अद्वैतशारदा

आनन्दगिरिटीका (केन पदभाष्य)

द्वितीयः खण्डः

वेदितुः स्वरूपत्वे ब्रह्मणो मा भूद्विषयत्वम् । स्वरूपत्वे मानाभावात् अतिरिक्तस्य विषयत्वे किम­नु­प­प­न्न­मि­त्या­श­ङ्क्याऽऽह –
सर्वस्य हीति ।

यदिशब्दप्रयोगे किं कारणमित्यत आह –
कदाचिदिति ।
अक्षिणि शरीरस्य प्रतिच्छाया दृश्यत इति प्रसि­द्ध­व­दु­प­दे­शा­च्छ­री­र­मा­त्मेति प्रतिपन्नः । छायाया अव्यभिचारित्वं बुद्ध्वेत्यर्थः ।

सकृदिति ।
“य एषोऽक्षिणि पुरुषो दृश्यते”(छा. उ. १ । ७ । ५) इत्ये­क­वा­र­मु­क्तम् , “य एष स्वप्ने महीयमानश्चरति”(छा. उ. ८ । १० । १) इति द्वितीयेनोक्तम् , “तद्य­त्रै­त­त्सुप्तः समस्तः सम्प्रसन्नः”(छा. उ. ८ । ११ । १) इति त्रिरु­क्त­म­प्या­त्मा­न­म­प्र­ति­प­द्य­मान इन्द्रो ब्रह्म­च­र्ये­णा­ध­र्मा­दि­दो­ष­क्ष­य­म­पेक्ष्य चतुर्थे पर्याये “एष सम्प्र­सा­दोऽ­स्मा­च्छ­री­रा­त्स­मु­त्थाय परं ज्योति­रु­प­स­म्पद्य”(छा. उ. ८ । ३ । ४) इत्यत्र प्रथ­म­प­र्या­यो­क्त­मेव ब्रह्म प्रति­प­न्न­वा­नि­त्यर्थः ।

अर्भकाणि चेति ।
अल्पानि ।

न स्वतो रूपमस्ति ब्रह्मण इत्युक्तं तदाक्षिपति –
ननु येनैवेति ।

केन तर्हि विशेषेण ब्रह्मणो निरू­प­ण­मि­त्या­का­ङ्क्षायां चैत­न्य­रू­पे­णे­त्याह –
चैतन्यमिति ।
भूतानां समस्तानां व्यस्तानां वा देहा­का­र­प­रि­ण­तानां चैतन्यं धर्मो न भवति बहि­र­नु­प­ल­म्भा­त्त­द्ध­र्मत्वे रूपा­दि­व­त्त­त्सा­ध­क­त्वा­भा­व­प्र­स­ङ्गाच्च । तथा श्रोत्रादीनामपि भौति­क­त्वा­वि­शे­षा­च्चै­तन्यं धर्मो न भवतीति पारि­शे­ष्या­त्स्व­त­न्त्र­चै­तन्यं ब्रह्मणो रूपम् ।

तत्र श्रुतिसम्मतिमाह –
तथा चोक्तमिति ।
सत्यमेवं चैतन्यं पारमार्थिकं ब्रह्मरूपं श्रुति­ता­त्प­र्य­गम्यं तथाऽपि यदुक्तं ब्रह्मणो रूपं कथं नास्तीति तदु­पा­धि­द्वा­रे­णैव ब्रह्मणः शब्देन निरूपणं निर्देशनं न स्वत इत्यभिप्रेत्य, अन्तः कर­णा­द्य­भि­व्य­क्ति­मु­प­लभ्य हि यदु­पा­ध्य­भि­व्य­क्ति­नि­मित्तं चैतन्यं तद्ब्रह्मेति निर्दिश्यत इत्यर्थः ।

ननू­पा­धि­रु­प­हि­त­स­म्बद्धो भवति चैतन्यस्य त्वसङ्गस्य कथं देहा­दि­रू­पा­धि­रि­त्या­श­ङ्क्याऽऽह –
तद­नु­का­रि­त्वा­दि­त्या­दिना ।
यथा जले कम्पमाने सविता कम्पत इव भिद्यमाने भिद्यत इवेति मिथ्या­त­द्ध­र्म­भा­गि­त्वा­त्स­वि­तु­र्ज­ल­मु­पा­धि­रि­त्यु­च्यते न तु सम्ब­न्धा­द्दू­र­स्थयोः संयोगाद्ययोगात् । तद्व­द्दे­हा­दे­र्वृ­द्धि­स­ङ्को­च­च्छे­दा­दिषु दाहादिषु नाशेषु चैतन्यस्य मिथ्या­दे­ह­ध­र्म­भा­गि­त्वा­द्दे­हा­दे­रु­पा­धि­त्व­म­भि­धी­यते इत्यर्थः ।

ननु न स्वतश्चैतन्यतया निरूप्यते ब्रह्म कथं तर्हि तदनुभव इत्याशङ्क्याऽऽह –
स्वतस्त्विति ।
अविषयतयैव विष­या­नु­प­र­क्त­चि­त्स्फु­रणं ब्रह्मानुभव इत्यर्थः ।

तर्कतश्चेति ।
वेद्यत्वे घटा­दि­व­द­ना­त्म­त्वा­दि­प्र­स­ङ्गा­दि­त्या­दि­त­र्कत आत्मनो वेद्यं ब्रह्म न भवत्येवेति निर्धा­र्या­ज्ञा­न­सं­श­या­द्य­भा­वेन स्वानुभवं कृत्वेत्यर्थः ॥ ९ – १ ॥

आचा­र्य­व­च­ना­द­न्य­देव वचनं शिष्य उवाचेति नाऽऽश­ङ्क­नी­य­मि­त्याह –
यदेवान्यदेवेति ।

तथा चेति ।
आचा­र्य­म्बु­द्धि­स­म्वादे सत्य­र्था­न्त­रा­न­भि­धाने सतीत्यर्थः ॥ १० - २ ॥

अथवा हेत्वर्थ इति ।
लोेके शुक्त्या­दि­तत्त्वं विजानतां यतोऽध्यस्तं रूप्या­द्य­वि­ज्ञातं भवति । अजानतामेव त्वध्यस्तं विज्ञातं भवतीति प्रसिद्धम् । तथा ब्रह्मणि ज्ञेय­त्व­स्या­ध्य­स्त­त्वा­देव तत्त्वविदो न ज्ञातं ब्रह्म पश्यन्तीयर्थः ॥ ११ - ३ ॥

ज्ञात­ब्र­ह्म­त्वा­द­र्शने ब्रह्मास्मीति कथं व्यवहरतीति चेत्कि­म­न­ये­ष्ट­का­वा­ह­कानां रत्नपेटकचिन्तया । ज्ञातस्य व्यवहाराङ्गत्वं वदतोऽपि वस्तुप्रकाशस्य व्यव­हा­रा­ङ्ग­त्व­स्ये­ष्ट­त्वा­द्वा­स्त­व­ज्ञा­त­ता­न­पे­क्ष­त्वा­दि­त्य­व्यु­त्प­न्न­व्यु­त्पा­द­नाय चोद्यमुद्भावयति –
अवि­ज्ञा­त­मि­त्या­दिना ।

नील­पी­ता­द्या­का­राणां बुद्धिविकाराणां जडानां यच्चै­त­न्य­व्या­प्त­त्वे­ना­ज­ड­व­द­व­भा­सस्तं साक्षि­ण­मु­प­लक्ष्य सोऽहमात्मा ब्रह्मेति महा­वा­क्या­द­वि­ष­य­त­यैव यो वेत्ति स ब्रह्मविदुच्यते । तेन नावि­शे­ष­प्र­स­ङ्गा­दि­चो­द्या­व­काश इत्याह –
प्रति­बो­ध­वि­दि­त­मिति ।
प्रत्य­ये­ष्व­वि­शि­ष्ट­त­याऽ­नु­ग­त­रू­पे­णे­त्यर्थः ।

येन चित्स्व­रू­पे­णा­ह­मत्र साक्षी तस्य सर्व­त्रा­वि­शे­षा­न्नै­क­स्मि­न्नेव देहेऽहं साक्षी भेदो­त्प­त्त्या­दीनां च साक्ष्यगतत्वेन साक्षिण एक­त्व­नि­त्य­त्वा­दि­क­मपि सिध्यतीत्याह –
सर्व­प्र­त्य­य­द­र्शित्वे चेति ।

विदि­त­त्वा­वि­दि­त­त्वयोः साक्ष्यगतत्वेन तद­न्य­त्व­म­प्य­स्मि­न्पक्षे सम्भवतीत्याह –
विदि­ता­वि­दि­ता­भ्या­म­न्य­दिति ।

एक­दे­शि­व्या­ख्या­न­मु­द्भाव्य दूषयति –
यदा पुनरित्यादिना ।

अग्नि­सं­यो­गा­द्घटे लौहि­त्य­व­न्म­नः­सं­यो­गा­द­स­म­वा­यि­का­र­णा­दा­त्मं­न्य­चे­तने चैतन्यमुत्पद्यत इत्येतन्न केवलं श्रुति­वि­रु­द्ध­म­स­म्भा­वितं चेत्याह –
आत्मनो निरवयवत्वेनेति ।

प्रदेशवता प्रदेशवतो लोके संयोगो दृष्टः आत्मनो निष्प्र­दे­श­त्वा­न्म­नसा संयोगो न सम्भवतीत्युक्तं तदयुक्तम् , युग­प­त्स­र्व­मू­र्त­सं­यो­गित्वं सर्व­ग­त­त्व­मा­त्म­न­स्ततो मनसः संयोगोऽपीति चेत्तत्राऽऽह –
नित्येति ।
ग्रह­ण­का­ला­द­न्य­काल एव स्मृतीनां क्रमे­णै­वो­त्प­त्ति­रिति नियमो वैशेषिकस्य नोपपद्यते ग्रहणकालेऽपि स्मृत्यु­त्प­त्ति­प्र­स­ङ्गाच्च संस्का­र­व­दा­त्म­म­नः­सं­यो­ग­स्या­वि­शे­षा­दि­त्यर्थः ।

सर्वगतत्वं च सर्वा­व्य­व­धा­न­मात्रं न तु संयोगित्वं कल्पनीयमित्याह –
संसर्गधर्मित्वं चेति ।

न्याय­वि­रु­द्ध­मि­त्युक्तं तत्स्फुटयति –
न्यायश्चेति ।

एक­दे­शि­व्या­ख्या­ना­न्त­र­म­नूद्य दूषयति –
यत्पु­न­रि­त्या­दिना ।

यद्वेद्यं तद्वे­दि­तु­र्वे­द­नाच्च भिन्नं यथा घटादीति व्याप्ति­वि­रो­धा­त्स्व­सं­वे­द्यत्वं वास्तवं नोपपद्यते ततो बुद्ध्या­दा­वा­त्म­भा­व­मा­रो­प्याऽऽ­त्मना तस्य वेद्यत्वं वाच्यमिति निरु­पा­धि­क­स्व­रू­प­स्थि­तिर्न स्यादित्याह –
तत्र भवति सोपाधिकत्वमिति ।

काणादस्य स्वसं­वे­द्य­त्वा­न­ङ्गी­का­र­ब­ला­त्प­र­वे­द्यत्वं प्रसज्यत इत्यपि न वाच्यमित्याह –
संवे­द­न­रू­प­त्वा­दिति ।

बौद्धेन स्वसंवेद्यं विज्ञानमिष्टं तव किं न स्यादित्यत आह –
बौद्धपक्ष इति ।
प्रत्यक्षस्य वर्त­मा­ना­व­भा­स­क­त्वा­त्क्ष­णा­न्त­र­वि­शिष्टे स्वात्मनि क्षणा­न्त­र­वि­शिष्टं तदेव विज्ञानं प्रत्यक्षं न सम्भवति । अतः स्वात्मनि स्वयमेव विज्ञानं प्रत्यक्षं चेद्व­र्त­मा­न­क्ष­ण­मात्रं सत्त्वं स्यात् । स्वसंवेद्यत्वेन साक्षि­णोऽ­न­ङ्गी­का­रा­न्नि­रा­त्मत्वं च स्यादेव तच्छ्रु­ति­वि­रु­द्ध­मि­त्यर्थः ।

प्रति­बो­ध­वा­क्य­स्या­र्था­न्तरं शङ्कते –
यत्पुनरिति ।
ब्रह्माहमस्मीति चिन्तयतो याव­च्चे­तो­व्या­पृ­ति­स्ता­व­त्स­म्प्र­ज्ञा­त­स­मा­धि­र्नि­वृत्ते चेतोव्यापारे य पर­मा­न­न्द­सा­क्षा­त्कारः सौषु­प्ता­न­न्द­सा­क्षा­त्का­र­व­त्सोऽ­स­म्प्र­ज्ञा­त­स­माधिः प्रतिबोध उच्यते । तदुक्तं वार्तिककृता – “अपरायत्तबोधो हि निदि­ध्या­स­न­मु­च्यते” इति । अथ­वाऽ­क्रि­य­ब्र­ह्मा­त्म­त्वा­नु­भवे सति प्रमा­तृ­त्वा­नु­प­पत्तौ पुन­र्ज्ञा­ना­स­म्भ­वा­त्स­द्यो­मु­क्ति­का­रणं सकृद्विज्ञानं प्रतिबोध उच्यते । “सकृ­त्प्र­वृत्त्या मृद्नाति क्रिया­का­र­क­रू­प­भृत् ।
अज्ञा­न­मा­ग­म­ज्ञानं साङ्गत्यं नास्त्यतोऽनयोः ॥”
(बृह.वा. ३.३.७१)

पक्ष­द्व­येऽ­प्य­रु­चि­माह –
निर्निमित्त इति ।
अयमाशयः – न ताव­द­वि­द्या­नि­व­र्त­क­स्याऽऽ­ग­न्तु­कस्य बोधस्य निर्निमित्तत्वं सम्भवति । कार्यस्य सनि­मि­त्त­त्व­व्याप्तेः । सौषुप्तस्यापि न निर्नि­मि­त्त­त्व­म­वि­द्यायाः पूर्व­पू­र्व­नि­रो­धा­व­स्था­सं­स्का­रो­द्भू­त­ता­दृ­श­वृ­त्त्य­भि­व्य­क्त­चै­त­न्यस्य तत्र सुख­सा­क्षा­त्का­रो­प­ग­मात् । अत एव वृत्ति­वि­शि­ष्टस्य विनाशे स्मरणमुपपद्यते । अत्रापि तर्ह्या­वृ­त्ति­सं­स्का­र­प्र­च­या­न्नि­वृ­त्तेऽपि चित्ते ब्रह्मा­भि­व्यक्तं स्यादिति चेन्न । तथा सत्यप्रमात्वेन विन­ष्ट­पु­त्रा­प­रो­क्षा­दि­वा­वि­द्या­नि­वृ­त्तिर्न स्यात् । शाब्द­ज्ञा­न­सं­वा­दा­त्प्र­मात्वे पर­त­न्त्र­त्व­प्र­सङ्गः शब्द­मू­ल­त्वा­त्प्र­मात्वे न निर्निमित्ततेति । प्रवृ­त्त­फ­ल­क­र्म­प्र­ति­ब­न्धा­द्व­र्त­मा­न­प्र­मा­तृ­त्वा­भा­सा­नि­वृ­त्ते­र­स­कृ­द्बो­धोऽपि सम्भवतीति पक्षद्वयेऽपि नाऽऽदरः । सर्वथाऽपि परमात्मा प्रतिबोध एव बोधं प्रति बोधं प्रति साक्षितया भातीति ।

लक्ष्य­प­दा­र्थ­वि­वे­च­न­पू­र्वकं महावाक्योत्थं परमात्माऽस्मीति ज्ञानमेव सम्यग्ज्ञानं यस्मात्तत एवामृतत्वं लभत इत्याह –
अमृतत्वमिति ।

उक्तमर्थं सङ्क्षिप्याऽऽह –
बोधस्य हीति ।

बुद्धिपरिणामस्य सर्वस्य भासकं प्रत्यक्चैतन्यं परमात्मा न भवति किन्तु ब्रह्मा­ण्डा­द्बहिः स्थित­स्त­त्प्रा­प्तिश्च मोक्ष इत्याशङ्क्याह –
न हीति ।
अनात्मप्राप्तेः कर्म­फ­ल­व­द­नि­त्य­त्वे­ना­मृ­त­त्व­प्र­सि­द्धिर्न स्यादित्यर्थः ।

यद्यु­क्त­दो­ष­प­रि­हा­रा­यौ­पा­धि­क­भे­देन भिन्नत्वं ब्रह्मणः स्वत­स्त्वा­त्म­त्व­मे­वेति मन्यसे तत्राऽऽह –
आत्मत्वादिति ।
ब्रह्मण आत्म­त्वा­दे­वाऽऽ­त्म­नोऽ­मृ­तत्वं स्वभावत एव सिद्धम् ।

तर्हि विद्याया आनर्थक्यं प्राप्त­मि­त्या­श­ङ्क्याऽऽह –
एवं मर्त्यत्वमिति ।
अविद्यया देहा­द्या­त्म­त्व­प्र­ति­प­त्ति­रिति यत्तदात्मनो मर्त्यत्वं तन्नि­वृ­त्ति­र्वि­द्या­फ­ल­मि­त्यर्थः । वीर्यं विद्याकृतमुक्तं मुक्तत्वे दार्ढ्यं तच्च स्वाभाविकमेव मुक्तत्वं वास्तवं सर्व­श­री­रा­द्य­सं­स­र्गि­त्वा­न्न­भो­व­न्नि­र­व­य­व­त्वा­देव । ततश्च नित्यमुक्त एवा­ह­मि­त्य­व­ष्टम्भो विद्याकृतं बलमित्यर्थः ॥ १२ - ४ ॥

उत्त­र­वा­क्य­स्या­पे­क्षि­त­म­र्थ­माह –
कष्टा खल्विति ।
लौकिकमपि सत्यम् । चिरं जीवनं धनवत्त्वम् । सद्भावः साधुभावः ख्यातिः । एतदपि सर्वं ब्रह्मविदो भवतीति स्तुत्य­र्थ­मु­च्यते । परमार्थतो ब्रह्म­रू­प­स्थि­तिस्तु फलमवश्यं भवतीत्यर्थः ॥ १३ - ५ ॥
इति द्वितीयखण्डः॥