अद्वैतशारदा

आनन्दगिरिटीका (केन वाक्यभाष्य)

चतुर्थः खण्डः

विद्येति सत्त्वप्रधाना शक्ति­श्चि­त्ता­दा­त्म्या­पत्त्या बोधहेतुः ॥ २७ - १ ॥ २८ - २ ॥ २९ - ३ ॥

तस्मा­दि­त्य­स्या­पे­क्षितं पाठव्यत्यासेन व्याचष्टे –
यस्मादित्यादिना ।
अर्था­वा­दो­प­सं­हा­रोऽयं विध्यु­प­क्र­मा­र्थम् । विद्यु­द्दृ­ष्टा­न्ते­ना­त्य­न्त­दी­प्ति­मत्त्वं निमे­ष­ण­दृ­ष्टा­न्तेन देवैरपि दुर्ज्ञे­य­त्व­मिति गुणद्वयं देवानधिकृत्य विवक्षितम् । अत एव तद्गु­ण­द्व­य­वि­शि­ष्टो­पा­स­न­मा­धि­दौ­वि­क­मु­च्यते ॥ ३० - ४ ॥

अह­ङ्ग्र­हे­णै­वै­त­त्क­र्त­व्य­मि­त्य­भि­प्रे­त्याऽऽ­ध्या­त्मि­क­ब्र­ह्म­रू­प­माह –
आत्मेत्यादिना ॥ ३१ - ५ ॥

वनतेस्तत्कर्मण इति ।
‘वन’ सम्भजन इत्यस्य धातोः सम्भजनार्थस्य रूपं वनमिति । तत्प्रसिद्धं वनं न गृह्यत इत्यर्थः ।

गौणमिति ।
अवयवशक्तिलभ्यं न रूढ्या समु­दा­य­श­क्त्ये­त्यर्थः ॥ ३२ - ६ ॥

ब्राह्म­ण­जा­ते­रु­प­नि­ष­द­मिति ।
ब्राह्म­ण­जा­त्य­नु­ष्ठेयां विद्या­मा­त्म­ज्ञा­न­सा­ध­न­भू­ता­मि­त्यर्थः ॥ ३३ - ७ ॥ ब्रह्मेति वेद­स्त­न्मू­ल­त्वा­त्त­दा­श्रया ॥ ३४ - ८ ॥ तपआदीनि वेदा­ङ्गा­न्य­न्या­ङ्गानि यस्याः ॥ ३५ - ९ ॥ सत्यकामः स्वयंसिद्धः सर्वेशो यः स्वशक्तितः । स एवा­न्तः­प्र­वि­ष्टोऽ­ह­मु­पास्यः सर्वदेहिनाम् ॥ १ ॥
इति चतुर्थः खण्डः ॥
इति श्रीप­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­शु­द्धा­न­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्य­भ­ग­व­दा­न­न्द­ज्ञा­न­कृतौ श्रीम­च्छा­ङ्क­र­त­ल­व­का­रो­प­नि­ष­द­प­र­प­र्या­य­के­नो­प­नि­ष­द्वा­क्य­भा­ष्य­वि­व­रणं समाप्तम् ।