आनन्दगिरिटीका (केन वाक्यभाष्य)
प्रथमः खण्डः
प्रयत्नाद्यन्तरेणैव मनआदेः प्रवर्तकम् ।
विदिताविदितान्यत्वसिद्धं ब्रह्माहमद्वयम् ॥ १ ॥
केनेषितमित्यादिकां सामवेदशाखाभेदब्राह्मणोपनिषदं पदशो व्याख्यायापि न तुतोष भगवान्भाष्यकारः शारीरकैर्न्यायैरनिर्णीतार्थत्वादिति न्यायप्रधानश्रुत्यर्थसङ्ग्राहकैर्वाक्यैर्व्याचिख्यासुः पूर्वकाण्डेन सम्बन्धमभिधित्सुः पूर्वकाण्डार्थं सङ्क्षेपतो दर्शयति –
समाप्तमिति ।
कर्मणामात्मभूत आश्रयभूतः प्राणस्तस्य शुद्धत्वादिगुणविशिष्टस्योपासनं पूर्वत्रातिवृत्तं कर्म च नित्यनैमित्तिकाद्यनेकप्रकारमविदुषामतिक्रान्तमित्यर्थः ।
ताभ्यां ज्ञानकर्मभ्यामेव मोक्षसिद्धेर्न मुमुक्षोः पृथगुपनिषदारभ्येतिशङ्कानिरासाय ज्ञानकर्मणी विशिनष्टि –
ययोरिति ।
ज्ञानमनादृत्य कर्मण एव निरपेक्षसाधनतयाऽनुष्ठानं विकल्पस्ततश्चन्द्रमण्डलं प्राप्याऽऽवर्तते । केवलस्य ज्ञानस्य कर्मसमुच्चितस्य वाऽनुष्ठानाद्ब्रह्मलोकं प्राप्य स्थित एव तस्मान्नाऽऽवर्तत इत्यापेक्षिक्यनावृत्तिर्भवति न पुनरात्यन्तिकी । कृतकत्वपरिच्छेदाभ्यामनित्यत्वानुमानात् । अतः संसारफलकमेव कर्मकाण्डमित्यर्थः ।
अस्त्वयं कर्मकाण्डार्थस्तथाऽपि नियतपूर्वोत्तरभावानुपपत्तिलभ्यः कथं हेतुहेतुमद्भावः सम्बन्धः कर्मकाण्डेन ज्ञानकाण्डस्येत्याकाङ्क्षायामाह –
अत ऊर्ध्वमिति ।
कामिनाऽनुष्ठितं कर्म यद्यपि संसाराय भवति तदेव तु निष्कामेना[णा]नुष्ठितं सत्त्वशुद्धये स्यात् । शुद्धसत्त्वस्य चानात्मज्ञानाभिमुख्यं न जायते । अनात्माभिनिवेशस्यानर्थसाधनतयाऽवधारितत्वादात्मविषयैव जिज्ञासा जायते । जिज्ञासोश्चाऽऽत्मनिरूपणायोपनिषदारभ्यत इति हेतुहेतुमद्भाव इत्यर्थः ।
आत्मस्वरूपब्रह्मतत्त्वविज्ञानायायमध्याय आरभ्यते चेत्किं तेन विज्ञानेन फलं स्यादित्यत आह –
तेन चेति ।
यतोऽन्वयव्यतिरेकाभ्यामज्ञानतन्त्रा संसारप्रसिद्धिस्तदुच्छेदेनाऽऽत्यन्तिकसंसारोच्छेदः फलमित्यर्थः ।
मृत्युकारणमात्माज्ञानमुच्छेत्तुमिच्छत आत्मजिज्ञासा जायत इत्युक्तं ; तदसत् । अहंप्रत्ययेनैवाऽऽत्मनोऽधिगतत्वादधिगते जिज्ञासानुपपत्तेरित्याशङ्क्याऽऽह –
अनधिगतत्वादिति ।
अहंप्रत्ययस्य मनुष्यत्वादिसमानाधिकृतस्य व्यतिरिक्तात्मप्रमापकत्वासिद्धेर्वादिनां विप्रतिपत्तिदर्शनाच्च युक्ता जिज्ञासेत्यर्थः ।
तथाऽपि कर्मकाण्डे देहव्यतिरिक्तस्याऽऽत्मनो विध्यपेक्षितत्वेन निरूपितत्वात्पुनर्जिज्ञासानुपपत्तौ कथं जिज्ञासोरुपनिषदारभ्यत इत्याशङ्क्याऽऽह –
कर्मविषय इति ।
अस्ति देहादिव्यतिरिक्तः परलोकसम्बन्ध्यात्मेत्येतावदेव स्वर्गकामादिचोदनाभिरपेक्षितं नतु ब्रह्मात्मतत्त्वं तस्य कर्मविरुद्धत्वात्ततस्तज्जिज्ञासा युक्तेत्यर्थः ।
सङ्ग्रहवाक्यं विवृणोति –
अस्येत्यादिना ।
निरतिशयब्रह्मस्वरूप आत्मोपनिषदि विजिज्ञापयिषितोऽस्तु ।
कथमेतावता कर्मणा विरोध इत्याकाङ्क्षायामाह –
न हीति ।
देवताराधनरूपो हि यागो ब्रह्मविच्च सर्वदेवतात्मभूतः पशुभावाच्च व्यावृत्तः कथं देवतां प्रणमेदित्यर्थः ।
ब्रह्मात्मतत्त्वज्ञानं कर्मविरुद्धं चेत्तर्हि श्रुत्या ब्रह्मात्मत्वोपदेशेनार्थात्कर्म तित्याजयिषितमित्यननुष्ठानमेव प्रसज्येतातो जिज्ञासाहेतुत्वेनाभिमतः कर्मकाण्डेन सम्बन्धोऽसङ्गत इत्याशङ्कामुद्भाव्याभिहितं सम्बन्धं समर्थयति –
कर्मानारम्भ इत्यादिसूत्रेण ।
उत्पत्तिविधिविहितानां कर्मणां संस्कारार्थत्वे प्रमाणमाह –
देवयाजी श्रेयानित्यादिना ।
फलकामनया देवान्यो यजते स किं श्रेयानुताऽऽत्मशुद्ध्यर्थमेव स्वर्गाद्यासङ्गं हित्वा यो यजते स आत्मयाजी श्रेयानिति प्रश्नं कृत्वाऽऽत्मयाजी श्रेयानिति निरूपितं शतपथे कामानुपघातसहितं मे ममाङ्गमनेन कर्मणा संस्क्रियत इति संस्कारार्थत्वेनैव करोति न कामवशग इत्यर्थः । ब्राह्मी ब्रह्मज्ञानार्हा ।
क्रियते तनुरिति ।
तनुस्थ आत्मा लक्ष्यते । ननु प्राणाद्युपासनं प्राणादिभावप्राप्त्यर्थमेव, “तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति”(बृ. उ. १।५।२३) इति श्रुतेः ।
कथमुक्तं कर्मनिर्वर्तकाश्रयप्राणोपासनसहितानि कर्माणि संस्कारार्थानीति तत्राऽऽह –
प्राणादिविज्ञानं चेति ।
विविदिषावाक्येन यज्ञाद्युपलक्षितस्य सर्वस्य कर्मण आत्मज्ञानार्थत्वेन विनियुक्तत्वादुपासनस्य च मानसकर्मत्वादात्मज्ञानप्रतिबन्धकस्य कल्मषस्य निबर्हणद्वारेण स्यादात्मज्ञानार्थत्वमित्यर्थः ।
अज्ञाभिप्रायेण सप्रयोजनत्वात्तं प्रत्यनारम्भप्रसङ्ग आश्रयहीन इत्युक्तम् । ज्ञान्यभिप्रायेण त्वनिष्टापादनस्येष्टापादनरूपत्वात्प्रसङ्गस्याऽऽभासत्वमाह –
उत्पन्नात्मविद्यस्येति ।
न केवलं श्रुतिप्रामाण्यादेव विवेकिनः कर्मानारम्भः साध्यसिद्धौ साधनं नाऽऽद्रियत इतिलौकिकन्यायाच्च कर्मानारम्भः सिद्ध इत्यर्थः ।
ज्ञानफले कैवल्येऽनुपयोगाच्च ज्ञानिनः कर्मानारम्भ इष्ट इत्याह –
नहि स्वभावसिद्धमित्यादिना ।
उत्पत्तिराप्तिर्विकृतिः संस्कृतिश्चेति चतुर्विधं क्रियाफलं स्वरूपावस्थाने कैवल्ये न सम्भवतीत्युक्तम् । यदि च परमानन्दगुणस्याऽऽत्मन्याधानं ब्रह्माण्डाद्बहिःस्थितब्रह्मप्राप्तिर्वा जीवस्य कैवल्यं कल्प्यते तर्ह्यनित्यत्वं दुर्वारमित्याह –
नच वस्त्वन्तराधानमिति ।
एवमुपनिषदारम्भं सम्भाव्य वाक्यस्यार्थं सङ्गृह्णाति –
प्रवृत्तिलिङ्गादिति ।
शिष्याचार्ययोः प्रश्नप्रतिवचनरूपा श्रुतिः सुखप्रतिपत्त्यर्था प्रवृत्ता ।
तत्र प्रश्नः किं ज्ञातेऽज्ञाते वेतिचोद्यनिरासाय सामान्यतो ज्ञातेऽपि विशेषतश्चाज्ञाते सम्भवति विकल्पकरणवदिति सूत्रितमेतद्विवृणोति –
रथादीनां हीति ।
मनआदीनामेव चेतनत्वादचेतनप्रवृत्तित्वादित्यसिद्धो हेतुरिति नाऽऽशङ्कनीयमित्याह –
करणानि हीति ।
अन्यत्रमना अभूवं नादर्शमित्यादिलोकानुभवान्मनआदीनां करणत्वं सिद्धं ततः प्रदीपवदचेतनत्वं सिद्धमित्यर्थः । इच्छामात्रेणेति प्रयत्नाद्यभावो लक्ष्यते नत्विच्छास्तित्वं निर्विकारताया विवक्षितत्वात् । प्रेषितमिवेतीवशब्दाध्याहारेण किमिति व्याख्यातम् ।
यथा राज्ञ इच्छामात्रेण काचिद्भृत्यप्रवृत्तिः काचिच्च वागादिव्यापारेण तद्वदिह किं न स्यादित्याशङ्क्याऽऽह –
न त्विति ।
सक्रियस्य सर्वस्यानित्यतयाऽवधारितत्वान्निष्क्रियं वस्तु पिपृच्छिषितं ततो नार्थभेदः सम्भवतीत्यर्थः ।
विषयेभ्यः ।
विषयग्रहणार्थं ; नित्यचिकित्सायामधिष्ठातुश्चकोरस्य सन्निधिमात्रेण यथा राजभोजनादिप्रवृत्तिनिमित्तत्वं तद्वदित्यर्थः ।
प्रकरणादिति ।
करणसन्निधानादित्यर्थः ॥ १ ॥
प्रतिवचनवाक्यार्थसङ्ग्रहं विवृणोति –
विक्रियादीत्यादिना ।
मनआदीनां यः प्रवर्तकः स किंविशेष इति प्रश्नस्य निर्विशेषतैव विशेष इत्युत्तरम् । क्रियाया गुणस्य सम्बन्धस्य वा विशेषस्य व्यावर्तकधर्मस्य दर्शयितुमशक्यत्वात्क्रियादिमत्त्वे घटादिवदनात्मत्वप्रसङ्गादतो निर्विशेषचैतन्यात्मकोऽहमित्येवं ज्ञानं सम्यग्ज्ञानम् । न चाभावेन सद्वयत्वप्रसङ्गः । तस्य पृथक्सत्त्वाभावात्स्वरूपेण व्यवहाराङ्गत्वादित्युक्तमन्यत्र ; यदि शौक्ल्यादिवत्कोऽपि विशेषोऽभविष्यत्तदा तमवक्ष्यत् ।
श्रुतिस्तूपलक्षणवृत्त्यैव प्रतिवचनं ब्रुवाणा निर्विशेषत्वं मन्यत इति श्रुत्यक्षरानुसाराद्गम्यत इत्याह –
अनुगमादिति ।
निर्विशेषत्ववाचकपदाभावात्कथं निर्विशेषेऽक्षरानुगम इत्याह –
कथमिति ।
निर्विशेषस्य वाचकशक्त्या वाक्यार्थत्वाभावेऽप्युपलक्षणवृत्त्या भविष्यतीत्यभिप्रेत्य श्रोत्रशब्दस्य तावन्मुख्यार्थमाह –
श्रृणोतीति ।
शब्दावभासकत्वं स्वशक्त्यैव भविष्यति श्रोत्रस्य कथं तस्य शब्दावभासकत्वेनाऽऽत्मोपलक्षयितव्य इत्याकाङ्क्षायामाह –
शब्दोपलब्घृरूपतयेति ।
शक्तिः सतः प्रकाशमानस्यैव वाच्या नासतोऽप्रकाशमानस्य नरविषाणायमानत्वेन शक्तिमत्त्वानुपपत्तेः । सत्ता प्रकाशश्चाऽऽत्मरूपं तद्भेदे मानाभावादत उपलब्धृतादात्म्येनैव श्रोत्रस्यावभासकत्वं न स्वातन्त्र्येण जडत्वात् । जडस्य च सत्ताहीनत्वाच्छुक्तिरूप्यस्येवेत्यर्थः ।
श्रोत्रस्यावभासकत्वमुपलब्धृतादात्म्येनेति यद्युपलब्धोपलक्ष्यते तर्ह्युपलब्धुरप्यवभासकत्वमन्याधीनमित्यनवस्था प्राप्नोतीत्याशङ्क्याऽऽह –
आत्मनश्चेति ।
स्वप्रकाशत्वादुपलब्धुः सत्ताप्रतीत्योरनन्यायत्तत्वान्नानवस्थेत्यर्थः । भवत्वेवमनवस्थाभावः ।
तथाऽपि कथं श्रोत्रस्य श्रोत्रमित्यात्मोच्यत इत्याशङ्क्याऽऽह –
यच्छ्रोत्रस्येति ।
तदात्मनिमित्तत्वादिति ।
तस्याऽऽत्मनिमित्तत्वाच्छ्रोत्रस्य श्रोत्रमित्युपलक्ष्यते निर्विशेषं चैतन्यमात्रमित्यर्थः ।
यथा क्षत्रस्येति ।
क्षत्रजातिनियामकं कर्म क्षत्रमित्युच्यते यथेत्यर्थः ।
यदि श्रोत्रादिसाक्ष्यात्माऽस्ति कथं लोकायतिकादेः श्रोत्रादिष्वेवोपलब्धृत्वव्यवहार इत्याशङ्क्याऽऽह –
उदकमपीति ।
तद्वदुपलब्धृसम्बन्धाच्छ्रोत्रादिषूपलब्धृत्वव्यवहार इत्यर्थः । भवन्मते तर्हि नित्योपलब्धिस्वभाव आत्मेति श्रोत्रादेः करणत्वं न स्यात् ।
क्रियायां हि करणापेक्षेत्याकाङ्क्षायामाह –
अनित्यं यदिति ।
प्रमातुर्यत्सम्बन्धादनित्यमुपलब्धृत्वं भवति बुद्धिपरिणामैस्तच्छ्रोत्रादि करणं बुद्धिवृत्त्यपेक्षया भवतीत्यर्थः ।
श्रोत्रादिसङ्गते प्रमातर्यनित्योपलब्धृत्वसम्भवेऽपि तवासङ्गस्य साक्षिणः कथमुपलब्धृत्वव्यपदेश इत्याशङ्क्याऽऽह –
यत्रत्विति ।
उक्तमर्थं सङ्क्षिप्याऽऽह –
श्रोत्रादिष्विति ।
श्रोत्रादिषु निमित्तेषु सत्सु श्रोत्रादिसंहते प्रसातरि श्रोतृत्वादिरूपोपलब्धिरित्युपलब्धृत्वमित्यर्थः ।
मनसो मन इत्यादिष्वेवमतिदिशति –
मनआदिष्वेवमिति ।
न्यायसामान्याद्यथोक्तं व्याख्यानं द्रष्टव्यम् । नहि मनसो मनस्त्वं वाचो वाक्त्वं वा स्वातन्त्र्येण सम्भवति अध्यस्तत्वादतोऽधिष्ठानसत्ताप्रकाशाभ्यामेव सत्ताप्रकाशत्वं मनआदेः । तच्चाधिष्ठानं निर्विशेषमेवोपलक्षयितव्यम् । सविशेषत्वेऽध्यस्तत्वप्रसङ्गादिति भावः ।
विभक्तिद्वयनिर्देशतात्पर्यमाह –
वाचो हेत्यादिना ।
मनआदेः प्रवर्तकः किंस्वभाव इति पृष्टत्वात्स्वरूपनिर्देशः कर्तव्यः । स च प्रथमया । “ निर्देशे प्रथमा प्रोक्ता” इति स्मरणादित्यर्थः ।
अतिमुच्य धीरा इत्युत्तरं वाक्यं साध्याहारं योजयति –
यदेतदित्यादिना ।
एतद्बुद्ध्वाऽमृता भवन्तीति सम्बन्धः । तादात्म्येनाध्यारोपितो यो बुद्ध्यादिरनवबोधनिमित्तः संसारस्ततो मोक्षणं तादात्म्याध्यासनिवृत्तिर्दृष्टं फलम् । अमृता भवन्तीति विदेहमुक्तिरदृष्टं फलमित्यर्थः । कर्मणां सम्बन्धानुपपत्तिरिति शेषः ।
निमित्ताभावाच्छरीरान्तराद्यनारम्भेऽमृता भवन्तीति प्रयोगादागन्तुकत्वममृतत्वस्येतिशङ्कानिवृत्त्यर्थमाह –
शरीरादीति ।
अनादिभवपरम्परया शरीर्यासं परस्ताच्च भविष्यामीति शरीरादिसन्तानाविच्छेदस्य प्रतिसन्धानं धर्माद्यधिकारित्वाध्यासः कामादिदोषकल्पनं चैतस्मादध्यारोपितो यो मृत्युस्तद्वियोगापेक्षयाऽमृतत्वस्य भवनमौपचारिकमित्यर्थः ॥ २ ॥
न तत्र चक्षुर्गच्छतीतिवाक्यार्थं सङ्गृह्णाति –
आचार्येणोक्तेऽपि तत्त्वे शिष्यस्याप्रतिपत्तेर्हेतोः पर्यनुयोगे हेतुर्न तत्र चक्षुर्गच्छतीति ।
एतद्विवृणोति –
श्रोत्रस्य श्रोत्रमित्यादिना ।
आत्मा नेन्द्रियविषयोऽभौतिकत्वान्नरविषाणवत् ।
मनश्चेन्द्रियं प्रसिद्धं ततस्तस्याप्यविषय इत्याह –
इन्द्रियाविषयत्वादिति ।
न विद्माो न विजानीम इत्याद्यभ्यासः सर्वथाऽन्तःकरणाविषयत्वख्यापनार्थः ।
आक्षेपपरतया व्याख्याय शङ्कोत्तरत्वेन व्याचष्टे –
अथवेत्यादिना ।
इत उपलक्षणप्रकारादन्येन प्रकारेण न शक्यते दर्शयितुं क्रियागुणादिविशेषशून्यत्वादित्यर्थः । आगममित्युपदेशपारम्पर्यमाहेति सम्बन्धः ॥ ३ ॥
आगमस्यार्थमाह –
विदिताविदिताभ्यामन्यत्वमिति ।
अन्यदात्मनो विदितमविदितं वा स्यादतो विदितत्वाविदितत्वनिषेधेनाऽऽत्मनोऽन्यत्र ब्रह्मत्वं विदुषां विनिवर्त्याऽऽत्मा ब्रह्मेत्युपदिष्टं भवतीत्यर्थः ।
विदितान्यत्वे युक्तिमाह –
यो हीत्यादिना ।
विदितान्यत्ववचनस्याऽऽर्थिकमर्थमाह –
अपि चेति ।
कार्याद्व्यावृत्तिः सिद्ध्यतीत्यर्थः ।
आत्मा यद्यप्यन्यतो विज्ञानं नापेक्षते तथाऽपि स्वग्राहकत्वात्स्वस्मादेव विज्ञानमपेक्षते तेन विज्ञानानपेक्षत्वमसिद्धमित्याशङ्क्याऽऽह –
न च स्वत एवेति ।
स्वभावतयाऽनपेक्षमेव सिद्धत्वादपेक्षाशब्दार्थो न घटते स्वग्राहकत्वं चासिद्धं स्ववृत्तिविरोधादित्यर्थः ।
विज्ञानं सजातीयानपेक्षं प्रकाशत्वात्प्रदीपवदित्यनुमानमभिप्रेत्य दृष्टान्तमाह –
नहीति ।
तमोध्वस्तये ह्यालोकापेक्षा तदभावश्चाऽऽलोके स्वत एव सिद्ध इत्यर्थः ।
प्रदीपस्य तैजसस्य तैजसान्तरानपेक्षत्वेऽपि विजातीयप्रकाशस्य ज्ञानस्यापेक्षा स्वव्यवहारेऽपि दृष्टा तथा ब्रह्मणोऽपि विजातीयज्ञानापेक्षा भविष्यतीति न च वाच्यमित्याह –
न चैवमात्मन इति ।
ब्रह्मणोऽन्यस्य सर्वस्याज्ञानात्मकत्वाद्भानसम्भावनैव नास्त्यन्यत्र ततो न विजातीयज्ञानापेक्षमपि ब्रह्मेत्यर्थः ।
ज्ञानानपेक्षत्वे लौकिकानुभवविरोधं शास्त्रविरोधं चोद्भाव्य परिहरति –
विरोध इति चेन्नान्यत्वादिति ।
सूत्रस्य पूर्वपक्षभागं विभजते –
स्वरूपविज्ञान इत्यादिना ।
विज्ञानानपेक्षत्वं ब्रह्मणोऽभाणि ।
सापेक्षत्वं जीवशब्दवाच्यस्योपाधिविशिष्टस्यानुभूयतेऽतो भिन्नविषयत्वान्न विरोध इत्याह –
न कस्मादित्यादिना ।
बुद्ध्यादौ कार्यकरणसङ्घाते य आत्माभिमानसन्तानोऽनादिभवपरम्पराप्रापितस्तस्याविच्छेदरूपमनिर्वाच्यमज्ञानलक्षणं चिह्नं यस्य चित्प्रतिबिम्बस्य स तथोक्तः । चित्तन्त्रं ह्यनिर्वाच्यमज्ञानं चैतन्यमवच्छिद्य स्वावच्छिन्ने यथास्वरूपावभासं प्रतिबध्य मौढ्याद्यध्यासहेतुर्भवति । तस्मादविवेकात्मको जीव इत्युच्यते बुद्धेरन्तःकरणस्य यथा यथा नीलपीताद्याकारावभासा जायन्ते तथा तथा चित्प्रतिबिम्बः प्रमातृत्वादिरूपेण भातीति तत्प्रधानोऽध्यस्तस्य विशिष्टस्य तत्सत्तयैव सत्त्वाद्विशिष्टान्तर्निविष्टो य आत्मा नित्यचित्स्वरूपः स एव सारो यस्मिन्स तथोक्तः । बुद्धिपरिणामरूपाणां नीलपीतादिप्रत्ययानामुत्पन्नविनाशवत्त्वात्तदुपरक्तरूपेणानित्यं चैतन्यं यत्रावभासते सोऽन्यो जीवः । सर्वाण्येतानि जीवविशेषणान्यन्यत्वस्फुटीकरणार्थानि । न केवलमनित्यत्वम् विशिष्टोपाधिरूढतया विज्ञानस्य तद्धर्मतैवावभासते मनुष्योऽहं जानामीति प्रतिशरीरं विलक्षणमपि चैतन्यमवभासते विशिष्टभेदादित्यर्थः ।
परमार्थतः कीदृशं चैतन्यं यस्य विशिष्टधर्मताऽवभासते तत्राऽऽह –
अन्तःकरणस्येति ।
ननु विशेषणसम्बन्धात्स्वरूपे समारोपितो विशिष्टो भाति तस्य मिथ्यात्वात्कथमात्मत्वव्यवहारास्पदत्वं तत्राऽऽह –
अन्तर्गतेनेति ।
विशिष्टान्तर्गतेन चित्स्वरूपेण तादात्म्याद्बाह्य इत्यनात्माऽपि बुद्धिविशिष्ट आत्मेत्युपगतो लौकिकैरिति सम्बन्धः ।
अत इति ।
उक्तधर्मवत्त्वादित्यर्थः । अस्तु नित्यविज्ञानाद्विलक्षणो जीवः ।
कथमेतावता विरोधः परिहृत इत्याकाङ्क्षायामाह –
तत्र हीति ।
एवं लोकानुभवविरोधे परिहृतेऽपि शास्त्रविरोधो न परिहृत इत्याह –
तत्त्वमसीति ।
विशिष्टस्य मिथ्यात्वाद्ब्रह्मास्मीत्यनुभवायोगान्मोक्षार्हत्वायोगाच्च तत्त्वमसीत्युपदेशो न घटते चेत्तर्हि ब्रह्मण एवोपदेशोऽस्त्वित्याशङ्क्याऽऽह –
आत्मानमेवावेदिति ।
एवमादीनि वाक्यानि ब्रह्योपदेशपक्षे न सङ्गच्छन्ते तज्जनितफलाभावादित्यर्थः ।
विशिष्टस्य निरुपाधिकस्य च ब्रह्मण उपदेशासम्भवेऽप्युपाधिविशिष्टचित्स्वरूपजीवपदलक्ष्यस्य वैशिष्ट्यद्वारेणोपदेशो भविष्यति फलं तस्याऽऽरोपितबन्धनिवृत्तिरित्याह –
न लोकेति ।
ननु लोकशब्देनाऽऽत्मोच्यतेऽनात्मा वा । नाऽऽद्यः । आत्मनोऽधिष्ठानतयाऽध्यासकर्तृत्वासम्भवाच्चैत्रो हि शुक्तिकायां रजतमध्यस्यति न शुक्तिकैव । अध्यासकर्तृत्वे चाऽऽत्मनः प्रागेवाध्यासात्कर्तृत्वं वाच्यम् । कर्तृत्वस्य प्राग्भावनियमात्तथा चानिर्मोक्षप्रसङ्गः । कर्तृत्वस्याध्यासत्वे च न कर्तृत्वमात्मनस्तद्विषयकर्तृत्वान्तराभावत् । भावे चानवस्थानात् । न द्वितीयः । जडत्वादनात्मनोऽध्यासकर्तृत्वानुपपत्तेः । चेतनो हि देवदत्तोऽध्यस्यतीति प्रसिद्धम् । अथ जडस्याध्यासकर्तृत्वं नाम भ्रान्त्याश्रयत्वं यद्यपि न सम्भवति तथाऽपि भ्रान्तिनिमित्तत्वं दृष्टं जपाकुसुमादेः । न, तस्य सत्यस्योपाधित्वसम्भवाद्भाष्यकारमते च जडस्य सर्वस्याध्यासात्मकत्वादध्यासहेतुत्वं न सम्भवति तस्मादसम्बद्धमिदं भाष्यं लोकाध्यारोपापोहार्थत्वादिति । न । लोकशब्देनाहङ्कारादय उच्यन्ते । तेषां व्यावहारिकसत्यत्वस्यार्थक्रियासमर्थत्वेनाभ्युपगमात् । स्वधर्मारोपनिमित्तत्वेनोपाधित्वसम्भवात्परमार्थसत्यस्यैवोपाधित्वमित्यस्मान्प्रति दृष्टान्ताभावादहङ्कारादयश्च चित्तन्त्रानाद्यनिर्वाच्याविद्यामयभूतसूक्ष्मविकारा अविद्यावच्छिन्न एव चैतन्ये निपतन्ति । उपाधिविकाराणामुपहिते पक्षपातिताया दर्शनात् । यथा जलचलनादीनाम् । तस्मान्नासङ्गतं भाष्यम् । ननु बोधात्मनो नाबोधः समञ्जसः प्रकाशाप्रकाशयोर्विरोधप्रसिद्धेः । बोधोऽपि च बोधात्मनो न समञ्जसः । निर्विकारत्वात् ।
कथं बोधात्मनो बोधोपदेशः सार्थकस्तत्राह –
तत्र चेति ।
बोधादन्यस्याबोधात्मकत्वेनाबोधाश्रयत्वं न समञ्जसम् । आत्माश्रयत्वप्रसङ्गादनिवृत्तिप्रसङ्गाच्च तस्य बोधासम्भवात् । तस्माद्बोधात्मन एवाबोधः समञ्जसः । परिशेषाद्विरोधश्च्यासिद्धः साक्षिवेद्यात्वात् । बोधोऽपि तत्रैव समञ्जसो घटादेर्बोद्धृत्वाप्रसिद्धेः । चिद्व्याप्त एव बुद्धिपरिणामे बोधशब्दव्युत्पत्तेः परिणाम्यन्तःकरणोपहितस्य बोधात्मनो बोधवत्त्वं समञ्जसमित्यर्थः ।
सामञ्जस्ये हेत्वन्तरमाह –
अन्यनिमित्तत्वादिति ।
अन्यत्राहङ्कारादिसङ्घाते वादिनां लौकिकानां च बोधाबोधौ प्रसिद्धौ तौ चाऽऽत्मबोधाबोधसम्बन्धादित्यात्मनो मृख्यौ बोधाबोधौ । यत्सम्बन्धादन्यत्र यदुपचर्यते तत्तत्र मुख्यं यथाऽग्निसम्बन्धादुदकस्यौष्ण्यमुपचारेणाग्नौ तन्मुख्यमित्यर्थः ।
आत्मनिमित्तौ चेदन्यत्र बोधाबोधौ तर्हि निमित्तत्वादात्मनो व्यापारवत्त्वप्रसङ्गस्तत्राऽऽह –
रात्र्यहनी इवेति ।
यथाऽऽदित्यसन्निध्यसन्निधिमात्रनिमित्ते लोके रात्र्यहनी भवतः । नह्यादित्यः कञ्चन स्वापयत्युत्थापयति वा । अतो निमित्तत्वं न व्यापारवत्त्वाविनाभूतमित्यर्थः ।
नन्वात्मनि बोधस्य नित्यत्वे कथं कालावच्छेदव्यवहारः प्रागज्ञासिषं शास्त्रार्थमिदानीं च जानामि पुनर्ज्ञास्यामीति तत्राऽऽह दृष्टान्तम् –
नित्यावौष्ण्यप्रकाशाविति ।
तद्वद्विषयस्य कालावच्छिन्नत्वेन कालावच्छेदव्यवहारः स्वरूपेण नित्येऽपि बोधे न विरुध्यत इत्यर्थः ।
आत्मनि बोधाबोधयोः सामञ्जस्ये किं सिद्धमित्यत आह –
एवं चेति ।
आगन्तुकविषयसम्बन्धात्तदुपरक्तरूपेण बोधस्याऽऽगन्तुकत्वेऽपीदानीं मया स्वात्मा बुध्यत इति नित्यबोधात्मनि कथं बोधकर्तृत्वव्यपदेश इत्याशङ्क्याऽऽवरकापनयस्याऽऽगन्तुकत्वेन भविष्यतीत्याह –
यथा सविताऽसाविति ।
यस्मादन्योपाधिकमात्मनि बोधकर्तृत्वम् । स्वतः पुनर्विज्ञानानपेक्षत्वमेव । तस्माद्विज्ञानानपेक्षत्वादविदितादन्यत्वं सिद्धम् ।
कथमन्यत्वविवक्षायामधिशब्दः सङ्गच्छते तत्राऽऽह –
अधिशब्दश्चेति ।
निपातानामनेकार्थत्वाल्लक्षणया चेत्यर्थः ।
अविदितादन्यत्वस्याऽऽर्थिकमर्थमाह –
अव्यक्तमेवेति ।
विदितं न भवत्यविदितं च न भवतीत्येकैकनिषेधस्य तात्पर्यमुक्त्वा समुदायार्थमाह –
विदितमविदितं चेति ।
व्याचचक्षिर इत्यस्वातन्त्र्यं तर्कप्रतिषेधार्थमित्येतत्सूत्रं विवृणोति –
ये नस्तदिति ॥ ४ ॥
यद्वाचेति मन्त्रानुवादो दृढप्रतीतेरिति । सूत्रमेतद्विभजते –
अन्यदेवेत्यादिना ।
येन वागभ्युद्यत इत्यनेन वाक्प्रकाशे हेतुत्वोक्तिर्ब्रह्मणः क्रियत इति योजना ।
एतत्सूत्रं विवृणोति –
येनेत्यादिना ।
तदेव ब्रह्म त्वं विद्धीत्याद्याम्नाय आत्मन्येव बुद्धेरवस्थापनार्थ उपसंहारार्थः । अविषयत्वेन ब्रह्मणोऽतिरिक्तस्वरूपेण वेद्यत्वासम्भवादिति योजना ।
एतत्सूत्रं विभजते –
यद्वाचेत्यादिना ॥ ५ ॥
मन्त्रसमुदायस्यार्थमाह –
सर्वकरणानामित्यादिना ।
यत्सर्वकरणानामविषयं येन निर्विशेषेण सर्वाणि करणानि भास्यन्ते तद्ब्रह्मैव त्वं ततोऽतिरिक्तज्ञानाय यत्नो न कर्तव्य इति यत्नोपरम एव लक्ष्यते । विद्धीत्यनेनातिरिक्तं मा विद्धीत्यभिप्रायः ॥ ६ – ७ – ८ – ९ ॥
इति प्रथमः खण्डः ॥