आनन्दगिरिटीका (केन पदभाष्य)
द्वितीयः खण्डः
वेदितुः स्वरूपत्वे ब्रह्मणो मा भूद्विषयत्वम् । स्वरूपत्वे मानाभावात् अतिरिक्तस्य विषयत्वे किमनुपपन्नमित्याशङ्क्याऽऽह –
सर्वस्य हीति ।
यदिशब्दप्रयोगे किं कारणमित्यत आह –
कदाचिदिति ।
अक्षिणि शरीरस्य प्रतिच्छाया दृश्यत इति प्रसिद्धवदुपदेशाच्छरीरमात्मेति प्रतिपन्नः । छायाया अव्यभिचारित्वं बुद्ध्वेत्यर्थः ।
सकृदिति ।
“य एषोऽक्षिणि पुरुषो दृश्यते”(छा. उ. १ । ७ । ५) इत्येकवारमुक्तम् , “य एष स्वप्ने महीयमानश्चरति”(छा. उ. ८ । १० । १) इति द्वितीयेनोक्तम् , “तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः”(छा. उ. ८ । ११ । १) इति त्रिरुक्तमप्यात्मानमप्रतिपद्यमान इन्द्रो ब्रह्मचर्येणाधर्मादिदोषक्षयमपेक्ष्य चतुर्थे पर्याये “एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य”(छा. उ. ८ । ३ । ४) इत्यत्र प्रथमपर्यायोक्तमेव ब्रह्म प्रतिपन्नवानित्यर्थः ।
अर्भकाणि चेति ।
अल्पानि ।
न स्वतो रूपमस्ति ब्रह्मण इत्युक्तं तदाक्षिपति –
ननु येनैवेति ।
केन तर्हि विशेषेण ब्रह्मणो निरूपणमित्याकाङ्क्षायां चैतन्यरूपेणेत्याह –
चैतन्यमिति ।
भूतानां समस्तानां व्यस्तानां वा देहाकारपरिणतानां चैतन्यं धर्मो न भवति बहिरनुपलम्भात्तद्धर्मत्वे रूपादिवत्तत्साधकत्वाभावप्रसङ्गाच्च । तथा श्रोत्रादीनामपि भौतिकत्वाविशेषाच्चैतन्यं धर्मो न भवतीति पारिशेष्यात्स्वतन्त्रचैतन्यं ब्रह्मणो रूपम् ।
तत्र श्रुतिसम्मतिमाह –
तथा चोक्तमिति ।
सत्यमेवं चैतन्यं पारमार्थिकं ब्रह्मरूपं श्रुतितात्पर्यगम्यं तथाऽपि यदुक्तं ब्रह्मणो रूपं कथं नास्तीति तदुपाधिद्वारेणैव ब्रह्मणः शब्देन निरूपणं निर्देशनं न स्वत इत्यभिप्रेत्य, अन्तः करणाद्यभिव्यक्तिमुपलभ्य हि यदुपाध्यभिव्यक्तिनिमित्तं चैतन्यं तद्ब्रह्मेति निर्दिश्यत इत्यर्थः ।
ननूपाधिरुपहितसम्बद्धो भवति चैतन्यस्य त्वसङ्गस्य कथं देहादिरूपाधिरित्याशङ्क्याऽऽह –
तदनुकारित्वादित्यादिना ।
यथा जले कम्पमाने सविता कम्पत इव भिद्यमाने भिद्यत इवेति मिथ्यातद्धर्मभागित्वात्सवितुर्जलमुपाधिरित्युच्यते न तु सम्बन्धाद्दूरस्थयोः संयोगाद्ययोगात् । तद्वद्देहादेर्वृद्धिसङ्कोचच्छेदादिषु दाहादिषु नाशेषु चैतन्यस्य मिथ्यादेहधर्मभागित्वाद्देहादेरुपाधित्वमभिधीयते इत्यर्थः ।
ननु न स्वतश्चैतन्यतया निरूप्यते ब्रह्म कथं तर्हि तदनुभव इत्याशङ्क्याऽऽह –
स्वतस्त्विति ।
अविषयतयैव विषयानुपरक्तचित्स्फुरणं ब्रह्मानुभव इत्यर्थः ।
तर्कतश्चेति ।
वेद्यत्वे घटादिवदनात्मत्वादिप्रसङ्गादित्यादितर्कत आत्मनो वेद्यं ब्रह्म न भवत्येवेति निर्धार्याज्ञानसंशयाद्यभावेन स्वानुभवं कृत्वेत्यर्थः ॥ ९ – १ ॥
आचार्यवचनादन्यदेव वचनं शिष्य उवाचेति नाऽऽशङ्कनीयमित्याह –
यदेवान्यदेवेति ।
तथा चेति ।
आचार्यम्बुद्धिसम्वादे सत्यर्थान्तरानभिधाने सतीत्यर्थः ॥ १० - २ ॥
अथवा हेत्वर्थ इति ।
लोेके शुक्त्यादितत्त्वं विजानतां यतोऽध्यस्तं रूप्याद्यविज्ञातं भवति । अजानतामेव त्वध्यस्तं विज्ञातं भवतीति प्रसिद्धम् । तथा ब्रह्मणि ज्ञेयत्वस्याध्यस्तत्वादेव तत्त्वविदो न ज्ञातं ब्रह्म पश्यन्तीयर्थः ॥ ११ - ३ ॥
ज्ञातब्रह्मत्वादर्शने ब्रह्मास्मीति कथं व्यवहरतीति चेत्किमनयेष्टकावाहकानां रत्नपेटकचिन्तया । ज्ञातस्य व्यवहाराङ्गत्वं वदतोऽपि वस्तुप्रकाशस्य व्यवहाराङ्गत्वस्येष्टत्वाद्वास्तवज्ञाततानपेक्षत्वादित्यव्युत्पन्नव्युत्पादनाय चोद्यमुद्भावयति –
अविज्ञातमित्यादिना ।
नीलपीताद्याकाराणां बुद्धिविकाराणां जडानां यच्चैतन्यव्याप्तत्वेनाजडवदवभासस्तं साक्षिणमुपलक्ष्य सोऽहमात्मा ब्रह्मेति महावाक्यादविषयतयैव यो वेत्ति स ब्रह्मविदुच्यते । तेन नाविशेषप्रसङ्गादिचोद्यावकाश इत्याह –
प्रतिबोधविदितमिति ।
प्रत्ययेष्वविशिष्टतयाऽनुगतरूपेणेत्यर्थः ।
येन चित्स्वरूपेणाहमत्र साक्षी तस्य सर्वत्राविशेषान्नैकस्मिन्नेव देहेऽहं साक्षी भेदोत्पत्त्यादीनां च साक्ष्यगतत्वेन साक्षिण एकत्वनित्यत्वादिकमपि सिध्यतीत्याह –
सर्वप्रत्ययदर्शित्वे चेति ।
विदितत्वाविदितत्वयोः साक्ष्यगतत्वेन तदन्यत्वमप्यस्मिन्पक्षे सम्भवतीत्याह –
विदिताविदिताभ्यामन्यदिति ।
एकदेशिव्याख्यानमुद्भाव्य दूषयति –
यदा पुनरित्यादिना ।
अग्निसंयोगाद्घटे लौहित्यवन्मनःसंयोगादसमवायिकारणादात्मंन्यचेतने चैतन्यमुत्पद्यत इत्येतन्न केवलं श्रुतिविरुद्धमसम्भावितं चेत्याह –
आत्मनो निरवयवत्वेनेति ।
प्रदेशवता प्रदेशवतो लोके संयोगो दृष्टः आत्मनो निष्प्रदेशत्वान्मनसा संयोगो न सम्भवतीत्युक्तं तदयुक्तम् , युगपत्सर्वमूर्तसंयोगित्वं सर्वगतत्वमात्मनस्ततो मनसः संयोगोऽपीति चेत्तत्राऽऽह –
नित्येति ।
ग्रहणकालादन्यकाल एव स्मृतीनां क्रमेणैवोत्पत्तिरिति नियमो वैशेषिकस्य नोपपद्यते ग्रहणकालेऽपि स्मृत्युत्पत्तिप्रसङ्गाच्च संस्कारवदात्ममनःसंयोगस्याविशेषादित्यर्थः ।
सर्वगतत्वं च सर्वाव्यवधानमात्रं न तु संयोगित्वं कल्पनीयमित्याह –
संसर्गधर्मित्वं चेति ।
न्यायविरुद्धमित्युक्तं तत्स्फुटयति –
न्यायश्चेति ।
एकदेशिव्याख्यानान्तरमनूद्य दूषयति –
यत्पुनरित्यादिना ।
यद्वेद्यं तद्वेदितुर्वेदनाच्च भिन्नं यथा घटादीति व्याप्तिविरोधात्स्वसंवेद्यत्वं वास्तवं नोपपद्यते ततो बुद्ध्यादावात्मभावमारोप्याऽऽत्मना तस्य वेद्यत्वं वाच्यमिति निरुपाधिकस्वरूपस्थितिर्न स्यादित्याह –
तत्र भवति सोपाधिकत्वमिति ।
काणादस्य स्वसंवेद्यत्वानङ्गीकारबलात्परवेद्यत्वं प्रसज्यत इत्यपि न वाच्यमित्याह –
संवेदनरूपत्वादिति ।
बौद्धेन स्वसंवेद्यं विज्ञानमिष्टं तव किं न स्यादित्यत आह –
बौद्धपक्ष इति ।
प्रत्यक्षस्य वर्तमानावभासकत्वात्क्षणान्तरविशिष्टे स्वात्मनि क्षणान्तरविशिष्टं तदेव विज्ञानं प्रत्यक्षं न सम्भवति । अतः स्वात्मनि स्वयमेव विज्ञानं प्रत्यक्षं चेद्वर्तमानक्षणमात्रं सत्त्वं स्यात् । स्वसंवेद्यत्वेन साक्षिणोऽनङ्गीकारान्निरात्मत्वं च स्यादेव तच्छ्रुतिविरुद्धमित्यर्थः ।
प्रतिबोधवाक्यस्यार्थान्तरं शङ्कते –
यत्पुनरिति ।
ब्रह्माहमस्मीति चिन्तयतो यावच्चेतोव्यापृतिस्तावत्सम्प्रज्ञातसमाधिर्निवृत्ते चेतोव्यापारे य परमानन्दसाक्षात्कारः सौषुप्तानन्दसाक्षात्कारवत्सोऽसम्प्रज्ञातसमाधिः प्रतिबोध उच्यते । तदुक्तं वार्तिककृता – “अपरायत्तबोधो हि निदिध्यासनमुच्यते” इति । अथवाऽक्रियब्रह्मात्मत्वानुभवे सति प्रमातृत्वानुपपत्तौ पुनर्ज्ञानासम्भवात्सद्योमुक्तिकारणं सकृद्विज्ञानं प्रतिबोध उच्यते । “सकृत्प्रवृत्त्या मृद्नाति क्रियाकारकरूपभृत् ।
अज्ञानमागमज्ञानं साङ्गत्यं नास्त्यतोऽनयोः ॥”(बृह.वा. ३.३.७१)
पक्षद्वयेऽप्यरुचिमाह –
निर्निमित्त इति ।
अयमाशयः – न तावदविद्यानिवर्तकस्याऽऽगन्तुकस्य बोधस्य निर्निमित्तत्वं सम्भवति । कार्यस्य सनिमित्तत्वव्याप्तेः । सौषुप्तस्यापि न निर्निमित्तत्वमविद्यायाः पूर्वपूर्वनिरोधावस्थासंस्कारोद्भूततादृशवृत्त्यभिव्यक्तचैतन्यस्य तत्र सुखसाक्षात्कारोपगमात् । अत एव वृत्तिविशिष्टस्य विनाशे स्मरणमुपपद्यते । अत्रापि तर्ह्यावृत्तिसंस्कारप्रचयान्निवृत्तेऽपि चित्ते ब्रह्माभिव्यक्तं स्यादिति चेन्न । तथा सत्यप्रमात्वेन विनष्टपुत्रापरोक्षादिवाविद्यानिवृत्तिर्न स्यात् । शाब्दज्ञानसंवादात्प्रमात्वे परतन्त्रत्वप्रसङ्गः शब्दमूलत्वात्प्रमात्वे न निर्निमित्ततेति । प्रवृत्तफलकर्मप्रतिबन्धाद्वर्तमानप्रमातृत्वाभासानिवृत्तेरसकृद्बोधोऽपि सम्भवतीति पक्षद्वयेऽपि नाऽऽदरः । सर्वथाऽपि परमात्मा प्रतिबोध एव बोधं प्रति बोधं प्रति साक्षितया भातीति ।
लक्ष्यपदार्थविवेचनपूर्वकं महावाक्योत्थं परमात्माऽस्मीति ज्ञानमेव सम्यग्ज्ञानं यस्मात्तत एवामृतत्वं लभत इत्याह –
अमृतत्वमिति ।
उक्तमर्थं सङ्क्षिप्याऽऽह –
बोधस्य हीति ।
बुद्धिपरिणामस्य सर्वस्य भासकं प्रत्यक्चैतन्यं परमात्मा न भवति किन्तु ब्रह्माण्डाद्बहिः स्थितस्तत्प्राप्तिश्च मोक्ष इत्याशङ्क्याह –
न हीति ।
अनात्मप्राप्तेः कर्मफलवदनित्यत्वेनामृतत्वप्रसिद्धिर्न स्यादित्यर्थः ।
यद्युक्तदोषपरिहारायौपाधिकभेदेन भिन्नत्वं ब्रह्मणः स्वतस्त्वात्मत्वमेवेति मन्यसे तत्राऽऽह –
आत्मत्वादिति ।
ब्रह्मण आत्मत्वादेवाऽऽत्मनोऽमृतत्वं स्वभावत एव सिद्धम् ।
तर्हि विद्याया आनर्थक्यं प्राप्तमित्याशङ्क्याऽऽह –
एवं मर्त्यत्वमिति ।
अविद्यया देहाद्यात्मत्वप्रतिपत्तिरिति यत्तदात्मनो मर्त्यत्वं तन्निवृत्तिर्विद्याफलमित्यर्थः । वीर्यं विद्याकृतमुक्तं मुक्तत्वे दार्ढ्यं तच्च स्वाभाविकमेव मुक्तत्वं वास्तवं सर्वशरीराद्यसंसर्गित्वान्नभोवन्निरवयवत्वादेव । ततश्च नित्यमुक्त एवाहमित्यवष्टम्भो विद्याकृतं बलमित्यर्थः ॥ १२ - ४ ॥
उत्तरवाक्यस्यापेक्षितमर्थमाह –
कष्टा खल्विति ।
लौकिकमपि सत्यम् । चिरं जीवनं धनवत्त्वम् । सद्भावः साधुभावः ख्यातिः । एतदपि सर्वं ब्रह्मविदो भवतीति स्तुत्यर्थमुच्यते । परमार्थतो ब्रह्मरूपस्थितिस्तु फलमवश्यं भवतीत्यर्थः ॥ १३ - ५ ॥
इति द्वितीयखण्डः॥