ ताभ्यां यथासङ्ख्येन जातानि नृत्यादीनि रुदितादिशब्दाश्चैतैः कृतस्तुमुलीभूतो महारवो यस्मिन्निति विग्रहः ॥ १ ॥
कार्यस्य शून्यतापर्यन्तं नष्टस्यासत्त्वपूर्वकमेव जन्म ततो नास्ति मूलमिति शङ्कते -
यद्विज्ञानादिति ।
तन्न । शशविषाणादेरसतः समुत्पत्त्यदर्शनात्सत्पूर्वकत्वप्रसिद्धेश्चास्ति सद्रूपं वस्तु जगतो मूलं तच्च प्राणपदलक्ष्यं प्राणप्रवृत्तेरपि हेतुत्वादित्यर्थः ॥ २ ॥
सूर्यादीनां नियतप्रवृत्त्यनुपपत्त्या नियामकत्वेन सम्भावितं यत्पारमेश्वरं रूपं तदवगमायेहैव यत्नः कर्तव्य इत्याह -
तच्चेति ।
इहैव बोद्धुं शक्तः सन्निहैव चेज्जानाति तदा मुच्यत एवेति सम्बन्धः ॥ ३ - ४ - ५ ॥
‘इन्द्रियेभ्यः परा ह्यर्था’(क. उ. १ । ३ । १०) इति पूर्वमुक्तमिह त्वर्थानामग्रहणात्सर्वप्रत्यगात्मत्वं न सम्भवतीत्याशङ्क्याऽऽह -
अर्थानामिहेति ॥ ६ - ७ ॥
बुद्धिसुखदुःखादिः साश्रयो गुणत्वाद्रूपवदिति वैशेषिका अनुमिमते । तदसत् । साश्रयत्वमात्रसाधने सिद्धसाधनत्वान्मनस एव कामादिगुणवत्त्वश्रवणादात्माश्रयत्वकल्पने च निर्गुणत्वशास्त्रविरुद्धत्वादात्मना सह बुद्ध्यादेरविनाभावाग्रहणाच्च बुद्ध्यादि नाऽऽत्मलिङ्गमित्याह -
लिङ्ग्यते गम्यते येनेति ॥ ८ ॥
कथं दर्शनमुपपद्यत इति प्रष्टुः कोऽभिप्रायः किं विषयतया दर्शनं वक्तव्यमुताविषयतयैव दर्शनोपायो वाच्यः, प्रथमं प्रत्याह -
न सन्दृश इति ।
रूपादिमत्तद्विशेषणं च दर्शनविषययोग्यं भवति तदभावादित्यर्थः ।
द्वितीयं प्रत्याह -
कथं तर्हीति ।
बाह्यकरणग्रामोपरमेऽपि यदा मनो विषयान्सङ्कल्पयते तदा मुमुक्षोर्बुद्धिस्तस्य नियन्त्री भवति । हे मनः किमर्थं त्वं पिशाचवत्प्रधावसि । न तावत्स्वप्रयोजनार्थम् । तव जडत्वात्प्रयोजनसम्बन्धानुपपत्तेर्विषयाणां च क्षयिष्णुत्वादिदोषदुष्टानां सम्बन्धेन प्रयोजनानुपपत्तेः । नापि चेतनार्थम् । तस्यासङ्गत्वात्परमानन्दस्वभावत्वाच्चेति नियन्तृत्वेन बुद्धिर्मनीडुच्यत इत्याह -
मनस इति ।
अविकल्पयित्र्येति ।
विषयकल्पनाशून्यया ब्रह्मास्मीत्यविषयतयैव ब्रह्मभावव्यञ्जिकया महावाक्योत्थया बुद्धिवृत्त्या ज्ञातुं शक्यत इति सम्बन्धः ।
कथम्भूत आत्मेत्यत आह -
मनसेति ।
यद्यन्मया दृश्यते बाह्यं घटादि तत्तदहं यथा न भवामि तथाऽस्मिन्नपि सङ्घाते यद्यद्दृश्यं तत्तदहं न भवामि किन्तु योऽत्र ज्ञोंऽशः सोऽपि सर्वशरीरेष्वेकलक्षणलक्षितत्वादेक एवेति विचारेण प्रथमं सम्भावित इत्यर्थः ॥ ९ ॥
श्रुतवेदान्तानामपि केषाञ्चिद्ब्रह्मास्मीतिबुद्धिस्थैर्यादर्शनादस्ति किञ्चित्प्रतिबन्धकान्तरं तदपनयोपायोऽप्यन्यो वक्तव्य इत्यभिप्रेत्याऽऽह -
सा हृदिति ।
श्रवणमननाभ्यां प्रमाणप्रमेयासम्भावनानिरासेऽपि चित्तस्यानेकाग्रतादोषः प्रतिबन्धकः सम्भवति तदपनयाय योगोऽनुष्ठातव्य उपदिश्यत इत्यर्थः ।
यदनुगतानीति ।
येन येन मनसाऽधिष्ठितानि तेन तेन सहावतिष्ठन्ते निवृत्तव्यापाराणि भवन्तीत्यर्थः ॥ १० ॥
वियोगमेव सन्तं योगमिति विरुद्धलक्षणया मन्यन्त इत्युक्तं तत्स्फुटयति -
सर्वानर्थेति ।
उपसंहृतं मनो यदि सुषुप्तिं गच्छेत्तदा साऽनर्थबीजावस्था भवति । तद्व्यावृत्तये पूर्णं ब्रह्मास्मीत्यावृत्तौ योजयेदावृतौ नियुक्तं विषयेषु विक्षिप्तं चेत्स्यात्तद्दोषदर्शनेन ततोऽपि व्यावर्तयेत् । व्यावृत्तमपि ततस्तटस्थं चेत्स्यात्साऽपि तावत्कषायावस्था ; ततो निरुद्धं मनो यदा न जागर्ति न स्वपिति न चान्तरालावस्थं भवति पूर्णब्रह्मावभासकतयैव क्षीणं भवति तदा सर्वानर्थवियोगलक्षणा साऽवस्था भवतीत्यर्थः ।
योगारम्भकाले प्रमादवर्जनं विधेयतया व्याख्यायानुवादपरतया व्याचष्टे -
अथवेति ।
विधिपक्षे हेतुं पृच्छति -
कुत इति ॥ ११ ॥
उत्तरमन्त्रमवतारयितुं शङ्कामुद्भावयति -
बुद्ध्यादिचेष्टाविषयं चेदिति ।
घटोऽस्तीति प्रतिपन्नस्य घटस्य मुद्गराभिघाताद्विलापने घटाकार एव विलीयते नास्तित्वांशस्तस्य कपालादावप्यनुवृत्तिदर्शनात् ।
अतः कार्यविलापनस्यास्तित्वनिष्ठत्वान्न शून्यतापर्यवसायी लय इत्युक्तमेतत्स्फुटयति -
तथा हीति ।
स्थूलस्य कार्यस्य विलये सूक्ष्मं तत्कारणमवशिष्यते तस्यापि विलये ततः सूक्ष्ममिति यावद्दर्शनं व्याप्तिमुपलभ्य यत्र न दृश्यते तत्रापि मूर्तविलयस्यावश्यम्भावित्वात्सन्मात्रमेवामूर्तमवतिष्ठत इति कार्यमेव सूक्ष्मतारतम्यपारम्पर्येणानुस्रियमाणं सद्बुद्धिनिष्ठां पुरुषस्य गमयतीत्यर्थः ।
ननु यद्दृश्यं तदसद्यथा स्वप्नदर्शनमिति व्याप्तिदर्शनादस्तित्वेन दृश्यस्यासत्त्वात्सद्बुद्धिरपि नास्त्येवेत्याशङ्क्याऽऽह -
यदाऽपीति ।
सद्बुद्धिरपि नास्तीत्येवम्भूतः प्रत्ययोऽवश्यमस्तीत्यभ्युपगन्तव्यम् । अन्यथा निषेधव्यवहारायोगात् । अतोऽन्ततो गत्वा सद्बुद्धिः स्वीकृता स्यादित्यर्थः ।
ततः किमित्यत आह -
बुद्धिर्हीति ।
व्यभिचारिष्वपि विषयेषु सन्मात्रबुद्धेरव्यभिचारदर्शनाद्बुद्धेश्च स्वतः प्रामाण्यात्सन्मात्रं वस्त्वभ्युपगन्तव्यमित्यर्थः ।
इतश्च सदेव मूलं जगतो वाच्यमित्याह -
मूलं चेदिति ।
नास्ति जगतो मूलं ब्रह्मेत्यवगमेऽपि प्रतियोगितया ब्रह्मज्ञानसम्भवात्किमिति मुमुक्षुणा ब्रह्मज्ञानकामेनास्तीत्येवोपलब्घव्यमित्याह -
कस्मादिति ।
प्रतियोगितया ज्ञानस्य निषेध्यत्वादात्मतया ज्ञानं न स्यादतो ब्रह्मज्ञानकामेनास्ति जगन्मूलमित्यवगन्तव्यमेवेत्याह -
अस्तीति ब्रुवत इत्यादिना ॥ १२ ॥
सोपाधिकस्याऽऽत्मनो ज्ञानान्मुक्त्यसम्भवान्निरुपाधिकज्ञानायापि प्रयतितव्यमित्याह -
यदा त्विति ।
सोपाधिके प्रथमं स्थिरीभूतस्य तद्द्वारेण लक्ष्यपदार्थावगमे सति क्रमेण वाक्यार्थावगतिः सम्भाव्यत इत्याह -
तत्राप्युभयोरित्यादिना ।
सदुपलभ्यमानं कार्यमुपाधिर्यस्य कारणत्वस्य तत्कृतो योऽस्तित्वप्रत्ययः कारणत्वादस्ति पर आत्मेति तेनोपलब्धस्येति योजना ॥ १३ ॥
सर्वे कामा इति ।
प्रवृत्तफलकर्मोपस्थापिते शरीरस्थितिनिमित्तान्नपानादौ प्रवृत्तिकारणेच्छाव्यतिरिक्ताः सर्वे कामाः काम्येन ज्योतिष्टोमादिना स्वर्गं प्राप्स्यामि त्रैपुर्याराधनेन जनं वशीकरिष्यामीत्येवमादयः ; स्वर्गादिदेहेष्वप्यहमेव तिष्ठामि तद्भोगाश्च प्राप्ता एवाप्राप्तविषयश्य कामो व्यर्थो मिथ्या चासाविति विचारेण विशीर्यन्त इत्यर्थः ।
कामाश्रय आत्मेति वैशेषिकमतं श्रुतिबाह्यत्वान्नाऽऽदरणीयमेवेत्याह -
बुद्धिर्हीति ॥ १४ ॥
कामप्रविलयस्य सुषुप्तेऽपि भावादमृतत्वचिह्नत्वं न भवतीति मत्वाऽऽह -
कदा पुनरिति ॥ १५ ॥
प्रकरणविच्छेदेनोक्तस्य सम्बन्धं दर्शयति -
निरस्ताशेषेत्यादिना ।
यदभाणि भास्करेण प्रकरणाद्ब्रह्मविद्विषयैवेयं गतिरिति । तदसत् । गतिश्रवणेन लिङ्गेन परिच्छिन्ने गमनयोग्येऽस्या गतेः सम्बन्धावगमे सति दुर्बलेन प्रकरणेन प्रकृतब्रह्मवित्सम्बन्धानुपपत्तेः । नाड्यन्तराणामपि तत्सम्बन्धप्रसङ्गाच्छ्रुतिविरुद्धत्वप्रसङ्गाच्च । विस्तरश्च प्रकटार्थ द्रष्टव्यः ॥ १६ ॥
आत्मानं देहमधिकृत्य वर्तत इत्यध्यात्मम् । प्रत्यक्स्वरूपमेव ब्रह्म प्राप्य विमृत्युर्भवति नान्यद्रूपमर्चिरादिमार्गगम्यं प्राप्य संयोगस्य वियोगावसानत्वादित्यर्थः । एवंशब्दस्य विच्छब्देन सह सबन्ध एवंविदिति ॥ १७ - १८ - १९ ॥
इति काठकोपनिषद्भाष्यटीकायां द्वितीयाध्याये तृतीया वल्ली समाप्ता ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूच्यपादशिष्यानन्दज्ञानविरचिते काठकोपनिषद्भाष्यव्याख्याने द्वितीयाध्यायः समाप्तः ॥