अद्वैतशारदा

आनन्दगिरिटीका (केन वाक्यभाष्य)

तृतीयः खण्डः

“यः सुराणां जये हेतुरसुराणां पराजये ।
सत्त्वप्रधानया शक्त्या सम्पन्नः सोऽहमीश्वरः ॥” इति । ब्रह्म हेत्या­द्या­ख्या­यि­का­या­स्ता­त्पर्यं सङ्गृहीतं विवृणोति –
समाप्तेत्यादिना ।

तात्प­र्या­न्त­र­माह –
शमाद्यर्थो वेति ।

सङ्ग्रहवाक्यं विवृणोति –
शमादि वेति ।

अभि­प्रा­या­न्त­र­मा­ख्या­यि­कायाः सङ्गृह्णाति –
सगुणेति ।

सङ्गृहीतं विवृणोति –
नेदमित्यादिना ।

कृत्स्ना­ख्या­यि­का­या­स्ता­त्प­र्य­मुक्त्वा ब्रह्म­श­ब्दा­र्थ­माह –
ब्रह्मेति परो लिङ्गादिति ।

एतद्व्याख्याति –
नह्य­न्य­त्रे­त्या­दिना ।

कथं तर्ही­श्व­र­सि­द्धि­रि­त्या­का­ङ्क्षा­या­माह –
तत्सिद्धिरिति ।

ननु श्रुत्या­दि­भि­रे­वे­श्वरे सिद्धे किमिति जगतो निय­त­प्र­वृ­त्ति­लि­ङ्ग­का­नु­मानं सूत्रितं तत्राह –
श्रुति­स्मृ­ति­प्र­सि­द्धि­भि­रिति ।
यावत्तर्केण सम्भवो नानुगृह्यते ताव­च्छा­स्त्र­प्र­ति­प­न्नोऽ­पी­श्वरो न निश्ची­य­तेऽ­र्थ­वा­द­त्व­श­ङ्का­प्र­ति­ब­न्धा­दतः शास्त्रा­र्थ­स्ये­श्व­रस्य निश्चयाय नियमाय सामान्यतो दृष्टमनुमानं शास्त्रा­नु­ग्रा­ह­क­रूपं सूत्रेणोच्यते ।

एतद्व्याख्याति –
तस्ये­श्च­र­स्ये­त्या­दिना ।
अना­दि­प्र­सि­द्ध­क­र्तृ­व्य­ति­रिक्तं जगद्धर्मीकृत्य यद्यपीश्वरः सिषा­ध­यि­षि­त­स्त­थापि जगतो बहूनि विशेषणानि संसा­रि­वि­ल­क्ष­ण­क­र्तृ­स­म्भा­व­नाय, नैयायिकास्तु व्याप्यस्य पक्ष­ध­र्म­ता­ब­ला­द्व्या­प­क­वि­शेषः पक्षधर्मः सिध्यति ततः स्वत­न्त्र­म­नु­मा­न­मी­श्व­र­नि­श्चा­य­क­माहुः । तद्दूषणं प्रकटार्थे द्रष्टव्यम् । सामान्यतो दृष्टं रचयति । एत­ज्ज­ग­द्भो­क्तॄणां कर्मणां च विभागं यो जानाति तत्पूर्वकं भवितुमर्हतीति प्रतिज्ञा । अत्र जग­न्नि­मि­त्ता­दृ­ष्ट­नि­ष्प­त्त्यर्थो यो जीवानां प्रय­त्न­स्त­त्पू­र्व­कत्वं जगतः सिद्धमिति सिद्धसाधनत्वं वदतां निरीश्वरवादिनां निरासाय विशेषणं भोक्तृ­क­र्म­वि­भा­ग­ज्ञेति । न हि जीवानामेते भोक्ता­रोऽ­स्मि­न्देशे काले वाऽस्य कर्मफलस्येति विभागज्ञानं सम्भवति । विशे­षा­न­भि­ज्ञ­त्वा­दि­त्यर्थः ।

यथो­क्त­ल­क्ष­ण­त्वा­दिति ।
विचि­त्र­त्वा­दि­त्युक्ते व्यभिचारः स्यात् । आत्मा­दि­स्व­भा­व­वै­चि­त्र्यस्य प्रय­त्न­पू­र्व­क­त्वा­भा­वा­त्त­दर्थं कार्यत्वे सतीति विशेषणम् । कार्य­त्वा­दि­त्यु­क्तेऽ­बु­द्धि­पू­र्व­का­रि­कार्ये विभा­ग­ज्ञ­प्र­य­त्न­पू­र्व­कत्वं नास्ती­त्य­नै­का­न्ति­कत्वं स्यात्तदर्थं यथो­क्त­ल­क्ष­ण­त्वा­दिति । यद्विचित्रं तद्वि­भा­ग­ज्ञ­प्र­य­त्न­पू­र्वकं यथा गृहादि । जानात्येव हि तक्षादिरयं गृहादिरस्य स्वामिनो द्रव्य­दा­ना­दि­पू­र्वकं चाऽस्य निर्माणमित्थं चेति । ततो न साध्यवैकल्यं यथाशब्दं हि साधनदूषणे । नाभिप्रायवशात् । विपक्षे व्यतिरेक आत्मा­दि­व­दि­त्यु­दा­ह­र­णम् । यद्वि­भा­ग­ज्ञ­प्र­य­त्न­पू­र्वकं न भवति तद्वि­शि­ष्ट­का­र्य­मपि न भवति । यथाऽऽ­त्मा­का­शा­दी­त्य­न्व­य­व्य­ति­रे­कि­प्र­योग इत्यर्थः ।

विचि­त्र­का­र्य­त्व­मस्तु विभा­ग­ज्ञ­प्र­य­त्न­पू­र्व­कत्वं न भविष्यति किं बाधकं जग­द्धै­चि­त्र्यस्य कर्म­वै­चि­त्र्या­देव सम्भवादतः पक्ष एव साध्या­भा­व­शङ्क्या शङ्कितविपक्षे वर्तमानो हेतुः शङ्कितव्यभिचार इत्य­भि­प्रे­त्याऽऽह –
कर्मण एवेति चेदिति ।

परिहरति –
न परेति ।
कर्तृ­प­र­त­न्त्रस्य कर्मणो निमि­त्त­मा­त्र­त्वा­त्स्वा­त­न्त्र्येण निमि­त्त­त्वा­स­म्भ­वा­त्का­र्य­वै­चि­त्र्यस्य भङ्गप्रसङ्गो बाधकः कर्तारमन्तरेण । अतः पक्षे साध्या­भा­व­श­ङ्का­नु­प­प­त्तेर्न शङ्कि­त­व्य­भि­चा­रि­त्व­मिति भावः ।

सङ्ग्रहवाक्यस्य पूर्वपक्षभागं विवृणोति –
यदिदमित्यादिना ।

यदि­द­मी­श्व­र­वा­दि­भि­रपि वैष­म्य­नै­र्घृ­ण्य­दो­ष­प­रि­हा­राय कर्मणो जग­द्वै­चि­त्र्य­हे­तु­त्व­मिष्टं तत्स­म्प्र­ति­पन्नं विहायापूर्व ईश्वरः कल्प्यते धर्मी तस्य फलहेतुत्वं च धर्मः कल्पनीय इति गौरवं स्यादित्याह –
न नित्य­स्ये­श्व­र­स्येति ।

सति लाघवे गौरवं दूषणं स्यान्नेह तद­स्ती­त्य­भि­प्रेत्य सिद्धान्तं विवृणोति –
न कर्मण एवेत्यादिना ।

आत्म­नोऽ­न्य­त्प्र­व­र्त­क­म­न­पेक्ष्य कर्म चेन्न फलं जनयति तर्हि कर्ता जीव एव प्रयो­ज­कोऽ­स्त्विति शङ्कित्वा परिहरति –
कर्तैवेत्यादिना ।

अनि­ष्ट­फ­ल­भो­ग­सि­द्ध्य­न्य­था­नु­प­पत्त्या कर्तुः कर्म­नि­यो­क्तृत्वं न सम्भवति चेत्तर्हि निर्निमित्तमेव कर्म फलाकारेण परिणमत इति जर­त्क­र्म­मी­मां­स­कानां मतमाशङ्क्याऽऽह –
न च निर्निमित्तमिति ।
कर्तुरनिच्छया कर्म विकरोतीत्यत्र दृष्टा­न्ता­भा­वा­च्च­र्म­णोऽपि विकारस्य सनि­मि­त्त­त्वा­दि­त्यर्थः ।

यच्च सौगतेनोच्यते फलकालपर्यन्तं कर्तु­र­व­सा­ना­भा­वात् कर्तृसमवेतं कर्म किन्तु क्षणि­क­वि­ज्ञा­ने­नाऽऽ­त्मना कृतं कदा­चि­त्फ­ल­स्याऽऽ­क्रष्ट्ट भवति । यथाऽयस्कान्तो मणिः कदाचिच्चेतनेन प्रयु­क्तोऽ­न्य­दाऽपि लोहस्य प्रेरको भवति तद्वदिति तत्राऽऽह –
न चाऽऽत्मकृतमिति ।
करणादीनि कारकाणि यः प्रेरयन्करोति स प्रधानकर्ता । तत्समवेतं कर्म प्रसिद्धं तस्य च फलकालपर्यन्तं स्थायि­त्व­मे­ष्ट­व्यम् । अन्य­थाऽ­कृ­ता­भ्या­ग­म­कृ­त­वि­प्र­णा­श­प्र­स­ङ्गा­त्प्र­त्य­भि­ज्ञा­प्रा­मा­ण्या­च्चे­त्यर्थः ।

लोका­य­ति­का­भि­प्रा­य­मु­द्भाव्य दूषयति –
भूता­श्र­य­मि­त्या­दिना ।

आधु­नि­क­क­र्म­मी­मां­स­कानां मतमुद्भावयति –
शास्त्रा­दि­त्या­दिना ।

यजे­ते­त्या­ख्या­त­प­दा­त्सा­मा­न्येन समीहितसाधनं यागः प्रतीयते । कस्य समीहितस्य साधनमिति विशे­षा­का­ङ्क्षायां स्वर्ग­का­म­प­द­स­न्नि­धा­ना­त्का­म्य­मा­न­स्व­र्ग­सा­ध­नत्वं यद्यप्यवगम्यते तथाऽपि क्षणिकस्य यागस्य काला­न्त­री­य­स्व­र्ग­सा­ध­न­त्वा­स­म्भ­वा­न्नि­ष्फ­ल­त्व­श­ङ्के­त्या­श­ङ्क्याह –
न चेति ।
औषधपानादेः कर्मणः स्थायि­सं­स्का­र­द्वा­रेण काला­न्त­री­या­रो­ग्या­दि­फ­ल­हे­तु­त्व­प्र­सि­द्धे­र्या­गस्य श्रुत­सा­ध­न­त्व­नि­र्वा­हाय स्थाय्य­वा­न्त­रा­पूर्वं परिकल्प्यते तेन न त्वानर्थक्यं निर्दो­ष­वा­क्या­धि­ग­त­त्वा­दि­त्यर्थः ।

श्रुत­सा­ध­न­त्व­सि­द्ध्य­न्य­था­नु­प­पत्त्या किमितीश्वर एव नेष्यते तत्राऽऽह –
न चेश्वरेति ।
नेय­म­र्था­प­त्ति­री­श्व­रा­स्तित्वे प्रमा­ण­म­न्य­थाऽ­प्यु­प­प­न्न­त्वात् । न च मानान्तरमस्ति । तद्वि­ष­य­श्रु­त्या­दे­र­र्थ­वा­द­त्वा­दि­त्यर्थः । नापूर्वद्वारेण श्रुतनिर्वाहः कल्पनीयः ।

यद्व्यवहितफलं कर्म तच्चै­त­न्य­प्र­यु­क्त­फ­ल­मिति दृष्टाया व्याप्ते­र्हा­नि­प्र­स­ङ्गा­दतः श्रुत­सा­ध­न­त्व­सि­द्ध्य­न्य­था­नु­प­प­त्त्ये­श्वरः फलदाता कल्पनीय इत्याह –
न दृष्टेति ।

सङ्ग्रहवाक्यं विवृणोति –
क्रिया हीत्यादिना ।
फलोदयेनापवर्गो नाशो यस्याः सा फलापवर्गिणी न फलदातारं पृथगपेक्षत इत्यर्थः ।

उत्प­न्न­प्र­ध्वं­सि­नीति ।
उत्पन्ना सती फलमदत्त्वैव प्रध्वंसते ततस्तत्र फलदातारं काला­न्त­रेऽ­पे­क्षत इत्यर्थः ।

यागादिफलं कर्माद्यभिज्ञेन दीयमानं व्यव­हि­त­फ­ल­त्वा­त्से­वा­फ­ल­व­दि­त्याह –
तस्माच्छान्ते यागादीति ।

ननु जीव­स्ता­व­त्स्वो­प­भो­ग­सा­ध­न­नि­यन्ता, तस्यापीश्वरः फलदानेन नित्यन्ता चेदिष्यते तर्हि नियन्तुः स्वव्य­ति­रि­क्त­नि­य­म्य­त्वा­ङ्गी­का­रा­दी­श्व­र­स्या­प्यन्यो नियन्ता प्रसज्येत निय­न्तृ­त्वा­वि­शे­षात् । अतोऽ­न­व­स्था­प्र­स­ङ्ग­बा­धि­त­म­नु­मा­न­मि­त्या­श­ङ्क्याऽऽह –
स चाऽऽत्मभूतः सर्वस्येति ।
कल्पि­त­भे­द­मा­त्रेण निय­म्य­नि­या­म­क­भा­वो­प­प­त्तेर्न तात्त्वि­क­भे­दा­व­काशः । तात्त्वि­क­भे­द­वत्त्वे च घटा­दि­व­त्का­र्य­त्वा­दि­प्र­स­ङ्ग­स्त­तोऽ­ति­रि­क्त­नि­य­म्य­त्व­व्या­प्त्य­भा­वा­न्ना­न­व­स्था­प्र­सङ्ग इत्यर्थः ।

राजवदीश्वरः फलदाता चेत्तर्हि निग्र­हा­नु­ग्र­ह­क­र्तृ­त्वा­द्रा­गा­दि­मा­न्स्या­त्त­त्राऽऽह –
सर्वक्रियाफलेति ।
यथा लौकिकसाक्षी कस्य­चि­ज्ज­य­हे­तु­र­न्यस्य पराजयहेतुरपि न रागा­दि­मा­न्क­थ्यते । यथो­प­ल­ब्ध­भा­षि­त्वात् । तथेश्वरः क्रियादिसाक्षी रागादिमान्न भविष्यति । अन­नु­रू­पा­दा­तृ­त्वात् । राजाऽ­प्य­सा­धू­न्द­ण्ड­य­न्सा­धू­न्प­रि­र­क्षन्न रागादिमान्कथ्यत इति भावः ।

साक्षित्वे तर्ही­श्व­र­स्ये­क्ष­ण­क्रिया स्यात्तत्राऽऽह –
नित्येति ।
नित्य­वि­ज्ञा­न­स्व­भा­व­स्या­नि­र्वा­च्य­वि­ष­या­व­च्छे­देन साक्षित्वं कल्पितमित्यर्थः ।

सर्वस्य जीव­स्याऽऽ­त्म­भू­त­श्चे­दी­श्व­र­स्तर्हि संसा­र­ध­र्मै­र्लि­प्येत संसा­र्य­भे­दा­दि­त्या­श­ङ्क्याऽऽह –
संसारेति ।

न केव­ल­मु­प­प­त्ते­री­श्व­र­सिद्धिः श्रुते­र­पी­त्युक्तं ताः श्रुतीरुदाहरति –
न लिप्यत इत्यादिना ।
स्मृतयश्च – “यथा सर्वगतं सौक्ष्म्या­दा­काशं नोपलिप्यते।”(भ.गी. १३-३२) “समं सर्वेषु भूतेषु ।”(भ. गी. १३ । २७) “ईश्वरः सर्वभूतानाम्”(भ. गी. १८ । ६१) इत्याद्याः ।

यदु­क्त­म­र्थ­वा­द­त्वा­द­प्रा­माण्यं तत्राऽऽह –
न चेति ।
ईश्वरविषयाणि वाक्यानि न कर्म­वि­धि­स­न्नि­धि­स­मा­म्ना­तानि । अतोऽनन्यशेषत्वे सति बोध­क­त्वा­त्स्वार्थे प्रमाणानि कर्म­वि­धि­वा­क्य­व­दि­त्यर्थः ।

किञ्चा­र्थ­वा­द­त्वेपि नाप्रामाण्यं पदसमन्वयबलेन जायमानस्य ज्ञानस्य बाधा­द­र्श­ना­त्स्व­तः­प्रा­मा­ण्या­दस्य बाधयिता नोपपद्यत इत्याह –
न चोत्पन्नमिति ।

इतश्च नाप्रा­मा­ण्य­मि­त्याह –
अप्र­ति­षे­धा­च्चेति ।
यथा “द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च”(बृ. उ. २ । ३ । १) इति प्रस्तुत्य “नेति नेति”(बृ. उ. ३ । ९ । २६) इति पर­स्ता­त्प्र­ति­षे­धति नैवमीश्वरं प्रस्तुत्य प्रतिषेध उपलभ्यत इत्यर्थः ।

प्रतिषेधाभावः सत्त्वान्न भवति किन्त्व­प्रा­प्त­त्वात् । यथा रागतः प्राप्ता भूतहिंसा निषिध्यते नैवमीश्वरस्य प्राप्ति­र­स्ती­त्य­न्य­था­सि­द्धि­मा­शङ्क्य परिहरति –
प्राप्ती­त्या­दिना ।

अप्र­ति­षे­धा­दि­ति­स­ङ्ग्र­ह­वाक्यं प्रकारान्तरेण व्याचष्टे –
अथवेति ।
स्वर्गकामो यजे­ते­त्या­दि­शास्त्रं यागस्य फलदायिनीं शक्तिं द्योतयति न सहकार्यन्तरं निषेधयति । वाक्य­भे­द­प्र­स­ङ्गा­दि­त्यर्थः ।

इतश्च शास्त्र­म­यो­ग­व्य­व­च्छे­दकं वाच्यं नान्य­यो­ग­व्य­व­च्छे­द­कम् । स्रक्च­न्द­न­व­नि­ता­दि­नि­मि­त्त­नि­र­पे­क्षस्य कर्मणः फल­हे­तु­त्वा­नु­प­ल­म्भात् । अतो यथा मानान्तरसिद्धं स्रक्च­न्द­न­व­नि­ता­दे­र्नि­मि­त्त­त्व­मिष्टं तथे­श्व­र­स्या­प्ये­ष्ट­व्य­मि­त्याह –
न च निमि­त्ता­न्त­र­नि­र­पे­क्ष­मिति ।
इतश्चेश्वरः फलदाता वक्तव्यः प्रध्वस्तस्य यागस्य कार­ण­त्वा­स­म्भ­वात् । निय­त­पू­र्व­क्ष­ण­सत्त्वं हि कारणत्वम् । न चापू­र्व­द्वा­रे­णो­प­प­द्यते । असति द्वारवति द्वार­त्वा­नु­प­पत्तेः । न चौष­ध­पा­ना­दि­दृ­ष्टान्तः ।

औषधाद्यवयवानां संस्कृतानां फल­का­ल­प­र्य­न्त­म­नु­व­र्त­मा­ना­ना­मेव काला­न्त­री­य­फ­ल­हे­तु­त्वा­दि­त्य­भि­प्रे­त्याऽऽह –
न च विनष्ट इति ।

कथं तर्हीश्वरो वाऽपि नष्टस्य फलदातोपपद्यते तत्राऽऽह –
सेव्य­बु­द्धि­व­दिति ।
एत­त्क­र्मा­ने­ना­नु­ष्ठि­त­मिति कर्मणेश्वरस्य बुद्धावारोह एव कर्मणा संस्का­र­स्त­द्व­शा­द्वि­न­ष्टेऽपि कर्म­णी­श्व­रा­त्फलं युक्तम् । यथाऽनेनाहं सेवित इति सेव्यबुद्धौ संस्कृतायां कालान्तरे विनष्टायामपि सेवायां सेव्याद्राजादेः फलं भवति तद्वदित्यर्थः ।

यद्यपि लौकिकानां कर्मणां फलसाधनत्वं चेतनाधीनं दृष्टं तथाऽपि वैदिकस्य यागादेः फलं दातारं विनाऽपि वाक्य­प्रा­मा­ण्या­द्भ­वि­ष्य­तीति नाऽऽश­ङ्क­नी­य­मि­त्याह –
न तु पुनरिति ।
अन्वययोग्यानां पदार्थानां संसर्गबोधकमेव वाक्यं नतु तद्बलाद्दृष्टः पदा­र्थ­स्व­भा­व­स्त्यक्तुं शक्यत इत्यर्थः । बीजक्षेत्रयोः संस्का­र­स्त­त्प­रि­रक्षा च तद्वि­ज्ञा­न­वान्यः कर्ता तदपेक्षफलं कृष्यादि दृष्टम् । सेवादिकं च विज्ञानवान्यः सेव्य­स्त­द्बु­द्धि­सं­स्का­रा­पे­क्ष­फलं दृष्टम् । तथा यागादेः कर्मणः काला­न्त­र­फ­ल­त्वा­द­वि­ज्ञा­न­व­त्क­र्त्र­पे­क्ष­फ­ल­त्वा­नु­प­पत्तौ कर्मा­दि­वि­भा­ग­ज्ञ­क­र्त्र­पे­क्ष­फ­लत्वं भवि­तु­म­र्ह­ती­त्यर्थः ।

लौकि­क­क­र्म­स्व­ने­क­वि­धे­ष्वपि मध्ये सेवा­या­गा­दि­र­नु­रूपो दृष्टान्त इत्यभिप्रेत्य पुनराह –
सेवादीति ।
सेवा­दि­क­र्मा­नु­रूपं फलं जानाति यः सेव्य­स्त­द्बुद्धौ यः संस्का­र­स्त­द­पे­क्ष­फ­लस्य सेवादेर्यथा न स्वातन्त्र्यं तद्वदित्यर्थः ।

एवं ताव­न्नि­री­श्व­र­वा­दिनं प्रतीश्वरं प्रसाध्य सेश्व­र­वा­दि­ना­म­भि­म­त­वा­स्त­व­भे­द­नि­रा­साय प्रक्रमते –
स एवेति ।

जीव ईश्व­रा­द्भि­न्न­स्त­द्वि­रु­द्ध­ध­र्मा­क्रा­न्त­त्वात् । यो यद्वि­रु­द्ध­ध­र्मा­क्रान्तः स ततो भिन्नः । यथाऽश्वान्महिष इत्य­नु­मा­न­मु­द्भाव्य तस्य भेद­नि­न्दा­नु­प­प­त्त्य­नु­गृ­ही­ता­भे­द­श्रु­ति­वि­रो­धा­त्का­ला­त्य­या­प­दि­ष्ट­त्व­माह –
ज्ञान­श­क्ती­त्या­दिना ।

सङ्ग्रहवाक्यं विवृणोति –
यदु­क्त­मि­त्या­दिना ।
स्वात्म­नोऽ­वि­क्रि­या­रूपं जग­दु­पा­दा­ना­दि­ल­क्षणं कर्मे­श्व­र­स्ये­त्यर्थः ।

दुष­णा­न्त­रा­भि­धि­त्स­याऽ­नु­व­दति –
यदुक्तमिति ।

जीवाः किं बुद्ध्या­दि­वि­शि­ष्टा­श्चि­त्प्र­ति­बिम्बा धर्मित्वेन गृह्यन्ते किंवा देव­म­नु­ष्या­दि­श­ब्द­वाच्याः सचितिका देहाः किंवा तृतीयो विलक्षणः निरु­पा­धि­क­भे­द­भि­न्न­श्चे­तनः । आद्ये सिद्धसाधनत्वमाह –
नान­भ्यु­प­ग­मा­दि­त्या­दिना ।
चित्तं ज्ञानं चैत्याः सुखादयो बीजमविद्यादि बीजि शरीरं तत्स्व­भा­व­वि­शि­ष्टस्य विशे­ष­ण­ता­दा­त्म्या­दि­त्यर्थः । यस्य विशि­ष्ट­रू­प­स्या­वि­च्छेदे तत्प्र­वि­ष्ट­चि­त्स्व­रू­पस्य संसारव्यवहारो यस्य च विच्छेदे प्रति­बि­म्ब­रू­पस्य बिम्बसम्पत्त्या मोक्षव्यवहारो भवति स कल्पितरूपः पृथ­ग­भ्यु­प­ग­म्य­तेऽतः सिद्ध­सा­ध­न­मि­त्यर्थः ।

द्विती­य­वि­क­ल्पेऽपि सिद्धसाधनत्वमाह –
अन्यश्चेति ।
तृतीयविकल्पे बुद्ध्या­दि­क­ल्पि­तेभ्यो विशिष्टात्मभ्यो व्यतिरेकेण निरु­पा­धि­क­स्व­रू­पा­भि­प्रा­येण पक्षीकरणे हेतु­रा­श्र­या­सि­द्ध­स्ता­दृ­श­स्याऽ­श्र­यस्य मान­वि­क­ल­त्वा­दि­त्यर्थः ।

ईश्वरादन्य आत्मा नास्तीति वदता सर्वोपाधिस्थ ईश्वर एवाऽऽ­त्मे­त्युक्तं भवति । तदा च बद्ध­त्व­मु­क्त­त्वा­दि­वि­रु­द्ध­ध­र्मत्वं सुख­दुः­खा­दि­यो­ग­श्चा­स­ङ्गस्य विरुद्धः प्रसज्येतेत्यतो वास्त­व­म­सं­सा­रित्वं कल्पितेन संसारित्वेन न विरुध्यत इति दर्शयितुं यस्य यस्या­न्तः­क­र­णा­दि­वि­का­र­स्यो­द­यादेः सन्नि­धि­मा­त्रे­णाऽऽत्मा निमित्तं तस्य तस्य लोकै­र­ह­ङ्का­रा­दि­भि­र्वि­प­री­त­रू­प­स्या­ध्या­रो­प­णा­दा­त्मनः संसा­रि­त्व­मि­त्याह –
न निमित्तत्वे सतीत्यादिना ।

ईश्वरे सुखाद्यारोप इत्युक्ते मायोपाधिके ब्रह्म­णी­श्व­र­श­ब्द­वाच्ये सुखा­द्य­ध्या­स­शङ्का स्यात्त­न्नि­वृ­त्त्य­र्थ­माह –
नित्य­वि­ज्ञा­न­श­क्ति­रूप इति ।
यथाऽ­ग्न्या­दि­शक्तिः शक्त्य­न्त­र­म­न्त­रेण स्वस्वभावादेव कार्यो­त्पा­द­ना­नु­कूला तथा नित्यविज्ञानं स्वभा­व­स­न्नि­धि­मा­त्रे­णा­न्तः­क­र­णा­दि­प्र­वृ­त्ति­नि­मि­त्त­मिति शक्तिरूपमुच्यते । तस्मि­न्स्वा­त­न्त्र्या­दी­श्व­र­प­द­लक्ष्ये विरु­द्धा­ने­क­ध­र्मा­ध्यासो न विरुध्यत इत्यर्थः । लोकस्य ज्ञानापोहो विस्मरणम् ।

न स्वत इति ।
न परमार्थतो विरु­द्धा­ने­क­ध­र्म­व­त्त्व­मि­त्यर्थः ।

भ्रान्तस्य स्वदृ­ष्ट्य­नु­रू­पा­ध्या­सा­रो­प­द­र्श­नाच्च नाध्यासो वस्तुक्षतिकर इत्याह –
आत्मदृष्टीति ।
बौद्धा­दि­वृ­त्ती­ना­मु­द्भ­वा­भि­भ­वा­भ्या­मा­कु­लस्य । वैचि­त्र्य­मा­प­न्नस्य वृत्ती­ना­मे­वो­द्भ­वा­भि­भवौ न तद्व्या­प­क­चै­त­न्य­स्येति विवे­क­शू­न्य­लो­कस्य भ्रान्त्येति योजना । चैतन्यस्य ज्ञान­सु­खा­द्यु­त्पादे निमित्तत्वं न केव­ल­म­न्व­य­व्य­ति­रे­क­सि­द्धम् । तत्स्मरणाच्च भगवद्वाक्याच्च सिद्धमित्यर्थः । ईश्वरे संसा­रि­त्व­मी­श्वरः संसा­री­ति­प्र­सि­द्ध्य­भा­वा­द्वि­शि­ष्टा­नु­ग­त­चि­त्स्व­रूप इति व्याख्येयम् ।

एतेनेति ।
सिद्ध­सा­ध­न­त्वा­दि­दू­ष­णेन प्रतिशरीरं ज्ञान­सु­खा­दी­ना­मा­श्र­य­भे­द­स्ता­त्त्विकः प्रत्युक्तो मन्तव्यः । किञ्च व्याव­र्त­क­ध­र्म­व­शा­द्व्या­वृत्तिः सिध्यति । साङ्ख्यमते च पुरुषाणां चैत­न्य­मा­त्र­रू­पाणां न व्यावर्तको धर्मोऽस्ति । वैशेषिकमते त्वन्त्य­वि­शे­ष­क­ल्प­नाऽ­न्यो­न्या­श्र­य­प­रा­हता ।

अतो निर्वि­शे­ष­त्वा­त्पुंसां न भेदस्तात्त्विक इत्याह –
सौक्ष्म्येति ।

कश्चिद्दुःखी कश्चित्सुखीति दुःखा­दि­वि­क्रि­या­व्य­व­स्था­न्य­था­नु­प­प­त्याऽऽ­श्र­य­भे­द­स्ता­त्त्वि­कः­क­ल्प्यते तत्राऽऽह –
विक्रियावत्त्वे चेति ।
सुखा­दि­वि­क्रि­या­णा­मु­पा­धि­ध­र्म­त्वा­न्नाऽऽ­त्म­भे­द­सा­ध­कत्वं व्यधि­क­र­णा­सि­द्ध­त्वा­दि­त्यर्थः ।

किञ्च न सर्वैरेव मोक्षे विक्रियादिविशेष इष्यते । स्वरूपावस्थानं च मोक्षस्ततः सविशेषत्वं न स्वाभा­वि­क­मि­त्याह –
मोक्षे चेति ।

किञ्च जाग्र­त्स्व­प्न­यो­र­वि­द्या­वद्भिः भ्रान्तै­रु­प­ल­म्भात् सुषु­प्ति­स­मा­ध्यो­र्भ्रा­न्त्य­भा­वेऽ­नु­प­ल­म्भात् मिथ्यात्वं भेदस्य सिद्धमित्याह –
अविद्यावदिति ।
जीवानां क्रमे­णा­ने­क­श­री­रा­नु­या­यि­त्वा­त्प्रा­ति­भा­सि­कस्य शरी­रा­दि­स­न्ता­नस्य मिथ्या­भि­मा­न­वि­ष­य­त्वा­च्छु­क्ति­रू­प्य­व­द­ज्ञा­न­बी­जस्य विच्छेद आत्मनो मोक्षसंज्ञेति सम्बन्धः ।

आत्मन इति कस्मादुच्यते विशिष्टस्य बन्धमोक्षौ किं नेष्येते तत्राऽऽह –
स्वरू­पा­पे­क्ष­त्वा­दिति ।
विशिष्टस्य मोक्षेऽ­न्व­या­स­म्भ­वा­द­न्वये वा संसा­रा­नि­वृ­त्ति­प्र­स­ङ्गा­द­न्यस्य च बन्धेऽन्यस्य च मोक्षे साध­न­वै­य­र्थ्या­दु­पा­धि­वै­शि­ष्ट्य­द्वा­रेण स्वरू­प­स्यै­वो­पा­धि­प्र­ति­बि­म्ब­क­ल्पस्य बन्धमोक्षौ । प्रतिबिम्बो हि वाच्यरूपेण मिथ्या लक्ष्यरूपेण तु बिम्बमेव स्वरूपावस्थानं मुक्तिरुपपद्यते । तदुक्तम् – “ उपाधिना सार्ध­मु­पा­धि­ज­न्य­मौ­पा­धिकं सर्वमवेहि मिथ्या ।
भागं मृषा चित्प्र­ति­बि­म्ब­केऽपि बिम्बं पुनः सत्यमशेषमेव” इति च ॥

सूत्रमिदं व्याख्याति –
ईश्वरनिमित्त इत्यादिना ।
त ऐक्षन्तेति देवानामीक्षणस्य मिथ्या­प्र­त्य­य­त्वा­न्मि­थ्या­भि­मा­नस्य हेय­त्व­ख्या­प­नार्थो ब्रह्मणः प्रादुर्भाव इति योजना । जयादि श्रेष्ठत्वे निमित्तं मन्यमाना इति शेषः ॥ १६ - २ ॥
इति तृतीयः खण्डः ॥