आनन्दगिरिटीका (माण्डूक्य)
आगमप्रकरणम् (१)
परिपूर्णपरिज्ञानपरितृप्तिमते सते ।
विष्णवे जिष्णवे तस्यै कृष्णनामभृते नमः ॥१॥
शुद्धानन्दपदाम्भोजद्वन्द्वमद्वन्द्वतास्पदम् ।
नमस्कुर्वे पुरस्कर्तुं तत्त्वज्ञानमहोदयम् ॥२॥
गौडपादीयभाष्यं हि प्रसन्नमिव लक्ष्यते ।
तदर्थतोऽतिगम्भीरं व्याकरिष्ये स्वशक्तितः ॥३॥
पूर्वे यद्यपि विद्वांसो व्याख्यानमिव चक्रिरे ।
तथाऽपि मन्दबुद्धीनामुपकाराय यत्यते ॥४॥
श्री गौडपादाचार्यस्य नारायणप्रसादतः प्रतिपन्नान् माण्डूक्योपनिषदर्थाविष्करणपरानपि श्लोकानाचार्यप्रणीतान् व्याचिख्यासुर्भगवान् भाष्यकारश्चिकीर्षितस्य भाष्यस्याविघ्नपरिसमाप्त्यादिसिद्धये परदेवतातत्त्वानुस्मरणपूर्वकं तन्नमस्काररूपं मंगलाचरणं शिष्टाचारप्रमाणकं मुखतः समाचरन्नर्थादपेक्षितमभिधेयाद्यनुबन्धमपि सूचयति –
प्रज्ञानेत्यादिना ।
तत्र विधिमुखेन वस्तुप्रतिपादनमिति प्रक्रियां प्रदर्शयति –
ब्रह्म यत्तन्नतोऽस्मीति ।
अस्मदर्थस्य तदैक्यस्मरणरूपं नमनं सूचयता ब्रह्मणस्तदर्थस्य प्रत्यक्त्वं सूचितमिति तत्त्वमर्थयोरैक्यं विषयो ध्वनितः। यच्छब्दस्य प्रसिद्धार्थावद्योतकत्वाद् वेदान्तप्रसिद्धं यद् ब्रह्म तन्नतोऽस्मीति सम्बन्धेन मङ्गलाचरणमपि श्रुत्या क्रियते । ब्रह्मणोऽद्वितीयत्वादेव जननमरणकारणाभावादमृतमजमित्युक्तम् । जननमरणप्रबन्धस्य संसारत्वात् तन्निषेधेन स्वतोऽसंसारित्वं दर्शयता संसारानर्थनिवृत्तिरिह प्रयोजनमिति द्योतितम् । यद्यद्वितीयं स्वतोऽसंसारि ब्रह्म वेदान्तप्रमाणकं तर्हि कथमवस्थात्रयविशिष्टा जीवा भोक्तारोऽनुभूयन्ते, भोजयिता चेश्वरः श्रूयते, भोज्यं च विषयजातं पृथगुपलभ्यते ।
तदेतदद्वैते विरुध्येतेत्याशङ्क्य ब्रह्मण्येव जीवा जगदीश्वरश्चेति सर्वं काल्पनिकं सम्भवतीत्यभिप्रेत्याह –
प्रज्ञानेति ।
प्रकृष्टं जन्मादिविक्रियाविरहितं कूटस्थं ज्ञानं ज्ञप्तिरूपं वस्तु –
प्रज्ञानम् ।
तच्च ब्रह्म । “प्रज्ञानं ब्रह्म”(ऐ. उ. ३ । १ । ३) इति हि श्रूयते । तस्यांशवो रश्मयो जीवाश्चिदाभासाः सूर्यप्रतिबिम्बकल्पा निरूप्यमाणा बिम्बकल्पाद् ब्रह्मणो भेदेनासन्तस्तेषां प्रताना विस्तारास्तैरपर्यायमेवाशेषशरीरव्यापिभिः ।
तदेवाह –
स्थिरेति ।
स्थिरा वृक्षादयः । चरा मनुष्यादयः । तेषां निकरः समूहस्तं व्याप्तुं शीलमेषामिति तथा, तैरिति यावत् ।
लोका लोक्यमाना विषयास्तान् व्याप्येति विषयसम्बन्धोक्तिस्तत्फलं कथयति –
भुक्त्वेति ।
भोगाः सुखदुःखादिसाक्षात्कारास्तेषां स्थविष्ठत्वं स्थूलतमत्वं देवतानुगृहीतबाह्येन्द्रियद्वारा बुद्धेस्तत्तद्विषयाकारपरिणामजन्यत्वं तान्भुक्त्वा स्वपितीति सम्बन्धः। एतेन जागरितं ब्रह्मणि कल्पितमुक्तम् ।
तत्रैव स्वप्नकल्पनां दर्शयति –
पुनरपीति ।
जाग्रद्धेतुधर्माधर्मक्षयानन्तर्यं पुनः शब्दार्थः । स्वप्नहेतुकर्मोद्भवे च सतीत्यपिनोच्यते । न च तत्र बाह्यानीन्द्रियाणि स्थूला विषयाश्च सन्ति; किं तु धिषणाशब्दितबुद्ध्यात्मानो वासनात्मनो विषया भासन्ते, ताननुभूय स्वपितीत्यर्थः ।
तेषां प्रापकमुपन्यस्यति –
कामजन्यानिति ।
कामग्रहणं कर्माविद्ययोरुपलक्षणार्थम् ।
अवस्थाद्वयकल्पनां ब्रह्मणि दर्शयित्वा तत्रैव सुषुप्तिकल्पनां दर्शयति –
पीत्वेति ।
सर्वे विशेषाः सर्वे विषयाः स्थूलाः सूक्ष्माश्च जागरितस्वप्नरूपास्तान् पीत्वा स्वात्मन्यज्ञाते प्रविलाप्य स्वपिति कारणभावेन तिष्ठतीत्यर्थः ।
तत्राऽऽनन्दप्राधान्यमभिप्रेत्य विशिनष्टि –
मधुरभुगिति ।
अवस्थात्रयस्य मायाकृतस्य मिथ्याभूतस्य प्रतिबिम्बकल्पेष्वस्मासु सम्बन्धितामिवाऽऽपाद्यास्मान् भोजयद् ब्रह्म वर्तते । अतो ब्रह्मण्येवावस्थात्रयम् ।
तद्वन्तो जीवाः, मायावि ब्रह्म च ब्रह्मणि परिशुद्धे परिकल्पितं सर्वमित्याह –
माययेति ।
तस्यैव ब्रह्मणोऽवस्थात्रयातीतत्वेन विज्ञप्तिमात्रत्वं दर्शयति –
तुरीयमिति ।
चतुर्णां पूरणं तुरीयमिति व्युत्पत्तेर्ब्रह्मणस्तुरीयत्वेन निर्देशात्प्राप्तं सद्वितीयत्वमित्याशङ्क्य कल्पितस्थानत्रयसंख्यापेक्षया तुरीयत्वं न सद्वितीयत्वेनेत्याह –
मायेति ।
मायावित्वेन निकृष्टत्वमाशङ्क्योक्तम् –
परमिति ।
मायाद्वारा ब्रह्मणस्तत्सम्बन्धेऽपि स्वरूपद्वारा न तत्सम्बन्धोऽस्तीति कुतो निकृष्टतेत्यर्थः ॥१॥
विधिमुखेन वस्तुप्रतिपादनप्रक्रियामवलम्ब्य तदर्थेनोपक्रम्य तस्य त्वमर्थप्रत्यगात्ममात्रत्वमुक्तम् । अभिधेयफलोक्त्या सम्बन्धाधिकारिणौ च सूचितौ ।निषेधद्वारा वस्तुप्रतिपादनप्रक्रियामाश्रित्य त्वमर्थेनोपक्रम्य तस्य तदर्थासंसारिब्रह्ममात्रत्वं प्रत्याययति –
यो विश्वात्मेति ।
तत्र त्वमर्थः स्वतः सिद्धश्चिद्धातुः सर्वनाम्ना परामृश्यते ।
तस्मिञ्जागरितमारोपितं तमुदाहरति –
विश्वात्मेति ।
विश्वं पञ्चीकृतपञ्चमहाभूततत्कार्यात्मकं स्थूलं जगद् वैराजं शरीरम् । तस्मिञ्जागरिते चाहंममेत्यभिमानवानित्यर्थः ।
तस्यार्थक्रियामुपन्यस्यति –
विधिजेति ।
विधीयत इति विधिधर्मो नञानुबन्धेन ततो व्यतिरिक्तोऽविधिरधर्मस्ताभ्यां धर्माधर्माभ्यामविद्याकामप्रसूताभ्यां विषयाः शब्दादयो जन्यन्ते । तान् भोगयोग्यतया भोगशब्दितानादित्याद्यनुगृहीतबाह्येन्द्रियद्वारकबुद्धिपरिणामगोचरतया स्थूलतमान् प्राश्य साक्षादनुभूय स्थितोऽयं प्रत्यगात्मेत्यर्थः ।
तत्रैव स्वप्नावस्थामध्यस्यति –
पश्चाच्चेति ।
जाग्रद्धेतुकर्मक्षयानन्तरं स्वप्नहेतुकर्मोद्भवे च प्रसूतानन्तःकरणात्मनो वासनामयानादित्यादिज्योतिषामस्तमितत्वादात्मभूतेनैव ज्योतिषा विषयीकृताननुभूय पञ्चीकृतपञ्चमहाभूततत्कार्यात्मकं सूक्ष्मप्रपञ्चं हैरण्यगर्भं शरीरं स्वप्नस्थानं चाभिमन्यमानस्तैजसो भवतीत्यर्थः ।
सुषुप्तकल्पनां दर्शयति –
सर्वानिति ।
स्थूलसूक्ष्मविभागेन स्थानद्वयाविच्छिन्नान् प्रकृतानेतानशेषानपि विशेषानुपाधिद्वयभूतानुपाधिद्वयद्वारकस्थानद्वयसञ्चारप्रयुक्तश्रमोद्भवानन्तरं तस्यापि परिजिहीर्षायां शनैरनुक्रमेणाक्रमेण वा स्वात्मन्यज्ञाते कारणात्मनि स्थापयित्वोपसंहृत्याव्याकृतप्रधानः सन् प्राज्ञो भवतीत्यर्थः ।
तस्यैव प्रत्यगात्मनः स्थानत्रयविशिष्टस्य ‘नान्तः प्रज्ञं न बहिः प्रज्ञम्’(मा.उ. १। ७) इत्यादिप्रतिषेधशास्त्रप्रसूतप्रमाणज्ञानसमारूढस्य सर्वानप्यनर्थविशेषान् कार्यकारणरूपान् प्रमाणज्ञानप्रभावादेव हित्वा निरुपाधिकपरिपूर्णपरिज्ञानपरमात्मस्वरूपेण परिनिष्पन्नं तत्त्वं कथयति –
हित्वेति ।
प्रथमश्लोकेन प्रदर्शितप्रणामस्य प्रत्यूहप्रवाहप्रशमनात्मकं प्रयोजनं स्थानत्रयप्रकल्पनातीतपरवस्तुप्रयुक्तं प्रार्थयते द्वितीयोन –
पात्विति ।
नोऽस्मान् व्याख्यातृत्वेन श्रोतृत्वेन च व्यवस्थितान् पुरुषार्थपरिपन्थिभूतकारणनिरासपुरःसरं परमात्मा पराकृताशेषकल्पनो नित्यविज्ञप्तिस्वभावो मोक्षप्रदानेन तद्धेतुज्ञानप्रदानेन च परिरक्षतादित्यर्थः। केचित्तु प्रकरणचतुष्टयात्मनो ग्रन्थस्य वेदान्तैकदेशसम्बद्धत्वज्ञापनार्थं निष्प्रपञ्चं वाक्यप्रतिपाद्यं ब्रह्म प्रथमश्लोकेन सूचितम् । द्वितीयेन माण्डूक्यश्रुतिव्याख्यानरूपेणाऽऽद्यप्रकरणेन प्रणवमात्राणामात्मपादानां चैकीकरणेन प्रतिपाद्यं ब्रह्म सूचितमिति मन्यन्ते । न च द्वितीयश्लोके चतुर्थपादे वृत्तलक्षणाभावादसाङ्गत्यमाशङ्कनीयम् । गाथालक्षणस्य तत्र सुसम्पादत्वादिति द्रष्टव्यम् । अन्ये त्वाद्यश्लोकं मूलश्लोकान्तर्भूतमभ्युपगच्छन्तो द्वितीयश्लोकं भाष्यकारप्रणीतमभ्युपयन्ति । तदसत् । उत्तरश्लोकेष्विवाऽऽद्येऽपि श्लोके भाष्यकृतो व्याख्यानप्रणयनप्रसङ्गात् । ओमित्येतदक्षरमित्यादिभाष्यविरोधाच्च । अपरे पुनराद्येन श्लोकेन शास्त्रप्रतिपाद्यपरदेवतातत्त्वानुस्मरणद्वारेण नमनक्रियाप्रकरणप्रारम्भोपयोगित्वेन क्रियते । परदेवताभक्तिवदपरदेवताभक्तेरपि विद्याप्राप्तावन्तरङ्गत्वस्य शास्त्रीयस्य शिष्यशिक्ष्यायै ज्ञापनार्थमवस्थात्रयातीतान्नित्यसिद्धविज्ञानमूर्तेराचार्यान्मोक्षौपयिकज्ञानप्राप्तिः ‘आचार्यवान्पुरुषो वेद’(छा. उ. ६ । १४ । २) इत्यादिश्रुत्यवष्टम्भेन मुमुक्षुणा प्रार्थ्यते द्वितीयश्लोकेनेति कल्पयन्ति॥२॥
यदुद्दिश्य मङ्गलाचरणं कृतं तन्निर्देष्टुमादौ व्याख्येयस्य प्रतीकं गृह्णाति –
ओमित्येतदिति ।
‘ओमित्येतदक्षरम्’(छा. उ. १ । १ । १) इत्यादिप्रकरणचतुष्टयविशिष्टमिदमारभ्यते व्याख्यायतेऽस्माभिरित्युद्देश्यं प्रतिजानीते । किमिदं शास्त्रत्वेन वा प्रकरणत्वेन वा व्याचिख्यासितम् ? नाऽऽद्यः, शास्त्रलक्षणाभावादस्याशास्त्रत्वात् । एकप्रयोजनोपनिबद्धमशेषार्थप्रतिपादकं हि शास्त्रम् । अत्र च मोक्षलक्षणैकप्रयोजनवत्त्वेऽपि नाशेषार्थप्रतिपादकत्वम् ।न द्वितीयः, प्रकरणलक्षणाभावादित्याशङ्क्याऽऽह –
वेदान्तेति ।
शास्त्रं वेदान्तशब्दार्थः । तस्यार्थोऽधिकारिनिर्णयगुरूपसदनपदार्थद्वयतदैक्यविरोधपरिहारसाधनफलाख्यः ।तत्र सारो जीवपरैक्यम्, तस्य सम्यग्ग्रहः संग्रहः संशयविपर्यासादिप्रतिबन्धव्युदासेन तदुपायोपदेशो यस्मिन्प्रकरणे तत्तथेति यावत् । तथाच – “शास्त्रैकदेशसम्बद्धं शास्त्रकार्यान्तरे स्थितम्” । इदंप्रकरणत्वेन व्याख्यातुमिष्टम् । निर्गुणवस्तुमात्रप्रतिपादकत्वात्तत्प्रतिपादनसंक्षेपस्य च कार्यान्तरत्वात्प्रकरणलक्षणस्य चात्र सम्पूर्णत्वादित्यर्थः ।
प्रकरणत्वेऽपि निर्विषयत्वादिप्रयुक्तमव्याख्येयत्वमाशङ्क्याऽऽह –
अत एवेति ।
प्रकरणत्वादेव प्रकृतशास्त्राद्भेदेन सम्बन्धादीनामवाद्यत्वेऽपि प्रकरणप्रवृत्यङ्गतया तानि त्ववश्यं वक्तव्यानीत्याशङ्क्य शास्त्रीयसम्बन्धादीनां तदीये प्रकरणेऽर्थात्प्राप्तत्वान्नास्ति वक्तव्यत्वमर्थपुनरुक्तेरित्याह –
यान्येवेति ।
श्रोतारो हि शास्त्रीयं प्रकरणं प्रतिपद्यमानाः शास्त्रीयाण्येव सम्बन्धादीन्यत्र वचनाभावेऽपि बुध्यमानाः प्रवृत्तिं तस्मिन्प्रकुर्वन्तीत्यर्थः ।
तर्हि प्रकरणकर्तृवदेव तद्भाष्यकृताऽपि विषयादीनामत्रावक्तव्यत्वाद्भाष्यकृतो विषयाद्युपन्यासायासो वृथा स्यादित्याशङ्क्याऽऽह –
तथाऽपीति ।
प्रकरणकर्तुरवक्तव्यान्यपि तद्भाष्यकृता तानि संक्षेपतो वक्तव्यानीति व्याख्यातॄणां मतम् । द्वाभ्यामनुक्तत्वे तेष्वनाश्वासाशङ्कावकाशादित्यर्थः ।
भाष्यकृता प्रयोजनादीनां वक्तव्यत्वे सिद्धे शास्त्रप्रकरणयोर्मोक्षलक्षणप्रयोजनवत्त्वं प्रतिजानीते –
तत्रेति ।
प्रयोजनवच्छास्त्रमिति सम्बन्धः । शास्त्रग्रहणं प्रकरणोपलक्षणार्थम् ।
मोक्षलक्षणं फलं ब्रह्मज्ञानस्येष्यते, न शास्त्रप्रकरणयोरित्याशङ्क्याऽऽह –
साधनेति ।
सत्यं मोक्षस्य साधनं ब्रह्मात्मैकत्वज्ञानम् । तस्य जनकं शास्त्रादि । तद्भावेन ज्ञानव्यवधानेन मोक्षफलवद्भवति शास्त्रादीत्यर्थः ।
तथाऽपि ब्रह्मणा विषयेण सम्बन्धो वेदान्तानामेवेष्यते, तत्कथमभिधेयसम्बद्धं शास्त्रादीत्याशङ्क्य ब्रह्मविचारमन्तरेण तज्ज्ञानजनकत्वायोगात्तज्ज्ञानजननद्वारा विषयसम्बन्धसिद्धिरित्याह –
अभिधेयेति ।
उक्तं ज्ञानव्यवहितं प्रयोजनादिशास्त्रादेरुपसंहरति –
पारम्पर्येणेति ।
तत्र सम्बन्धो ब्रह्मज्ञानं शास्त्रादिना जन्यमेवेत्ययोगव्यवच्छेदादुक्तः । शास्त्रदिनैव जन्यमित्यन्ययोगव्यवच्छेदाद्विषयोऽपि दर्शितः ।
यदुक्तं प्रयोजनवत्त्वं तदाक्षिपति –
किंपुनरिति ।
साध्यत्वे स्वर्गवदनित्यत्वम्, नित्यत्वे साधनानधीनत्वान्न तादर्थ्येन शास्त्रादि प्रयोक्तव्यमित्यर्थः ।
मोक्षस्याऽऽत्मस्वरूपत्वान्नानित्यत्वं; नापि साधनानर्थक्यम्, स्वरूपभूतमोक्षप्रतिबन्धनिवर्तकत्वेनार्थवत्त्वादित्युत्तरमाह –
उच्यत इति ।
यथा देवदत्तस्य ज्वरादिना रोगेणाभिभूतस्य स्वस्थता स्वरूपादप्रच्युतिरूपा स्वरूपभूतैव प्रागपि सती रोगप्रतिबद्धाऽसतीव स्थिता चिकित्साशास्त्रीयोपायप्रयोगवशात्प्रतिबन्धभूतरोगापगमे सत्यभिव्यज्यते । न हि तत्रोपायवैयर्थ्यं प्रतिबन्धप्रध्वंसार्थत्वात् ।
न चानित्यत्वं स्वस्थतायाः शङ्क्येत, तस्यास्तदसाध्यत्वादित्युक्तेऽर्थे दृष्टान्तमाह –
रोगार्तस्येवेति ।
यथोदितदृष्टान्तानुरोधादात्मनः स्वतः समुत्खातनिखिलदुःखस्य निरतिशयानन्दैकतानस्यापि स्वाविद्याप्रसूताहङ्कारादिद्वैतप्रपञ्चसम्बन्धादात्मनि दुःखमारोप्याहं दुःखी, सुखं मया प्राप्तव्यमिति प्रतिपद्यमानस्य परमकारुणिकाचार्योपदिष्टवाक्योत्थाद्वैतविद्यातो द्वैतनिवृत्तौ प्रतिबन्धप्रध्वंसे स्वभावभूता परमानन्दता निरस्तसमस्तानर्थता च स्वारस्येनाभिव्यक्ता भवति । सा च स्वस्थता परिपूर्णवस्तुस्वभावान्नातिरिच्यते । तदिदं शास्त्रीयं प्रयोजनम् । तस्य स्वरूपत्वेनासाध्यत्वान्नानित्यत्वं शङ्कितव्यम् ।
न च साधानवैयर्थ्यं, प्रदर्शितप्रतिबन्धनिवृत्तिफलत्वादिति दार्ष्टान्तिकमाह –
तथेति ।
ननु द्वैतस्याहङ्काराद्यात्मनो वस्तुत्वाद्वस्तुनश्च विद्यानपोह्यत्वान्नित्यनैमित्तिककर्मायत्तत्वात्तन्निवृत्तेरलं विद्यार्थेन प्रकरणारम्भेणेति, तत्राऽऽह –
द्वैतेति ।
आत्मविद्याकृतस्य द्वैतस्याऽऽत्मविद्यया कारणनिवृत्त्या निवृत्तेरात्मविद्याभिव्यक्तये शास्त्रारम्भो युज्यते ।
न च द्वैतस्याविद्याकृतस्य विद्यमानदेहत्वे प्रमाणमस्तीत्याशङ्क्यान्वयव्यतिरेकानुविधायिनीं श्रुतिमुदाहरति –
यत्र हीति ।
इवशब्दाभ्यामविद्यावस्थायां प्रतिभातद्वैतस्य तत्प्रतिभानस्य चाऽऽभासत्वेनाविद्यामयत्वमुच्यते ।
आत्मैवाभूदिति ।
विदुषो विद्यावस्थायां कर्तृकरणादिसर्वमात्ममात्रं, नातिरिक्तमस्तीत्युक्त्या विद्याद्वारा सर्वस्य द्वैतस्याऽऽत्ममात्रत्ववचनाद्विद्यानिमित्ताकार्यकरणात्मकद्वैतनिवृत्तिरात्मैवेत्यभिलप्यते । तथा च विद्यातो द्वैतनिवृत्तिनिर्देशात्तस्याविद्यात्वमवद्योत्यते । आदिशब्दात् ‘नेह नाना’(बृ. उ. ४ । ४ । १९) इत्यधिष्ठाननिष्ठात्यन्ताभावप्रतियोगित्वं द्वैतस्याभिदधद् वाक्यं वाचारम्भणवाक्यं च गृहीतम् ।
अस्यार्थस्येति ।
द्वैतगताविद्याकृतत्वस्येत्यर्थः ।
विषयप्रयोजनाद्यनुबन्धोपन्यासमुखेन ग्रन्थारम्भे स्थिते सत्यादौ प्रकरणचतुष्टयस्य प्रत्येकमसङ्कीर्णं प्रमेयं प्रतिपत्तिसौकर्यार्थं सूचयितव्यमित्याह –
तत्र तावदिति ।
ओङ्कारप्रकरणस्यासङ्कीर्णं प्रमेयं संगृह्णाति –
ओङ्कारेति ।
तन्निर्णयाय प्रकरणमारब्धमित्ययुक्तम् । तन्निर्णये प्रमाणाभावात् तस्य चानुपयोगित्वात् । आत्मप्रतिपत्तिर्हि पुरुषार्थोपयोगिनीत्याशङ्क्याऽऽगमेत्यादिविशेषणद्वयम् । तदुपदेशप्रधानं माण्डूक्योपनिषद्व्याख्यानरूपम् । तेन तत्र प्रामाण्यादुक्तो निर्णयः सेत्स्यति, न त्विदं युक्तिप्रधानं युक्तिलेशस्य सतोऽपि गुणत्वादप्रधानत्वात् । न चायमोङ्कारनिर्णयो नोपयुज्यते । यदात्मनस्तत्त्वमनारोपितरूपं तत्प्रतिपत्तावुपायत्वात् । तत्प्रतिपत्तेश्च मुक्तिफलत्वात् । अतश्चाऽऽद्यं प्रकरणमोङ्कारनिर्णयावान्तरफलद्वारेण तत्त्वज्ञाने परमफले पर्यवस्यतीत्युपदेशवशादधिगन्तव्यमित्यर्थः ।
वैतथ्यप्रकरणस्यावान्तरविषयविशेषं दर्शयति –
यस्येति ।
आरोपितनिषेधे सत्यनारोपितप्रतिपत्तिः स्वाभाविकीत्यत्र दृष्टान्तमाह –
रज्ज्वामिवेति ।
हेतुतो दृष्यत्वाद्यन्तवत्त्वादियुक्तिवशदित्यर्थः ।
अद्वैतप्रकरणस्यार्थविशेषमुपन्यस्यति –
तथाऽद्वैतस्यापीति ।
तस्यापि द्वैतवद् व्यवस्थानुपपत्त्या मिथ्यात्वप्रसङ्गः शङ्क्यते । तस्यां सत्यामौपाधिकभेदाद्व्यवस्थायाः सुस्थत्वादव्यभिचारादियुक्तिवशादद्वैतस्य परमार्थत्वं प्रतिपादयितुं तृतीयं प्रकरणमित्यर्थः ।
अलातशान्तिप्रकरणस्यार्थविशेषं कथयति –
अद्वैतस्येति ।
तस्य तथात्वमबाधितत्वेन वस्तुत्वं तत्प्रतिपक्षत्वं पक्षान्तरणामित्यत्रहेतुमाह –
अवैदिकानीति ।
तेषां निराकार्यत्वे हेतुमाह –
अतर्थत्वेनेति ।
मिथ्याद्वैतनिष्ठत्वेनेत्यर्थः ।
तदुपपत्तिभिरेव निराकरणे हेतुमाह –
अन्योन्येति ।
पक्षान्तरप्रतिषेधमुखेनाद्वैतमेव द्रढयितुमन्त्यं प्रकरणमित्यर्थः । ओङ्कारनिर्णयद्वारेणाऽऽत्मप्रतिपत्त्युपायभूतमाद्यं प्रकरणमित्ययुक्तम् । तन्निर्णयस्य तद्धीहेतुत्वायोगात् । न खल्वर्थान्तरज्ञानमर्थान्तरज्ञाने व्याप्तिमन्तरेणोपयुज्यते । न चात्र धूमाग्न्योरिव व्याप्तिरुपलभ्यते । न चात्मकार्यत्वमोङ्कारस्य युक्तम् । आकाशादेरविशेषात् ।
तस्य च सर्वात्मत्वेनाऽऽत्मवत्तत्कार्यत्वव्याघातादिति मन्वानः सन् प्रथमप्रकरणार्थं प्रागुक्तमाक्षिपति –
कथमिति ।
न वयमनुमानावष्टम्भादोङ्कारनिर्णयमात्मप्रतिपत्त्युपायमभ्युपगच्छामो येन व्याप्त्यभावो दोषमावहेत् ।
किं तु श्रुतिप्रामाण्यात्तन्निर्णयस्तद्धीहेतुरिति परिहरति –
उच्यत इति ।
तत्र मृत्युना नचिकेतसं प्रत्योमित्येतदित्यनेन वाक्येन ब्रह्मत्वेनोमित्येतदुपदिष्टम् । समाहितेनोङ्कारोच्चारणे यच्चैतन्यं स्फुरति तदोङ्कारसामीप्यादेव शाखाचन्द्रन्यायेनोङ्कारशब्देन लक्ष्यते ।
येन लक्षणयोङ्कारनिर्णयो ब्रह्मधीहेतुरिति विवक्षित्वा श्रुतिमुदाहरति –
ओमित्येतदिति ।
प्रतिमायां विष्णुबुद्धिवदोङ्कारो ब्रह्मबुद्ध्योपस्यमानो ब्रह्मप्रतिपत्त्युपायो भवतीत्यभिप्रेत्य वाक्यान्तरं पठति –
एतदालम्बनमिति ।
किं चायमोङ्कारो यदा परापरब्रह्मदृष्ट्योपास्यते तदा तज्ज्ञानोपायतामुपारोहतीति मत्वा पुनः श्रुतिम प्रदर्शयति –
एतद्वा इति ।
किं च समाधिनिष्ठो यदा ओमित्युच्चार्याऽऽत्मानमनुसंधत्ते तदा स्थूलमकारमुकारे सूक्ष्मे तं च कारणे मकारे तमपि कार्यकारणातीते प्रत्यगात्मन्युपसंहृत्य तन्निष्ठो भवतीत्यनेन प्रकारेणोङ्कारस्य तत्प्रतिपत्त्युपायतेति विधान्तरेणाऽऽह –
ओमित्यात्मानमिति ।
किं च योऽयं स्थाणुः स पुमानितिवद्यदेतदोमित्युच्यते तद्ब्रह्मेति बाधायां सामानाधिकरण्येन समाहितो ब्रह्म बोध्यते ।
तथा च युक्तमोङ्कारस्य ब्रह्मज्ञानहेतुत्वमित्याह –
ओमिति ब्रह्मेति ।
किं च सर्वास्पदत्वादोङ्कारस्य ब्रह्मणश्च तथात्वादेकलक्षणत्वादन्यत्वासिद्धेरोङ्कारप्रतिपत्तिर्ब्रह्मप्रतिपत्तरेवेत्याह –
ओङ्कार एवेति ।
‘ओमितीदं सर्वम्’(तै. उ. १ । ८ । १) इत्यादिवाक्यान्तरसंग्रहार्थमादिपदमित्यादिश्रुतिभ्यो ब्रह्मप्रतिपत्त्युपायत्वमोङ्कारस्य प्रमितमिति शेषः ।
ननु स्वानुगतप्रतिभासे सन्मात्रे चिदात्मनि प्राणादिविकल्पस्य कल्पितत्वादात्मनः सर्वास्पदत्वं, न पुनरोङ्कारस्य तदस्त्यननुगमादिति, तत्राऽऽह –
रज्ज्वादिरिवेति ।
यथा रज्जुः शुक्तिरित्यादिरधिष्ठानविशेषः सर्पो रजतमित्यादिविकल्पस्याऽऽस्पदोऽभ्युपगम्यते यथैष दृष्टान्तस्तथैव प्राणादिरात्मविकल्पो यस्तद्विषयः सर्वो वाक्प्रपञ्चो यथोक्तोङ्कारमात्रात्मकस्तदास्पदो गम्यते । न च जगत्योङ्कारस्याननुगमः । ओङ्कारेण सर्वा वाक् संतृण्णेति श्रुतेः । अतो युक्तमोङ्कारस्य सर्वास्पदत्वमित्यर्थः ।
नन्वर्थजातस्याऽऽत्मास्पदत्वादोङ्कारास्पदत्वाच्च वाक्प्रपञ्चस्य प्राप्तमास्पदद्वयत्वमिति, नेत्याह –
स चेति ।
आत्मवाचकत्वेऽपि नास्त्योङ्कारस्याऽऽत्ममात्रत्वं तद्वाचकस्य तन्मात्रत्वमिति व्याप्त्यभावात्, प्राणादेरात्मविकल्पस्याभिधानव्यतिरेकदर्शनादित्याशङ्क्याह –
ओङ्कारेति ।
तस्य विकारः सर्वो वाग्विशेषः, ‘अकारो वै सर्वा वाक्’(ऐ. आ. २ । ३ । ७) इति श्रुतेः, ओङ्कारस्य च तत्प्रधानत्वात्, तेन प्राणादिशब्देन वाच्यः प्रणादिरात्मविकल्पः सर्वः स्वाभिधानव्यतिरेकेण नास्ति; तच्चाभिधानं प्राणादिशब्दविशेषात्मकमोङ्कारविकापभूतमोङ्कारातिरेकेण न सम्भवतीत्योङ्कारमात्रं सर्वमिति निश्चीयते । आत्मनोऽपि तद्वाच्यस्य तन्मात्रत्वाभिधानादित्यर्थः ।
शब्दातिरिक्तार्थाभावे शब्दस्यार्थवाचकत्वानुपपत्तेरेकत्र विषयविषयित्वायोगान्निर्विकल्पं सन्मात्रं वस्तु वाच्यवाचकविभागशून्यं पर्यवस्यतीत्यभिप्रेत्य कार्यस्य वस्तुतोऽसत्वे प्रमाणमाह –
वाचारम्भणमिति ।
कार्यस्य सर्वस्यैवं मिथ्यात्वेऽपि कथमोङ्कारनिर्णयस्य ब्रह्मप्रतिपत्त्युपायत्वसिद्धिरित्याशङ्क्याऽऽह –
तदस्येति ।
तदिदं विकारजातमस्य ब्रह्मणः सम्बन्धि वाचा सामान्यरूपया तन्त्या प्रसारितरज्जुतुल्यया सितं बद्धं व्याप्तमिति सम्बन्धः ।
शब्दसामान्येनार्थसामान्यस्य व्याप्तावपि कथमर्थविशेषस्य शब्दविशेषव्याप्तिरित्याशङ्कयाऽऽह –
नामभिरिति ।
शब्दविशेषैर्दामभिर्दामस्थानीयैर्विशेषरूपमपीदमर्थजातं व्याप्तं वक्तव्यं न्यासस्य तुल्यत्वादित्यर्थः ।
उक्तमर्थं समर्थयते –
सर्वं हीति ।
इदं हि सर्वं सामान्यविशेषात्मकमर्थजातं सामान्यरूपेण नाम्ना नीयते व्यवहारपथं प्राप्यते तेन नामनीत्युच्यते । तदेवं वागनुरक्तबुद्धिबोध्यत्वाद्वाङ्मात्रं सर्वम् । वाग्जातं च सर्वमोङ्कारानुविद्धत्वादोङ्कारमात्रम् । स चोङ्कारो लक्षणादिनाऽऽत्मधीहेतुरित्याद्यप्रकरणारम्भः सम्भवतीत्यर्थः । ‘तद्यथा शङ्कुना’(छा. उ. २ । २३ । ३) इतिश्रुतिसंग्रहार्थमादिपदम् । प्रतिज्ञातप्रथमप्रकरणार्थसिद्धिरिति शेषः ।
अर्थमुपपाद्य तस्मिन्नर्थे श्रुतिमवतारयति –
अत आहेति ।
श्रुतिं व्याचष्टे –
यदिदमिति ।
तदिदं सर्वमोङ्कार एवेति सम्बन्धः ।
अभिधानस्याभिधेयतया व्यपस्थितमर्थजातमोङ्कार एवेत्यत्र हेतुमाह –
तस्येति ।
तथाऽपि पृथगभिधानभेदः स्थास्यति, नेत्याह –
अभिधानस्येति ।
वाच्यं वाचकं च सर्वमोङ्कारमात्रमित्यभ्युपगमेऽपि परं ब्रह्म पथगेव स्थास्यतीत्याशङ्क्याऽऽह –
परं चेति ।
यद्धि परं कारणं ब्रह्म तच्चेदमवगम्यते तदा किञ्चिदभिधानं तेनेदमभिधेयमित्येवमात्मकोपायपूर्वकमेव तदधिगमोऽभिधेयं च स्वाभिधानाव्यतिरिक्तं तत्पुनरोङ्कारमात्रमित्युक्तत्वाद्वाच्यं ब्रह्मापि वाचकाभिन्नं तन्मात्रमेव भविष्यति । यत्र तु कार्यकारणातीते चिन्मात्रे वाच्यवाचकविभागो व्यावर्तते तत्र नास्त्योङ्कारमात्रत्वमोङ्कारेण लक्षणया तदगमाङ्गीकारादित्यर्थः ।
तस्येत्यादिश्रुतिमवतार्य व्याकरोति –
तस्येति ।
भूतमित्यादिश्रुतिं गृहीत्वा व्याचष्टे –
कालेति ।
वाच्यस्य वाचकाभेदात्तस्य चोङ्कारमात्रत्वादित्युक्तो न्यायः ।
कालत्रयातीतमोङ्कारातिरिक्तं जडं वस्तु नास्त्येवं प्रमाणाभावादित्याशङ्क्याऽऽह –
कार्याधिगम्यमिति ।
अव्याकृतं साभासमज्ञानमनिर्वाच्यं, तन्न कालेन परिच्छिद्यते कालं प्रत्यपि कारणत्वात् । कार्यस्य कारणात्पश्चाद्भाविनो न प्राग्भाविकारणपरिच्छेदकत्वं सङ्गच्छते । सूत्रमादिपदेन गृह्यते तदपि न कालेन परिच्छेत्तुं शक्यते । “स संवत्सरोऽभवन्न ह पुरा ततः संवत्सर आस”(श.ब्रा. १०।६।५।४) इति सूत्रात्कालोत्पत्तिश्रुतेः । तदपि सर्वमोङ्कारमात्रं वाच्यस्य वाचकाव्यतिरेकन्यायादित्यर्थः ॥१॥
अभिधानाभिधेययोरेकस्मिन्नेव सति कल्पितत्वेन तदेकरूपत्वस्योक्तत्वात्किमिति पुनः ‘सर्वं ह्येतद् ब्रह्म’(मा.उ. १। २) इत्युच्यते । तत्र वृत्तानुवादपूर्वकमुत्तरवाक्यस्य सफलं तात्पर्यमाह –
अभिधानेत्यादिना ।
वाच्यस्य वाचकत्वोक्त्यैव तयोरेकत्वसिद्धेर्व्यतिहारनिर्देशो वृथेत्याशङ्क्याऽऽह –
इतरथेति ।
वाच्येन वाचकस्यैक्यमनुक्त्वा वाचकेनैव वाच्यस्यैक्यवचने सत्युपायोपेयप्रयुक्तमेकत्वं, न मुख्यमैक्यमित्याशङ्क्येत, तन्निवृत्त्यर्थं व्यतिहारवचनमर्थवदित्यर्थः ।
परस्पराभेदोपदेशादभिधानाभिधेययोरेकत्वप्रतिपत्तिरस्तु, साऽपि विफला ब्रह्मप्रतिपत्त्यनुपयोगित्वादित्याशङ्क्याऽऽह –
एकत्वेति ।
अभिधानाभिधेययोरेकत्वप्रतिपत्तेश्चेदं प्रयोजनं यदेकेनैव प्रयत्नेन द्वयमपि विलापयन्नुभयविलक्षणं ब्रह्म प्रतिपद्य निर्वृणोतीति योजना ।
अभिधानाभिधेययोर्व्यतिहारोपदेशे वाक्यशेषमनुकूलयति –
तथा चेति ।
उक्ते वाचकस्य वाच्याभिन्नत्वे वाक्यमवतार्य योजयति –
तदाहेति ।
सर्वं कार्यं कारणं चेत्यर्थः ।
ब्रह्मणः श्रुत्युपदिष्टस्य परोक्षत्वं व्यावर्तयति –
तच्चेति ।
यद्ब्रह्म श्रुत्या सर्वात्मकमुक्तं तन्न परोक्षमिति मन्तव्यं किं त्वयमात्मेति योजना । चतुष्पात्त्वेन विश्वतैजसप्राज्ञतुरीयत्वेनेत्यर्थः । अभिनयो नाम विवक्षितार्थप्रतिपत्त्यर्थमसाधारणः शारीरो व्यापारः, तेन हस्ताग्रं हृदयदेशमानीय कथयतीत्यर्थः ।
सोऽयमित्यादिवाक्यान्तरमवतार्य व्याकरोति –
ओङ्कारेति ।
सर्वाधिष्ठानतया परोक्षरूपेण परत्वं प्रत्यग्रूपेण चापरत्वं तेन कार्यकारणरूपेण सर्वात्मना व्यवस्थितः सन्नात्मा प्रतिपत्तिसौकर्यार्थं चतुष्पात् कल्प्यते, तत्र दृष्टान्तमाह –
कार्षापणवदिति ।
देशविशेषे कार्षापणशब्दः षोडशपणानां संज्ञा । तत्र तथा व्यवहारप्राचुर्याय पादकल्पना क्रियते तथेहापीत्यर्थः ।
यथा गौश्चतुष्पादुच्यते न तथा चतुष्पादादेष्टुं शक्यते निष्कलश्रुतिव्याकोपादित्याह –
न गौरिवेति ।
विश्वादिषु तुर्यान्तेषु पादशब्दो यदि करणव्युत्पत्तिकस्तदा विश्वादिवत्तुर्यस्यापि करणकोटिनिवेशो ज्ञेयासिद्धिः ।
यदि तु पादशब्दः सर्वत्र कर्मव्युत्पत्तिकस्तदा साधनासिद्धिरित्याशङ्क्य विभज्य पादशब्दप्रवृत्तिं प्रकटयति –
त्रयाणामित्यादिना ।
करणसाधनः करणव्युत्पत्तिकः, कर्मसाधनः कर्मव्युत्पत्तिक इति यावत् ॥२॥
आत्मनो निरवयवस्य पादद्वयमपि नोपपद्यते, पादचतुष्टयं तु दूरोत्सारितमिति शङ्कते –
कथमिति ।
परमार्थतश्चतुष्पात्त्वाभावेऽपि काल्पनिकमुपायोपेयभूतं पादचतुष्टयमविरुद्धमित्यभिप्रेत्याऽऽद्यं पादं व्युत्पादयति –
आहेत्यादिना ।
स्थानमस्येत्यभिमानस्य विषयभूतमित्यर्थः ।
प्रज्ञायास्तावदान्तरत्वप्रसिद्धेरयुक्तमिदं विशेषणमित्याशङ्क्य व्याचष्टे –
बहिरिति ।
चैतन्यलक्षणा प्रज्ञा स्वरूपभूता न बाह्ये विषये प्रतिभासते तस्या विषयानपेक्षत्वात्, बाह्यस्य च विषयस्य वस्तुतोऽभावादित्याशङ्क्याऽऽह –
बहिर्विषयेवेति ।
न स्वरूपप्रज्ञा वस्तुतो बाह्यविषयेष्यते, बुद्धिवृत्तिरूपा त्वसावज्ञानकल्पिता तद्विषया भवति । न च साऽपि वस्तुतस्तद्विषयतामनुभवति । वस्तुतः स्वयमभावाद्, बाह्यस्य विषयस्य काल्पनिकत्वात् । अतस्तद्विषयत्वं प्रातिभासिकमित्यर्थः ।
पूर्वेण विशेषणेन विशेषणान्तरं समुच्चिनोति –
तथेति ।
सप्ताङ्गत्वं श्रुत्यवष्टम्भेन विश्वस्य विशदयति –
तस्येत्यादिना ।
प्रकृतस्य सन्निहितप्रसिद्धस्यैवाऽऽत्मनस्त्रैलोक्यात्मकस्य वक्ष्यमाणरीत्या वैश्वानरशब्दितस्य सुतेजस्त्वगुणविशिष्टो द्युलोको मूर्धैवेति धुलोकस्य शिरस्त्वमुपदिश्यते । विश्वरूपो नानाविधः श्वेतपीतादिगुणात्मकः सूर्यश्चक्षुर्विवक्ष्यते । पृथङ् नानाविधं वर्त्म सञ्चरणमात्मा स्वभावोऽस्येति व्युत्पत्त्या वायुस्तथोच्यते । स च प्राणस्तस्येति सम्बन्धः । बहुलो विस्तीर्णगुणवानाकाशः सन्देहो देहस्य मध्यमो भागः । रयिरन्नं तद्धेतुरुदकं बस्तिरस्य मूत्रस्थानम् । पृथिव्येव प्रतिष्ठात्वगुणा वैश्वानरस्य पादौ । तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयमियमित्यग्निहोत्रकल्पना श्रुता । तस्याः शेषत्वेनाऽऽहवनीयोऽग्निरस्य मुख्यत्वेनोक्त इति योजना ।
उक्तं सप्ताङ्गत्वमुपसंहरति –
इत्येवमिति ।
विशेषणान्तरं समुच्चिनोति –
तथेति ।
बुद्ध्यर्थानीन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि । कर्मार्थानीन्द्रियाणि वाक्पाणिपादपायूपास्थानि । तान्येतानि द्विविधानीन्दियाणि दश भवन्ति । प्राणादय इत्यादिशब्देनापानव्यानोदानसमाना गृह्यन्ते । उपलब्धिद्वाराणीत्युपलब्धिपदं कर्मोपलक्षणार्थम् । द्वारत्वं करणत्वम् । तत्र बुद्धीन्द्रियाणां मनसो बुद्धेश्च प्रसिद्धमुपलब्धौ करणत्वम् । कर्मेन्द्रियाणां तु वदनादौ कर्मणि करणत्वम् । प्राणादीनां पुनरुभयत्र पारम्पर्येण करणत्वम् । तेषु सत्स्वेव ज्ञानकर्मणोरुत्पत्तेः, असत्सु चानुत्पत्तेः । मनोबुद्ध्योश्च सर्वत्र साधारणं करणत्वम् । अहङ्कारस्यापि प्राणादिवदेव करणत्वं मन्तव्यम् । चित्तस्य चैतन्याभासोदये करणत्वमुक्तमिति विवेक्तव्यम् । पूर्वोक्तैर्विशेषणैर्विशिष्टस्य वैश्वानरस्य स्थूलभुगिति विशेषणान्तरम् ।
तद्विभजते –
स एवंविश्ष्ट इति ।
शब्दादिविषयाणां स्थूलत्वं दिगादिदेवतानुगृहीतैः श्रोत्रादिभिर्गृह्यमाणत्वम् ।
इदानीं वैश्वानरशब्दस्य प्रकृतविश्वविषयत्वं विशदयति –
विश्वेषामिति ।
कर्मणि षष्ठी । विश्वे च ते नराश्चेति विश्वानराः । निपातात्पूर्वपदस्य दीर्घता । विश्वान् नरान् भोक्तृत्वेन व्यवस्थितान् प्रत्यनेकधा धर्माधर्मकर्मानुसारेण सुखदुःखादिप्रापणादयं कर्मफलदाता वैश्वानरशब्दितो भवतीत्यर्थः । अथ वा विश्वश्चासौ नरश्चेति विश्वानरः स एव वैश्वानरः ।
स्वार्थे तद्धितो राक्षसवायसवदित्याह –
विश्वेति ।
कथं विश्वश्चासौ नरश्चेति विगृह्यते ? जाग्रतां नराणामनेकत्वात्तादत्म्यानुपपत्तेरित्याशङ्क्याह –
सर्वेति ।
सर्वपिण्डात्मा समष्टिरूपो विराडुच्यते । तेनाऽऽत्मना विश्वेषामनन्यत्वाद्यथोक्तसमाससिद्धिरित्यर्थः ।
विश्वस्य तैजसादुत्पत्तेस्तस्यैव प्राथम्यं युक्तम्, कार्यस्य तु पश्चाद्भावित्वमुचितमित्याशङ्क्याह –
एतदिति ।
प्रविलापनापेक्षया प्राथम्यं न सृष्ट्यपेक्षयेत्यर्थः ।
अध्यात्माधिदैवयोर्भेदमादाय प्रागुक्तं सप्ताङ्गत्वमाक्षिपति –
कथमिति ।
ब्रह्मणि प्रकृते तस्य परोक्षत्वे शङ्किते तन्निरासार्थं ब्रह्मायमात्मेति प्रत्यगात्मानं प्रकृत्य सोऽयमात्मा चतुष्पादिति चतुष्पात्त्वे तस्य प्रक्रान्ते द्युलोकादीनां मूर्धाद्यङ्गत्वसप्ताङ्गत्वसिद्ध्यर्थं यदुक्तं तदयुक्तं प्रक्रमविरोधादित्यर्थः ।
अध्यात्माधिदैवयोर्भेदाभावान्न प्रक्रमविरोधोऽस्तीति परिहरति –
नैष दोष इति ।
तत्र हेतुमाह –
सर्वस्येति ।
आध्यात्मिकस्याऽऽधिदैविकेन सहितस्य प्रपञ्चस्य सर्वस्यैव स्थूलस्य पञ्चीकृतपञ्चमहाभूततत्कार्यात्मकस्यानेनाऽत्मना विराजा प्रथमपादत्वम् । तस्यैव सूक्ष्मस्यापञ्चीकृतपञ्चमहाभूततत्कार्यात्मनो हिरण्यगर्भत्मना द्वितीयपादत्वम् । तस्यैव कार्यरूपतां त्यक्त्वा कारणरूपतामापन्नस्याव्याकृतात्मना तृतीयपादत्वम् । तस्यैव तु कार्यकारणरूपतां विहाय सर्वकल्पनाधिष्ठानतया स्थितस्य सत्यज्ञानानन्तानन्दात्मना चतुर्थपादत्वम् । तदेवमध्यात्माधिदैवयोरभेदमादयोक्तेन प्रकारेण चतुष्पात्त्वस्य वक्तुमिष्टत्वात् पूर्वपूर्वपादस्योत्तरोत्तरपादात्मना प्रविलापनात्तुरीयनिष्ठायां पर्यवसानं सिद्ध्यतीत्यर्थः ।
यदैयं तुरीये पर्यवसानं जिज्ञासोर्मुमुक्षोरिष्यते तदा तत्त्वज्ञानप्रतिबन्धकस्य प्रातिभासिकद्वैतस्योपरमे सति अद्वैतपरिपूर्णब्रह्माहमस्मीति वाक्यार्थसाक्षात्कारः सिध्यतीति फलितमाह –
एवं चेति ।
उक्तन्यायेन तत्त्वसाक्षात्कारे संगृहीते सर्वेषु भूतेषु ब्रह्मादिस्थावरान्तेष्वात्मैकोऽद्वितीयो दृष्टः स्यात् । ‘एको देवः सर्वभूतेषु’(श्वे. उ. १ । १०) इति तत्र तत्र ब्रह्मचैतन्यस्यैव प्रत्यक्त्वेनावस्थानाभ्युपगमात् तानि तानि च सर्वाणि प्रातिभासिकानि भूतानि तस्मिन्नेवात्मनि कल्पितानि दृष्टानि स्युः । तथा च पूर्णत्वमात्मनो भूतान्तराणां च तदतिरेकेण सत्तास्फुरणविरहितत्वं सिद्ध्यति ।
ततश्च – “सर्वभूतस्थमात्मानं सर्वभूतानि चाऽऽत्मनि । सम्पश्यन्नात्मयाजी वै स्वाराज्यमभिगच्छति॥”(मनु. स्मृ. १२ । ९१) इति स्मृतिरनुगृहीता भवतीत्याह –
सर्वभूतस्थश्चेति ।
न चेदं मानवं वचनममानमिति शङ्कनीयम् । ‘यद्वै किञ्च मनुरवदत्तद्भेषजम्’(तै. सं. २ । २ । १० । २) इति श्रुतेरित्यभिप्रेत्य दर्शितस्मृतिमूलभूतां श्रुतिं सूचयति –
यस्त्विति ।
यो हि पादत्रयं प्रागुक्तया प्रक्रियया प्रविलाप्य तुरीये नित्ये विज्ञप्तिमात्रे सदानन्दैकताने परिपूर्णे प्रतिष्ठां प्रतिपद्यते स ब्रह्माहमस्मीत्यात्मानं जानानः सर्वेषां भूतानामधिष्ठानान्तरमनुपलभमान आत्मन्येव प्रातीतिकानि तानि प्रत्येति । तेषु सर्वेष्वात्मानं सत्तास्फूर्तिप्रदमवगच्छति । ततश्च न किञ्चिदपि गोपायितुमिच्छतीति श्रुत्यर्थश्च यथोक्तरित्या तत्त्वसाक्षात्कारे सङ्गृहीते सति स्वीकृतः स्यादित्यर्थः ।
अध्यात्माधिदैवयोरभेदाभ्युपगमद्वारेण प्रागुक्तपरिपाट्या तत्त्वज्ञानानभ्युपगमे दोषमाह –
अन्यथेति ।
साङ्ख्यादिपक्षस्यापि प्रामाणिकत्वात्तथैव प्रतिदेहं परिच्छिन्नस्य प्रत्यगात्मनो दर्शनेन प्रामाणिकोऽर्थोऽभ्युपगतो भवति ।
व्यवस्थानुपपत्त्या च प्रतिशरीरमात्मभेदः सिद्ध्यतीत्याशङ्क्याऽऽह –
तथा चेति ।
साङ्ख्यादीनां द्वैतविषयं दर्शनमिष्टम् । तेन त्वदीयदर्शनस्याद्वैतविषयस्य विशेषाभावादद्वैतं तत्त्वमिति श्रुतिसिद्धो विशेषस्त्वत्पक्षे न सिध्येदतः श्रुतिविरोधो भेदवादे प्रसज्येत । व्यवस्था त्वौपाधिकभेदमधिकृत्य सुस्था भविष्यतीत्यर्थः । ननु भेदवादेऽपि नाद्वैतश्रुतिर्विरुध्यते ।
ध्यानार्थमन्नं ब्रह्मेतिवदद्वैतं तत्त्वमित्युपदेशसिद्धेरित्याशङ्क्याऽऽह –
इष्यते चेति ।
उपक्रमोपसंहारैकरूप्यादिना सर्वासामुपनिषदां सर्वेषु देहेष्वात्मैक्यप्रतिपादनपरत्वमिष्टमतो न ध्यानार्थत्वमद्वैतश्रुतेरेष्टुं शक्यम् । वस्तुपरत्वलिङ्गविरोधादित्यर्थः ।
अध्यात्माधिदैवयोरेकत्वमुपेत्याद्वैतपर्यवसाने सिद्धे सत्याध्यात्मिकस्य व्यष्ट्यात्मनो विश्वस्य त्रैलोक्यात्मकेनाऽऽधिदैविकेन विराजा सहैकत्वं गृहीत्वा यत्तस्य सप्ताङ्गत्वमुक्तं तदविरुद्धमित्युपसंहरति –
अत इति ।
अध्यात्माधिदैवयोरैक्ये हेत्वन्तरमाह –
मूर्धेति ।
दिवादित्यादिकं वैश्वानरावयवं वैश्वानरबुद्ध्या ध्यायतो जिज्ञासया पुनरखण्डपक्षमुपगतस्य ‘मूर्धा ते व्यपतिष्यद्यन्मां नाऽऽगमिष्यः’(छा. उ. ५ । १२ । २) इत्यन्धोऽभविष्यो यन्मामित्यादिव्यस्तोपासननिन्दा समस्तोपासनविधित्सया दृश्यते । न च द्युलोकादिकं विपरीतबुद्ध्या गृहीतवतः स्वकीयमूर्धादिपरिपतनमुचितं यद्यध्यात्माधिदैवयोरेकत्वं न भवेत् तस्मात्तयोरेकत्वमत्र विवक्षितं भवतीत्यर्थः । ननु विराजो विश्वेनैकत्वमेव मूलग्रन्थे दृश्यते ।
तत्कथमविशेषेणाध्यात्माधिदैवयोरेकत्वं विवक्षित्वाऽद्वैतपर्यवसानं भाष्यकृतोच्यते, तत्राऽऽह –
विराजेति ।
यन्मुखतो विराजो विश्वेनैकत्वं दर्शितं तत्तु हिरण्यगर्भस्य तैजसेनान्तर्यामिणश्चाव्याकृतोपहितस्य प्राज्ञेन सहैकत्वस्योपलक्षणार्थमतो मूलग्रन्थेऽप्यविशेषेणाध्यात्माधिदैवयोरेकत्वं विवक्षितमित्यद्वैतपर्वयसानसिद्धिरित्यर्थः ।
अध्यात्माधिदैवयोर्यदेकत्वमिहोच्यते तन्मधुब्राह्मणेऽपि दर्शितमित्याह –
उक्तं चेति ।
अधिदैवमध्यात्मं चैकरूपं निर्देशं प्रतिपर्यायमयमेव स इत्यभेदवचनादेकत्वमत्र विवक्षितमित्यर्थः । ननु विश्वविराजोः स्थूलाभिमानित्वात्तैजसहिरण्यगर्भयोश्च सूक्ष्माभिमानित्वादेकत्वं युक्तम् ।
प्राज्ञाव्याकृतयोस्तु केन साधार्म्येणैकत्वं, तत्राऽऽह –
सुषुप्तेति ।
प्राज्ञो हि सर्वं विशेषमुपसंहृत्य निर्विशेषः सुषुप्ते वर्तते, प्रलयदशायामव्याकृतं च निःशेषविशेषं स्वात्मन्युपसंहृत्य निर्विशेषरूपं तिष्ठति, तेनोक्तं साधर्म्यं पुरोधाय तयोरैक्यमविरुद्धमित्यर्थः ।
अध्यात्माधिदैवयोरेकत्वे प्रागुक्तन्यायेन प्रसिद्धे सत्युपसंहारप्रक्रियया सिद्धमद्वैतमिति फलितमाह –
एवं चेति ।
तच्चाद्वैतं प्रतिबन्धध्वंसमात्रेण न स्फुरति, किं तु वाक्यादेवाऽऽचार्योपदिष्टादिति वक्तुं चशब्दः ॥३॥
द्वितीयपादमतार्य व्याचष्टे –
स्वप्नेत्यादिना ।
स्थानं पूर्ववत् । द्रष्टुर्ममाभिमानस्य विषयभूतमिति यावत् ।
स्वप्नपदार्थं निरूपयितुं तत्कारणं निरूपयति –
जग्रदित्यादिना ।
तस्याः स्वप्नाद् वैधर्म्यार्थं विशेषणमाह –
अनेकेति ।
अनेकानि विविधानि साधनानि करणानि यस्याः सा तथेति यावत् ।
विषयद्वारकमपि वैषम्यं दर्शयति –
बहिरिति ।
बाह्यस्य शब्दादेर्विषयस्याविद्याविवर्तत्वेन वस्तुतोऽभावान्न तद्विषयत्वमपि यथोक्तप्रज्ञाया वास्तवं, किं तु प्रातीतिकमित्यभिप्रेत्योक्तमिवेति । न च यथोक्ता प्रज्ञा प्रमाणसिद्धा, तस्या अनवस्थानात् ।
तेन साक्षिवेद्या सेति विवक्षित्वाऽऽह –
अवभासमानेति ।
द्वैततत्प्रतिभासयोर्वस्तुतोऽसत्त्वे हेतुं सूचयति –
मनः स्पन्दनेति ।
यथोक्ता प्रज्ञा स्वानुरूपां वासनां स्वसमानाधारामुत्पादयतीत्याह –
तथाभूतमिति ।
जाग्रद्वासनावासितं मनो जागरितवदवभासते स्वप्नद्रष्टुरित्येष्टव्यं मनस एव वासनावतः स्वप्ने विषयत्वात् अतिरिक्तविषयाभावादित्याह –
तथा संस्कृतमिति ।
जाग्रद्वासनावासितं मनो जागरितवद्भातीत्यत्र दृष्टान्तमाह –
चित्रित इति ।
यथा पटश्चित्रितश्चित्रवद्भाति तथा मनो जागरितसंस्कृतं तद्वद्भातीति युक्तमित्यर्थः ।
स्वप्नस्य जागरिताद्वैधर्म्यं सूचयति –
बाह्येति ।
यथोक्तस्य मनसो जागरितवदनेकधा प्रतिभाने कारणान्तरमाह –
अविद्येति ।
यदुक्तं स्वप्नस्य जागरितजनितवासनाजन्यत्वं तत्र – बृहदारण्यकश्रुतिं प्रमाणयति –
तथा चेति ।
अस्य लोकस्येति जागरितोक्तिस्तस्य विशेषणं सर्वावदिति । सर्वा साधनसम्पत्तिरस्मिन्नस्तीति सर्ववान् सर्ववानेव सर्वावान्, तस्य मात्रा लेशो वासना तामपादायापच्छिद्य गृहीत्वा स्वपिति वासनाप्रधानं स्वप्नमनुभवतीत्यर्थः ।
यत्तु स्वप्नरूपेण परिणतं मनः साक्षिणो विषयो भवतीति, तत्र श्रुत्यन्तरं दर्शयति –
तथेति ।
परत्वं मनसस्तदुपाधित्वाद्वाऽसाधारणकारणत्वाद्वा, देवत्वं द्योतनात्मकत्वात् तत् मनो ज्योतिरिति ज्योतिः शब्दात्, तस्मिन्नेकीभवति, स्वप्ने द्रष्टा तत्प्रधानो भवतीति स्वप्नं प्रकृत्यात्र स्वप्ने स्वप्रकाशो द्रष्टा महिमानं मनसो विभूतिं ज्ञानज्ञेयपरिणामत्वलक्षणां साक्षात्कारोति । तथा च मनसो विषयत्वान्न तत्राऽऽत्मग्राहकत्वशङ्केत्यर्थः ।
ननु विश्वस्य बाह्येन्द्रियजन्यप्रज्ञायास्तैजसस्य मनोजन्यप्रज्ञायाश्चान्तःस्थत्वाविशेषादन्तःप्रज्ञत्वविशेषणं न व्यावर्तकमिति, तत्राऽऽह –
इन्द्रियेति ।
उपपादितं तावद्विश्वस्य बहिष्प्रज्ञत्वं तैजसस्त्वन्तः प्रज्ञो विज्ञायते बाह्यानीन्द्रियाण्यपेक्ष्य मनसोऽन्तःस्थत्वात् तत्परिणामत्वाच्च स्वप्नप्रज्ञायास्तद्वानन्तःप्रज्ञो युज्यते । किं च मनःस्वभावभूता या जागरितवासना तद्रूपा स्वप्नप्रज्ञेति युक्तं तैजसस्यान्तःप्रज्ञत्वमित्यर्थः ।
स्वप्नाभिमानिनस्तेजोविकारत्वाभावात् कुतस्तैजसत्वमित्याशङ्क्याऽऽह –
विषयेति ।
स्थूलो विषयो यस्यां वासनामाय्यां प्रज्ञायां न ज्ञायते तस्यां विषयसंस्पर्शमन्तरेण प्रकाशमात्रतया स्थितायामाश्रयत्वेन भवतीति स्वप्नद्रष्टा तैजसो विवक्षितः । तेजःशब्देन यथोक्तवासनामय्याः प्रज्ञाया निर्देशादित्यर्थः । ननु विश्वतैजसयोरविशिष्टं प्रविविक्तभुगिति विशेषणम् । प्रज्ञाया भोज्यत्वस्य तुल्यत्वात् । मैवम् । तस्या भोज्यत्वाविशेषेऽपि तस्यामवान्तरभेदात् सविषयत्वाद्विश्वस्य भोज्या प्रज्ञा स्थूला लक्ष्यते ।
तैजसे तु प्रज्ञा विषयसंस्पर्शशून्या वासनामात्ररूपेति विविक्तो भोगः सिध्यतीत्याह –
विश्वस्येति ।
सप्ताङ्गैकोनविंशतिमुखत्वमित्येतदन्यदित्युच्यते ॥४॥
पादद्वयमेवं व्याख्याय तृतीयं पादं व्याख्यास्यन् व्याख्यायमानश्रुतौ न कञ्चनेत्यादिविशेषणस्य तात्पर्यमाह –
दर्शनेति ।
दर्शनस्य स्थूलविषयस्य वृत्तिरत्रास्तीति जागरितं दर्शनवृत्तिरित्युच्यते, स्थूलविषयदर्शनादन्यद्दर्शनमदर्शनं वासनामात्रं तस्य वृत्तिरत्रास्तीत्यदर्शनवृत्तिः स्वप्नस्तयोः सुषुप्तवदेव स्वापस्य तत्त्वाग्रहणस्य तुल्यत्वात् ‘यत्र सुप्त’(बृ. उ. ४ । ३ । १९) इत्युक्ते तयोरपि प्रसक्तौ तद्व्यवच्छेदेन सुषुप्तस्यैव ग्रहणार्थं ‘यत्र सुप्त’ इत्यादिवाक्ये ‘न कञ्चने’ त्यादिविशेषणम् । तद्धि स्थानद्वयं व्यवच्छिद्य सुषुप्तमेव ग्राहयतीत्यर्थः ।
न कञ्चन स्वप्नं पश्यतीत्यनेनैव विशेषणेन स्थानद्वयव्यवच्छेदसम्भवाद् विशेषणान्तरमकिञ्चित्करमित्याशङ्क्याऽऽह –
अथ वेति ।
तत्त्वाप्रतिबोधः स्वापस्तस्य स्थानत्रयेऽपि तुल्यत्वाज्जाग्रत्स्वप्नाभ्यां विभज्य सुषुप्तं ज्ञापयितुं विशेषणमित्यर्थः ।
एकस्यैव विशेषणस्य व्यवच्छेदकत्वसम्भवादलं विशेषणाभ्यामित्यस्य कः समाधिरित्याशङ्क्य विशेषणयोर्विकल्पेन व्यवच्छेदकत्वान्नाऽनर्थक्यमिति मत्वाऽऽह –
न हीति ।
यत्रेत्यस्यापेक्षितार्थं कथयति –
तदेतदिति ।
अन्यथाग्रहणशून्यत्वं कामसंस्पर्शविरहितत्वं च विशेषणाभ्यां विवक्षितम् ।
कथमस्य सद्वितीयस्यैकीभूतत्वविशेषणमित्याशङ्क्याह –
स्थानद्वयेति ।
जागरितं स्वप्नश्चेति स्थानद्वयम् । तेन प्रविभक्तं यद् द्वैतं स्थूलं सूक्ष्मं च तत्सर्वं मनःस्पन्दितमात्रमिति वक्ष्यते । तच्च यथा स्वकीयरूपमात्मनो विभक्तं तथैव तस्यात्यागेनाव्याकृताख्यं कारणमापन्नं स्वकीयसर्वविस्तारसहितं कारणात्मकं भवति । यथाऽहर्नैशेन तमसा ग्रस्तं तमस्त्वेनैव व्यवह्रियते तथेदमपि कार्यजातं कारणभावमापन्नं कारणमित्येव व्यवह्रियते । तस्यां चावस्थायां तदुपाधिरात्मैकीभूतविशेषणभाग् भवतीत्यर्थः ।
तथाऽपि कारणोपहितस्य प्रज्ञानघनविशेषणमयुक्तं निरुपाधिकस्यैव तथा विशेषणसम्भवादित्याशङ्क्याह –
अत एवेति ।
सर्वस्य कार्यप्रपञ्चस्य समनस्कस्य सुषुप्ते कारणात्मना स्थितत्वादेवेत्यर्थः ।
सुषुप्तावस्थायामुक्तप्रज्ञानानामेकमूर्तित्वं न वास्तवं, पुनर्यथापूर्वविभागयोग्यत्वादिति मत्वोक्तम् –
इवेति ।
सुषुप्त्यवस्थायाः कारणात्मकत्वाज्जाग्रत्स्वप्नप्रज्ञानानां तत्रैकीभावात् प्रज्ञानघनशब्दवाच्यतेत्युक्तमनुवदति –
सेयमिति ।
उक्तमेवार्थं दृष्टान्तेन बुद्धावाविर्भावयति –
यथेत्यादिना ।
एवकारस्य नायोगव्यवच्छित्तिरर्थः ।
किं तु अन्ययोगव्यवच्छित्तिरित्याह –
एवशब्दादिति ।
प्रज्ञस्याऽऽनन्दविकारत्वाभावे कथमानन्दमयत्वविशेषणमित्याशङ्क्य स्वरूपसुखाभिव्यक्तिप्रतिबन्धकदुःखाभावात् प्राचुर्यार्थत्वं मयटो गृहीत्वा विशेषणोपपत्तिं दर्शयति –
मनस इति ।
मयटः स्वरूपार्थत्वादानन्दमयत्वमानन्दत्वमेव किं न स्यादित्याशङ्क्याऽऽह –
नेत्यादिना ।
न हि सुषुप्ते निरुपाधिकानन्दत्वं प्राज्ञस्याभ्युपगन्तुं शक्यं तस्य कारणोपहितत्वात् । अन्यथा मुक्तत्वात्पुनरुत्थानायोगात् । तस्मादानन्दप्राचुर्यमेवास्य स्वीकर्तुं युक्तमित्यर्थः ।
आनन्दभुगिति विशेषणं सदृष्टान्तं व्याचष्टे –
यथेति ।
तथा सुषुप्तोऽपीति शेषः ।
दार्ष्टान्तिकं विवृणोति –
अत्यन्तेति ।
इयं स्थितिरिति सुषुप्तिरुक्ता । अनेनेति प्राज्ञोक्तिः ।
सौषुप्तस्य पुरुषस्य तस्यामवस्थायां स्वरूपभूतानतिशयानन्दाभिव्यक्तिरस्तीत्यत्र प्रमाणमाह –
एषोऽस्येति ।
प्राज्ञस्यैव चेतोमुख इति विशेषणान्तरं तद्व्याचष्टे –
स्वप्नादीति ।
स्वप्नो जागरितं चेति प्रतिबोधशब्दितं चेतस्तत्प्रति द्वारभूतत्वं द्वारभावेन स्थितत्वम् । न हि स्वप्नस्य जागरितस्य वा सुषुप्तद्वारमन्तरेण सम्भवोऽस्ति । तयोस्तत्कार्यत्वात् । अतः सुषुप्ताभिमानी प्राज्ञः स्थानद्वयकारणत्वाच्चेतोमुखव्यपदेशभागित्यर्थः । अथवा प्राज्ञस्य सुषुप्ताभिमानिनः स्वप्नं जागरितं वा प्रति क्रमाक्रमाभ्यां यदागमनं तत्प्रति चैतन्यमेव द्वारम् ।
न हि तद् व्यतिरेकेण काऽपि चेष्टा सिध्यतीत्यभिप्रेत्य पक्षान्तमाह –
बोधेत्यादिना ।
भूते भविष्यति च विषये ज्ञातृत्वं तथा सर्वस्मिन्नपि वर्तमाने विषये ज्ञातृत्वमस्यैवेति प्रकर्षेण जानातीति प्रज्ञः । प्रज्ञ एव प्राज्ञः ।
तदेव प्राज्ञपदं व्युत्पादयति –
भूतेति ।
सुषुप्ते समस्तविशेषविज्ञानोपरमात् कुतो ज्ञातृत्वमित्याशङ्क्याह –
सुषुप्तोऽपीति ।
यद्यपि सुषुप्तस्तस्यामवस्थायां समस्तविशेषविज्ञानविरहितो भवति तथापि भूता निष्पन्ना या जागरिते स्वप्ने च सर्वविषयज्ञातृत्वलक्षणा गतिस्तया प्रकर्षेण सर्वम् आसमन्ताज्जानातीति प्राज्ञशब्दवाच्यो भवतीत्यर्थः ।
तर्हि प्राज्ञशब्दस्य मुख्यार्थत्वं न सिध्यतीत्याशङ्क्याऽऽह –
अथवेति ।
असाधारणमितिविशेषणद्योतितमर्थं स्फुटयति –
इतरयोरिति ।
आध्यात्मिकस्य तृतीयपादस्य व्याख्यामुपसंहरति –
सोऽयमिति ॥ ५॥
प्राज्ञस्याऽऽधिदैविकेनान्तर्यामिणा सहाभेदं गृहीत्वा विशेषणान्तरं दर्शयति –
एष हीति ।
स्वरूपावस्थत्वमुपाधिप्राधान्यमवधूय चैतन्यप्राधान्यम् । अन्यथा स्वातन्त्र्यानुपपत्तेः ।
नैयायिकादयस्तु ताटस्थ्यमीश्वरस्याऽऽतिष्ठन्ते, तदयुक्तं, पत्युरसामञ्जस्यादिति न्यायविरोधादित्याह –
नैतस्मादिति ।
श्रुतिविरोधादपि न तस्य ताटस्थ्यमास्थेयमित्याह –
प्राणेति ।
प्रकृतमज्ञातं परं ब्रह्म सदाख्यं प्राणशब्दितं तद्बन्धनं बध्यतेऽस्मिन् पर्यवस्यतीति व्युत्पत्तेः । न हि जीवस्य परमात्मातिरेकेण पर्यवसानमस्ति । मनस्तदुपहितं जीवचैतन्यमात्रं प्राणशब्दस्याऽऽध्यात्मिकार्थस्य परस्मिन् प्रयोगान्मनःशब्दितस्य च जीवस्य तस्मिन् पर्यवसानाभिधानाद्वस्तुतो भेदो नास्तीति द्योतितमित्यर्थः ।
प्राज्ञस्यैव विशेषणान्तरं साधयति –
अयमेवेति ।
नन्ववधारणं नोपपद्यते ।
व्यासपराशरप्रभृतीनामन्येषामपि सर्वज्ञत्वप्रसिद्धेरित्याशङ्क्य विशिनष्टि –
सर्वेति ।
अन्तर्यामित्वं विशेषणान्तरं विशदयति –
अन्तरिति ।
अन्यस्य कस्यचिदन्तरनुप्रवेशे नियमने च सामर्थ्याभावादवधारणम् ।
उक्तं विशेषणत्रयं हेतुं कृत्वा प्रकृतस्य प्राज्ञस्य सर्वजगत्कारणत्वं विशेषणान्तरमाह –
अत एवेति ।
यथोक्तं स्वप्नजागरितस्थानद्वयप्रविभक्तमित्यर्थः । सभेदमध्यात्माधिदैवाधिभतभेदसहितमिति यावत् ।
निमित्तकारणत्वनियमेऽपि प्राचीनानि विशेषणानि निर्वहन्तीत्याशङ्क्य प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादिति न्यायान्निमित्तोपादानयोर्जगति न भिन्नत्वमित्येवं नियमतः सिद्धमतो विशेषणान्तरमित्याह –
यत इति ।
प्रभवत्यस्मादिति प्रभवः । अप्येत्यस्मिन्नित्यप्ययः। न चैतौ भूतानामेकत्रोपादानादृते सम्भावितावित्यर्थः ॥६॥
आचार्यैर्माण्डूक्योपनिषदं पठित्वा तद्व्याख्यानश्लोकावतारणमत्रेत्यादिना कृतं तदत्रेत्यनूद्य भाष्यकारो व्याकरोति –
एतस्मिन्निति ।
विश्वस्य विभुत्वं प्रागुक्ताधिदैविकाभेदादवधेयम् । अध्यात्माधिदैवाभेदे पूर्वोदाहृतां श्रुतिं सूचयितुं हिशब्दः ।
स्थूलसूक्ष्मकारणोपाधिभेदाज्जीवभेदमाशङ्क्य स्वरूपैक्येऽपि स्वतन्त्रोपाधिभेदमन्तरेण विशेषणमात्रभेदादवान्तरभेदोक्तिरित्याह –
एक एवेति ।
पदार्थानां पूर्वमेवोक्तत्वात् तात्पर्यं श्लोकस्य वक्तव्यमवशिष्यते तदाह –
पर्यायेणेति ।
यद्यात्मनश्चैतन्यमिव स्वाभाविकं स्थानत्रयं न तर्हि तद्वदेव तं व्यभिचरितुमर्हति, व्यभिचरति चाऽऽत्मानं स्थानत्रयं क्रमाक्रमाभ्यां तस्य त्रिस्थानत्वादतस्तद्व्यतिरिक्तत्वमात्मनः सिद्धम् । यः सुप्तः सोऽहं जागर्मीत्यनुसन्धानादेकत्वं तस्यावगतम् । एकत्वेन हि स्मृत्या घटादावेकत्वमिष्यते । धर्माधर्मरागद्वेषादिमलस्यावस्थाधर्मत्वात् तदतिरेके शुद्धत्वमपि सिध्यति । सङ्गस्यापि वेद्यत्वेनावस्थाधर्मत्वाङ्गीकारात् तदतिरेकिणस्तद्द्रष्टुरसङ्गत्वमपि सङ्गतमेवेत्यर्थः ।
युक्तिसिद्धेऽर्थे श्रुतिमुदाहरति –
महामत्स्यादीति ।
महान्नादेयेन स्रोतसाऽप्रकम्प्यगतिरतिबलीयांस्तिमिरुभे कूले नद्याः सञ्चरन् क्रमसञ्चरणात्ताभ्यामतिरिच्यते । न च तस्य कूलद्वयगतदोषगुणवत्त्वम् । न चासौ क्वचिदपि सज्जते । न च श्येनो वा सुपर्णो वा नभसि परिपतन् क्वचिदपि प्रतिहन्यते तथैवायमात्मा क्रमेण स्थानत्रये सञ्चरन्नुक्तलक्षणो युक्तोऽङ्गीकर्तुमित्यर्थः ॥१॥
विश्वतैजसप्राज्ञानां स्थानत्रयं क्रमेण सञ्चरतामैक्यमेव वस्तुतो भवतीत्यत्र हेत्वन्तरं विवक्षन्नाह –
दक्षिणेति ।
श्लोकस्य तात्पर्यं संगृह्णाति –
जागरितेति ।
न चैकस्यामवस्थायामेकस्मिन्नेव देहे भिन्नत्वमात्मनस्तद्वादिभिरपीष्यते। जाग्रदवस्थायामिति तु देहे व्यवस्थितत्वोक्त्या विशेषणम् । तद्धि तत्र व्यवस्थितत्वं यदात्मनः सर्वगतस्य तदभिमानित्वम् । देहाभिमानश्च जागरिते परं सम्भवति । तेन तस्यामेवावस्थायामेकस्मिन्नेव देहे त्रयाणामनुभवात्तेषां मिथो भेदो नास्तीति सिध्यतीत्यर्थः । मुखं द्वारमुपलब्धिस्थानं शरीरमात्रे दृश्यमानस्य ।
कथमिदमुपलब्धौ विशेषायतनमुपदिश्यते ? स्थानान्तरापेक्षयाऽस्य प्राधान्यादित्याह –
प्राधान्येनेति ।
अनुभूयते ध्याननिष्ठैरिति शेषः ।
उक्तेऽर्थे श्रुतिं संवादयति –
इन्ध इति ।
बृहदारण्यकश्रुतेरुदाहृतायास्तात्पर्यार्थमाह –
इन्ध इत्यादिना ।
वैराजस्याऽऽत्मनो यथोक्तगुणवत्त्वेऽपि द्रष्टुश्चाक्षुषस्य किमायातमित्याशङ्क्याऽऽह –
चक्षुषि चेति ।
अध्यात्माधिदैवयोरेकत्वादाधिदैविको गुणश्चाक्षुषेऽप्याध्यात्मिके सम्भवतीत्यर्थः ।
उक्तमेकत्वमाक्षिपति –
नन्विति ।
हिरण्यगर्भः सूक्ष्मप्रपञ्चाभिमानी सूर्यमण्डलान्तर्गतः सूक्ष्मसमष्टिदेहो लिङ्गात्मा चक्षुर्गोलकानुगतेन्द्रियानुग्राहकः संसारिणोऽर्थान्तरम् । विराडात्माऽपि स्थूलप्रपञ्चाभिमानी सूर्यमण्डलात्मकः समष्टिदेहश्चक्षुर्गोलकद्वयानुग्राहकस्ततोऽर्थान्तरमेव । क्षेत्रज्ञस्तु व्यष्टिदेहो दक्षिणे चक्षुषि व्यवस्थितो द्रष्टा चक्षुषोः करणानां नियन्ता कार्यकरणस्वामी ताभ्यां समष्टिदेहाभ्यामन्योऽभ्युपगम्यते । तदेवं समष्टिव्यष्टित्वेन व्यवस्थितजीवभेदादुक्तमेकत्वमयुक्तमित्यर्थः ।
काल्पनिको जिवभेदो वास्तवो वेति विकल्प्याऽऽद्यमङ्गीकृत्य द्वितीयं दूषयति –
नेत्यादिना ।
एको हि परो देवः सर्वेषु भूतेषु समष्टित्वेन व्यष्टित्वेन च समावृतस्तिष्ठतीति श्रवणाद् वस्तुतो भेदो नास्तीत्युक्तं हेतुं साधयति –
एक इति ।
सर्वेषु क्षेत्रेषु व्यवस्थितं क्षेत्रज्ञं मामीश्वरं विद्धीति भगवतो वचनाच्च तात्त्विकभेदासिद्धिरित्याह –
क्षेत्रज्ञं चेति ।
सर्वेषु भूतेषु क्षेत्रज्ञश्चेदात्मैकः कथं तर्हि प्रतिभूतं भेदप्रथेत्याशङ्क्याऽऽह –
अविभक्तं चेति ।
तत्त्वतोऽविभागेऽपि देहकल्पनया भेदधीरित्यर्थः ।
ननु करणेषु सर्वेषु विश्वस्याविशेषान्न दक्षिणे चक्षुषि विशेषनिर्देशो युज्यते; यद्यपि करणान्तरेभ्यश्चक्षुषि प्राधान्यमुक्तं तथाऽपि नार्थो दक्षिणविशेषणेनेति, तत्राऽऽह –
सर्वेष्विति ।
श्रुत्यनुभवाभ्यां निर्देशविशेषसिद्धिरित्यर्थः ।
यद्यपि देहदेशभेदे विश्वोऽनुभूयते तथाऽपि कथं जागरिते तैजसोऽनुभूयत इत्याशङ्क्य द्वितीयं पादं व्याचष्टे –
दक्षिणेति ।
यथा स्वप्ने जागरितवासनारूपेणाभिव्यक्तमर्थजातं द्रष्टाऽनुभवति तथैव जागरिते दक्षिणे चक्षुषि द्रष्टृत्वेन व्यवस्थितः सन्निकृष्टं रूपं दृष्ट्वा पुनर्निमीलिताक्षो दृष्टमेव रूपं रूपोपलब्धिजनितमुदबुद्धवासनात्मना मनस्यन्तरभिव्यक्तं स्मरन्विश्वस्तैजसो भवति । तथा च तयोर्भेदाशङ्का नावतरतीत्यर्थः ।
स्वप्नजागरितयोर्विलक्षणत्वात्तद्द्रष्ट्रोर्विश्व–तैजसयोरपि वैलक्षण्यमुचितमित्याशङ्क्याऽऽह –
यथेति ।
जागरिते यथाऽर्थजातं द्रष्टा पश्यति तथैव स्वप्नेऽपि तदुपलभते, ततो न तयोर्वैलक्षण्यसिद्धिरित्यर्थः ।
द्वितीयपादस्य व्याख्यामुपसंहरति –
अत इति ।
स्थानद्वये द्रष्टुर्भेदाशङ्का निरवकाशेति दर्शयितुमेवकारः ।
तृतीयं पादं व्याकुर्वञ्जाग्रत्येव सुषुप्तिं दर्शयति –
आकाशे चेति ।
यो विश्वस्तैजसत्वमुपगतः स पुनः स्मरणाख्यस्य व्यापारस्य व्यावृत्तौ हृदयावच्छिन्नाकाशे स्थितः सन् प्राज्ञो भूत्वा तल्लक्षणलक्षितो भवति । न हि तस्य रूपविषयदर्शनस्मरणे परिहृत्य विशिष्टाकाशनिविष्टस्य प्राज्ञादर्थान्तरत्वम् । अतश्च स एकीभूतो विषयविषय्याकाररहितः यतो घनप्रज्ञो विशेषविज्ञानविरही रूपान्तररहितस्तिष्ठतीत्यर्थः ।
उक्तमर्थं प्रपञ्चयन् मनोव्यापाराभावादिति हेतुमुक्त्वा व्याचष्टे –
दर्शनेत्यादिना ।
अविशेषेणाव्याकृतरूपेणेत्यर्थः । अवस्थानं जागरिते सुषुप्तमिति शेषः ।
यदुक्तमव्याकृतेन प्राणात्मना हृदयेऽवस्थानमिति तत्र प्रमाणमाह –
प्राणो हीति ।
यो हि प्राणोऽध्यात्मं प्रसिद्धः स वागादीन् प्राणानात्मनि संवृङ्क्ते संहरतीति प्राणास्याध्यात्मं वागादिसंहर्तृत्वमुक्तम् । अधिदैवं च यो वायुः सूत्रात्मा सोऽग्न्यादीनात्मनि संहरतीत्यग्न्यादिसंहर्तृत्वं वायोरुक्तम् । अध्यात्माधिदैवयोश्चैकत्वात् प्राणस्य वायोश्च वागादिष्वग्न्यादिषु च संहर्तृत्वेनाव्याकृतत्वस्य संवर्गविद्यायां सूचितत्वादव्याकृतेन प्राणात्मना सुषुप्ते प्राज्ञस्यावस्थानमिति युक्तमेवोक्तमित्यर्थः ।
पूर्वमेव विश्वविराजोरैक्यस्यानन्तरं च सुषुप्ताव्याकृतयोरेकत्वस्य दर्शितत्वात् तैजसहिरण्यगर्भयोरनुक्तमभेदं वक्तव्यमिदानीमुपन्यस्यति –
तैजस इति ।
तत्र हेतुमाह –
मनःस्थत्वादिति ।
हिरण्यगर्भस्य समष्टिमनोनिष्ठत्वात् तैजसस्य व्यष्टिमनोगतत्वात् तयोश्च समष्टिव्यष्टिमनसोरेकत्वात् तद्गतयोरपि तैजसहिरण्यगर्भयोरेकत्वमुचितमित्यर्थः ।
किं च हिरण्यगर्भस्य क्रियाशक्त्युपाधौ लिङ्गात्मतया प्रसिद्धत्वात् तस्य च सामानाधिकरण्यश्रुत्या मनसा सहाभेदावगमान्मनोनिष्ठस्य तैजसस्य युक्तं हिरण्यगर्भत्वमित्याह –
लिङ्गमिति ।
किं च पुरुषस्य मनोमयत्वश्रवणात्पुरुषविशेषत्वाच्च हिरण्यगर्भस्य तत्प्रधानत्वाधिगमात् तन्निष्ठस्तैजसो हिरण्यगर्भो भवितुमर्हतीत्याह –
मनोमय इति ।
प्राणस्य प्रागुक्तमव्याकृतत्वमाक्षिपति –
नन्विति ।
सुषुप्ते हि प्राणो नामरूपाभ्यां व्याकृतो युक्तस्तद्व्यापारस्य पार्श्वस्थैरतिस्पष्टं दृष्टत्वादित्यर्थः। किं च तस्यामवस्थायां वागादीनि करणानि प्राणात्मकानि भवन्ति । ‘त एतस्यैव सर्वे रूपमभवन्’(बृ. उ. १ । ५ । २१) इति श्रुतेः ।
अतोऽपि प्राणस्य व्याकृतत्वं युक्तमित्याह –
तदात्मकानीति ।
उक्तन्यायेन प्राणस्याव्याकृतत्वायोगादव्याकृतेन प्राणात्मना सुषुप्तस्यावस्थानमयुक्तमिति निगमयति –
कथमिति ।
एकलक्षणत्वादव्याकृतप्राणयोरेकत्वोपपत्तिरित्युत्तरमाह –
नैष दोष इति ।
अव्याकृतं हि देशकालवस्तुपरिच्छेदशून्यम् । प्राणोऽपि सौषुप्तद्रष्टुस्तथा । न हि सौषुप्तदृष्ट्या तत्कालीनस्य प्राणस्य देशादिपरिच्छेदोऽवगम्यते । तथा च लक्षणाविशेषादव्याकृतप्राणयोरेकत्वमविरुद्धमित्यर्थः ।
तस्यायं प्राणो ममायमिति देशपरिच्छेदप्रतिभानादेकलक्षणत्वाभावान्न प्राणास्याव्याकृतत्वमित्याशङ्क्याऽऽह –
यद्यपीति ।
परिच्छिन्नाभिमानवतां मध्ये प्रत्येकं ममायमिति प्रणाभिमाने सति प्राणस्य यद्यपि व्याकृततैव भवति तथाऽपि सुषुप्त्यवस्थायां पिण्डेन परिच्छिन्नो यो विशेषस्तद्विषयो ममेत्यभिमानस्तस्य निरोधस्तस्मिन् भवतीति प्राणोऽव्याकृत एवेति योजना । प्रतिबुद्धदृष्ट्या विशेषाभिमानविषयत्वेन व्याकृतत्वेऽपि सुषुप्तदृष्ट्या तदुपसंहारादव्याकृतत्वं प्राणस्याविरुद्धमिति भावः ।
विशेषाभिमाननिरोधे प्राणस्याव्याकृतत्वं क्व दृष्टमित्याशङ्क्याऽऽह –
यथेति ।
परिच्छिन्नाभिमानिनां प्राणलयो मरणं, तत्राभिमाननिरोधे प्राणो नामरूपाभ्यामव्याकृतो यथेष्यते तथैव प्राणाभिमानिनोऽपि तदभिमाननिरोधेनाविशेषापत्तिः सुषुप्तिः, तत्राव्याकृतता प्राणस्य प्रागुक्तदृष्टान्तेनाविशिष्टा । ततो विशेषाभिमाननिरोधे प्राणस्याव्याकृतत्वं प्रसिद्धमित्यर्थः। किं च यथाऽऽधिदैविकमव्याकृतं जगत्प्रसवबीजम् । ‘तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यामेव व्याक्रियत’(बृ. उ. १ । ४ । ७) इति श्रुतेः। तथा प्राणाख्यं सुषुप्तं जागरितस्वप्नयोर्भवति बीजम् ।
तथा च कार्यं प्रति प्रसवबीजरूपत्वमविशिष्टमुभयोरिति लक्षणाविशेषादव्याकृतप्राणयोरेकत्वस्य प्रसिद्धिरित्याह –
प्रसवेति ।
समानमित्यनुकर्षार्थश्चकारः ।
उपाधिस्वभावालोचनया सुषुप्ताव्याकृतयोरभेदमभिधायोपहितस्वभावालोचनयाऽपि तयोरभेदमाह –
तदध्यक्षश्चेति ।
अव्याकृतावस्थः सुषुप्तावस्थश्च तयोरुपहितस्वभावयोराध्यात्मिकाधिदैविकयोरेकोऽधिष्ठाता चिद्धातुः । अतोऽपि तयोरेकत्वं सिद्ध्यतीत्यर्थः ।
सुषुप्ताव्याकृतयोरेवमेकत्वं प्रसाध्य तस्मिन्नव्याकृते सुषुप्ते प्रागुक्तं विशेषणं युक्तमित्याह –
परिच्छिन्नेति ।
यद्यपि विशेषानभिव्यक्तिमात्रेणैकीभूतत्वादि विशेषणमुपपादितितं तथाऽपि परिच्छिन्नाभिमानिनामुपाधिप्रधानानां तत्र तत्राध्यक्षाणां चोपहितानामव्याकृतेनैकत्वम् । अतोऽपि प्रागुक्तविशेषणोपपत्तिरित्यर्थः ।
किं चाध्यात्माधिदैवयोरेकत्वमिति प्रागुक्तहेतुसद्भावाच्च युक्तं सुषुप्ते प्राज्ञे प्राणात्मन्यव्याकृते यथोक्तं विशेषणमित्याह –
पूर्वोक्तमिति ।
ग्रन्थगतादिशब्देन सर्वेश्वरत्वादिविशेषणं गृह्यते ।
प्राणशब्दस्य पञ्चवृत्तौ वायुविकारे रूढत्वान्नाव्याकृतविषयत्वं रूढिविरोधादिति शङ्कते –
कथमिति ।
अन्यत्र रूढत्वेऽपि श्रौतप्रयोगवशादव्याकृतविषयत्वं प्राणशब्दस्य युक्तमिति परिहरति –
प्राणबन्धनमिति ।
प्रकरणस्य ब्रह्मविषयत्वाद् ब्रह्मण्येव प्रकृते वाक्ये प्राणशब्दस्य प्रयोगान्नाव्याकृतविषयत्वं तस्य युक्तं प्रकरणविरोधादिति शङ्कते –
नन्विति ।
प्रकरणस्य ब्रह्मविषयत्वेऽपि ब्रह्मणः सल्लक्षणस्य शबलत्वाङ्गीकारादस्मिन्नपि वाक्ये तत्रैव प्राणशब्दप्रयोगाद्युक्तं तस्याव्याकृतविषयत्वमित्युत्तरमाह –
नैष दोष इति ।
संग्रहवाक्यं प्रपञ्चयति –
यद्यपीति ।
तत्रेति प्राणबन्धनवाक्यं परामृश्यते । जीवशब्दः सर्वस्यैव कार्यजातस्योपलक्षणम् ।
प्रकरणवाक्ययोरुभयोरपि परिशुद्धब्रह्मविषयत्वे का क्षतिरित्याशङ्क्य परिशुद्धस्य ब्रह्मणः शब्दप्रवृत्तिनिमित्तागोचरत्वात् तत्र शब्दवाच्यत्वानुपपत्तेर्मैवमित्याह –
यदि हीति ।
न केवलं निरुपधिकं निर्विशेषं ब्रह्म वाङ्मनसयोरगोचरमिति श्रुतेरेव निर्धार्यते, किं तु स्मृतेरपीत्याह –
न सदिति ।
किं च कार्यजातं प्रति बीजभूताज्ञानरहिततया शुद्धत्वेनैवास्मिन् प्रकरणे ब्रह्म विवक्षितं चेत् तर्हि ‘सता सोम्य तदा सम्पन्नो भवति’(छा. उ. ६ । ८ । १) इति जीवानां सत्प्राप्तिश्रवणाद् ब्रह्मणः सच्छद्बितस्य शुद्धत्वे सुषुप्त्यादौ तत्र लीनानामेकीभूतानां जीवानां पुनरुत्थानं नोपपद्यते, दृश्यते च पुनरुत्थानम् ।
तेन शबलमेव ब्रह्मात्र विवक्षितमित्याह –
निर्बीजतयेति ।
सुषुप्त्यादौ शुद्धे ब्रह्मणि सम्पन्नानामपि पुनरुत्थाने मोक्षानुपपत्तिदोषमाह –
मुक्तानां चेति ।
न तेषां पुनरुत्थानं हेत्वभावादित्याशङ्क्य सुषुप्तानां प्रलीनानां च न तर्हि पुनरुत्थानं हेत्वभावस्य तुल्यत्वादित्याह –
बीजाभावेति ।
नन्वनाद्यनिर्वाच्यमज्ञानं संसारस्य बीजभूतं नास्त्येव यद् ब्रह्मणो विशेषणं भवति ।
अग्रहणमिथ्याज्ञानतत्संस्काराणामज्ञानशब्दवाच्यत्वात्तत्राऽह –
ज्ञानेति ।
अज्ञोऽहमित्यज्ञानमपरोक्षम् । अग्रहणस्य च ग्रहणप्रागभावस्य नापरोक्षत्वमिन्द्रियसन्निकर्षाभावादनुपलब्धिगम्यत्वाच्च । भ्रान्तितत्संस्कारयोश्चाभावेतरकार्यत्वादुपादानापेक्षणादात्मनश्च केवलस्यातद्धेतुत्वात्तदुपादानत्वेनानाद्यज्ञानसिद्धिः । किं च देवदत्तप्रमा तन्निष्ठप्रमाप्रागभावातिरिक्तानादिप्रध्वंसिनी प्रमात्वाद् यज्ञदत्तप्रमावत् । न च तदभावे सम्यग्ज्ञानार्थवत्त्वम् । क्षणिकत्वेन भ्रान्तेस्तदनिवर्त्यत्वात् संस्कारस्य च सत्यपि सम्यग्ज्ञाने क्वचिदनुवृत्तिदर्शनात् । न चाग्रहणस्य तन्निवर्त्यत्वम् । ज्ञानस्य तन्निवृत्तित्वात् । अतो ज्ञानदाह्यं संसारबीजभूतमनाद्यनिर्वाच्यमज्ञानं ज्ञानस्यार्थवत्त्वायाऽऽस्थेयम् । अन्यथा तदानर्थक्यप्रसङ्गादित्यर्थः ।
शुद्धस्य ब्रह्मणो वाक्यप्रकरणाभ्यां विवक्षितत्वाभावे फलितमाह –
तस्मादिति ।
ब्रह्मणः शबलस्यैव प्राकरणिकत्वाद् वाक्येऽपि तस्मिन् प्रणशब्दाद् युक्तं प्राणशब्दस्याव्याकृतविषयत्वमिति भावः । यतोऽनाद्यनिर्वाच्याज्ञानशबलस्यैव कारणत्वं ब्रह्मणो विवक्ष्यते ।
अत एव कारणत्वनिषेधेन परिशुद्धं ब्रह्म श्रुतिषूपदिश्यते, तदेतदाह –
अत एवेति ।
अक्षरमव्याकृतम्, तच्च कार्यापेक्षया परम् । तस्मात्परोऽयं परमात्मा । स हि कार्यकारणाभ्यामस्पृष्टो वर्तते । बाह्यं कार्यमभ्यन्तरं कारणमिति ताभ्यां सह तत्कल्पनाधिष्ठानत्वेन वर्तमानश्चिद्धातुः । तथा च स चिद्धातुरजो जन्मादिसमस्तविक्रियाशून्यत्वेन कूटस्थः श्रुतिस्मृत्योर्व्यपदिश्यते । यतो ब्रह्मणः सकाशाद्वाचः सर्वा मनसा सहावकाशमप्राप्य निवर्तन्ते, तद् ब्रह्माऽऽनन्दरूपं विद्वान्न बिभेति । नेति नेतीति वीप्सया सर्वमारोपितमपाक्रियते । आदिशब्देनास्थूलादिवाक्यं गृह्यते । बीजत्वनिरासेन शुद्धं ब्रह्म व्यपदिश्यते चेद्बीजत्वं शबलस्यैवेति सिध्यतीत्यर्थः ।
आचार्येणानुक्तत्वान्न कारणातिरिक्तं शुद्धं ब्रह्मास्तीत्याशङ्क्य नान्तःप्रज्ञमित्यादिवाक्यशेषान्मैवमित्याह –
तामिति ।
उक्तन्यायेन वस्तुव्यवस्थायामव्याकृतस्य देहेऽनुभवाभावात्त्रिधा देहे व्यवस्थित इति कथमुक्तमित्याशङ्क्याऽऽह –
बीजेति ॥२॥
विश्वादीनां त्रयाणां त्रिधा देहे व्यवस्थितिं प्रतिपाद्य तेषामेव त्रिधा भोगं निगमयति –
विश्वो हीति ॥३॥
भोगप्रयुक्तां तृप्तिमधुना त्रेधा विभजते –
स्थूलमिति ।
उदाहृतश्लोकयोर्व्याख्यानापेक्षां वारयति –
उक्तार्थाविति ॥४॥
प्रकृतभोक्तृभोग्यपदार्थद्वयपरिज्ञानस्यावान्तरफलमाह –
त्रिष्विति ।
पूर्वार्थं व्याचष्टे –
जाग्रदादिष्विति ।
भोग्यत्वेनैकत्वेऽपि त्रैविध्यमवान्तरभेदादुन्नेयम् ।
भोक्तुरेकत्वे हेतुमाह –
सोऽहमिति ।
योऽहं सुषुप्तः सोऽहं स्वप्नं प्राप्तः । यश्च स्वप्नमद्राक्षं सोऽहमिदानीं जागर्मीत्येकत्वं प्रतिसन्धीयते । न च तत्र बाधकमस्ति । तद् युक्तं भोक्तुरेकत्वमित्यर्थः ।
किं चाज्ञानं तत्कार्यं च प्रति प्राज्ञादिषु द्रष्टृत्वस्याविशिष्टत्वाद् द्रष्टृभेदे च प्रमाणाभावाद् युक्तं तदेकत्वमित्याह –
द्रष्टृत्वेति ।
द्वितीयार्थं विभजते –
यो वेदेति ।
कथमेतावता भोगप्रयुक्तदोषराहित्यं, तत्राऽऽह –
भोज्यस्येति ।
यद्यपि भोक्तुरेकस्यैव सर्वं भोग्यमित्यवगतं तथाऽपि कथं सर्वं भुञ्जानो भोगप्रयुक्तदोषवान्न भवतीत्याशङ्क्याऽऽह –
न हीति ।
उक्तमर्थं दृष्टान्तेन स्पष्टयति –
न ह्यग्निरिति ।
स्वविषयान् काष्ठादीन् दग्ध्वा न हीयते वर्धते वाऽग्निरिति सम्बन्धः ॥५॥
एष योनिरित्यत्र प्राज्ञस्य प्रपञ्चकारणत्वं प्रतिज्ञातम्; तत्र सत्कार्यमसत्कार्यं प्रति वा कारणत्वमिति सन्देहे निर्धारयितुमारभते –
प्रभव इति ।
तत्रावान्तरभेदमाह –
सर्वमिति ।
पुरुषो हि सर्वमचेतनं जगदुपाधिभूतं तमः प्रधानं गृहीत्वा जनयति । अत एव पुरुषे कारणवाचि प्राणपदं प्रयुज्यते । एवं स च चैतन्यप्रधानश्चेतसश्चैतन्यस्यांशुवदवस्थितान् प्रतिबिम्बकल्पाञ्जीवानाभासभूतानुत्पादयति । एवं चेतनाचेतनात्मकमशेषं जगदसङ्कीर्णं सम्पादयतीत्यर्थः ।
ननु सतां भावानां सत्त्वादेव प्रभवो न सम्भवत्यतिप्रसङ्गादित्याशङ्क्य पूर्वार्धं व्याचष्टे–
सतामिति ।
स्वेनाधिष्ठानात्मना विद्यमानानामेवाविद्याकृतं मायामयमारोपितस्वरूपं तेन प्रभवः सम्भवतीत्यर्थः ।
असज्जन्मनिरसनमन्तरेण कथं सज्जन्म निर्धारयितुं शक्यमित्याशङ्क्याऽऽह –
वक्ष्यतीति ।
जन्मनः पूर्वं सर्वस्य सत्त्वे च कारणव्यापारसाध्यत्वासिद्धेर्मिथ्यात्वे च कथं सतामेव प्रभवो भावानामित्याशङ्क्याऽऽह –
यदीति ।
कार्यप्रपञ्चस्यासत्त्वे कारणस्य ब्रह्मणः स्वारस्येन व्यवहार्यत्वाभावात् तस्य ग्रहणे द्वारभूतस्य लिङ्गस्याभावादसत्त्वमेव सिध्येत् । कार्येण हि लिङ्गेन कारणं ब्रह्मादृष्टमपि सदित्यवगम्यते । तच्चेदसद्भवेन्न तस्य कारणेन सम्बन्धधीरित्यसदेव कारणमपि स्यादित्यर्थः ।
कार्यकारणयोरुभयोरपि भवत्वसत्त्वमित्याशङ्क्याऽऽह –
दृष्टं चेति ।
अविद्ययाऽनाद्यनिर्वाच्यया कृताश्च ते मायाबीजादुत्पन्नाश्च तेषामविद्यैव मायेत्यङ्गीकारात्, तेषां रज्ज्वादौ कल्पितसर्पादीनामधिष्ठानभूतरज्ज्वादिरूपेण सत्त्वं दृष्टमिति योजना । विमतं सदुपादानं कल्पितत्वाद्रज्जुसर्पवदित्यर्थः ।
दृष्टान्तस्य साध्यविकलत्वं शङ्कित्वा परिहरति –
न हीति ।
विवक्षितं दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –
यथेत्यादिना ।
प्राणशब्दितं बीजमज्ञातं ब्रह्म सल्लक्षणं तदात्मनेति यावत् ।
तदेवमचेतनं सर्वं जगत् प्रागुप्तत्तेर्बीजात्मना स्थितं प्राणो बीजात्मा व्यवहारयोग्यतया जनयतीत्युपसंहरति –
इत्यत इति ।
चतुर्थं पादं प्रतीकमादाय व्याकरोति –
चेतोंशूनित्यादिना ।
रवेरंशवो यथा वर्तन्ते तथा पुरुषस्य स्वयंचैतन्यात्मकस्य चेतोरूपाश्चैतन्याभासा जीवाश्चेतोंशवो निर्दिश्यन्ते । तान् पुरुषो जनयतीत्युत्तरत्र सम्बन्धः ।
तेषां चिदात्मकात्पुरुषात् तत्त्वतो भेदाभावं विवक्षित्वा विशिनष्टि –
जलार्केति ।
भेदधीस्तु तेषामुपाधिभेदादित्याह –
प्राज्ञेति ।
पृथगिति सूचितं पुरुषस्य जीवसर्जने हेतुं कथयति –
विषयेति ।
यथाऽग्निना समानरूपा विस्फुलिङ्गा जन्यन्ते, तथा चिदात्मना समानस्वभावा जीवास्तेनोत्पाद्यन्ते । विषयविलक्षणत्वात् । न प्राणेन बीजात्मना तेषामुत्पादनम् । न चोत्पाद्यानां जीवानामुत्पादकाच्चिदात्मनस्तत्त्वतो भिन्नत्वम् । जलपात्रप्रतिबिम्बितादित्यादीनां बिम्बभूतान् ततस्तत्त्वतो भेदाभावात् । तान्विश्वादीन् पुरुषश्चित्प्रधानो जनयतीत्यर्थः ।
विषयभावेन व्यवस्थितान् पुनर्भावान् प्राणो जनयतीति तृतीयपादार्थमुपसंहरति –
इतरानिति ॥६॥
चेतनाचेतनात्मकस्य जगतः सर्गे प्रस्तुते स्वमतविवेचनार्थं मतान्तरमुपन्यस्यति –
विभूतिं प्रसवमिति ।
ईश्वरस्य विभूतिर्विस्तारः स्वकीयैश्वर्यख्यापनं सृष्टिरिति पक्षे सृष्टेर्वस्तुत्वशङ्कायां पक्षान्तरमाह –
स्वप्नेति ।
कुतः सृष्टिचिन्तकानामेतन्मतं, तत्त्वविदामेव किं न स्यात्, तत्राऽऽह –
न त्विति ।
सृष्टेरपि वस्तुत्वाद् वस्तुचिन्तकानामपि तत्राऽऽदरो भविष्यतीत्याशङ्क्याऽऽह –
इन्द्र इति ।
मायामयी सृष्टिरादरविषया न भवतीत्यत्र दृष्टान्तमाह –
न हीति ।
मायादीत्यादिशब्देन तत्कार्यं गृह्यते ।
दृष्टान्तनिविष्टमर्थः दार्ष्टान्तिके योजयति –
तथैवेति ।
तर्हि परमार्थचिन्तकानां कुत्राऽऽदर इत्याशङ्क्य सदृष्टान्तमुत्तरमाह –
सूत्रेत्यादिना ।
मायाच्छन्नत्वमदृश्यमानत्वे हेतुः । तुरीयाख्यं जाग्रत्स्वप्नसुषुप्तेभ्यो विश्वतैजसप्राज्ञेभ्यश्चातिरिक्तं तदस्पृष्टमिति शेषः । परमार्थतत्त्वचिन्ता हि सम्यग्धीद्वारा फलवती, न सृष्टेः ।
ततः सृष्टावनादरस्तत्त्वनिष्ठानामित्याह –
नेति ।
परमार्थचिन्तकानां सृष्टावनादरादपरमार्थनिष्ठानामेव सृष्टौ विशेषचिन्तेत्युक्तेऽर्थे द्वितीयार्थमवतारयति –
इत्यत इति ।
जाग्रद् गतानामर्थानामेव स्वप्ने प्रथनात् तस्य सत्यत्वं मायायाश्च मण्यादिलक्षणायाः सत्यत्वाङ्गीकारादनयोर्विकल्पयोः सिद्धान्ताद् वैषम्यमुन्नेयम् ॥७॥
सृष्टिचिन्तकानामेव सृष्टिविषये विकल्पान्तरमुत्थापयति –
इच्छामात्रमिति ।
ज्योतिर्विदां कल्पनाप्रकारमाह –
कालादिति ।
परमेश्वरस्येच्छामात्रं सृष्टिरित्यत्र हेतुमाह –
सत्येति ।
यथा लोके कुलालादेः सङ्कल्पनामात्रं घटादिकार्यं, न तदतिरेकेण घटादिकार्यसृष्टिरिष्टा । नामरूपाभ्यामन्तरेव कार्यं सङ्कल्प्य बहिस्तन्निर्माणाभ्युपगमात् । तथा भगवतः सृष्टिः सङ्कल्पनामात्रा, न तदतिरिक्ता काचिदस्तीति केषाञ्चिदीश्वरवादिनां मतमित्यर्थः ॥८॥
यथा तथा वाऽस्तु सृष्टिस्तस्यास्तु किं प्रयोजनमित्यत्र विकल्पद्वयमाह –
भोगार्थमिति ।
सिद्धान्तमाह –
देवस्येति ।
कः स्वभावो नामेत्युक्ते नैसर्गिकोऽपरोक्षो मायाशब्दार्थस्तस्येत्याह –
अयमिति ।
सर्वपक्षाणामपवादं सूचयति –
आप्तेति ।
देवस्य परमेश्वरस्य स्वभावः सृष्टिरिति स्वभावपक्षं नैसर्गिकमायाविनिर्मिता सृष्टिरिति मतं सिद्धान्तत्वेनाऽऽश्रित्य चतुर्थपादेन दूषणमुच्यते पक्षयोरनयोरिति योज्यम्। ईश्वरस्येश्वरत्वख्यापनं सृष्टिरित्येकः पक्षः । स्वप्नसरूपा मायासरूपा वा सृष्टिरिति पक्षद्वयमीश्वरस्य सत्यसङ्कल्पस्य सृष्टिरिति पक्षान्तरम् । कालादेव जगतः सृष्टिर्नेश्वरात् । ईश्वरस्तूदासीनः । तत्र विकल्पान्तरं भोगार्थं क्रीडार्थं वा सृष्टिरिति फलगतं च विकल्पद्वयम् ।
तेषामेतेषां सर्वेषामेव पक्षाणां दूषणं चतुर्थपादेनोक्तमिति पक्षान्तरमाह –
सर्वेषामिति ।
नो खल्वाप्तकामस्य परस्याऽऽत्मनो मायां विना विभूतिख्यापनमुपयुज्यते । न च स्वप्नमायाभ्यां सारूप्यमन्तरेण स्वप्नमायासृष्टिरेष्टुं शक्यते । अवस्तुनोरेव तयोस्तच्छब्दप्रयोगात् । न च परमानन्दस्वभावस्य परस्य विना मायामिच्छा सङ्गच्छते । न हि तस्य स्वतोऽविक्रियस्येच्छादिभाक्त्वं युक्तम् । न च मायामन्तरेण भोगक्रीडे तस्योपपद्येते । ततो मायामयी भगवः सृष्टिरित्यर्थः ।