अद्वैतशारदा

आनन्दगिरिटीका (केन वाक्यभाष्य)

प्रथमः खण्डः

प्रय­त्ना­द्य­न्त­रे­णैव मनआदेः प्रवर्तकम् ।
विदि­ता­वि­दि­ता­न्य­त्व­सिद्धं ब्रह्माहमद्वयम् ॥ १ ॥

केने­षि­त­मि­त्या­दिकां साम­वे­द­शा­खा­भे­द­ब्रा­ह्म­णो­प­नि­षदं पदशो व्याख्यायापि न तुतोष भगवान्भाष्यकारः शारी­र­कै­र्न्या­यै­र­नि­र्णी­ता­र्थ­त्वा­दिति न्याय­प्र­धा­न­श्रु­त्य­र्थ­स­ङ्ग्रा­ह­कै­र्वा­क्यै­र्व्या­चि­ख्यासुः पूर्वकाण्डेन सम्ब­न्ध­म­भि­धित्सुः पूर्वकाण्डार्थं सङ्क्षेपतो दर्शयति –
समाप्तमिति ।
कर्मणामात्मभूत आश्रयभूतः प्राणस्तस्य शुद्ध­त्वा­दि­गु­ण­वि­शि­ष्ट­स्यो­पा­सनं पूर्व­त्रा­ति­वृत्तं कर्म च नित्य­नै­मि­त्ति­का­द्य­ने­क­प्र­का­र­म­वि­दु­षा­म­ति­क्रा­न्त­मि­त्यर्थः ।

ताभ्यां ज्ञान­क­र्म­भ्या­मेव मोक्षसिद्धेर्न मुमुक्षोः पृथ­गु­प­नि­ष­दा­र­भ्ये­ति­श­ङ्का­नि­रा­साय ज्ञानकर्मणी विशिनष्टि –
ययोरिति ।
ज्ञानमनादृत्य कर्मण एव निर­पे­क्ष­सा­ध­न­त­याऽ­नु­ष्ठानं विक­ल्प­स्त­त­श्च­न्द्र­म­ण्डलं प्राप्याऽऽ­व­र्तते । केवलस्य ज्ञानस्य कर्मसमुच्चितस्य वाऽनु­ष्ठा­ना­द्ब्र­ह्म­लोकं प्राप्य स्थित एव तस्मा­न्नाऽऽ­व­र्तत इत्या­पे­क्षि­क्य­ना­वृ­त्ति­र्भ­वति न पुनरात्यन्तिकी । कृत­क­त्व­प­रि­च्छे­दा­भ्या­म­नि­त्य­त्वा­नु­मा­नात् । अतः संसारफलकमेव कर्म­का­ण्ड­मि­त्यर्थः ।

अस्त्वयं कर्म­का­ण्डा­र्थ­स्त­थाऽपि निय­त­पू­र्वो­त्त­र­भा­वा­नु­प­प­त्ति­लभ्यः कथं हेतुहेतुमद्भावः सम्बन्धः कर्मकाण्डेन ज्ञान­का­ण्ड­स्ये­त्या­का­ङ्क्षा­या­माह –
अत ऊर्ध्वमिति ।
कामिनाऽनुष्ठितं कर्म यद्यपि संसाराय भवति तदेव तु निष्का­मे­ना[णा]नु­ष्ठितं सत्त्वशुद्धये स्यात् । शुद्धसत्त्वस्य चाना­त्म­ज्ञा­ना­भि­मुख्यं न जायते । अना­त्मा­भि­नि­वे­श­स्या­न­र्थ­सा­ध­न­त­याऽ­व­धा­रि­त­त्वा­दा­त्म­वि­ष­यैव जिज्ञासा जायते । जिज्ञा­सो­श्चाऽऽ­त्म­नि­रू­प­णा­यो­प­नि­ष­दा­र­भ्यत इति हेतुहेतुमद्भाव इत्यर्थः ।

आत्म­स्व­रू­प­ब्र­ह्म­त­त्त्व­वि­ज्ञा­ना­या­य­म­ध्याय आरभ्यते चेत्किं तेन विज्ञानेन फलं स्यादित्यत आह –
तेन चेति ।
यतोऽ­न्व­य­व्य­ति­रे­का­भ्या­म­ज्ञा­न­तन्त्रा संसा­र­प्र­सि­द्धि­स्त­दु­च्छे­दे­नाऽऽ­त्य­न्ति­क­सं­सा­रो­च्छेदः फलमित्यर्थः ।

मृत्यु­का­र­ण­मा­त्मा­ज्ञा­न­मु­च्छे­त्तु­मि­च्छत आत्मजिज्ञासा जायत इत्युक्तं ; तदसत् । अहं­प्र­त्य­ये­नै­वाऽऽ­त्म­नोऽ­धि­ग­त­त्वा­द­धि­गते जिज्ञा­सा­नु­प­प­त्ते­रि­त्या­श­ङ्क्याऽऽह –
अनधिगतत्वादिति ।
अहंप्रत्ययस्य मनु­ष्य­त्वा­दि­स­मा­ना­धि­कृ­तस्य व्यति­रि­क्ता­त्म­प्र­मा­प­क­त्वा­सि­द्धे­र्वा­दिनां विप्र­ति­प­त्ति­द­र्श­नाच्च युक्ता जिज्ञासेत्यर्थः ।

तथाऽपि कर्मकाण्डे देह­व्य­ति­रि­क्त­स्याऽऽ­त्मनो विध्य­पे­क्षि­त­त्वेन निरू­पि­त­त्वा­त्पु­न­र्जि­ज्ञा­सा­नु­प­पत्तौ कथं जिज्ञा­सो­रु­प­नि­ष­दा­र­भ्यत इत्याशङ्क्याऽऽह –
कर्मविषय इति ।
अस्ति देहा­दि­व्य­ति­रिक्तः पर­लो­क­स­म्ब­न्ध्या­त्मे­त्ये­ता­व­देव स्वर्ग­का­मा­दि­चो­द­ना­भि­र­पे­क्षितं नतु ब्रह्मा­त्म­तत्त्वं तस्य कर्म­वि­रु­द्ध­त्वा­त्त­त­स्त­ज्जि­ज्ञासा युक्तेत्यर्थः ।

सङ्ग्रहवाक्यं विवृणोति –
अस्येत्यादिना ।
निर­ति­श­य­ब्र­ह्म­स्व­रूप आत्मोपनिषदि विजि­ज्ञा­प­यि­षि­तोऽस्तु ।

कथमेतावता कर्मणा विरोध इत्या­का­ङ्क्षा­या­माह –
न हीति ।
देवताराधनरूपो हि यागो ब्रह्मविच्च सर्व­दे­व­ता­त्म­भूतः पशुभावाच्च व्यावृत्तः कथं देवतां प्रणमेदित्यर्थः ।

ब्रह्मा­त्म­त­त्त्व­ज्ञानं कर्मविरुद्धं चेत्तर्हि श्रुत्या ब्रह्मा­त्म­त्वो­प­दे­शे­ना­र्था­त्कर्म तित्या­ज­यि­षि­त­मि­त्य­न­नु­ष्ठा­न­मेव प्रसज्येतातो जिज्ञा­सा­हे­तु­त्वे­ना­भि­मतः कर्मकाण्डेन सम्बन्धोऽसङ्गत इत्या­श­ङ्का­मु­द्भा­व्या­भि­हितं सम्बन्धं समर्थयति –
कर्मानारम्भ इत्यादिसूत्रेण ।

उत्प­त्ति­वि­धि­वि­हि­तानां कर्मणां संस्कारार्थत्वे प्रमाणमाह –
देवयाजी श्रेया­नि­त्या­दिना ।
फलकामनया देवान्यो यजते स किं श्रेया­नु­ताऽऽ­त्म­शु­द्ध्य­र्थ­मेव स्वर्गा­द्या­सङ्गं हित्वा यो यजते स आत्मयाजी श्रेयानिति प्रश्नं कृत्वाऽऽत्मयाजी श्रेयानिति निरूपितं शतपथे कामानुपघातसहितं मे ममाङ्गमनेन कर्मणा संस्क्रियत इति संस्का­रा­र्थ­त्वे­नैव करोति न कामवशग इत्यर्थः । ब्राह्मी ब्रह्म­ज्ञा­नार्हा ।
क्रियते तनुरिति ।
तनुस्थ आत्मा लक्ष्यते । ननु प्राणाद्युपासनं प्राणा­दि­भा­व­प्रा­प्त्य­र्थ­मेव, “तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति”(बृ. उ. १।५।२३) इति श्रुतेः ।

कथमुक्तं कर्म­नि­र्व­र्त­का­श्र­य­प्रा­णो­पा­स­न­स­हि­तानि कर्माणि संस्का­रा­र्था­नीति तत्राऽऽह –
प्राणा­दि­वि­ज्ञानं चेति ।
विविदिषावाक्येन यज्ञा­द्यु­प­ल­क्षि­तस्य सर्वस्य कर्मण आत्म­ज्ञा­ना­र्थ­त्वेन विनि­यु­क्त­त्वा­दु­पा­स­नस्य च मान­स­क­र्म­त्वा­दा­त्म­ज्ञा­न­प्र­ति­ब­न्ध­कस्य कल्मषस्य निबर्हणद्वारेण स्यादा­त्म­ज्ञा­ना­र्थ­त्व­मि­त्यर्थः ।

अज्ञाभिप्रायेण सप्र­यो­ज­न­त्वात्तं प्रत्य­ना­र­म्भ­प्र­सङ्ग आश्रयहीन इत्युक्तम् । ज्ञान्य­भि­प्रा­येण त्वनि­ष्टा­पा­द­न­स्ये­ष्टा­पा­द­न­रू­प­त्वा­त्प्र­स­ङ्ग­स्याऽऽ­भा­स­त्व­माह –
उत्प­न्ना­त्म­वि­द्यस्येति ।
न केवलं श्रुति­प्रा­मा­ण्या­देव विवेकिनः कर्मानारम्भः साध्यसिद्धौ साधनं नाऽऽद्रियत इति­लौ­कि­क­न्या­याच्च कर्मानारम्भः सिद्ध इत्यर्थः ।

ज्ञानफले कैव­ल्येऽ­नु­प­यो­गाच्च ज्ञानिनः कर्मानारम्भ इष्ट इत्याह –
नहि स्वभा­व­सि­द्ध­मि­त्या­दिना ।

उत्प­त्ति­रा­प्ति­र्वि­कृतिः संस्कृतिश्चेति चतुर्विधं क्रियाफलं स्वरूपावस्थाने कैवल्ये न सम्भ­व­ती­त्यु­क्तम् । यदि च पर­मा­न­न्द­गु­ण­स्याऽऽ­त्म­न्या­धानं ब्रह्मा­ण्डा­द्ब­हिः­स्थि­त­ब्र­ह्म­प्रा­प्तिर्वा जीवस्य कैवल्यं कल्प्यते तर्ह्यनित्यत्वं दुर्वारमित्याह –
नच वस्त्व­न्त­रा­धा­न­मिति ।

एवमुपनिषदारम्भं सम्भाव्य वाक्यस्यार्थं सङ्गृह्णाति –
प्रवृ­त्ति­लि­ङ्गा­दिति ।
शिष्याचार्ययोः प्रश्न­प्र­ति­व­च­न­रूपा श्रुतिः सुख­प्र­ति­प­त्त्यर्था प्रवृत्ता ।

तत्र प्रश्नः किं ज्ञातेऽज्ञाते वेति­चो­द्य­नि­रा­साय सामान्यतो ज्ञातेऽपि विशे­ष­त­श्चा­ज्ञाते सम्भवति विकल्पकरणवदिति सूत्रि­त­मे­त­द्वि­वृ­णोति –
रथादीनां हीति ।

मनआदीनामेव चेत­न­त्वा­द­चे­त­न­प्र­वृ­त्ति­त्वा­दि­त्य­सिद्धो हेतुरिति नाऽऽश­ङ्क­नी­य­मि­त्याह –
करणानि हीति ।
अन्यत्रमना अभूवं नाद­र्श­मि­त्या­दि­लो­का­नु­भ­वा­न्म­न­आ­दीनां करणत्वं सिद्धं ततः प्रदी­प­व­द­चे­त­नत्वं सिद्धमित्यर्थः । इच्छामात्रेणेति प्रयत्नाद्यभावो लक्ष्यते नत्वि­च्छा­स्तित्वं निर्विकारताया विवक्षितत्वात् । प्रेषि­त­मि­वे­ती­व­श­ब्दा­ध्या­हा­रेण किमिति व्याख्यातम् ।

यथा राज्ञ इच्छामात्रेण काचि­द्भृ­त्य­प्र­वृत्तिः काचिच्च वागादिव्यापारेण तद्वदिह किं न स्यादि­त्या­श­ङ्क्याऽऽह –
न त्विति ।
सक्रियस्य सर्व­स्या­नि­त्य­त­याऽ­व­धा­रि­त­त्वा­न्नि­ष्क्रियं वस्तु पिपृच्छिषितं ततो नार्थभेदः सम्भवतीत्यर्थः ।
विषयेभ्यः ।
विषयग्रहणार्थं ; नित्य­चि­कि­त्सा­या­म­धि­ष्ठा­तु­श्च­को­रस्य सन्निधिमात्रेण यथा राज­भो­ज­ना­दि­प्र­वृ­त्ति­नि­मि­त्तत्वं तद्वदित्यर्थः ।

प्रकरणादिति ।
कर­ण­स­न्नि­धा­ना­दि­त्यर्थः ॥ १ ॥

प्रति­व­च­न­वा­क्या­र्थ­स­ङ्ग्रहं विवृणोति –
विक्रि­या­दी­त्या­दिना ।
मनआदीनां यः प्रवर्तकः स किंविशेष इति प्रश्नस्य निर्विशेषतैव विशेष इत्युत्तरम् । क्रियाया गुणस्य सम्बन्धस्य वा विशेषस्य व्याव­र्त­क­ध­र्मस्य दर्श­यि­तु­म­श­क्य­त्वा­त्क्रि­या­दि­मत्त्वे घटा­दि­व­द­ना­त्म­त्व­प्र­स­ङ्गा­दतो निर्वि­शे­ष­चै­त­न्या­त्म­कोऽ­ह­मि­त्येवं ज्ञानं सम्यग्ज्ञानम् । न चाभावेन सद्व­य­त्व­प्र­सङ्गः । तस्य पृथ­क्स­त्त्वा­भा­वा­त्स्व­रू­पेण व्यव­हा­रा­ङ्ग­त्वा­दि­त्यु­क्त­म­न्यत्र ; यदि शौक्ल्या­दि­व­त्कोऽपि विशे­षोऽ­भ­वि­ष्य­त्तदा तमवक्ष्यत् ।

श्रुति­स्तू­प­ल­क्ष­ण­वृ­त्त्यैव प्रतिवचनं ब्रुवाणा निर्विशेषत्वं मन्यत इति श्रुत्य­क्ष­रा­नु­सा­रा­द्ग­म्यत इत्याह –
अनुगमादिति ।

निर्वि­शे­ष­त्व­वा­च­क­प­दा­भा­वा­त्कथं निर्वि­शे­षेऽ­क्ष­रा­नु­गम इत्याह –
कथमिति ।

निर्विशेषस्य वाचकशक्त्या वाक्या­र्थ­त्वा­भा­वेऽ­प्यु­प­ल­क्ष­ण­वृत्त्या भवि­ष्य­ती­त्य­भि­प्रेत्य श्रोत्रशब्दस्य ताव­न्मु­ख्या­र्थ­माह –
श्रृणोतीति ।

शब्दावभासकत्वं स्वशक्त्यैव भविष्यति श्रोत्रस्य कथं तस्य शब्दा­व­भा­स­क­त्वे­नाऽऽ­त्मो­प­ल­क्ष­यि­तव्य इत्या­का­ङ्क्षा­या­माह –
शब्दो­प­ल­ब्घृ­रू­प­त­येति ।
शक्तिः सतः प्रकाशमानस्यैव वाच्या नास­तोऽ­प्र­का­श­मा­नस्य नर­वि­षा­णा­य­मा­न­त्वेन शक्ति­म­त्त्वा­नु­प­पत्तेः । सत्ता प्रका­श­श्चाऽऽ­त्म­रूपं तद्भेदे मानाभावादत उप­ल­ब्धृ­ता­दा­त्म्ये­नैव श्रोत्र­स्या­व­भा­स­कत्वं न स्वातन्त्र्येण जडत्वात् । जडस्य च सत्ता­ही­न­त्वा­च्छु­क्ति­रू­प्य­स्ये­वे­त्यर्थः ।

श्रोत्र­स्या­व­भा­स­क­त्व­मु­प­ल­ब्धृ­ता­दा­त्म्ये­नेति यद्यु­प­ल­ब्धो­प­ल­क्ष्यते तर्ह्यु­प­ल­ब्धु­र­प्य­व­भा­स­क­त्व­म­न्या­धी­न­मि­त्य­न­वस्था प्राप्नो­ती­त्या­श­ङ्क्याऽऽह –
आत्मनश्चेति ।
स्वप्र­का­श­त्वा­दु­प­लब्धुः सत्ता­प्र­ती­त्यो­र­न­न्या­य­त्त­त्वा­न्ना­न­व­स्थे­त्यर्थः । भव­त्वे­व­म­न­व­स्था­भावः ।

तथाऽपि कथं श्रोत्रस्य श्रोत्र­मि­त्या­त्मो­च्यत इत्याशङ्क्याऽऽह –
यच्छ्रो­त्र­स्येति ।

तदा­त्म­नि­मि­त्त­त्वा­दिति ।
तस्याऽऽ­त्म­नि­मि­त्त­त्वा­च्छ्रो­त्रस्य श्रोत्र­मि­त्यु­प­ल­क्ष्यते निर्विशेषं चैत­न्य­मा­त्र­मि­त्यर्थः ।

यथा क्षत्रस्येति ।
क्षत्र­जा­ति­नि­या­मकं कर्म क्षत्र­मि­त्यु­च्यते यथेत्यर्थः ।

यदि श्रोत्रा­दि­सा­क्ष्या­त्माऽस्ति कथं लोकायतिकादेः श्रोत्रा­दि­ष्वे­वो­प­ल­ब्धृ­त्व­व्य­व­हार इत्याशङ्क्याऽऽह –
उदकमपीति ।
तद्व­दु­प­ल­ब्धृ­स­म्ब­न्धा­च्छ्रो­त्रा­दि­षू­प­ल­ब्धृ­त्व­व्य­व­हार इत्यर्थः । भवन्मते तर्हि नित्यो­प­ल­ब्धि­स्व­भाव आत्मेति श्रोत्रादेः करणत्वं न स्यात् ।

क्रियायां हि कर­णा­पे­क्षे­त्या­का­ङ्क्षा­या­माह –
अनित्यं यदिति ।
प्रमा­तु­र्य­त्स­म्ब­न्धा­द­नि­त्य­मु­प­ल­ब्धृत्वं भवति बुद्धि­प­रि­णा­मै­स्त­च्छ्रो­त्रादि करणं बुद्धि­वृ­त्त्य­पे­क्षया भवतीत्यर्थः ।

श्रोत्रा­दि­स­ङ्गते प्रमा­त­र्य­नि­त्यो­प­ल­ब्धृ­त्व­स­म्भ­वेऽपि तवासङ्गस्य साक्षिणः कथ­मु­प­ल­ब्धृ­त्व­व्य­प­देश इत्याशङ्क्याऽऽह –
यत्रत्विति ।

उक्तमर्थं सङ्क्षिप्याऽऽह –
श्रोत्रा­दि­ष्विति ।
श्रोत्रादिषु निमित्तेषु सत्सु श्रोत्रादिसंहते प्रसातरि श्रोतृ­त्वा­दि­रू­पो­प­ल­ब्धि­रि­त्यु­प­ल­ब्धृ­त्व­मि­त्यर्थः ।

मनसो मन इत्या­दि­ष्वे­व­म­ति­दि­शति –
मनआदिष्वेवमिति ।
न्याय­सा­मा­न्या­द्य­थोक्तं व्याख्यानं द्रष्टव्यम् । नहि मनसो मनस्त्वं वाचो वाक्त्वं वा स्वातन्त्र्येण सम्भवति अध्य­स्त­त्वा­द­तोऽ­धि­ष्ठा­न­स­त्ता­प्र­का­शा­भ्या­मेव सत्ताप्रकाशत्वं मनआदेः । तच्चाधिष्ठानं निर्वि­शे­ष­मे­वो­प­ल­क्ष­यि­त­व्यम् । सवि­शे­ष­त्वेऽ­ध्य­स्त­त्व­प्र­स­ङ्गा­दिति भावः ।

विभ­क्ति­द्व­य­नि­र्दे­श­ता­त्प­र्य­माह –
वाचो हेत्यादिना ।
मनआदेः प्रवर्तकः किंस्वभाव इति पृष्ट­त्वा­त्स्व­रू­प­नि­र्देशः कर्तव्यः । स च प्रथमया । “ निर्देशे प्रथमा प्रोक्ता” इति स्मरणादित्यर्थः ।

अतिमुच्य धीरा इत्युत्तरं वाक्यं साध्याहारं योजयति –
यदेतदित्यादिना ।
एत­द्बु­द्ध्वाऽ­मृता भवन्तीति सम्बन्धः । तादा­त्म्ये­ना­ध्या­रो­पितो यो बुद्ध्या­दि­र­न­व­बो­ध­नि­मित्तः संसारस्ततो मोक्षणं तादा­त्म्या­ध्या­स­नि­वृ­त्ति­र्दृष्टं फलम् । अमृता भवन्तीति विदे­ह­मु­क्ति­र­दृष्टं फलमित्यर्थः । कर्मणां सम्ब­न्धा­नु­प­प­त्ति­रिति शेषः ।

निमि­त्ता­भा­वा­च्छ­री­रा­न्त­रा­द्य­ना­र­म्भेऽ­मृता भवन्तीति प्रयो­गा­दा­ग­न्तु­क­त्व­म­मृ­त­त्व­स्ये­ति­श­ङ्का­नि­वृ­त्त्य­र्थ­माह –
शरीरादीति ।
अनादिभवपरम्परया शरीर्यासं परस्ताच्च भविष्यामीति शरी­रा­दि­स­न्ता­ना­वि­च्छे­दस्य प्रतिसन्धानं धर्मा­द्य­धि­का­रि­त्वा­ध्यासः कामादिदोषकल्पनं चैत­स्मा­द­ध्या­रो­पितो यो मृत्यु­स्त­द्वि­यो­गा­पे­क्ष­याऽ­मृ­त­त्वस्य भव­न­मौ­प­चा­रि­क­मि­त्यर्थः ॥ २ ॥

न तत्र चक्षु­र्ग­च्छ­ती­ति­वा­क्यार्थं सङ्गृह्णाति –
आचा­र्ये­णो­क्तेऽपि तत्त्वे शिष्य­स्या­प्र­ति­प­त्ते­र्हेतोः पर्यनुयोगे हेतुर्न तत्र चक्षुर्गच्छतीति ।

एतद्विवृणोति –
श्रोत्रस्य श्रोत्र­मि­त्या­दिना ।
आत्मा नेन्द्रि­य­वि­ष­योऽ­भौ­ति­क­त्वा­न्न­र­वि­षा­ण­वत् ।

मनश्चेन्द्रियं प्रसिद्धं तत­स्त­स्या­प्य­वि­षय इत्याह –
इन्द्रि­या­वि­ष­य­त्वा­दिति ।
न विद्माो न विजानीम इत्याद्यभ्यासः सर्व­थाऽ­न्तः­क­र­णा­वि­ष­य­त्व­ख्या­प­नार्थः ।

आक्षेपपरतया व्याख्याय शङ्कोत्तरत्वेन व्याचष्टे –
अथवेत्यादिना ।
इत उप­ल­क्ष­ण­प्र­का­रा­द­न्येन प्रकारेण न शक्यते दर्शयितुं क्रिया­गु­णा­दि­वि­शे­ष­शू­न्य­त्वा­दि­त्यर्थः । आग­म­मि­त्यु­प­दे­श­पा­र­म्प­र्य­मा­हेति सम्बन्धः ॥ ३ ॥

आगमस्यार्थमाह –
विदि­ता­वि­दि­ता­भ्या­म­न्यत्वमिति ।
अन्यदात्मनो विदितमविदितं वा स्यादतो विदि­त­त्वा­वि­दि­त­त्व­नि­षे­धे­नाऽऽ­त्म­नोऽ­न्यत्र ब्रह्मत्वं विदुषां विनि­व­र्त्याऽऽत्मा ब्रह्मे­त्यु­प­दिष्टं भवतीत्यर्थः ।

विदितान्यत्वे युक्तिमाह –
यो हीत्यादिना ।

विदि­ता­न्य­त्व­व­च­न­स्याऽऽ­र्थि­क­म­र्थ­माह –
अपि चेति ।
कार्या­द्व्या­वृत्तिः सिद्ध्य­ती­त्यर्थः ।

आत्मा यद्यप्यन्यतो विज्ञानं नापेक्षते तथाऽपि स्वग्रा­ह­क­त्वा­त्स्व­स्मा­देव विज्ञानमपेक्षते तेन विज्ञा­ना­न­पे­क्ष­त्व­म­सि­द्ध­मि­त्या­श­ङ्क्याऽऽह –
न च स्वत एवेति ।
स्वभा­व­त­याऽ­न­पे­क्ष­मेव सिद्ध­त्वा­द­पे­क्षा­श­ब्दार्थो न घटते स्वग्राहकत्वं चासिद्धं स्ववृ­त्ति­वि­रो­धा­दि­त्यर्थः ।

विज्ञानं सजातीयानपेक्षं प्रका­श­त्वा­त्प्र­दी­प­व­दि­त्य­नु­मा­न­म­भि­प्रेत्य दृष्टान्तमाह –
नहीति ।
तमोध्वस्तये ह्यालोकापेक्षा तदभावश्चाऽऽलोके स्वत एव सिद्ध इत्यर्थः ।

प्रदीपस्य तैजसस्य तैज­सा­न्त­रा­न­पे­क्ष­त्वेऽपि विजा­ती­य­प्र­का­शस्य ज्ञानस्यापेक्षा स्वव्यवहारेऽपि दृष्टा तथा ब्रह्मणोऽपि विजा­ती­य­ज्ञा­ना­पेक्षा भविष्यतीति न च वाच्यमित्याह –
न चैवमात्मन इति ।
ब्रह्मणोऽन्यस्य सर्व­स्या­ज्ञा­ना­त्म­क­त्वा­द्भा­न­स­म्भा­व­नैव नास्त्यन्यत्र ततो न विजा­ती­य­ज्ञा­ना­पे­क्ष­मपि ब्रह्मेत्यर्थः ।

ज्ञाना­न­पे­क्षत्वे लौकि­का­नु­भ­व­वि­रोधं शास्त्रविरोधं चोद्भाव्य परिहरति –
विरोध इति चेन्ना­न्य­त्वा­दिति ।

सूत्रस्य पूर्वपक्षभागं विभजते –
स्वरूपविज्ञान इत्यादिना ।
विज्ञा­ना­न­पे­क्षत्वं ब्रह्मणोऽभाणि ।

सापेक्षत्वं जीव­श­ब्द­वा­च्य­स्यो­पा­धि­वि­शि­ष्ट­स्या­नु­भू­य­तेऽतो भिन्न­वि­ष­य­त्वान्न विरोध इत्याह –
न कस्मादित्यादिना ।
बुद्ध्यादौ कार्यकरणसङ्घाते य आत्मा­भि­मा­न­स­न्ता­नोऽ­ना­दि­भ­व­प­र­म्प­रा­प्रा­पि­त­स्त­स्या­वि­च्छे­द­रू­प­म­नि­र्वा­च्य­म­ज्ञा­न­ल­क्षणं चिह्नं यस्य चित्प्र­ति­बि­म्बस्य स तथोक्तः । चित्तन्त्रं ह्यनि­र्वा­च्य­म­ज्ञानं चैतन्यमवच्छिद्य स्वावच्छिन्ने यथास्वरूपावभासं प्रतिबध्य मौढ्या­द्य­ध्या­स­हे­तु­र्भ­वति । तस्मा­द­वि­वे­का­त्मको जीव इत्युच्यते बुद्धे­र­न्तः­क­र­णस्य यथा यथा नील­पी­ता­द्या­का­रा­व­भासा जायन्ते तथा तथा चित्प्रतिबिम्बः प्रमा­तृ­त्वा­दि­रू­पेण भातीति तत्प्र­धा­नोऽ­ध्य­स्तस्य विशिष्टस्य तत्सत्तयैव सत्त्वा­द्वि­शि­ष्टा­न्त­र्नि­विष्टो य आत्मा नित्य­चि­त्स्व­रूपः स एव सारो यस्मिन्स तथोक्तः । बुद्धि­प­रि­णा­म­रू­पाणां नील­पी­ता­दि­प्र­त्य­या­ना­मु­त्प­न्न­वि­ना­श­व­त्त्वा­त्त­दु­प­र­क्त­रू­पे­णा­नित्यं चैतन्यं यत्रावभासते सोऽन्यो जीवः । सर्वाण्येतानि जीव­वि­शे­ष­णा­न्य­न्य­त्व­स्फु­टी­क­र­णा­र्थानि । न केवलमनित्यत्वम् विशि­ष्टो­पा­धि­रू­ढ­तया विज्ञानस्य तद्ध­र्म­तै­वा­व­भा­सते मनुष्योऽहं जानामीति प्रतिशरीरं विलक्षणमपि चैतन्यमवभासते विशि­ष्ट­भे­दा­दि­त्यर्थः ।

परमार्थतः कीदृशं चैतन्यं यस्य विशि­ष्ट­ध­र्म­ताऽ­व­भा­सते तत्राऽऽह –
अन्तःकरणस्येति ।

ननु विशे­ष­ण­स­म्ब­न्धा­त्स्व­रूपे समारोपितो विशिष्टो भाति तस्य मिथ्या­त्वा­त्क­थ­मा­त्म­त्व­व्य­व­हा­रा­स्प­दत्वं तत्राऽऽह –
अन्तर्गतेनेति ।
विशि­ष्टा­न्त­र्ग­तेन चित्स्वरूपेण तादा­त्म्या­द्बाह्य इत्यनात्माऽपि बुद्धिविशिष्ट आत्मेत्युपगतो लौकिकैरिति सम्बन्धः ।

अत इति ।
उक्त­ध­र्म­व­त्त्वा­दि­त्यर्थः । अस्तु नित्य­वि­ज्ञा­ना­द्वि­ल­क्षणो जीवः ।

कथमेतावता विरोधः परिहृत इत्या­का­ङ्क्षा­या­माह –
तत्र हीति ।

एवं लोकानुभवविरोधे परिहृतेऽपि शास्त्रविरोधो न परिहृत इत्याह –
तत्त्वमसीति ।

विशिष्टस्य मिथ्या­त्वा­द्ब्र­ह्मा­स्मी­त्य­नु­भ­वा­यो­गा­न्मो­क्षा­र्ह­त्वा­यो­गाच्च तत्त्व­म­सी­त्यु­प­देशो न घटते चेत्तर्हि ब्रह्मण एवो­प­दे­शोऽ­स्त्वि­त्या­श­ङ्क्याऽऽह –
आत्मा­न­मे­वा­वे­दिति ।
एवमादीनि वाक्यानि ब्रह्यो­प­दे­श­पक्षे न सङ्गच्छन्ते तज्ज­नि­त­फ­ला­भा­वा­दि­त्यर्थः ।

विशिष्टस्य निरुपाधिकस्य च ब्रह्मण उप­दे­शा­स­म्भ­वेऽ­प्यु­पा­धि­वि­शि­ष्ट­चि­त्स्व­रू­प­जी­व­प­द­ल­क्ष्यस्य वैशि­ष्ट्य­द्वा­रे­णो­प­देशो भविष्यति फलं तस्याऽऽ­रो­पि­त­ब­न्ध­नि­वृ­त्ति­रि­त्याह –
न लोकेति ।
ननु लोक­श­ब्दे­नाऽऽ­त्मो­च्य­तेऽ­नात्मा वा । नाऽऽद्यः । आत्म­नोऽ­धि­ष्ठा­न­त­याऽ­ध्या­स­क­र्तृ­त्वा­स­म्भ­वा­च्चैत्रो हि शुक्तिकायां रजतमध्यस्यति न शुक्तिकैव । अध्यासकर्तृत्वे चाऽऽत्मनः प्रागे­वा­ध्या­सा­त्क­र्तृत्वं वाच्यम् । कर्तृत्वस्य प्राग्भा­व­नि­य­मा­त्तथा चानि­र्मो­क्ष­प्र­सङ्गः । कर्तृ­त्व­स्या­ध्या­सत्वे च न कर्तृ­त्व­मा­त्म­न­स्त­द्वि­ष­य­क­र्तृ­त्वा­न्त­रा­भा­वत् । भावे चानवस्थानात् । न द्वितीयः । जड­त्वा­द­ना­त्म­नोऽ­ध्या­स­क­र्तृ­त्वा­नु­प­पत्तेः । चेतनो हि देव­द­त्तोऽ­ध्य­स्य­तीति प्रसिद्धम् । अथ जड­स्या­ध्या­स­क­र्तृत्वं नाम भ्रान्त्या­श्र­यत्वं यद्यपि न सम्भवति तथाऽपि भ्रान्ति­नि­मि­त्तत्वं दृष्टं जपाकुसुमादेः । न, तस्य सत्य­स्यो­पा­धि­त्व­स­म्भ­वा­द्भा­ष्य­का­र­मते च जडस्य सर्व­स्या­ध्या­सा­त्म­क­त्वा­द­ध्या­स­हे­तुत्वं न सम्भवति तस्मा­द­स­म्ब­द्ध­मिदं भाष्यं लोका­ध्या­रो­पा­पो­हा­र्थ­त्वा­दिति । न । लोक­श­ब्दे­ना­ह­ङ्का­रा­दय उच्यन्ते । तेषां व्याव­हा­रि­क­स­त्य­त्व­स्या­र्थ­क्रि­या­स­म­र्थ­त्वे­ना­भ्यु­प­ग­मात् । स्वध­र्मा­रो­प­नि­मि­त्त­त्वे­नो­पा­धि­त्व­स­म्भ­वा­त्प­र­मा­र्थ­स­त्य­स्यै­वो­पा­धि­त्व­मि­त्य­स्मा­न्प्रति दृष्टा­न्ता­भा­वा­द­ह­ङ्का­रा­द­यश्च चित्त­न्त्रा­ना­द्य­नि­र्वा­च्या­वि­द्या­म­य­भू­त­सू­क्ष्म­वि­कारा अविद्यावच्छिन्न एव चैतन्ये निपतन्ति । उपा­धि­वि­का­रा­णा­मु­प­हिते पक्षपातिताया दर्शनात् । यथा जलचलनादीनाम् । तस्मान्नासङ्गतं भाष्यम् । ननु बोधात्मनो नाबोधः समञ्जसः प्रका­शा­प्र­का­श­यो­र्वि­रो­ध­प्र­सिद्धेः । बोधोऽपि च बोधात्मनो न समञ्जसः । निर्विकारत्वात् ।

कथं बोधात्मनो बोधोपदेशः सार्थकस्तत्राह –
तत्र चेति ।
बोधा­द­न्य­स्या­बो­धा­त्म­क­त्वे­ना­बो­धा­श्र­यत्वं न समञ्जसम् । आत्मा­श्र­य­त्व­प्र­स­ङ्गा­द­नि­वृ­त्ति­प्र­स­ङ्गाच्च तस्य बोधासम्भवात् । तस्माद्बोधात्मन एवाबोधः समञ्जसः । परि­शे­षा­द्वि­रो­ध­श्च्या­सिद्धः साक्षि­वे­द्या­त्वात् । बोधोऽपि तत्रैव समञ्जसो घटा­दे­र्बो­द्धृ­त्वा­प्र­सिद्धेः । चिद्व्याप्त एव बुद्धिपरिणामे बोध­श­ब्द­व्यु­त्पत्तेः परि­णा­म्य­न्तः­क­र­णो­प­हि­तस्य बोधात्मनो बोधवत्त्वं समञ्जसमित्यर्थः ।

सामञ्जस्ये हेत्वन्तरमाह –
अन्य­नि­मि­त्त­त्वा­दिति ।
अन्य­त्रा­ह­ङ्का­रा­दि­स­ङ्घाते वादिनां लौकिकानां च बोधाबोधौ प्रसिद्धौ तौ चाऽऽत्म­बो­धा­बो­ध­स­म्ब­न्धा­दि­त्या­त्मनो मृख्यौ बोधाबोधौ । यत्स­म्ब­न्धा­द­न्यत्र यदुपचर्यते तत्तत्र मुख्यं यथाऽ­ग्नि­स­म्ब­न्धा­दु­द­क­स्यौ­ष्ण्य­मु­प­चा­रे­णाग्नौ तन्मु­ख्य­मि­त्यर्थः ।

आत्मनिमित्तौ चेदन्यत्र बोधाबोधौ तर्हि निमि­त्त­त्वा­दा­त्मनो व्यापा­र­व­त्त्व­प्र­स­ङ्ग­स्त­त्राऽऽह –
रात्र्यहनी इवेति ।
यथाऽऽ­दि­त्य­स­न्नि­ध्य­स­न्नि­धि­मा­त्र­नि­मित्ते लोके रात्र्यहनी भवतः । नह्यादित्यः कञ्चन स्वाप­य­त्यु­त्था­प­यति वा । अतो निमित्तत्वं न व्यापा­र­व­त्त्वा­वि­ना­भू­त­मि­त्यर्थः ।

नन्वात्मनि बोधस्य नित्यत्वे कथं काला­व­च्छे­द­व्य­व­हारः प्रागज्ञासिषं शास्त्रा­र्थ­मि­दानीं च जानामि पुन­र्ज्ञा­स्या­मीति तत्राऽऽह दृष्टान्तम् –
नित्या­वौ­ष्ण्य­प्र­का­शा­विति ।
तद्वद्विषयस्य काला­व­च्छि­न्न­त्वेन काला­व­च्छे­द­व्य­व­हारः स्वरूपेण नित्येऽपि बोधे न विरुध्यत इत्यर्थः ।

आत्मनि बोधाबोधयोः सामञ्जस्ये किं सिद्धमित्यत आह –
एवं चेति ।

आग­न्तु­क­वि­ष­य­स­म्ब­न्धा­त्त­दु­प­र­क्त­रू­पेण बोध­स्याऽऽ­ग­न्तु­क­त्वेऽ­पी­दानीं मया स्वात्मा बुध्यत इति नित्यबोधात्मनि कथं बोध­क­र्तृ­त्व­व्य­प­देश इत्या­श­ङ्क्याऽऽ­व­र­का­प­न­य­स्याऽऽ­ग­न्तु­क­त्वेन भविष्यतीत्याह –
यथा सविताऽसाविति ।
यस्मा­द­न्यो­पा­धि­क­मा­त्मनि बोधकर्तृत्वम् । स्वतः पुन­र्वि­ज्ञा­ना­न­पे­क्ष­त्व­मेव । तस्मा­द्वि­ज्ञा­ना­न­पे­क्ष­त्वा­द­वि­दि­ता­द­न्यत्वं सिद्धम् ।

कथ­म­न्य­त्व­वि­व­क्षा­या­म­धि­शब्दः सङ्गच्छते तत्राऽऽह –
अधिशब्दश्चेति ।
निपा­ता­ना­म­ने­का­र्थ­त्वा­ल्ल­क्ष­णया चेत्यर्थः ।

अवि­दि­ता­द­न्य­त्व­स्याऽऽ­र्थि­क­म­र्थ­माह –
अव्यक्तमेवेति ।

विदितं न भवत्यविदितं च न भव­ती­त्ये­कै­क­नि­षे­धस्य तात्प­र्य­मुक्त्वा समुदायार्थमाह –
विदितमविदितं चेति ।

व्याचचक्षिर इत्य­स्वा­तन्त्र्यं तर्क­प्र­ति­षे­धा­र्थ­मि­त्ये­त­त्सूत्रं विवृणोति –
ये नस्तदिति ॥ ४ ॥

यद्वाचेति मन्त्रानुवादो दृढप्रतीतेरिति । सूत्र­मे­त­द्वि­भ­जते –
अन्य­दे­वे­त्या­दिना ।
येन वागभ्युद्यत इत्यनेन वाक्प्रकाशे हेतु­त्वो­क्ति­र्ब्र­ह्मणः क्रियत इति योजना ।

एतत्सूत्रं विवृणोति –
येनेत्यादिना ।
तदेव ब्रह्म त्वं विद्धी­त्या­द्या­म्नाय आत्मन्येव बुद्धे­र­व­स्था­प­नार्थ उपसंहारार्थः । अविषयत्वेन ब्रह्म­णोऽ­ति­रि­क्त­स्व­रू­पेण वेद्य­त्वा­स­म्भ­वा­दिति योजना ।

एतत्सूत्रं विभजते –
यद्वाचेत्यादिना ॥ ५ ॥

मन्त्र­स­मु­दा­य­स्या­र्थ­माह –
सर्व­क­र­णा­ना­मि­त्या­दिना ।
यत्स­र्व­क­र­णा­ना­म­वि­षयं येन निर्विशेषेण सर्वाणि करणानि भास्यन्ते तद्ब्रह्मैव त्वं ततोऽ­ति­रि­क्त­ज्ञा­नाय यत्नो न कर्तव्य इति यत्नोपरम एव लक्ष्यते । विद्धी­त्य­ने­ना­ति­रिक्तं मा विद्धी­त्य­भि­प्रायः ॥ ६ – ७ – ८ – ९ ॥
इति प्रथमः खण्डः ॥