आनन्दगिरिटीका (केन वाक्यभाष्य)
द्वितीयः खण्डः
यदि मन्यसे सुवेदेत्यनेन वाक्येन शिष्यबुद्धिविचालना क्रियते स्थूणानिखननन्यायेन गृहीतस्य दार्ढ्यार्थम् । एतत्सङ्ग्रहवाक्यं विवृणोति –
विदिताविदिताभ्यामित्यादिना ।
अल्पमेव ब्रह्मणो रूपं नूनं त्वं वेत्थेति को मन्यत इत्याकाङ्क्षायामाह –
मन्यत इत्याचार्य इति ।
यदिति ।
यादृशमस्यब्रह्मणो रूपं त्वममंस्थास्तादृशं देवेष्वपि यो मन्यते सोऽपि दहरमेव नूनं मन्यत इति योजना ।
अथ न्विति हेतुर्मीमांसाया इति सङ्ग्रहवाक्यं विवृणोति –
यस्मादित्यादिना ।
प्रतिवचनस्यार्थं सङ्गृहीतं विवृणोति –
सम्यगित्यादिना ।
विचार्येति ।
मया विदितं ब्रह्मेति किं प्रतिवचनं ददाम्युताविदितमिति वा । नाऽऽद्यः । आचार्यागमप्रत्ययविरोधाद्वेदनविषयतया च घटवदब्रह्मत्वप्रसङ्गाद्वेदितृत्वेन मम विकारित्वापाताच्च । न द्वितीयः । गोपालादिभ्योऽविशेषप्रसङ्गात्तूष्णीमवस्थाने वाऽप्रतिभाप्रसङ्गादिति विचार्यैकैकपक्षदोषपरिजिहीर्षया विदितमविदितं चेति समुच्चितं वच्मि । अज्ञानसंशयाद्यभावाद्विदितं वेदनविषयत्वाभावाच्चाविदितमिति सुपरिनिश्चितः सन्प्रतिवचनमाहेत्यर्थः ।
प्रत्ययत्रयस्य सङ्गतिः
सङ्घटनमेकस्मिन्विषये किमर्थमुच्यते । सम्वादाधीनं प्रामाण्यमिति तार्किकस्थितेर्निश्चयार्थम् । स्वतः प्रामाण्यपक्षे त्वागमार्थे प्रत्ययान्तरसंवादस्तात्पर्यद्योतकः । प्रतिबन्धनिरासेनोपचारेण निश्चयहेतुरिति सर्वस्य प्रतिवचनवाक्यस्य तात्पर्यमुक्त्वा मन्येविदितमित्येकदेशस्यार्थं सङ्गृण्हाति ॥ १० - १ ॥
सङ्गृहीतं स्फुटयति –
परिनिष्ठितमित्यादिना ।
विरुद्धत्वादिति ।
विपरीतप्रत्ययस्य सम्यग्ज्ञानविरुद्धत्वात्तदुदयमात्राद्विपरीतप्रत्ययोऽपगत इत्यर्थः ।
न केवलं विपरीतप्रत्ययस्य संशयस्य वाऽभावान्मम निश्चितं विज्ञानमज्ञानाभावाच्चेत्याह –
यस्माच्चेति ।
अथवा वेद चेत्यस्यान्योऽर्थः कथ्यते । यद्यनित्यमात्मविज्ञानं स्यात्तर्हि तस्य प्रागभावकाले प्रध्वंसाभावकाले वाऽज्ञानं सम्भाव्येत नतु तदस्ति । नित्यं हि विज्ञानं ब्रह्म मम स्वरूपं ततो नो न वेद । यदि च वेदनं मम विक्रिया भवेत्तदा विक्रियायाः कादाचित्कत्वात्कदाचिदहं न वेदेति शङ्क्येत नतु तदस्ति स्वरूपविज्ञानस्यान्यथात्वासम्भवात्सदा वेदैवाहम् । यथा स्वाभाविकाचलतया पर्वतास्तिष्ठन्तीति व्यपदेशस्तद्वदित्यर्थः । स्वसत्तायां स्वयं प्रमेति स्वप्रकाशत्वमादाय व्याख्यातम् ।
चशब्दार्थमाह –
विशेषविज्ञानं चेति ।
आगमाद्विचारसहकृताज्जातं ब्रह्मात्मकताव्यञ्जकमन्तःकरणपरिणामरूपं ब्रह्मास्मीति विशेषविज्ञानं तत्परेणान्तःकरणेनोपाधिनाऽऽन्मन्यध्यस्तं न परमार्थतो ज्ञानवत्त्वमात्मन इति न वेद चेति घटत इत्यर्थः ।
प्रकारान्तरेणापि ब्रह्मविज्ञानं सम्भवतीति शङ्कानिरासार्थं वाक्यैकदेश इत्याह –
यो नस्तद्वेद तद्वेदेति ।
इदं सूत्रवाक्यं विवृणोति –
यो नोऽस्माकमिति ।
यो नोऽस्माकं मध्ये तद्विदिताविदितान्यत्वं वेदेति शेषः । यथाऽऽहं वेदातोऽन्येन प्रकारेण विदुष उपास्यब्रह्मवित्त्वादिति योजना ।
उक्तानुवादादिति ।
अभ्यासाख्यतात्पर्यलिङ्गदर्शनादविषयतयैव ब्रह्मविज्ञानं विवक्षितमित्यर्थः ॥ ११ – २ ॥
यस्यामतमितिवाक्यार्थं सङ्गृहीतं व्याख्याति –
शिष्याचार्येत्यादिना ।
श्रौतमिति शिष्यस्याऽऽचार्यस्य चोक्तिर्न भवतीति ख्यापनार्थम् ।
तेन श्रौतेन वचनेन कथमुच्यत इत्याकाङ्क्षायामाह –
यदुक्तमिति ।
यद्ब्रह्म विदितादन्यदुक्तमिति सम्बन्धः । गोपालादीनामिवाऽऽत्मतत्त्वं न विवक्षितं किन्तु ब्रह्मण आत्मत्वफलावसानो योऽबोधो यस्य स तथोक्तस्तस्य भावस्तत्ता तया बुभुत्सा निवृत्ता । विचार्यमाणे ब्रह्मण आत्मत्वेन पर्यवसानादतिरिक्तमन्तव्याभावादमतमित्यर्थः ।
अविज्ञातं विजानतामित्युत्तरार्धस्यार्थं सङ्गृहीतं विवृणोति –
अनुवादमात्र इत्यादिना ।
हेत्वर्थत्वेनेति ।
अयमर्थः – पूर्वेषां ब्रह्म विजानतामविज्ञातत्वेनैव ब्रह्मणः प्रसिद्धत्वादिदानीमप्यविषयतया ज्ञानं सम्यग्ज्ञानं तथा पूर्वेषामविदुषां विज्ञातत्वेनैव ब्रह्मणः प्रसिद्धत्वादिदानीमपि विषयतया ज्ञानमसम्यग्ज्ञानमिति । बुद्ध्यादिविषयं सद्रूपतया बुद्धिरात्मा मन आत्मेन्द्रियमात्मेति विज्ञानं वेदबाह्यानां ब्रह्म बौद्धादीनां प्रसिद्धं तत इदानीमपि तन्मतानुसारिणां भ्रान्तानामेव बुद्ध्यादिविषयमनात्मरूपमात्मतयाऽभिमतमित्यर्थः ॥ १२ - ३ ॥
केन द्वारेण तर्ह्यविषयतयाऽऽत्माऽवगम्यतामित्याकाङ्क्षायामाह –
प्रतिबोधेति ।
सङ्ग्रहवाक्यं विवृणोति –
बोधं प्रतीत्यादिना ।
यथाऽस्मिञ्शरीरे बुद्धिपरिणामा जडा अपि चिद्व्याप्ततया संवेदनवदवभासन्त इति सम्भाव्यते । जडानां स्वाभाविकप्रकाशानुपपत्तेः तथा सर्वशरीरेषु बौद्धाः प्रत्यया यद्व्याप्ततया संवेदनवद्भासन्ते सोऽस्तीति सम्भाव्यते । एतदुक्तं भवति । श्रोतृशरीरावच्छिन्नबौद्धप्रत्ययसाक्ष्येकस्त्वमर्थः । तदितरसर्वशरीरावच्छिन्नबौद्धप्रत्ययसाक्ष्येकस्तदर्थः । चिन्मात्रे व्यावर्तकधर्मानुपलम्भाद्विभक्तत्वे चानात्मत्वादिदोषप्रसङ्गात्सम्भावितमेकत्वं तदेव ब्रह्म त्वमितिवाक्यजबुद्धिवृत्तावविषयतया प्रकाशते ब्रह्मास्मीति । यस्मात्तदन्याञ्जडानवभासयतीति तदन्यावभास आत्मा सर्वजडविलक्षणोऽवगन्तुं शक्यते तस्मादित्युपसंहारः । प्रतिबोधमवभासाश्चित्प्रतिबिम्बास्तेषां प्रत्यगात्मतयाऽव्यभिचरितस्वरूपेण बिम्बस्थानीयेनैकेन रूपेण यद्ब्रह्मवेदनं तत्सम्यग्दर्शनमित्यर्थः ।
विषयविज्ञानं सम्यग्ज्ञानं न भवतीत्यत्र हेतुमाह –
आत्मत्वेनेति ।
ब्रह्मण आत्मत्वेन विषयत्वासम्भवादित्यर्थः । अद्वयानन्दरूपस्य सर्वज्ञत्वादिधर्मकस्य ब्रह्मणः शास्त्रैकसमधिगम्यत्वात्तटस्थस्यापरोक्षत्वं न सम्भवति किन्तु प्रत्यग्रूपेणैवेत्यभिप्रेत्य काठकेऽपि विशेषणमित्यर्थः ।
प्रत्यक्तयाऽपरोक्षब्रह्मज्ञानं तदेव सम्यग्ज्ञानमित्यत्र को हेतुरित्याशङ्क्यापरोक्षबन्धाध्यासस्य परोक्षज्ञानान्निवृत्त्यसम्भवादपरोक्षज्ञानस्य च तन्निवर्तनेनामृतत्वसाधनत्वादित्युत्तरवाक्यार्थं सङ्गृह्णाति –
अमृतत्वं हीति ।
सूत्रं विभजते –
विषयात्मेति ।
विषयेषु बुद्ध्यादिष्वात्मविज्ञाने विषयतया वा व्यतिरिक्तस्योपास्यतया ज्ञाने मृत्युः प्रारभते भयमिति प्रसिद्धं बुद्ध्यादिसङ्घातमात्मानं मन्यमानस्योपासकस्य च कर्तृत्वभ्रमानिवृत्तेः । “अथ येऽन्यथाऽतो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति”(छा. उ. ७ । २५ । २) इत्यादिश्रुतिभ्यश्च “तरति शोकमात्मवित्”(छा. उ. ७ । १ । ३) इत्यादिश्रुतिषु चाऽऽत्मज्ञानममृतत्वनिमित्तं प्रसिद्धमित्यर्थः ।
नाऽऽलम्बनपूर्वकमिति ।
किञ्चिदुपास्यमालम्बनीकृत्य तदुपासनसाध्यतया न विन्दत इत्यर्थः ।
कथं तर्हि विन्दत इति प्रयोग इत्याकाङ्क्षायामाह –
आत्मविज्ञानापेक्षमिति ।
आत्मविज्ञानेन मर्त्यत्वभ्रमनिवृत्तिमपेक्ष्यामृतत्वमुपचर्यत इत्यर्थः ।
मुख्यार्थे बाधमाह –
यदि हीत्यादिना ।
अनात्मा विज्ञायते येन तदनात्मविज्ञानमनाद्यनिर्वाच्यमात्माज्ञानमित्यर्थः ।
पुनरज्ञानान्तरोदयेन बन्धशङ्कायां कथं सकृदज्ञाननिवृत्तिमात्रेणामृतत्वनिमित्तत्वं ज्ञानस्येत्याशङ्क्याऽऽह –
यत आहेति ।
स्वस्यान्तोऽवच्छेदो भवति येन ध्वान्तेन तत्स्वान्तध्वान्तमनात्माध्यारोपो मनुष्यत्वाद्यभिमानः पारमेश्वरी शक्तिर्माया जीवत्वनिमित्तमज्ञानं स्वान्तध्वान्तम् । एतैः सर्वैरभिभवनीयो न भवत्यात्मा येन विद्याकृतेनातिशयेन तद्वीर्यं विद्वाल्लँभते । पूर्वसिद्धस्याज्ञानादेर्नाशान्मायायाश्च स्वतो जीवबन्धकत्वाभावादभिनवस्याज्ञानस्योत्पत्तौ कारणाभावात् । प्रवृत्तफलकर्माक्षिप्तस्य चाज्ञानलेशस्य द्वैतावभासस्य च विद्वदनभिभावकत्वाद्दुर्बलत्वान्निश्चीयते सम्यग्ज्ञानस्यामृतत्वहेतुत्वमित्यर्थः ।
ननु विद्याजं चेत्कथमविनाशि कृतकस्य विनाशित्वनियमादित्याशङ्क्याह –
न तु विद्याया इति ।
यावद्देहपातं जायमानो द्वैतावभासो विद्यया बाध्यत एव न मामभिभवितुं शक्नोतीत्यवष्टम्भो वीर्यं तस्याविनाशोऽमृतत्वं तत्कारणविद्याया अबाध्यत्वाभिप्रायेणोच्यते न स्वरूपनाशाभावाभिप्रायेणेत्यर्थः ।
प्रतिबोधपदस्य यौगिकमर्थं व्याख्याय रूढ्यभिप्रायेण व्याचष्टे –
अथवेति ।
अशेषतया विपरीतो निरस्तः संस्कारो येन बोधेन स प्रतिबोधो युगपत्कृत्स्नाविद्यातत्कार्यनिवर्तकः सद्योमुक्तिहेतुरित्यर्थः ।
प्रतिबोधशब्दस्त्रेधा व्याख्यातस्तत्राऽऽद्यं व्याख्यानं युक्तमित्याह –
पूर्वं त्विति ।
गुरूपदेशे सत्यपि प्रतिबोधव्यापकात्मानुसन्धानं विनाऽपरोक्षावगमासम्भवात्सद्योमुक्तेश्चाशास्त्रीयत्वादित्यर्थः ॥ १३ - ४ ॥
इह चेदवेदीदित्यादिवाक्यार्थं सङ्गृहीतं विवृणोति –
इह मनुष्यजन्मनीत्यादिना ।
विरोधादिति ।
एकस्मिन्निरंशे चिन्मात्रे चयनस्योर्ध्वाधोदेशनिवेशनस्येष्टकानामिवासम्भवादित्यर्थः ॥ १४ - ५ ॥
इति द्वितीयः खण्डः ॥