आनन्दगिरिटीका (केन पदभाष्य)
प्रथमः खण्डः
यच्छ्रोत्रादेरधिष्ठानं चक्षुर्वागाद्यगोचरम् ।
स्वतोऽध्यक्षं परं ब्रह्म नित्यमुक्तं भवामि तत् ॥ १ ॥
केनेषितमित्यादिकां तलवकारशाखोपनिषदं व्याचिख्यासुर्भगवान्भाष्यकारोऽहंप्रत्ययगोचरस्याऽऽत्मनः संसारित्वादसंसारिब्रह्मभावस्योपनिषत्प्रतिपाद्यस्यासम्भवान्निर्विषयत्वादव्याख्येयत्वमित्याशङ्क्याहङ्कारसाक्षिणः संसारित्वग्राहकप्रमाणाविषयत्वाद्ब्रह्मत्वप्रतिपादने विरोधासम्भवात्सविषयत्वाद्व्याख्येयत्वं प्रतिजानीते –
केनेषितमित्याद्येति ।
कस्तर्हिनवमस्याध्यायस्याष्टाध्याय्या सह नियतपूर्वोत्तरभावानुपपत्तिलभ्यः सम्बन्ध इत्याशङ्क्य हेतुहेतुमद्भावलक्षणसम्बन्धं दर्शयितुं वृत्तमनुवदति –
प्रागेतस्मादित्यादिना ।
कर्माङ्गसाम पाञ्चभक्तिकं साप्तभक्तिकं च तद्विषयाण्युपासनानि पृथिव्यादिदृष्ट्योक्तानि । प्राणदृष्ट्या गायत्रसामोपासनं च ।
शिष्याचार्यसन्तानाविच्छेदो वंशस्तदवसानेन ग्रन्थेन कार्यरूपमेव वस्तूक्तं चेत्तर्हि प्राणाद्युपासनसहितस्य कर्मणः संसारफलत्वाद्ब्रह्मज्ञानानुपयोगात्कथं हेतुहेतुमद्भावः सम्बन्धोऽभिधित्सित इत्याशङ्क्य नित्यकर्मणां तावज्ज्ञानोपयोगित्वं कथयति –
सर्वमेतदिति ।
काम्यानां प्रतिषिद्धानां च फलं तद्दोषदर्शनेन वैराग्यार्थं कथयति –
सकामस्य त्विति ।
एतयोः पथोर्ज्ञानकर्णणोर्मध्ये केनापि मार्गेण ये न प्रवृत्तास्ते प्रतिषिद्धानुष्ठायिन इत्यर्थः ।
जायस्व म्रियस्वेति ।
पुनः पुनर्जायन्ते म्रियन्ते चेत्यर्थः । तिस्रः प्रजा जरायुजाण्डजोद्भिज्जलक्षणाः । पितृयाणदेवयानलक्षणमार्गद्वयगमनमतीत्य कष्टामेव गतिमीयुः प्राप्ता इत्यर्थः ।
एवं कर्मफलमुक्त्वा ततो विरक्तस्य विशुद्धसत्त्वस्य ब्रह्मज्ञानेऽधिकार इति दर्शयन्हेतुहेतुमद्भावमाह –
विशुद्धसत्त्वस्य त्विति ।
साध्यसाधनसम्बन्धाद्विरक्तस्येति सम्बन्धः ।
तत्र निमित्तस्यादृष्टस्यानियत्वमाह –
इह कृतादिति ।
कर्मफलाद्विरक्तस्य ब्रह्मजिज्ञासा भवतीत्यत्रान्यसंवादमाह –
काठके चेति ।
आवृत्तचक्षुरिति ।
साध्यसाधनभावादुपरतकरणग्रामः चक्षुर्ग्रहणस्योपलक्षणार्थत्वात् ।
अन्वयव्यतिरेकसिद्धत्वं चाऽऽह –
एवं हीति ।
नान्यथेति ।
अविरक्तस्य बर्हिर्विषयाक्षिप्तचेतस आत्मजिज्ञासैवानुपपन्ना कथञ्चिज्जाताऽपि न फलावसाना स्याच्छूद्रयागादिवदित्यर्थः ।
यद्यप्येवमुपनिषदः कर्मकाण्डसम्बन्धोऽस्ति तथाऽप्युपनिषज्जन्यज्ञानस्य निष्प्रयोजनत्वान्नोपनिषदो व्याख्यारम्भः सम्भवतीत्याशङ्क्याऽऽह –
एतस्माच्चेति ।
समुच्चयवादिनोऽभिप्रायं शङ्कते –
कर्मसहितादपीति ।
एकाध्ययनविधिगृहीतत्वात्कर्मज्ञानकाण्डयोरेकं फलं वाच्यं ततः कर्मसमुच्चिताज्ज्ञानात्सनिदानसंसारनिवृत्तिलक्षणं फलं सिध्यतीति न कर्मसु विरक्तस्योपनिषदारम्भ इत्यर्थः ।
अध्ययनविधिपरिग्रहमात्रेण कर्मकाण्डस्य न मोक्षफलत्वं कल्पयितुं शक्यं फलान्तरावगमविरोधादित्याह –
न वाजासनेयक इति ।
किञ्च यदि श्रुतेः कर्मसमुच्चितज्ञानं विधित्सितं स्यात्तदा पारिव्राज्यं नोपदिश्येत श्रुत्या हेत्वभिधानेन, ततो न समुच्चयः श्रुत्यर्थ इत्याह –
तत्रैव चेति ।
प्रजाशब्दस्योपलक्षणार्थत्वमादाय हेत्वर्थमाह –
तत्रायमिति ।
किं करिष्यामो न किमप्यात्मकामत्वादेवेति शेषः ।
तत्फलं भुक्त्वा क्रमेण मोक्षसम्भवात्किमिति प्रजादिष्वनादर इत्याशङ्क्याह –
न चेति ।
इष्टोऽप्ययमात्मलोकः कर्मणा विना न लभ्यते फलत्वान्मोक्षस्यान्यथास्वभावमुक्तत्वे बन्धमोक्षावस्थयोरविशेषापातादित्याशङ्क्याऽऽह –
स चेति ।
कर्ममोक्षे कार्यस्योत्पाद्यादेरसम्भवात्सम्यग्ज्ञानादविद्यानिवृत्त्या फलप्रसिद्ध्युपपत्तेर्न कर्मकार्यो मोक्ष इत्यर्थः । ब्रह्मज्ञानस्यानुभवावसानतासिद्धये परोक्षनिश्चयपूर्वकः संन्यासः कर्तव्यः । सिद्धे चानुभाववसाने ब्रह्मात्मज्ञाने स्वभावप्राप्तः संन्यास इति द्रष्टव्यम् ।
इतश्च न कर्मब्रह्मात्मतानिश्चयसमुच्चयः शास्त्रार्थ इत्याह –
कर्मसहभावित्वेति ।
ननु कर्मवद्ब्रह्मज्ञानस्य विधितोऽनुष्ठेयत्वाद्विधेश्च नियोज्यादिभेदापेक्षित्वात्कथं सर्वभेददर्शनप्रत्यस्तमय उच्यते ब्रह्मज्ञाने सतीत्याशङ्क्याऽऽह –
वस्तुप्राधान्ये सतीति ।
विधिजन्यप्रयत्नभाव्यो हि विधिविषय उच्यते ज्ञानं न तथेति तद्विधेरसिद्धिरित्यर्थः ।
यस्मत्प्रत्यगात्मनो ब्रह्मतानिश्चयस्य परोक्षस्यापरोक्षस्य वा कर्मणा समुच्चयो न प्रामाणिकस्तस्मादित्युपसंहरति –
तस्मादिति ।
प्रश्नप्रतिवचनरूपेण प्रतिपादनस्य तात्पर्यमाह –
शिष्याचार्येति ।
आपनेया प्रापणीया हन्तव्या वा न भवतीत्यर्थः । साधिष्ठं शोभनतमं फलं प्रापयतीत्यर्थः ।
इष आभीक्ष्ण्ये गतौ चेति धात्वन्तरसम्भवे कथमिच्छार्थस्यैव व्याख्यानमित्याशङ्क्याऽऽह –
इषेरिति ।
आभीक्षण्यं पौनःपुन्यं तद्विषयताया गतिविषयताया वा मनसोऽनभिप्रेतत्वान्मनःप्रवर्तकविशेषस्यैव बुभुत्सितत्वादित्यर्थः । इट्प्रयोगे सति गुणेन भवितव्यम् । तदैषितमिति स्यात्तदभावाच्छान्दसत्वाभिधानं न तु धातोरनिट्त्वादनुबन्धस्य विकल्पविधानादन्वेषितमन्विष्टं वेति वैकल्पिकप्रयोगादिदर्शनादिति ।
इषितं प्रेषितमिति पदद्वयस्यार्थवत्त्वमाह –
तत्र प्रेषितमित्यादिना ।
इच्छामात्रेणेति ।
प्रयत्नमन्तरेण सन्निधिमात्रेणेति व्याख्यातं नेदं व्याख्यानमपि शोभते अपर्यायशब्दभेदस्यार्थभेदाव्यभिचारादित्याह –
अपि चेति ।
त्वदुक्तोऽयमर्थविशेषो न घटते सङ्घातस्यैवेच्छादिभिः प्रवर्तकत्वसिद्धेः प्रश्नानुपपत्तिप्रसङ्गादित्याह –
न प्रश्नेति ।
मनसः स्वातन्त्र्यात्स्वव्यतिरिक्तप्रवर्तकसम्भावनाभावात्प्रश्नो न घटत इत्याक्षिप्य समाधत्ते –
ननु स्वतन्त्रमित्यादिना ।
अत्युग्रदुःखे चेति ।
अद्यतनीनदुःखे द्यूतादिकार्ये ॥ १ ॥
प्रतिवचनस्य प्रश्नाननुरूपत्वमाशङ्क्य समाधत्ते –
असावेवंविशिष्ट इत्यादिना ।
श्रोत्रादयः स्वविलक्षणशेषाः संहतत्वाद्गृहादिवदित्यनुमानेन श्रोत्रादिशेषी तावदवगम्यते यदि सोऽपि संहतः स्यात्तर्हि गृहादिवदचेतनः स्यात् । ततस्तस्याप्यन्यः शेषी कल्प्यस्तस्याप्यन्य इत्यनवस्थाप्रसङ्गपरिहारायासंहतश्चेतनो गम्यते । अतः सर्वसाक्षिणं लक्षयितुं युक्तमेव प्रतिवचनमित्यर्थः । फलावसानं फलनिष्पत्तिर्लिङ्गं यस्मिन् , अवगत्या हि करणस्य व्यापारो लिङ्ग्यते नित्यावगतिव्यञ्जकत्वाद्वा फलावसानलिङ्गं व्यापारस्तेन तच्छेषी लक्ष्यत इत्यर्थः ।
प्रतिवचनस्य सङ्क्षेपतस्तात्पर्यमाह –
श्रोत्राद्येव सर्वस्येति ।
यस्मादस्ति श्रोत्रस्य श्रोत्रं तस्माछ्रोत्रादावात्मबुद्धिः सन्त्यक्तव्येतिशेषः प्राणचेष्टा चेतनाधिष्ठानपूर्विका अचेतनप्रवृत्तित्वात् रथादिप्रवृत्तिवदित्यभिप्रेत्याह –
न ह्यात्मनाऽनधिष्ठितस्येति ।
ज्ञात्वेति पदाध्याहारे कारणमाह –
प्रष्टुः पृष्टस्यार्थस्येति ।
सामर्थ्यादिति ।
श्रोत्राद्यात्मभावत्यागमन्तरेणामृतत्वासम्भवाज्ज्ञानबलाच्छ्रोत्राद्यात्मभावं त्यक्त्वाऽमृता भवन्तीति सम्बन्धः ।
एतत्स्फुटयति –
श्रोत्रादौ हीत्यादिना ।
मृत्वेति ।
विदेहमुक्तिर्विवक्षिता प्रारब्धभोगक्षये शरीरान्तरोत्पादे कारणाभावादवश्यम्भाविनी विदुषो मुक्तिरित्यर्थः ॥ २ ॥
सर्पाद्यध्यासाधिष्ठानरज्जुवच्छ्रोत्राद्यध्यासाधिष्ठानचैतन्यं श्रोत्रस्य श्रोत्रमित्यादिना लक्षितं तर्हि रज्जुवदधिष्ठानत्वाद्विषयत्वप्रसङ्ग इति शङ्कां निवर्तयति –
यस्माच्छ्रोत्रादेरपीत्यादिना ।
अध्यस्तस्य ह्यधिष्ठानमेव स्वरूपमाद्यन्तमध्येषु तदव्यभिचारात्स्वरूपविषयता च न पदार्थधर्मस्ततोऽप्रयोजकोऽयं हेतुरित्यर्थः ।
अविषयत्वात्तर्हि शास्त्राचार्योपदेश्यत्वमपि न स्यादित्याशङ्क्य नास्त्येव वास्तवमित्याह –
इन्द्रियमनोभ्यां हीति ।
ब्राह्मणोऽयमित्यादि जातितः कृष्णोऽयमित्यादि गुणतः पाचकोऽयमित्यादि क्रियातो राजपुरुष इत्यादि सम्बन्धविशेषत उपदिश्यते । ब्रह्म तु न जात्यादिमत् । “केवलो निर्गुणश्च”(श्वे. उ. ६ । ११) इत्यादिश्रुतेः ।
अज्ञेनाऽऽगमस्य भेदेन प्रतिपन्नत्वात्तद्दृष्ट्याऽऽचार्यस्याप्यविद्यालेशोत्थदृष्ट्या व्यावहारिक उपदेश उपपद्यत आगमतस्तस्यैवाऽऽत्मानं ब्रह्मरूपेण लक्षयितुं योग्यतातिशयवत्त्वादित्यभिप्रेत्याह –
अत्यन्तमेवेति ।
वाक्यस्य पदार्थान्व्याख्याय तात्पर्यं दर्शयितुमुपक्रमते –
यद्विदितं तदल्पमित्यादिना ।
यद्वेदितुरन्यत्तद्विदितमविदितं चेति द्वयी गतिः । ततो विदितत्वाविदितत्वनिषेधेन वेदितुः स्वरूपं ब्रह्मेत्यत्र तात्पर्यमागमस्येत्याह –
न ह्यन्यस्येति ॥ ३ ॥
उक्तवाक्यार्थे लौकिकतार्किकमीमांसकप्रतिपत्तिविरोधमाशङ्क्य परिहरति विदितादन्यत्वप्रपञ्चनाय –
अन्यदेव तद्विदितादित्यादिना ।
अष्टसु स्थानेष्विति ।
“अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥”(वासि़ष्ठशिक्षा) इत्येतेष्वाकाशप्रदेशेष्वाश्रितमित्यनेनाऽऽकाशोपादानत्वं सूचितम् ।
आग्नेयमिति ।
अग्निदेवताकमित्यर्थः ।
न केवलं करणं वागुच्यते वर्णाश्चोच्यन्त इत्याह –
वर्णाश्चेति ।
तदुक्तम् – “यावन्तो यादृशा ये च यदर्थप्रतिपादकाः ।
वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः ॥”(न्यायमञ्जरी) गौरिति पदं गकारौकारविसर्जनीया एव क्रमविशेषावच्छिन्ना इति मीमांसकाद्यनुसारेणोक्तम् ।
स्फोटवादिनोऽनुसारेणाऽऽह –
तदभिव्यङ्ग्य इति ।
स्फुट्यते व्यज्यते वर्णैरिति स्फोटः पदादिबुद्धिप्रमाणकः । एकरूपाया बुद्धेरनेकवर्णावलम्बनत्वासम्भवादिति भावः ।
उक्ते वाक्यार्थे श्रुतिसम्मतिमाह –
अकार इति ।
अकारप्रधानोङ्कारोपलक्षिता स्फोटाख्या चिच्छक्तिः सर्वा वाक्सैषा स्पर्शान्तस्थोष्मभिर्व्यज्यमाना । कादयो मावसानाः स्पर्शा, यरलवा अन्तस्थाः, शषसहा ऊष्माणस्तैः क्रमविशेषावच्छिन्नैर्व्यज्यमाना नानारूपा विवर्तते । मितमृगादि पादावसाननियताक्षरत्वात् । अमितं यजुराद्यनियताक्षरपादावसानत्वात् । स्वरः साम । गीतिप्राधान्यात् । सत्यं यथादृष्टार्थवचनम् । अनृतं तद्विपरीतम् । करणं वागिन्द्रियं गुण उपसर्जनं यस्याः सा करणगुणवती पुरुषेषु चेतनेषु या वाक्शक्तिः सा घोषेषु वर्णेषु प्रतिष्ठिता तद्व्यङ्ग्यत्वादित्यर्थः ।
तदेवेत्येवकारस्य कृत्यमाह –
यैर्वागाद्युपाधिभिरिति ।
नियमार्थमिति ।
पक्षेऽनात्मन्यपि ब्रह्मबुद्धौ प्राप्तायामात्मैव ब्रह्मेति बुद्धिं नियन्तुमित्यर्थः । अन्यस्मिन्नुपास्ये या ब्रह्मबुद्धिस्तन्निवृत्त्यर्थं वा पुनरब्रह्मत्वमुच्यत इत्यर्थः । सर्वं स्पष्टमिति न व्याख्यातम् ॥ ५ - ६ – ७ - ८ ॥
इति प्रथमखण्डः ॥