आनन्दगिरिटीका (केन वाक्यभाष्य)
चतुर्थः खण्डः
विद्येति सत्त्वप्रधाना शक्तिश्चित्तादात्म्यापत्त्या बोधहेतुः ॥ २७ - १ ॥ २८ - २ ॥ २९ - ३ ॥
तस्मादित्यस्यापेक्षितं पाठव्यत्यासेन व्याचष्टे –
यस्मादित्यादिना ।
अर्थावादोपसंहारोऽयं विध्युपक्रमार्थम् । विद्युद्दृष्टान्तेनात्यन्तदीप्तिमत्त्वं निमेषणदृष्टान्तेन देवैरपि दुर्ज्ञेयत्वमिति गुणद्वयं देवानधिकृत्य विवक्षितम् । अत एव तद्गुणद्वयविशिष्टोपासनमाधिदौविकमुच्यते ॥ ३० - ४ ॥
अहङ्ग्रहेणैवैतत्कर्तव्यमित्यभिप्रेत्याऽऽध्यात्मिकब्रह्मरूपमाह –
आत्मेत्यादिना ॥ ३१ - ५ ॥
वनतेस्तत्कर्मण इति ।
‘वन’ सम्भजन इत्यस्य धातोः सम्भजनार्थस्य रूपं वनमिति । तत्प्रसिद्धं वनं न गृह्यत इत्यर्थः ।
गौणमिति ।
अवयवशक्तिलभ्यं न रूढ्या समुदायशक्त्येत्यर्थः ॥ ३२ - ६ ॥
ब्राह्मणजातेरुपनिषदमिति ।
ब्राह्मणजात्यनुष्ठेयां विद्यामात्मज्ञानसाधनभूतामित्यर्थः ॥ ३३ - ७ ॥ ब्रह्मेति वेदस्तन्मूलत्वात्तदाश्रया ॥ ३४ - ८ ॥ तपआदीनि वेदाङ्गान्यन्याङ्गानि यस्याः ॥ ३५ - ९ ॥ सत्यकामः स्वयंसिद्धः सर्वेशो यः स्वशक्तितः । स एवान्तःप्रविष्टोऽहमुपास्यः सर्वदेहिनाम् ॥ १ ॥
इति चतुर्थः खण्डः ॥
इति श्रीपरमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दभगवत्पूज्यपादशिष्यभगवदानन्दज्ञानकृतौ श्रीमच्छाङ्करतलवकारोपनिषदपरपर्यायकेनोपनिषद्वाक्यभाष्यविवरणं समाप्तम् ।