अद्वैतशारदा

आनन्दगिरिटीका (केन वाक्यभाष्य)

द्वितीयः खण्डः

यदि मन्यसे सुवेदेत्यनेन वाक्येन शिष्य­बु­द्धि­वि­चा­लना क्रियते स्थूणा­नि­ख­न­न­न्या­येन गृहीतस्य दार्ढ्यार्थम् । एत­त्स­ङ्ग्र­ह­वाक्यं विवृणोति –
विदि­ता­वि­दि­ता­भ्या­मि­त्या­दिना ।

अल्पमेव ब्रह्मणो रूपं नूनं त्वं वेत्थेति को मन्यत इत्या­का­ङ्क्षा­या­माह –
मन्यत इत्याचार्य इति ।

यदिति ।
यादृ­श­म­स्य­ब्र­ह्मणो रूपं त्वम­मं­स्था­स्ता­दृशं देवेष्वपि यो मन्यते सोऽपि दहरमेव नूनं मन्यत इति योजना ।

अथ न्विति हेतुर्मीमांसाया इति सङ्ग्रहवाक्यं विवृणोति –
यस्मादित्यादिना ।

प्रति­व­च­न­स्यार्थं सङ्गृहीतं विवृणोति –
सम्यगित्यादिना ।

विचार्येति ।
मया विदितं ब्रह्मेति किं प्रतिवचनं ददा­म्यु­ता­वि­दि­त­मिति वा । नाऽऽद्यः । आचा­र्या­ग­म­प्र­त्य­य­वि­रो­धा­द्वे­द­न­वि­ष­य­तया च घट­व­द­ब्र­ह्म­त्व­प्र­स­ङ्गा­द्वे­दि­तृ­त्वेन मम विका­रि­त्वा­पा­ताच्च । न द्वितीयः । गोपा­ला­दि­भ्योऽ­वि­शे­ष­प्र­स­ङ्गा­त्तू­ष्णी­म­व­स्थाने वाऽप्र­ति­भा­प्र­स­ङ्गा­दिति विचा­र्यै­कै­क­प­क्ष­दो­ष­प­रि­जि­ही­र्षया विदितमविदितं चेति समुच्चितं वच्मि । अज्ञा­न­सं­श­या­द्य­भा­वा­द्वि­दितं वेद­न­वि­ष­य­त्वा­भा­वा­च्चा­वि­दि­त­मिति सुपरिनिश्चितः सन्प्र­ति­व­च­न­मा­हे­त्यर्थः ।
प्रत्ययत्रयस्य सङ्गतिः
सङ्घ­ट­न­मे­क­स्मि­न्वि­षये किमर्थमुच्यते । सम्वादाधीनं प्रामाण्यमिति तार्कि­क­स्थि­ते­र्नि­श्च­या­र्थम् । स्वतः प्रामाण्यपक्षे त्वागमार्थे प्रत्य­या­न्त­र­सं­वा­द­स्ता­त्प­र्य­द्यो­तकः । प्रति­ब­न्ध­नि­रा­से­नो­प­चा­रेण निश्चयहेतुरिति सर्वस्य प्रति­व­च­न­वा­क्यस्य तात्प­र्य­मुक्त्वा मन्ये­वि­दि­त­मि­त्ये­क­दे­श­स्यार्थं सङ्गृण्हाति ॥ १० - १ ॥

सङ्गृहीतं स्फुटयति –
परि­नि­ष्ठि­त­मि­त्या­दिना ।

विरुद्धत्वादिति ।
विप­री­त­प्र­त्य­यस्य सम्य­ग्ज्ञा­न­वि­रु­द्ध­त्वा­त्त­दु­द­य­मा­त्रा­द्वि­प­री­त­प्र­त्य­योऽ­प­गत इत्यर्थः ।

न केवलं विप­री­त­प्र­त्य­यस्य संशयस्य वाऽभावान्मम निश्चितं विज्ञा­न­म­ज्ञा­ना­भा­वा­च्चे­त्याह –
यस्माच्चेति ।
अथवा वेद चेत्य­स्या­न्योऽर्थः कथ्यते । यद्य­नि­त्य­मा­त्म­वि­ज्ञानं स्यात्तर्हि तस्य प्रागभावकाले प्रध्वं­सा­भा­व­काले वाऽज्ञानं सम्भाव्येत नतु तदस्ति । नित्यं हि विज्ञानं ब्रह्म मम स्वरूपं ततो नो न वेद । यदि च वेदनं मम विक्रिया भवेत्तदा विक्रियायाः कादा­चि­त्क­त्वा­त्क­दा­चि­दहं न वेदेति शङ्क्येत नतु तदस्ति स्वरू­प­वि­ज्ञा­न­स्या­न्य­था­त्वा­स­म्भ­वा­त्सदा वेदैवाहम् । यथा स्वाभाविकाचलतया पर्व­ता­स्ति­ष्ठ­न्तीति व्यप­दे­श­स्त­द्व­दि­त्यर्थः । स्वसत्तायां स्वयं प्रमेति स्वप्र­का­श­त्व­मा­दाय व्याख्यातम् ।

चशब्दार्थमाह –
विशेषविज्ञानं चेति ।
आग­मा­द्वि­चा­र­स­ह­कृ­ता­ज्जातं ब्रह्मा­त्म­क­ता­व्य­ञ्ज­क­म­न्तः­क­र­ण­प­रि­णा­म­रूपं ब्रह्मास्मीति विशेषविज्ञानं तत्प­रे­णा­न्तः­क­र­णे­नो­पा­धि­नाऽऽ­न्म­न्य­ध्यस्तं न परमार्थतो ज्ञान­व­त्त्व­मा­त्मन इति न वेद चेति घटत इत्यर्थः ।

प्रका­रा­न्त­रे­णापि ब्रह्मविज्ञानं सम्भवतीति शङ्कानिरासार्थं वाक्यैकदेश इत्याह –
यो नस्तद्वेद तद्वेदेति ।

इदं सूत्रवाक्यं विवृणोति –
यो नोऽस्माकमिति ।
यो नोऽस्माकं मध्ये तद्वि­दि­ता­वि­दि­ता­न्यत्वं वेदेति शेषः । यथाऽऽहं वेदातोऽन्येन प्रकारेण विदुष उपा­स्य­ब्र­ह्म­वि­त्त्वा­दिति योजना ।
उक्तानुवादादिति ।
अभ्या­सा­ख्य­ता­त्प­र्य­लि­ङ्ग­द­र्श­ना­द­वि­ष­य­त­यैव ब्रह्मविज्ञानं विव­क्षि­त­मि­त्यर्थः ॥ ११ – २ ॥

यस्या­म­त­मि­ति­वा­क्यार्थं सङ्गृहीतं व्याख्याति –
शिष्या­चा­र्ये­त्या­दिना ।
श्रौतमिति शिष्य­स्याऽऽ­चा­र्यस्य चोक्तिर्न भवतीति ख्यापनार्थम् ।

तेन श्रौतेन वचनेन कथमुच्यत इत्या­का­ङ्क्षा­या­माह –
यदुक्तमिति ।
यद्ब्रह्म विदि­ता­द­न्य­दु­क्त­मिति सम्बन्धः । गोपा­ला­दी­ना­मि­वाऽऽ­त्म­तत्त्वं न विवक्षितं किन्तु ब्रह्मण आत्मत्वफलावसानो योऽबोधो यस्य स तथोक्तस्तस्य भावस्तत्ता तया बुभुत्सा निवृत्ता । विचार्यमाणे ब्रह्मण आत्मत्वेन पर्य­व­सा­ना­द­ति­रि­क्त­म­न्त­व्या­भा­वा­द­म­त­मि­त्यर्थः ।

अविज्ञातं विजा­न­ता­मि­त्यु­त्त­रा­र्ध­स्यार्थं सङ्गृहीतं विवृणोति –
अनुवादमात्र इत्यादिना ।

हेत्व­र्थ­त्वे­नेति ।
अयमर्थः – पूर्वेषां ब्रह्म विजा­न­ता­म­वि­ज्ञा­त­त्वे­नैव ब्रह्मणः प्रसि­द्ध­त्वा­दि­दा­नी­म­प्य­वि­ष­य­तया ज्ञानं सम्यग्ज्ञानं तथा पूर्वे­षा­म­वि­दुषां विज्ञातत्वेनैव ब्रह्मणः प्रसि­द्ध­त्वा­दि­दा­नी­मपि विषयतया ज्ञान­म­स­म्य­ग्ज्ञा­न­मिति । बुद्ध्यादिविषयं सद्रूपतया बुद्धिरात्मा मन आत्मे­न्द्रि­य­मा­त्मेति विज्ञानं वेदबाह्यानां ब्रह्म बौद्धादीनां प्रसिद्धं तत इदानीमपि तन्मतानुसारिणां भ्रान्तानामेव बुद्ध्या­दि­वि­ष­य­म­ना­त्म­रू­प­मा­त्म­त­याऽ­भि­म­त­मि­त्यर्थः ॥ १२ - ३ ॥

केन द्वारेण तर्ह्य­वि­ष­य­त­याऽऽ­त्माऽ­व­ग­म्य­ता­मि­त्या­का­ङ्क्षा­या­माह –
प्रतिबोधेति ।

सङ्ग्रहवाक्यं विवृणोति –
बोधं प्रतीत्यादिना ।
यथाऽस्मिञ्शरीरे बुद्धिपरिणामा जडा अपि चिद्व्याप्ततया संवेदनवदवभासन्त इति सम्भाव्यते । जडानां स्वाभा­वि­क­प्र­का­शा­नु­प­पत्तेः तथा सर्वशरीरेषु बौद्धाः प्रत्यया यद्व्याप्ततया संवे­द­न­व­द्भा­सन्ते सोऽस्तीति सम्भाव्यते । एतदुक्तं भवति । श्रोतृ­श­री­रा­व­च्छि­न्न­बौ­द्ध­प्र­त्य­य­सा­क्ष्ये­क­स्त्व­मर्थः । तदि­त­र­स­र्व­श­री­रा­व­च्छि­न्न­बौ­द्ध­प्र­त्य­य­सा­क्ष्ये­क­स्त­दर्थः । चिन्मात्रे व्याव­र्त­क­ध­र्मा­नु­प­ल­म्भा­द्वि­भ­क्तत्वे चाना­त्म­त्वा­दि­दो­ष­प्र­स­ङ्गा­त्स­म्भा­वि­त­मे­कत्वं तदेव ब्रह्म त्वमि­ति­वा­क्य­ज­बु­द्धि­वृ­त्ता­व­वि­ष­य­तया प्रकाशते ब्रह्मास्मीति । यस्मा­त्त­द­न्या­ञ्ज­डा­न­व­भा­स­य­तीति तदन्यावभास आत्मा सर्व­ज­ड­वि­ल­क्ष­णोऽ­व­गन्तुं शक्यते तस्मा­दि­त्यु­प­सं­हारः । प्रति­बो­ध­म­व­भा­सा­श्चि­त्प्र­ति­बि­म्बा­स्तेषां प्रत्य­गा­त्म­त­याऽ­व्य­भि­च­रि­त­स्व­रू­पेण बिम्ब­स्था­नी­ये­नै­केन रूपेण यद्ब्रह्मवेदनं तत्स­म्य­ग्द­र्श­न­मि­त्यर्थः ।

विषयविज्ञानं सम्यग्ज्ञानं न भवतीत्यत्र हेतुमाह –
आत्मत्वेनेति ।
ब्रह्मण आत्मत्वेन विष­य­त्वा­स­म्भ­वा­दि­त्यर्थः । अद्व­या­न­न्द­रू­पस्य सर्व­ज्ञ­त्वा­दि­ध­र्म­कस्य ब्रह्मणः शास्त्रै­क­स­म­धि­ग­म्य­त्वा­त्त­ट­स्थ­स्या­प­रो­क्षत्वं न सम्भवति किन्तु प्रत्य­ग्रू­पे­णै­वे­त्य­भि­प्रेत्य काठकेऽपि विशेषणमित्यर्थः ।

प्रत्य­क्त­याऽ­प­रो­क्ष­ब्र­ह्म­ज्ञानं तदेव सम्य­ग्ज्ञा­न­मि­त्यत्र को हेतु­रि­त्या­श­ङ्क्या­प­रो­क्ष­ब­न्धा­ध्या­सस्य परो­क्ष­ज्ञा­ना­न्नि­वृ­त्त्य­स­म्भ­वा­द­प­रो­क्ष­ज्ञा­नस्य च तन्नि­व­र्त­ने­ना­मृ­त­त्व­सा­ध­न­त्वा­दि­त्यु­त्त­र­वा­क्यार्थं सङ्गृह्णाति –
अमृतत्वं हीति ।

सूत्रं विभजते –
विषयात्मेति ।
विषयेषु बुद्ध्या­दि­ष्वा­त्म­वि­ज्ञाने विषयतया वा व्यति­रि­क्त­स्यो­पा­स्य­तया ज्ञाने मृत्युः प्रारभते भयमिति प्रसिद्धं बुद्ध्या­दि­स­ङ्घा­त­मा­त्मानं मन्य­मा­न­स्यो­पा­स­कस्य च कर्तृ­त्व­भ्र­मा­नि­वृत्तेः । “अथ येऽन्यथाऽतो विदु­र­न्य­रा­जा­नस्ते क्षय्यलोका भवन्ति”(छा. उ. ७ । २५ । २) इत्या­दि­श्रु­ति­भ्यश्च “तरति शोकमात्मवित्”(छा. उ. ७ । १ । ३) इत्यादिश्रुतिषु चाऽऽत्म­ज्ञा­न­म­मृ­त­त्व­नि­मित्तं प्रसि­द्ध­मि­त्यर्थः ।

नाऽऽल­म्ब­न­पू­र्व­क­मिति ।
किञ्चि­दु­पा­स्य­मा­ल­म्ब­नी­कृत्य तदुपासनसाध्यतया न विन्दत इत्यर्थः ।

कथं तर्हि विन्दत इति प्रयोग इत्या­का­ङ्क्षा­या­माह –
आत्म­वि­ज्ञा­ना­पे­क्ष­मिति ।
आत्मविज्ञानेन मर्त्य­त्व­भ्र­म­नि­वृ­त्ति­म­पे­क्ष्या­मृ­त­त्व­मु­प­च­र्यत इत्यर्थः ।

मुख्यार्थे बाधमाह –
यदि हीत्यादिना ।
अनात्मा विज्ञायते येन तद­ना­त्म­वि­ज्ञा­न­म­ना­द्य­नि­र्वा­च्य­मा­त्मा­ज्ञा­न­मि­त्यर्थः ।

पुन­र­ज्ञा­ना­न्त­रो­द­येन बन्धशङ्कायां कथं सकृ­द­ज्ञा­न­नि­वृ­त्ति­मा­त्रे­णा­मृ­त­त्व­नि­मि­त्तत्वं ज्ञान­स्ये­त्या­श­ङ्क्याऽऽह –
यत आहेति ।
स्वस्या­न्तोऽ­व­च्छेदो भवति येन ध्वान्तेन तत्स्वा­न्त­ध्वा­न्त­म­ना­त्मा­ध्या­रोपो मनु­ष्य­त्वा­द्य­भि­मानः पारमेश्वरी शक्तिर्माया जीव­त्व­नि­मि­त्त­म­ज्ञानं स्वान्त­ध्वा­न्तम् । एतैः सर्वैरभिभवनीयो न भवत्यात्मा येन विद्या­कृ­ते­ना­ति­श­येन तद्वीर्यं विद्वाल्लँभते । पूर्व­सि­द्ध­स्या­ज्ञा­ना­दे­र्ना­शा­न्मा­या­याश्च स्वतो जीव­ब­न्ध­क­त्वा­भा­वा­द­भि­न­व­स्या­ज्ञा­न­स्यो­त्पत्तौ कारणाभावात् । प्रवृ­त्त­फ­ल­क­र्मा­क्षि­प्तस्य चाज्ञानलेशस्य द्वैतावभासस्य च विद्व­द­न­भि­भा­व­क­त्वा­द्दु­र्ब­ल­त्वा­न्नि­श्ची­यते सम्य­ग्ज्ञा­न­स्या­मृ­त­त्व­हे­तु­त्व­मि­त्यर्थः ।

ननु विद्याजं चेत्कथमविनाशि कृतकस्य विना­शि­त्व­नि­य­मा­दि­त्या­श­ङ्क्याह –
न तु विद्याया इति ।
यावद्देहपातं जायमानो द्वैतावभासो विद्यया बाध्यत एव न मामभिभवितुं शक्नो­ती­त्य­व­ष्टम्भो वीर्यं तस्या­वि­ना­शोऽ­मृ­तत्वं तत्कारणविद्याया अबा­ध्य­त्वा­भि­प्रा­ये­णो­च्यते न स्वरू­प­ना­शा­भा­वा­भि­प्रा­ये­णे­त्यर्थः ।

प्रतिबोधपदस्य यौगिकमर्थं व्याख्याय रूढ्यभिप्रायेण व्याचष्टे –
अथवेति ।
अशेषतया विपरीतो निरस्तः संस्कारो येन बोधेन स प्रतिबोधो युग­प­त्कृ­त्स्ना­वि­द्या­त­त्का­र्य­नि­व­र्तकः सद्यो­मु­क्ति­हे­तु­रि­त्यर्थः ।

प्रति­बो­ध­श­ब्द­स्त्रेधा व्याख्या­त­स्त­त्राऽऽद्यं व्याख्यानं युक्तमित्याह –
पूर्वं त्विति ।
गुरूपदेशे सत्यपि प्रति­बो­ध­व्या­प­का­त्मा­नु­स­न्धानं विनाऽ­प­रो­क्षा­व­ग­मा­स­म्भ­वा­त्स­द्यो­मु­क्ते­श्चा­शा­स्त्री­य­त्वा­दि­त्यर्थः ॥ १३ - ४ ॥

इह चेद­वे­दी­दि­त्या­दि­वा­क्यार्थं सङ्गृहीतं विवृणोति –
इह मनु­ष्य­ज­न्म­नी­त्या­दिना ।

विरोधादिति ।
एकस्मिन्निरंशे चिन्मात्रे चय­न­स्यो­र्ध्वा­धो­दे­श­नि­वे­श­न­स्ये­ष्ट­का­ना­मि­वा­स­म्भ­वा­दि­त्यर्थः ॥ १४ - ५ ॥
इति द्वितीयः खण्डः ॥