आनन्दगिरिटीका (केन पदभाष्य)
चतुर्थः खण्डः
प्रतिनिर्देशार्थ इति ।
परामर्शार्थः । चक्षुषो निमेषणं द्रुतं भवतीति प्रसिद्धं तद्वद्ब्रह्मणि क्षिप्रकारित्वं सृष्ट्यादौ प्रतिबन्धाभावेनाऽऽयासाभावेन च द्रुतकारित्वं धर्मोऽधिदैवतम् । यद्ध्येयं ब्रह्म तद्यथा विद्युतः प्रकाशो युगपद्विश्वव्यापकस्तथा निरतिशयज्योतीरूपं द्रुतं सकलसृष्ट्यादिकारि पारमैश्वर्यसम्पन्नमित्युपमानोपदेेशेनोक्तम् ॥ २९ - ४ ॥
अधुना प्रत्यगात्मतया ब्रह्मणो यथाऽभिव्यक्तिः स्यात्तथोपदिश्यत इत्याह –
अथानन्तरमिति ।
एतत्प्रकृतं ज्योतीरूपं ब्रह्म प्रति मदीयं मनो गच्छद्वर्तत इति चिन्तयेदिति य उपदेशः स आध्यात्मिकोऽभीक्ष्णं पौनःपुन्येन मम मनसः सङ्कल्पो ब्रह्मविषय एवेति ध्यायतः प्रत्यग्भूतब्रह्माभिव्यक्तिः स्यादित्याह –
मनउपाधिकत्वाद्धीति ।
उक्तमर्थं सङ्क्षिप्याऽऽह –
विद्युन्निमेषणवदिति ।
सगुणब्रह्मोपासनमैश्वर्यफलकमुक्तम् ॥ ३० - ५ ॥ ३१ - ६ ॥
तत्र विरक्त उत्तमाधिकारी परमरहस्यं पृच्छतीत्याह –
एवमनुशिष्ट इति ।
परमरहस्यं श्रोत्रस्य श्रोत्रमित्यादिनोक्तमेवोत्तरार्थमित्युत्तरग्रन्थेन विद्याप्राप्त्युपायविधानार्थमुक्ता विद्या निरपेक्षैवेत्यवधारयति ।
अवधारणार्थत्वं प्रतिवचनस्य चोद्यमुखेन स्फोटयति –
परमात्मविषयामित्यादिना ।
किं पूर्वोक्तोपनिषच्छेषतयाऽन्यदपेक्षते । शेषशब्देन फलोपकार्यङ्गं विवक्षितम् । सहकारिशब्देनानुपसर्जनमपि समुच्चयार्हं विवक्षितम् ।
एवं शिष्याभिप्रायमुपवर्ण्य समाधानमाह –
एतदुपपन्नमिति ।
विद्याङ्गत्वहीनैः सह पाठात्तपःप्रभृतीनां विद्याङ्गत्वं नास्तीत्युक्तम् । तत्र योग्यतावशेन शेषशेषिभावः सहपाठस्त्वकिञ्चित्कर इति शङ्कते –
सहपठितानामपीति ।
“अग्निरिदं हविरजुषतावीवृधत महो ज्यायोऽकृत । अग्नीषोमाविदं हविरजुषेतामवीवृधेतां महो ज्यायोऽक्राताम्”(श.ब्रा.) इत्यादिनैव सूक्तवाकेन सर्वयागसमाप्तौ देवतानुमन्त्रणं क्रियते । तत्र यद्यप्यस्मिन्सूक्तवाके बह्व्यो देवताः पठ्यन्ते तथाऽपि यस्मिन्यागे या देवताऽऽहूता तस्या एव विसर्जने योग्यतावशादस्य सूक्तवाकस्य यथा विनियोगस्तथा तपःप्रभृतीनामेव विद्याशेषत्वेन विनियोगो भविष्यतीत्यर्थः ।
भवेत्सूक्तवाकस्य विनियोगो योग्यतासम्भवात् । न कर्मणां विद्याविरुद्धत्वेन अयोग्यत्वादित्याह –
नायुक्तेरिति ।
विद्यया विषयपर्यालोचनया फलपर्यालोचनया च नास्ति तत्त्वतः सम्बन्धयोग्यता कर्मणां प्रत्युत अनुपयोगात्कर्मणां त्याग एव मुमुक्षुणा कर्तव्य इत्याह –
सर्वविषयेति ।
सर्वेभ्य उत्पाद्यादिभ्यः कर्मगोचरेभ्यो व्यावृत्तो यः प्रत्यगात्मा स एव ब्रह्मरूपेण विद्याया व्यावर्तको विषयस्तन्निष्ठत्वाद्विद्यायास्तत्फलस्य च कर्मवैलक्षण्यादित्यर्थः ॥ ३२ - ७ ॥
तच्छब्दापेक्षितं यच्छब्दं पूरयति –
यामिमामिति ।
प्राप्तिः सगुणविषया निर्गुणब्रह्मात्मविषया चेत्यर्थः ।
पादरूपककल्पनेति ।
प्रसिद्धपादसामान्यस्य कल्पित्वादितरैरप्यङ्गैः कल्पनारूपैर्भवितव्यमित्यर्थः ।
तस्यै तपो दमः कर्मेत्यत्रत्येतिशब्दस्योपलक्षणार्थत्वात्सत्यमपि सङ्ग्रहीतव्यं कथं पृथगुच्यत इत्याशङ्क्याऽऽह –
तपआदिष्वेवेति ॥ ३३ - ८ ॥
सगुणविद्यायाः क्रममुक्त्यर्थत्वात्क्रमेण प्राप्यं यत्कैवल्यं निर्गुणविद्याफलं तत्पूर्वोक्तमिहोपसंह्रियत इत्याह –
यो वा एतामित्यादिना ॥ ३४ – ९ ॥
इति चतुर्थखण्डः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यश्रीमदानन्दज्ञानकृतः श्रीमच्छाङ्करतलवकारोपनिषदपरपर्यायकेनोपनिषत्पदभाष्यटिप्पणं सम्पूर्णम् ॥