अद्वैतशारदा

आनन्दगिरिटीका (केन पदभाष्य)

प्रथमः खण्डः

यच्छ्रो­त्रा­दे­र­धि­ष्ठानं चक्षु­र्वा­गा­द्य­गो­च­रम् ।
स्वतोऽध्यक्षं परं ब्रह्म नित्यमुक्तं भवामि तत् ॥ १ ॥

केने­षि­त­मि­त्या­दिकां तल­व­का­र­शा­खो­प­नि­षदं व्याचि­ख्या­सु­र्भ­ग­वा­न्भा­ष्य­का­रोऽ­हं­प्र­त्य­य­गो­च­र­स्याऽऽ­त्मनः संसा­रि­त्वा­द­सं­सा­रि­ब्र­ह्म­भा­व­स्यो­प­नि­ष­त्प्र­ति­पा­द्य­स्या­स­म्भ­वा­न्नि­र्वि­ष­य­त्वा­द­व्या­ख्ये­य­त्व­मि­त्या­श­ङ्क्या­ह­ङ्का­र­सा­क्षिणः संसा­रि­त्व­ग्रा­ह­क­प्र­मा­णा­वि­ष­य­त्वा­द्ब्र­ह्म­त्व­प्र­ति­पा­दने विरो­धा­स­म्भ­वा­त्स­वि­ष­य­त्वा­द्व्या­ख्ये­यत्वं प्रतिजानीते –
केने­षि­त­मि­त्या­द्येति ।

कस्त­र्हि­न­व­म­स्या­ध्या­य­स्या­ष्टा­ध्याय्या सह निय­त­पू­र्वो­त्त­र­भा­वा­नु­प­प­त्ति­लभ्यः सम्बन्ध इत्याशङ्क्य हेतु­हे­तु­म­द्भा­व­ल­क्ष­ण­स­म्बन्धं दर्शयितुं वृत्तमनुवदति –
प्रागे­त­स्मा­दि­त्या­दिना ।
कर्माङ्गसाम पाञ्चभक्तिकं साप्तभक्तिकं च तद्वि­ष­या­ण्यु­पा­स­नानि पृथि­व्या­दि­दृ­ष्ट्यो­क्तानि । प्राणदृष्ट्या गायत्रसामोपासनं च ।

शिष्या­चा­र्य­स­न्ता­ना­वि­च्छेदो वंशस्तदवसानेन ग्रन्थेन कार्यरूपमेव वस्तूक्तं चेत्तर्हि प्राणा­द्यु­पा­स­न­स­हि­तस्य कर्मणः संसा­र­फ­ल­त्वा­द्ब्र­ह्म­ज्ञा­ना­नु­प­यो­गा­त्कथं हेतुहेतुमद्भावः सम्ब­न्धोऽ­भि­धि­त्सित इत्याशङ्क्य नित्यकर्मणां ताव­ज्ज्ञा­नो­प­यो­गित्वं कथयति –
सर्वमेतदिति ।

काम्यानां प्रतिषिद्धानां च फलं तद्दोषदर्शनेन वैराग्यार्थं कथयति –
सकामस्य त्विति ।
एतयोः पथो­र्ज्ञा­न­क­र्ण­णो­र्मध्ये केनापि मार्गेण ये न प्रवृत्तास्ते प्रति­षि­द्धा­नु­ष्ठा­यिन इत्यर्थः ।

जायस्व म्रियस्वेति ।
पुनः पुनर्जायन्ते म्रियन्ते चेत्यर्थः । तिस्रः प्रजा जरा­यु­जा­ण्ड­जो­द्भि­ज्ज­ल­क्षणाः । पितृ­या­ण­दे­व­या­न­ल­क्ष­ण­मा­र्ग­द्व­य­ग­म­न­म­तीत्य कष्टामेव गतिमीयुः प्राप्ता इत्यर्थः ।

एवं कर्मफलमुक्त्वा ततो विरक्तस्य विशु­द्ध­स­त्त्वस्य ब्रह्म­ज्ञा­नेऽ­धि­कार इति दर्श­य­न्हे­तु­हे­तु­म­द्भा­व­माह –
विशु­द्ध­स­त्त्वस्य त्विति ।
साध्य­सा­ध­न­स­म्ब­न्धा­द्वि­र­क्त­स्येति सम्बन्धः ।

तत्र निमि­त्त­स्या­दृ­ष्ट­स्या­नि­य­त्व­माह –
इह कृतादिति ।

कर्म­फ­ला­द्वि­र­क्तस्य ब्रह्मजिज्ञासा भव­ती­त्य­त्रा­न्य­सं­वा­द­माह –
काठके चेति ।

आवृत्तचक्षुरिति ।
साध्य­सा­ध­न­भा­वा­दु­प­र­त­क­र­ण­ग्रामः चक्षु­र्ग्र­ह­ण­स्यो­प­ल­क्ष­णा­र्थ­त्वात् ।

अन्व­य­व्य­ति­रे­क­सि­द्धत्वं चाऽऽह –
एवं हीति ।

नान्यथेति ।
अविरक्तस्य बर्हि­र्वि­ष­या­क्षि­प्त­चे­तस आत्म­जि­ज्ञा­सै­वा­नु­प­पन्ना कथञ्चिज्जाताऽपि न फलावसाना स्याच्छू­द्र­या­गा­दि­व­दि­त्यर्थः ।

यद्य­प्ये­व­मु­प­नि­षदः कर्म­का­ण्ड­स­म्ब­न्धोऽस्ति तथाऽ­प्यु­प­नि­ष­ज्ज­न्य­ज्ञा­नस्य निष्प्र­यो­ज­न­त्वा­न्नो­प­नि­षदो व्याख्यारम्भः सम्भ­व­ती­त्या­श­ङ्क्याऽऽह –
एतस्माच्चेति ।

समु­च्च­य­वा­दि­नोऽ­भि­प्रायं शङ्कते –
कर्मसहितादपीति ।
एका­ध्य­य­न­वि­धि­गृ­ही­त­त्वा­त्क­र्म­ज्ञा­न­का­ण्ड­यो­रेकं फलं वाच्यं ततः कर्म­स­मु­च्चि­ता­ज्ज्ञा­ना­त्स­नि­दा­न­सं­सा­र­नि­वृ­त्ति­ल­क्षणं फलं सिध्यतीति न कर्मसु विर­क्त­स्यो­प­नि­ष­दा­रम्भ इत्यर्थः ।

अध्य­य­न­वि­धि­प­रि­ग्र­ह­मा­त्रेण कर्मकाण्डस्य न मोक्षफलत्वं कल्पयितुं शक्यं फला­न्त­रा­व­ग­म­वि­रो­धा­दि­त्याह –
न वाजासनेयक इति ।

किञ्च यदि श्रुतेः कर्म­स­मु­च्चि­त­ज्ञानं विधित्सितं स्यात्तदा पारिव्राज्यं नोपदिश्येत श्रुत्या हेत्वभिधानेन, ततो न समुच्चयः श्रुत्यर्थ इत्याह –
तत्रैव चेति ।

प्रजा­श­ब्द­स्यो­प­ल­क्ष­णा­र्थ­त्व­मा­दाय हेत्वर्थमाह –
तत्रायमिति ।
किं करिष्यामो न किम­प्या­त्म­का­म­त्वा­दे­वेति शेषः ।

तत्फलं भुक्त्वा क्रमेण मोक्ष­स­म्भ­वा­त्कि­मिति प्रजादिष्वनादर इत्याशङ्क्याह –
न चेति ।

इष्टोऽ­प्य­य­मा­त्म­लोकः कर्मणा विना न लभ्यते फल­त्वा­न्मो­क्ष­स्या­न्य­था­स्व­भा­व­मु­क्तत्वे बन्ध­मो­क्षा­व­स्थ­यो­र­वि­शे­षा­पा­ता­दि­त्या­श­ङ्क्याऽऽह –
स चेति ।
कर्ममोक्षे कार्य­स्यो­त्पा­द्या­दे­र­स­म्भ­वा­त्स­म्य­ग्ज्ञा­ना­द­वि­द्या­नि­वृत्त्या फल­प्र­सि­द्ध्यु­प­प­त्तेर्न कर्मकार्यो मोक्ष इत्यर्थः । ब्रह्म­ज्ञा­न­स्या­नु­भ­वा­व­सा­न­ता­सि­द्धये परो­क्ष­नि­श्च­य­पू­र्वकः संन्यासः कर्तव्यः । सिद्धे चानुभाववसाने ब्रह्मा­त्म­ज्ञाने स्वभावप्राप्तः संन्यास इति द्रष्टव्यम् ।

इतश्च न कर्म­ब्र­ह्मा­त्म­ता­नि­श्च­य­स­मु­च्चयः शास्त्रार्थ इत्याह –
कर्म­स­ह­भा­वि­त्वेति ।

ननु कर्म­व­द्ब्र­ह्म­ज्ञा­नस्य विधि­तोऽ­नु­ष्ठे­य­त्वा­द्वि­धेश्च नियो­ज्या­दि­भे­दा­पे­क्षि­त्वा­त्कथं सर्व­भे­द­द­र्श­न­प्र­त्य­स्त­मय उच्यते ब्रह्मज्ञाने सती­त्या­श­ङ्क्याऽऽह –
वस्तुप्राधान्ये सतीति ।
विधि­ज­न्य­प्र­य­त्न­भाव्यो हि विधिविषय उच्यते ज्ञानं न तथेति तद्वि­धे­र­सि­द्धि­रि­त्यर्थः ।

यस्म­त्प्र­त्य­गा­त्मनो ब्रह्म­ता­नि­श्च­यस्य परो­क्ष­स्या­प­रो­क्षस्य वा कर्मणा समुच्चयो न प्रामा­णि­क­स्त­स्मा­दि­त्यु­प­सं­ह­रति –
तस्मादिति ।

प्रश्न­प्र­ति­व­च­न­रू­पेण प्रतिपादनस्य तात्पर्यमाह –
शिष्याचार्येति ।
आपनेया प्रापणीया हन्तव्या वा न भवतीत्यर्थः । साधिष्ठं शोभनतमं फलं प्रापयतीत्यर्थः ।

इष आभीक्ष्ण्ये गतौ चेति धात्वन्तरसम्भवे कथ­मि­च्छा­र्थ­स्यैव व्याख्या­न­मि­त्या­श­ङ्क्याऽऽह –
इषेरिति ।
आभीक्षण्यं पौनःपुन्यं तद्विषयताया गतिविषयताया वा मन­सोऽ­न­भि­प्रे­त­त्वा­न्म­नः­प्र­व­र्त­क­वि­शे­ष­स्यैव बुभु­त्सि­त­त्वा­दि­त्यर्थः । इट्प्रयोगे सति गुणेन भवितव्यम् । तदैषितमिति स्यात्त­द­भा­वा­च्छा­न्द­स­त्वा­भि­धानं न तु धातो­र­नि­ट्त्वा­द­नु­ब­न्धस्य विक­ल्प­वि­धा­ना­द­न्वे­षि­त­म­न्विष्टं वेति वैक­ल्पि­क­प्र­यो­गा­दि­द­र्श­ना­दिति ।

इषितं प्रेषितमिति पद­द्व­य­स्या­र्थ­व­त्त्व­माह –
तत्र प्रेषि­त­मि­त्या­दिना ।

इच्छामात्रेणेति ।

प्रयत्नमन्तरेण सन्नि­धि­मा­त्रे­णेति व्याख्यातं नेदं व्याख्यानमपि शोभते अप­र्या­य­श­ब्द­भे­द­स्या­र्थ­भे­दा­व्य­भि­चा­रा­दि­त्याह –
अपि चेति ।

त्वदु­क्तोऽ­य­म­र्थ­वि­शेषो न घटते सङ्घा­त­स्यै­वे­च्छा­दिभिः प्रव­र्त­क­त्व­सिद्धेः प्रश्ना­नु­प­प­त्ति­प्र­स­ङ्गा­दि­त्याह –
न प्रश्नेति ।

मनसः स्वात­न्त्र्या­त्स्व­व्य­ति­रि­क्त­प्र­व­र्त­क­स­म्भा­व­ना­भा­वा­त्प्रश्नो न घटत इत्याक्षिप्य समाधत्ते –
ननु स्वत­न्त्र­मि­त्या­दिना ।

अत्युग्रदुःखे चेति ।
अद्यतनीनदुःखे द्यूतादिकार्ये ॥ १ ॥

प्रतिवचनस्य प्रश्ना­न­नु­रू­प­त्व­मा­शङ्क्य समाधत्ते –
असावेवंविशिष्ट इत्यादिना ।
श्रोत्रादयः स्वविलक्षणशेषाः संह­त­त्वा­द्गृ­हा­दि­व­दि­त्य­नु­मा­नेन श्रोत्रादिशेषी तावदवगम्यते यदि सोऽपि संहतः स्यात्तर्हि गृहादिवदचेतनः स्यात् । तत­स्त­स्या­प्यन्यः शेषी कल्प्य­स्त­स्या­प्यन्य इत्य­न­व­स्था­प्र­स­ङ्ग­प­रि­हा­रा­या­सं­ह­त­श्चे­तनो गम्यते । अतः सर्वसाक्षिणं लक्षयितुं युक्तमेव प्रति­व­च­न­मि­त्यर्थः । फलावसानं फल­नि­ष्प­त्ति­र्लिङ्गं यस्मिन् , अवगत्या हि करणस्य व्यापारो लिङ्ग्यते नित्या­व­ग­ति­व्य­ञ्ज­क­त्वाद्वा फलावसानलिङ्गं व्यापारस्तेन तच्छेषी लक्ष्यत इत्यर्थः ।

प्रतिवचनस्य सङ्क्षे­प­त­स्ता­त्प­र्य­माह –
श्रोत्राद्येव सर्वस्येति ।

यस्मादस्ति श्रोत्रस्य श्रोत्रं तस्मा­छ्रो­त्रा­दा­वा­त्म­बुद्धिः सन्त्य­क्त­व्ये­ति­शेषः प्राणचेष्टा चेत­ना­धि­ष्ठा­न­पू­र्विका अचे­त­न­प्र­वृ­त्ति­त्वात् रथा­दि­प्र­वृ­त्ति­व­दि­त्य­भि­प्रे­त्याह –
न ह्यात्म­नाऽ­न­धि­ष्ठि­त­स्येति ।

ज्ञात्वेति पदाध्याहारे कारणमाह –
प्रष्टुः पृष्टस्यार्थस्येति ।

सामर्थ्यादिति ।
श्रोत्रा­द्या­त्म­भा­व­त्या­ग­म­न्त­रे­णा­मृ­त­त्वा­स­म्भ­वा­ज्ज्ञा­न­ब­ला­च्छ्रो­त्रा­द्या­त्म­भावं त्यक्त्वाऽमृता भवन्तीति सम्बन्धः ।

एतत्स्फुटयति –
श्रोत्रादौ हीत्यादिना ।

मृत्वेति ।
विदे­ह­मु­क्ति­र्वि­व­क्षिता प्रार­ब्ध­भो­ग­क्षये शरी­रा­न्त­रो­त्पादे कार­णा­भा­वा­द­व­श्य­म्भा­विनी विदुषो मुक्तिरित्यर्थः ॥ २ ॥

सर्पा­द्य­ध्या­सा­धि­ष्ठा­न­र­ज्जु­व­च्छ्रो­त्रा­द्य­ध्या­सा­धि­ष्ठा­न­चै­तन्यं श्रोत्रस्य श्रोत्र­मि­त्या­दिना लक्षितं तर्हि रज्जु­व­द­धि­ष्ठा­न­त्वा­द्वि­ष­य­त्व­प्र­सङ्ग इति शङ्कां निवर्तयति –
यस्मा­च्छ्रो­त्रा­दे­र­पी­त्या­दिना ।
अध्यस्तस्य ह्यधिष्ठानमेव स्वरू­प­मा­द्य­न्त­म­ध्येषु तद­व्य­भि­चा­रा­त्स्व­रू­प­वि­ष­यता च न पदा­र्थ­ध­र्म­स्त­तोऽ­प्र­यो­ज­कोऽयं हेतुरित्यर्थः ।

अवि­ष­य­त्वा­त्तर्हि शास्त्रा­चा­र्यो­प­दे­श्य­त्व­मपि न स्यादि­त्या­शङ्क्य नास्त्येव वास्तवमित्याह –
इन्द्रि­य­म­नोभ्यां हीति ।
ब्राह्म­णोऽ­य­मि­त्यादि जातितः कृष्णोऽ­य­मि­त्यादि गुणतः पाचकोऽयमित्यादि क्रियातो राजपुरुष इत्यादि सम्बन्धविशेषत उपदिश्यते । ब्रह्म तु न जात्यादिमत् । “केवलो निर्गुणश्च”(श्वे. उ. ६ । ११) इत्यादिश्रुतेः ।

अज्ञेनाऽऽगमस्य भेदेन प्रति­प­न्न­त्वा­त्त­द्दृ­ष्ट्याऽऽ­चा­र्य­स्या­प्य­वि­द्या­ले­शो­त्थ­दृष्ट्या व्यावहारिक उपदेश उपपद्यत आग­म­त­स्त­स्यै­वाऽऽ­त्मानं ब्रह्मरूपेण लक्षयितुं योग्य­ता­ति­श­य­व­त्त्वा­दि­त्य­भि­प्रे­त्याह –
अत्यन्तमेवेति ।

वाक्यस्य पदा­र्था­न्व्या­ख्याय तात्पर्यं दर्श­यि­तु­मु­प­क्र­मते –
यद्विदितं तदल्पमित्यादिना ।

यद्वे­दि­तु­र­न्य­त्त­द्वि­दि­त­म­वि­दितं चेति द्वयी गतिः । ततो विदि­त­त्वा­वि­दि­त­त्व­नि­षे­धेन वेदितुः स्वरूपं ब्रह्मेत्यत्र तात्प­र्य­मा­ग­म­स्ये­त्याह –
न ह्यन्यस्येति ॥ ३ ॥

उक्तवाक्यार्थे लौकि­क­ता­र्कि­क­मी­मां­स­क­प्र­ति­प­त्ति­वि­रो­ध­मा­शङ्क्य परिहरति विदि­ता­द­न्य­त्व­प्र­प­ञ्च­नाय –
अन्यदेव तद्वि­दि­ता­दि­त्या­दिना ।

अष्टसु स्थानेष्विति ।
“अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥”
(वासि़­ष्ठ­शिक्षा) इत्ये­ते­ष्वा­का­श­प्र­दे­शे­ष्वा­श्रि­त­मि­त्य­ने­नाऽऽ­का­शो­पा­दा­नत्वं सूचितम् ।

आग्नेयमिति ।
अग्नि­दे­व­ता­क­मि­त्यर्थः ।

न केवलं करणं वागुच्यते वर्णाश्चोच्यन्त इत्याह –
वर्णाश्चेति ।
तदुक्तम् – “यावन्तो यादृशा ये च यद­र्थ­प्र­ति­पा­दकाः ।
वर्णाः प्रज्ञा­त­सा­म­र्थ्यास्ते तथैवावबोधकाः ॥”
(न्यायमञ्जरी) गौरिति पदं गका­रौ­का­र­वि­स­र्ज­नीया एव क्रम­वि­शे­षा­व­च्छिन्ना इति मीमां­स­का­द्य­नु­सा­रे­णो­क्तम् ।

स्फोट­वा­दि­नोऽ­नु­सा­रे­णाऽऽह –
तदभिव्यङ्ग्य इति ।
स्फुट्यते व्यज्यते वर्णैरिति स्फोटः पदा­दि­बु­द्धि­प्र­मा­णकः । एकरूपाया बुद्धे­र­ने­क­व­र्णा­व­ल­म्ब­न­त्वा­स­म्भ­वा­दिति भावः ।

उक्ते वाक्यार्थे श्रुतिसम्मतिमाह –
अकार इति ।
अका­र­प्र­धा­नो­ङ्का­रो­प­ल­क्षिता स्फोटाख्या चिच्छक्तिः सर्वा वाक्सैषा स्पर्शा­न्त­स्थो­ष्म­भि­र्व्य­ज्य­माना । कादयो मावसानाः स्पर्शा, यरलवा अन्तस्थाः, शषसहा ऊष्माणस्तैः क्रम­वि­शे­षा­व­च्छि­न्नै­र्व्य­ज्य­माना नानारूपा विवर्तते । मितमृगादि पादा­व­सा­न­नि­य­ता­क्ष­र­त्वात् । अमितं यजु­रा­द्य­नि­य­ता­क्ष­र­पा­दा­व­सा­न­त्वात् । स्वरः साम । गीति­प्रा­धा­न्यात् । सत्यं यथा­दृ­ष्टा­र्थ­व­च­नम् । अनृतं तद्विपरीतम् । करणं वागिन्द्रियं गुण उपसर्जनं यस्याः सा करणगुणवती पुरुषेषु चेतनेषु या वाक्शक्तिः सा घोषेषु वर्णेषु प्रतिष्ठिता तद्व्य­ङ्ग्य­त्वा­दि­त्यर्थः ।

तदे­वे­त्ये­व­का­रस्य कृत्यमाह –
यैर्वा­गा­द्यु­पा­धि­भि­रिति ।

नियमार्थमिति ।
पक्षेऽ­ना­त्म­न्यपि ब्रह्मबुद्धौ प्राप्ता­या­मा­त्मैव ब्रह्मेति बुद्धिं निय­न्तु­मि­त्यर्थः । अन्य­स्मि­न्नु­पास्ये या ब्रह्म­बु­द्धि­स्त­न्नि­वृ­त्त्यर्थं वा पुन­र­ब्र­ह्म­त्व­मु­च्यत इत्यर्थः । सर्वं स्पष्टमिति न व्याख्यातम् ॥ ५ - ६ – ७ - ८ ॥
इति प्रथमखण्डः ॥