अद्वैतशारदा

आनन्दगिरिटीका (केन पदभाष्य)

तृतीयः खण्डः

उत्तरग्रन्थस्य प्रतीकमादाय तात्पर्यमाह –
ब्रह्मेत्यादिना ।

अभिप्रेतं तात्पर्यमाह –
वक्ष्यमाणेति ।
उत्त­मा­धि­का­रि­गो­च­र­म­वि­ष­य­ब्र­ह्मा­त्म­ता­ज्ञानं पूर्व­त्रो­क्त­मु­त्त­रत्र तु मन्दा­धि­का­रि­गो­चरं सगु­ण­ब्र­ह्मो­पा­सनं वक्ष्यते । तत्परं वक्ष्यमाणं सर्ववाक्यजातं, स्पष्ट­वि­धि­द­र्श­नात् । अतोऽत्रैव तात्प­र्य­म­र्था­न्त­र­ता­त्प­र्य­प्र­द­र्शनं तु सम्भा­व­ना­मा­त्रे­णेति द्रष्टव्यम् । ईश्वरस्य सेतवो मर्यादा वर्णा­श्र­मा­दि­ध­र्मा­स्त­द्भे­द­कान् । जगतः स्थेम्ने स्थैर्याय । स्वयो­ग­मा­हा­त्म्य­नि­र्मि­तेन सत्त्वरजस्तमसां त्रयाणां गुणानां योगो युक्तिर्घटनं माया तन्माहात्म्येन निर्मितं तेनेत्यर्थः ॥ १४ - १ ॥ १५ - २ ॥ तृती­त­ख­ण्ड­शे­ष­भाष्यं स्पष्टमतो न विवृतमिति ॥ १६ - ३ ॥ १७ - ४ ॥ १८ - ५ ॥ १९ - ६ ॥ २० - ७ ॥ २१ - ८ ॥ २२ - ९ ॥ २३ - १० ॥ २४ - ११ ॥ २५ - १२ ॥ २६ - १ ॥ २७ - २ ॥ २८ - ३ ॥ विद्युतः सका­शा­द्वि­द्यो­तनं कृत­व­दि­त्य­नु­प­पन्नं ब्रह्मणः स्वय­ञ्ज्यो­ति­ष्ट्वा­त्प­रा­धी­न­प्र­का­शा­नु­प­प­त्ते­र्वि­द्यु­त्स­म्बन्धि द्योतनं कृत­व­दि­त्य­नु­प­प­न्न­म­न्या­श्र­यस्य विद्यो­त­न­स्या­न्य­क­र्तृ­क­त्वा­नु­प­प­त्ते­रतो यथा­श्रु­ता­स­म्भ­वा­द­न्यत्र तात्पर्यं वक्त­व्य­मि­त्यर्थः ।
इति तृतीयखण्डः ॥