अद्वैतशारदा

आनन्दगिरिटीका (केन पदभाष्य)

चतुर्थः खण्डः

प्रति­नि­र्दे­शार्थ इति ।
परामर्शार्थः । चक्षुषो निमेषणं द्रुतं भवतीति प्रसिद्धं तद्वद्ब्रह्मणि क्षिप्रकारित्वं सृष्ट्यादौ प्रति­ब­न्धा­भा­वे­नाऽऽ­या­सा­भा­वेन च द्रुतकारित्वं धर्मोऽधिदैवतम् । यद्ध्येयं ब्रह्म तद्यथा विद्युतः प्रकाशो युग­प­द्वि­श्व­व्या­प­क­स्तथा निर­ति­श­य­ज्यो­ती­रूपं द्रुतं सक­ल­सृ­ष्ट्या­दि­कारि पार­मै­श्व­र्य­स­म्प­न्न­मि­त्यु­प­मा­नो­प­देे­शे­नो­क्तम् ॥ २९ - ४ ॥

अधुना प्रत्यगात्मतया ब्रह्मणो यथाऽभिव्यक्तिः स्यात्त­थो­प­दि­श्यत इत्याह –
अथानन्तरमिति ।

एतत्प्रकृतं ज्योतीरूपं ब्रह्म प्रति मदीयं मनो गच्छद्वर्तत इति चिन्तयेदिति य उपदेशः स आध्या­त्मि­कोऽ­भीक्ष्णं पौनःपुन्येन मम मनसः सङ्कल्पो ब्रह्मविषय एवेति ध्यायतः प्रत्य­ग्भू­त­ब्र­ह्मा­भि­व्यक्तिः स्यादित्याह –
मन­उ­पा­धि­क­त्वा­द्धीति ।

उक्तमर्थं सङ्क्षिप्याऽऽह –
विद्यु­न्नि­मे­ष­ण­व­दिति ।
सगु­ण­ब्र­ह्मो­पा­स­न­मै­श्व­र्य­फ­ल­क­मु­क्तम् ॥ ३० - ५ ॥ ३१ - ६ ॥

तत्र विरक्त उत्तमाधिकारी परमरहस्यं पृच्छतीत्याह –
एवमनुशिष्ट इति ।
परमरहस्यं श्रोत्रस्य श्रोत्र­मि­त्या­दि­नो­क्त­मे­वो­त्त­रा­र्थ­मि­त्यु­त्त­र­ग्र­न्थेन विद्या­प्रा­प्त्यु­पा­य­वि­धा­ना­र्थ­मुक्ता विद्या निर­पे­क्षै­वे­त्य­व­धा­र­यति ।

अवधारणार्थत्वं प्रतिवचनस्य चोद्यमुखेन स्फोटयति –
पर­मा­त्म­वि­ष­या­मि­त्या­दिना ।
किं पूर्वो­क्तो­प­नि­ष­च्छे­ष­त­याऽ­न्य­द­पे­क्षते । शेषशब्देन फलोपकार्यङ्गं विवक्षितम् । सह­का­रि­श­ब्दे­ना­नु­प­स­र्ज­न­मपि समुच्चयार्हं विवक्षितम् ।

एवं शिष्या­भि­प्रा­य­मु­प­वर्ण्य समाधानमाह –
एतदुपपन्नमिति ।

विद्या­ङ्ग­त्व­हीनैः सह पाठा­त्त­पः­प्र­भृ­तीनां विद्याङ्गत्वं नास्तीत्युक्तम् । तत्र योग्यतावशेन शेषशेषिभावः सह­पा­ठ­स्त्व­कि­ञ्चि­त्कर इति शङ्कते –
सहपठितानामपीति ।
“अग्निरिदं हविरजुषतावीवृधत महो ज्यायोऽकृत । अग्नीषोमाविदं हवि­र­जु­षे­ता­म­वी­वृ­धेतां महो ज्यायोऽ­क्रा­ताम्”(श.ब्रा.) इत्यादिनैव सूक्तवाकेन सर्वयागसमाप्तौ देवतानुमन्त्रणं क्रियते । तत्र यद्य­प्य­स्मि­न्सू­क्त­वाके बह्व्यो देवताः पठ्यन्ते तथाऽपि यस्मिन्यागे या देवताऽऽहूता तस्या एव विसर्जने योग्यतावशादस्य सूक्तवाकस्य यथा विनियोगस्तथा तपःप्रभृतीनामेव विद्याशेषत्वेन विनियोगो भविष्यतीत्यर्थः ।

भवे­त्सू­क्त­वा­कस्य विनियोगो योग्यतासम्भवात् । न कर्मणां विद्या­वि­रु­द्ध­त्वेन अयो­ग्य­त्वा­दि­त्याह –
नायुक्तेरिति ।

विद्यया विषयपर्यालोचनया फलपर्यालोचनया च नास्ति तत्त्वतः सम्बन्धयोग्यता कर्मणां प्रत्युत अनु­प­यो­गा­त्क­र्मणां त्याग एव मुमुक्षुणा कर्तव्य इत्याह –
सर्वविषयेति ।
सर्वेभ्य उत्पाद्यादिभ्यः कर्मगोचरेभ्यो व्यावृत्तो यः प्रत्यगात्मा स एव ब्रह्मरूपेण विद्याया व्यावर्तको विष­य­स्त­न्नि­ष्ठ­त्वा­द्वि­द्या­या­स्त­त्फ­लस्य च कर्म­वै­ल­क्ष­ण्या­दि­त्यर्थः ॥ ३२ - ७ ॥

तच्छ­ब्दा­पे­क्षितं यच्छब्दं पूरयति –
यामिमामिति ।
प्राप्तिः सगुणविषया निर्गु­ण­ब्र­ह्मा­त्म­वि­षया चेत्यर्थः ।

पादरूपककल्पनेति ।
प्रसि­द्ध­पा­द­सा­मा­न्यस्य कल्पि­त्वा­दि­त­रै­र­प्यङ्गैः कल्प­ना­रू­पै­र्भ­वि­त­व्य­मि­त्यर्थः ।

तस्यै तपो दमः कर्मे­त्य­त्र­त्ये­ति­श­ब्द­स्यो­प­ल­क्ष­णा­र्थ­त्वा­त्स­त्य­मपि सङ्ग्रहीतव्यं कथं पृथगुच्यत इत्याशङ्क्याऽऽह –
तपआदिष्वेवेति ॥ ३३ - ८ ॥

सगुणविद्यायाः क्रम­मु­क्त्य­र्थ­त्वा­त्क्र­मेण प्राप्यं यत्कैवल्यं निर्गु­ण­वि­द्या­फलं तत्पू­र्वो­क्त­मि­हो­प­सं­ह्रि­यत इत्याह –
यो वा एतामित्यादिना ॥ ३४ – ९ ॥
इति चतुर्थखण्डः ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्य­श्री­म­दा­न­न्द­ज्ञा­न­कृतः श्रीम­च्छा­ङ्क­र­त­ल­व­का­रो­प­नि­ष­द­प­र­प­र्या­य­के­नो­प­नि­ष­त्प­द­भा­ष्य­टि­प्पणं सम्पूर्णम् ॥