अद्वैतशारदा

आनन्दगिरिटीका (माण्डूक्य)

आगमप्रकरणम् (१)

परि­पू­र्ण­प­रि­ज्ञा­न­प­रि­तृ­प्ति­मते सते ।
विष्णवे जिष्णवे तस्यै कृष्णनामभृते नमः ॥१॥
शुद्धा­न­न्द­प­दा­म्भो­ज­द्व­न्द्व­म­द्व­न्द्व­ता­स्प­दम् ।
नमस्कुर्वे पुरस्कर्तुं तत्त्व­ज्ञा­न­म­हो­द­यम् ॥२॥
गौडपादीयभाष्यं हि प्रसन्नमिव लक्ष्यते ।
तद­र्थ­तोऽ­ति­ग­म्भीरं व्याकरिष्ये स्वशक्तितः ॥३॥
पूर्वे यद्यपि विद्वांसो व्याख्यानमिव चक्रिरे ।
तथाऽपि मन्द­बु­द्धी­ना­मु­प­का­राय यत्यते ॥४॥
श्री गौडपादाचार्यस्य नारायणप्रसादतः प्रतिपन्नान् माण्डू­क्यो­प­नि­ष­द­र्था­वि­ष्क­र­ण­प­रा­नपि श्लोका­ना­चा­र्य­प्र­णी­तान् व्याचि­ख्या­सु­र्भ­ग­वान् भाष्य­का­र­श्चि­की­र्षि­तस्य भाष्य­स्या­वि­घ्न­प­रि­स­मा­प्त्या­दि­सि­द्धये पर­दे­व­ता­त­त्त्वा­नु­स्म­र­ण­पू­र्वकं तन्नमस्काररूपं मंगलाचरणं शिष्टा­चा­र­प्र­मा­णकं मुखतः समा­च­र­न्न­र्था­द­पे­क्षि­त­म­भि­धे­या­द्य­नु­ब­न्ध­मपि सूचयति –
प्रज्ञा­ने­त्या­दिना ।

तत्र विधिमुखेन वस्तु­प्र­ति­पा­द­न­मिति प्रक्रियां प्रदर्शयति –
ब्रह्म यत्त­न्न­तोऽ­स्मीति ।
अस्मदर्थस्य तदैक्यस्मरणरूपं नमनं सूचयता ब्रह्म­ण­स्त­द­र्थस्य प्रत्यक्त्वं सूचितमिति तत्त्व­म­र्थ­यो­रैक्यं विषयो ध्वनितः। यच्छब्दस्य प्रसि­द्धा­र्था­व­द्यो­त­क­त्वाद् वेदा­न्त­प्र­सिद्धं यद् ब्रह्म तन्नतोऽस्मीति सम्बन्धेन मङ्गलाचरणमपि श्रुत्या क्रियते । ब्रह्म­णोऽ­द्वि­ती­य­त्वा­देव जन­न­म­र­ण­का­र­णा­भा­वा­द­मृ­त­म­ज­मि­त्यु­क्तम् । जन­न­म­र­ण­प्र­ब­न्धस्य संसारत्वात् तन्निषेधेन स्वतोऽ­सं­सा­रित्वं दर्शयता संसा­रा­न­र्थ­नि­वृ­त्ति­रिह प्रयोजनमिति द्योतितम् । यद्यद्वितीयं स्वतोऽसंसारि ब्रह्म वेदान्तप्रमाणकं तर्हि कथ­म­व­स्था­त्र­य­वि­शिष्टा जीवा भोक्ता­रोऽ­नु­भू­यन्ते, भोजयिता चेश्वरः श्रूयते, भोज्यं च विषयजातं पृथगुपलभ्यते ।

तदेतदद्वैते विरु­ध्ये­ते­त्या­शङ्क्य ब्रह्मण्येव जीवा जगदीश्वरश्चेति सर्वं काल्पनिकं सम्भ­व­ती­त्य­भि­प्रे­त्याह –
प्रज्ञानेति ।

प्रकृष्टं जन्मा­दि­वि­क्रि­या­वि­र­हितं कूटस्थं ज्ञानं ज्ञप्तिरूपं वस्तु –
प्रज्ञानम् ।
तच्च ब्रह्म । “प्रज्ञानं ब्रह्म”(ऐ. उ. ३ । १ । ३) इति हि श्रूयते । तस्यांशवो रश्मयो जीवाश्चिदाभासाः सूर्य­प्र­ति­बि­म्ब­कल्पा निरूप्यमाणा बिम्बकल्पाद् ब्रह्मणो भेदे­ना­स­न्त­स्तेषां प्रताना विस्ता­रा­स्तै­र­प­र्या­य­मे­वा­शे­ष­श­री­र­व्या­पिभिः ।

तदेवाह –
स्थिरेति ।
स्थिरा वृक्षादयः । चरा मनुष्यादयः । तेषां निकरः समूहस्तं व्याप्तुं शीलमेषामिति तथा, तैरिति यावत् ।

लोका लोक्यमाना विषयास्तान् व्याप्येति विष­य­स­म्ब­न्धो­क्ति­स्त­त्फलं कथयति –
भुक्त्वेति ।
भोगाः सुख­दुः­खा­दि­सा­क्षा­त्का­रा­स्तेषां स्थविष्ठत्वं स्थूलतमत्वं देव­ता­नु­गृ­ही­त­बा­ह्ये­न्द्रि­य­द्वारा बुद्धे­स्त­त्त­द्वि­ष­या­का­र­प­रि­णा­म­ज­न्यत्वं तान्भुक्त्वा स्वपितीति सम्बन्धः। एतेन जागरितं ब्रह्मणि कल्पितमुक्तम् ।

तत्रैव स्वप्नकल्पनां दर्शयति –
पुनरपीति ।
जाग्र­द्धे­तु­ध­र्मा­ध­र्म­क्ष­या­न­न्तर्यं पुनः शब्दार्थः । स्वप्न­हे­तु­क­र्मो­द्भवे च सतीत्यपिनोच्यते । न च तत्र बाह्या­नी­न्द्रि­याणि स्थूला विषयाश्च सन्ति; किं तु धिष­णा­श­ब्दि­त­बु­द्ध्या­त्मानो वासनात्मनो विषया भासन्ते, ताननुभूय स्वपितीत्यर्थः ।

तेषां प्राप­क­मु­प­न्य­स्यति –
कामजन्यानिति ।
कामग्रहणं कर्मा­वि­द्य­यो­रु­प­ल­क्ष­णा­र्थम् ।

अव­स्था­द्व­य­क­ल्पनां ब्रह्मणि दर्शयित्वा तत्रैव सुषुप्तिकल्पनां दर्शयति –
पीत्वेति ।
सर्वे विशेषाः सर्वे विषयाः स्थूलाः सूक्ष्माश्च जाग­रि­त­स्व­प्न­रू­पा­स्तान् पीत्वा स्वात्म­न्य­ज्ञाते प्रविलाप्य स्वपिति कारणभावेन तिष्ठतीत्यर्थः ।

तत्राऽऽ­न­न्द­प्रा­धा­न्य­म­भि­प्रेत्य विशिनष्टि –
मधुरभुगिति ।
अवस्थात्रयस्य मायाकृतस्य मिथ्याभूतस्य प्रति­बि­म्ब­क­ल्पे­ष्व­स्मासु सम्ब­न्धि­ता­मि­वाऽऽ­पा­द्या­स्मान् भोजयद् ब्रह्म वर्तते । अतो ब्रह्म­ण्ये­वा­व­स्था­त्र­यम् ।

तद्वन्तो जीवाः, मायावि ब्रह्म च ब्रह्मणि परिशुद्धे परिकल्पितं सर्वमित्याह –
माययेति ।

तस्यैव ब्रह्म­णोऽ­व­स्था­त्र­या­ती­त­त्वेन विज्ञ­प्ति­मा­त्रत्वं दर्शयति –
तुरीयमिति ।

चतुर्णां पूरणं तुरीयमिति व्युत्प­त्ते­र्ब्र­ह्म­ण­स्तु­री­य­त्वेन निर्दे­शा­त्प्राप्तं सद्वि­ती­य­त्व­मि­त्या­शङ्क्य कल्पि­त­स्था­न­त्र­य­सं­ख्या­पे­क्षया तुरीयत्वं न सद्वि­ती­य­त्वे­ने­त्याह –
मायेति ।

मायावित्वेन निकृ­ष्ट­त्व­मा­श­ङ्क्यो­क्तम् –
परमिति ।
मायाद्वारा ब्रह्म­ण­स्त­त्स­म्ब­न्धेऽपि स्वरूपद्वारा न तत्स­म्ब­न्धोऽ­स्तीति कुतो निकृ­ष्ट­ते­त्यर्थः ॥१॥

विधिमुखेन वस्तु­प्र­ति­पा­द­न­प्र­क्रि­या­म­व­लम्ब्य तदर्थेनोपक्रम्य तस्य त्वम­र्थ­प्र­त्य­गा­त्म­मा­त्र­त्व­मु­क्तम् । अभिधेयफलोक्त्या सम्ब­न्धा­धि­का­रिणौ च सूचितौ ।निषेधद्वारा वस्तु­प्र­ति­पा­द­न­प्र­क्रि­या­मा­श्रित्य त्वम­र्थे­नो­प­क्रम्य तस्य तद­र्था­सं­सा­रि­ब्र­ह्म­मा­त्रत्वं प्रत्याययति –
यो विश्वात्मेति ।
तत्र त्वमर्थः स्वतः सिद्ध­श्चि­द्धातुः सर्वनाम्ना परामृश्यते ।

तस्मि­ञ्जा­ग­रि­त­मा­रो­पितं तमुदाहरति –
विश्वात्मेति ।
विश्वं पञ्ची­कृ­त­प­ञ्च­म­हा­भू­त­त­त्का­र्या­त्मकं स्थूलं जगद् वैराजं शरीरम् । तस्मिञ्जागरिते चाहं­म­मे­त्य­भि­मा­न­वा­नि­त्यर्थः ।

तस्या­र्थ­क्रि­या­मु­प­न्य­स्यति –
विधिजेति ।
विधीयत इति विधिधर्मो नञानुबन्धेन ततो व्यति­रि­क्तोऽ­वि­धि­र­ध­र्म­स्ताभ्यां धर्मा­ध­र्मा­भ्या­म­वि­द्या­का­म­प्र­सू­ताभ्यां विषयाः शब्दादयो जन्यन्ते । तान् भोगयोग्यतया भोग­श­ब्दि­ता­ना­दि­त्या­द्य­नु­गृ­ही­त­बा­ह्ये­न्द्रि­य­द्वा­र­क­बु­द्धि­प­रि­णा­म­गो­च­र­तया स्थूलतमान् प्राश्य साक्षादनुभूय स्थितोऽयं प्रत्य­गा­त्मे­त्यर्थः ।

तत्रैव स्वप्ना­व­स्था­म­ध्य­स्यति –
पश्चाच्चेति ।
जाग्र­द्धे­तु­क­र्म­क्ष­या­न­न्तरं स्वप्न­हे­तु­क­र्मो­द्भवे च प्रसू­ता­न­न्तः­क­र­णा­त्मनो वास­ना­म­या­ना­दि­त्या­दि­ज्यो­ति­षा­म­स्त­मि­त­त्वा­दा­त्म­भू­ते­नैव ज्योतिषा विषयीकृताननुभूय पञ्ची­कृ­त­प­ञ्च­म­हा­भू­त­त­त्का­र्या­त्मकं सूक्ष्मप्रपञ्चं हैरण्यगर्भं शरीरं स्वप्नस्थानं चाभि­म­न्य­मा­न­स्तै­जसो भवतीत्यर्थः ।

सुषुप्तकल्पनां दर्शयति –
सर्वानिति ।
स्थूल­सू­क्ष्म­वि­भा­गेन स्थान­द्व­या­वि­च्छि­न्नान् प्रकृ­ता­ने­ता­न­शे­षा­नपि विशे­षा­नु­पा­धि­द्व­य­भू­ता­नु­पा­धि­द्व­य­द्वा­र­क­स्था­न­द्व­य­स­ञ्चा­र­प्र­यु­क्त­श्र­मो­द्भ­वा­न­न्तरं तस्यापि परिजिहीर्षायां शनै­र­नु­क्र­मे­णा­क्र­मेण वा स्वात्म­न्य­ज्ञाते कारणात्मनि स्थाप­यि­त्वो­प­सं­हृ­त्या­व्या­कृ­त­प्र­धानः सन् प्राज्ञो भवतीत्यर्थः ।

तस्यैव प्रत्यगात्मनः स्थान­त्र­य­वि­शि­ष्टस्य ‘नान्तः प्रज्ञं न बहिः प्रज्ञम्’(मा.उ. १। ७) इत्या­दि­प्र­ति­षे­ध­शा­स्त्र­प्र­सू­त­प्र­मा­ण­ज्ञा­न­स­मा­रू­ढस्य सर्वा­न­प्य­न­र्थ­वि­शे­षान् कार्यकारणरूपान् प्रमा­ण­ज्ञा­न­प्र­भा­वा­देव हित्वा निरु­पा­धि­क­प­रि­पू­र्ण­प­रि­ज्ञा­न­प­र­मा­त्म­स्व­रू­पेण परिनिष्पन्नं तत्त्वं कथयति –
हित्वेति ।

प्रथमश्लोकेन प्रद­र्शि­त­प्र­णा­मस्य प्रत्यू­ह­प्र­वा­ह­प्र­श­म­ना­त्मकं प्रयोजनं स्थान­त्र­य­प्र­क­ल्प­ना­ती­त­प­र­व­स्तु­प्र­युक्तं प्रार्थयते द्वितीयोन –
पात्विति ।
नोऽस्मान् व्याख्यातृत्वेन श्रोतृत्वेन च व्यवस्थितान् पुरु­षा­र्थ­प­रि­प­न्थि­भू­त­का­र­ण­नि­रा­स­पु­रः­सरं परमात्मा परा­कृ­ता­शे­ष­क­ल्पनो नित्य­वि­ज्ञ­प्ति­स्व­भावो मोक्षप्रदानेन तद्धे­तु­ज्ञा­न­प्र­दा­नेन च परि­र­क्ष­ता­दि­त्यर्थः। केचित्तु प्रक­र­ण­च­तु­ष्ट­या­त्मनो ग्रन्थस्य वेदा­न्तै­क­दे­श­स­म्ब­द्ध­त्व­ज्ञा­प­नार्थं निष्प्रपञ्चं वाक्य­प्र­ति­पाद्यं ब्रह्म प्रथमश्लोकेन सूचितम् । द्वितीयेन माण्डू­क्य­श्रु­ति­व्या­ख्या­न­रू­पे­णाऽऽ­द्य­प्र­क­र­णेन प्रण­व­मा­त्रा­णा­मा­त्म­पा­दानां चैकीकरणेन प्रतिपाद्यं ब्रह्म सूचितमिति मन्यन्ते । न च द्वितीयश्लोके चतुर्थपादे वृत्त­ल­क्ष­णा­भा­वा­द­सा­ङ्ग­त्य­मा­श­ङ्क­नी­यम् । गाथालक्षणस्य तत्र सुस­म्पा­द­त्वा­दिति द्रष्टव्यम् । अन्ये त्वाद्यश्लोकं मूल­श्लो­का­न्त­र्भू­त­म­भ्यु­प­ग­च्छन्तो द्वितीयश्लोकं भाष्य­का­र­प्र­णी­त­म­भ्यु­प­यन्ति । तदसत् । उत्त­र­श्लो­के­ष्वि­वाऽऽ­द्येऽपि श्लोके भाष्यकृतो व्याख्या­न­प्र­ण­य­न­प्र­स­ङ्गात् । ओमि­त्ये­त­द­क्ष­र­मि­त्या­दि­भा­ष्य­वि­रो­धाच्च । अपरे पुनराद्येन श्लोकेन शास्त्र­प्र­ति­पा­द्य­प­र­दे­व­ता­त­त्त्वा­नु­स्म­र­ण­द्वा­रेण नम­न­क्रि­या­प्र­क­र­ण­प्रा­र­म्भो­प­यो­गि­त्वेन क्रियते । पर­दे­व­ता­भ­क्ति­व­द­प­र­दे­व­ता­भ­क्ते­रपि विद्या­प्रा­प्ता­व­न्त­र­ङ्ग­त्वस्य शास्त्रीयस्य शिष्यशिक्ष्यायै ज्ञाप­ना­र्थ­म­व­स्था­त्र­या­ती­ता­न्नि­त्य­सि­द्ध­वि­ज्ञा­न­मू­र्ते­रा­चा­र्या­न्मो­क्षौ­प­यि­क­ज्ञा­न­प्राप्तिः ‘आचा­र्य­वा­न्पु­रुषो वेद’(छा. उ. ६ । १४ । २) इत्या­दि­श्रु­त्य­व­ष्ट­म्भेन मुमुक्षुणा प्रार्थ्यते द्विती­य­श्लो­के­नेति कल्पयन्ति॥२॥

यदुद्दिश्य मङ्गलाचरणं कृतं तन्नि­र्दे­ष्टु­मादौ व्याख्येयस्य प्रतीकं गृह्णाति –
ओमित्येतदिति ।

‘ओमि­त्ये­त­द­क्ष­रम्’(छा. उ. १ । १ । १) इत्या­दि­प्र­क­र­ण­च­तु­ष्ट­य­वि­शि­ष्ट­मि­द­मा­र­भ्यते व्याख्या­य­तेऽ­स्मा­भि­रि­त्यु­द्देश्यं प्रतिजानीते । किमिदं शास्त्रत्वेन वा प्रकरणत्वेन वा व्याचिख्यासितम् ? नाऽऽद्यः, शास्त्र­ल­क्ष­णा­भा­वा­द­स्या­शा­स्त्र­त्वात् । एक­प्र­यो­ज­नो­प­नि­ब­द्ध­म­शे­षा­र्थ­प्र­ति­पा­दकं हि शास्त्रम् । अत्र च मोक्ष­ल­क्ष­णै­क­प्र­यो­ज­न­व­त्त्वेऽपि नाशे­षा­र्थ­प्र­ति­पा­द­क­त्वम् ।न द्वितीयः, प्रक­र­ण­ल­क्ष­णा­भा­वा­दि­त्या­श­ङ्क्‍याऽऽह –
वेदान्तेति ।
शास्त्रं वेदा­न्त­श­ब्दार्थः । तस्या­र्थोऽ­धि­का­रि­नि­र्ण­य­गु­रू­प­स­द­न­प­दा­र्थ­द्व­य­त­दै­क्य­वि­रो­ध­प­रि­हा­र­सा­ध­न­फ­लाख्यः ।तत्र सारो जीवपरैक्यम्, तस्य सम्यग्ग्रहः संग्रहः संश­य­वि­प­र्या­सा­दि­प्र­ति­ब­न्ध­व्यु­दा­सेन तदुपायोपदेशो यस्मिन्प्रकरणे तत्तथेति यावत् । तथाच – “शास्त्रै­क­दे­श­स­म्बद्धं शास्त्र­का­र्या­न्तरे स्थितम्” । इदंप्रकरणत्वेन व्याख्या­तु­मि­ष्टम् । निर्गु­ण­व­स्तु­मा­त्र­प्र­ति­पा­द­क­त्वा­त्त­त्प्र­ति­पा­द­न­सं­क्षे­पस्य च कार्या­न्त­र­त्वा­त्प्र­क­र­ण­ल­क्ष­णस्य चात्र सम्पू­र्ण­त्वा­दि­त्यर्थः ।

प्रकरणत्वेऽपि निर्वि­ष­य­त्वा­दि­प्र­यु­क्त­म­व्या­ख्ये­य­त्व­मा­श­ङ्क्याऽऽह –
अत एवेति ।

प्रकरणत्वादेव प्रकृ­त­शा­स्त्रा­द्भे­देन सम्ब­न्धा­दी­ना­म­वा­द्य­त्वेऽपि प्रक­र­ण­प्र­वृ­त्य­ङ्ग­तया तानि त्ववश्यं वक्त­व्या­नी­त्या­शङ्क्य शास्त्री­य­स­म्ब­न्धा­दीनां तदीये प्रक­र­णेऽ­र्था­त्प्रा­प्त­त्वा­न्नास्ति वक्त­व्य­त्व­म­र्थ­पु­न­रु­क्ते­रि­त्याह –
यान्येवेति ।
श्रोतारो हि शास्त्रीयं प्रकरणं प्रतिपद्यमानाः शास्त्रीयाण्येव सम्ब­न्धा­दी­न्यत्र वचनाभावेऽपि बुध्यमानाः प्रवृत्तिं तस्मि­न्प्र­कु­र्व­न्ती­त्यर्थः ।

तर्हि प्रकरणकर्तृवदेव तद्भाष्यकृताऽपि विष­या­दी­ना­म­त्रा­व­क्त­व्य­त्वा­द्भा­ष्य­कृतो विष­या­द्यु­प­न्या­सा­यासो वृथा स्यादि­त्या­श­ङ्क्याऽऽह –
तथाऽपीति ।
प्रक­र­ण­क­र्तु­र­व­क्त­व्या­न्यपि तद्भाष्यकृता तानि संक्षेपतो वक्तव्यानीति व्याख्यातॄणां मतम् । द्वाभ्या­म­नु­क्तत्वे तेष्व­ना­श्वा­सा­श­ङ्का­व­का­शा­दि­त्यर्थः ।

भाष्यकृता प्रयोजनादीनां वक्तव्यत्वे सिद्धे शास्त्र­प्र­क­र­ण­यो­र्मो­क्ष­ल­क्ष­ण­प्र­यो­ज­न­वत्त्वं प्रतिजानीते –
तत्रेति ।
प्रयो­ज­न­व­च्छा­स्त्र­मिति सम्बन्धः । शास्त्रग्रहणं प्रक­र­णो­प­ल­क्ष­णा­र्थम् ।

मोक्षलक्षणं फलं ब्रह्म­ज्ञा­न­स्ये­ष्यते, न शास्त्र­प्र­क­र­ण­यो­रि­त्या­श­ङ्क्याऽऽह –
साधनेति ।
सत्यं मोक्षस्य साधनं ब्रह्मा­त्मै­क­त्व­ज्ञा­नम् । तस्य जनकं शास्त्रादि । तद्भावेन ज्ञानव्यवधानेन मोक्षफलवद्भवति शास्त्रा­दी­त्यर्थः ।

तथाऽपि ब्रह्मणा विषयेण सम्बन्धो वेदा­न्ता­ना­मे­वे­ष्यते, तत्क­थ­म­भि­धे­य­स­म्बद्धं शास्त्रा­दी­त्या­शङ्क्य ब्रह्म­वि­चा­र­म­न्त­रेण तज्ज्ञा­न­ज­न­क­त्वा­यो­गा­त्त­ज्ज्ञा­न­ज­न­न­द्वारा विष­य­स­म्ब­न्ध­सि­द्धि­रि­त्याह –
अभिधेयेति ।

उक्तं ज्ञानव्यवहितं प्रयो­ज­ना­दि­शा­स्त्रा­दे­रु­प­सं­ह­रति –
पारम्पर्येणेति ।
तत्र सम्बन्धो ब्रह्मज्ञानं शास्त्रादिना जन्य­मे­वे­त्य­यो­ग­व्य­व­च्छे­दा­दुक्तः । शास्त्रदिनैव जन्य­मि­त्य­न्य­यो­ग­व्य­व­च्छे­दा­द्वि­ष­योऽपि दर्शितः ।

यदुक्तं प्रयोजनवत्त्वं तदाक्षिपति –
किंपुनरिति ।
साध्यत्वे स्वर्ग­व­द­नि­त्य­त्वम्, नित्यत्वे साध­ना­न­धी­न­त्वान्न तादर्थ्येन शास्त्रादि प्रयो­क्त­व्य­मि­त्यर्थः ।

मोक्ष­स्याऽऽ­त्म­स्व­रू­प­त्वा­न्ना­नि­त्यत्वं; नापि साधनानर्थक्यम्, स्वरू­प­भू­त­मो­क्ष­प्र­ति­ब­न्ध­नि­व­र्त­क­त्वे­ना­र्थ­व­त्त्वा­दि­त्यु­त्त­र­माह –
उच्यत इति ।
यथा देवदत्तस्य ज्वरादिना रोगेणाभिभूतस्य स्वस्थता स्वरू­पा­द­प्र­च्यु­ति­रूपा स्वरूपभूतैव प्रागपि सती रोग­प्र­ति­ब­द्धाऽ­स­तीव स्थिता चिकि­त्सा­शा­स्त्री­यो­पा­य­प्र­यो­ग­व­शा­त्प्र­ति­ब­न्ध­भू­त­रो­गा­प­गमे सत्यभिव्यज्यते । न हि तत्रो­पा­य­वै­यर्थ्यं प्रति­ब­न्ध­प्र­ध्वं­सा­र्थ­त्वात् ।

न चानित्यत्वं स्वस्थतायाः शङ्क्येत, तस्या­स्त­द­सा­ध्य­त्वा­दि­त्यु­क्तेऽर्थे दृष्टान्तमाह –
रोगार्तस्येवेति ।
यथो­दि­त­दृ­ष्टा­न्ता­नु­रो­धा­दा­त्मनः स्वतः समु­त्खा­त­नि­खि­ल­दुः­खस्य निर­ति­श­या­न­न्दै­क­ता­न­स्यापि स्वावि­द्या­प्र­सू­ता­ह­ङ्का­रा­दि­द्वै­त­प्र­प­ञ्च­स­म्ब­न्धा­दा­त्मनि दुःखमारोप्याहं दुःखी, सुखं मया प्राप्तव्यमिति प्रतिपद्यमानस्य पर­म­का­रु­णि­का­चा­र्यो­प­दि­ष्ट­वा­क्यो­त्था­द्वै­त­वि­द्यातो द्वैतनिवृत्तौ प्रति­ब­न्ध­प्र­ध्वंसे स्वभावभूता परमानन्दता निर­स्त­स­म­स्ता­न­र्थता च स्वार­स्ये­ना­भि­व्यक्ता भवति । सा च स्वस्थता परि­पू­र्ण­व­स्तु­स्व­भा­वा­न्ना­ति­रि­च्यते । तदिदं शास्त्रीयं प्रयोजनम् । तस्य स्वरू­प­त्वे­ना­सा­ध्य­त्वा­न्ना­नि­त्यत्वं शङ्कितव्यम् ।

न च साधानवैयर्थ्यं, प्रद­र्शि­त­प्र­ति­ब­न्ध­नि­वृ­त्ति­फ­ल­त्वा­दिति दार्ष्टा­न्ति­क­माह –
तथेति ।

ननु द्वैत­स्या­ह­ङ्का­रा­द्या­त्मनो वस्तु­त्वा­द्व­स्तु­नश्च विद्या­न­पो­ह्य­त्वा­न्नि­त्य­नै­मि­त्ति­क­क­र्मा­य­त्त­त्वा­त्त­न्नि­वृ­त्ते­रलं विद्यार्थेन प्रक­र­णा­र­म्भे­णेति, तत्राऽऽह –
द्वैतेति ।
आत्म­वि­द्या­कृ­तस्य द्वैत­स्याऽऽ­त्म­वि­द्यया कारणनिवृत्त्या निवृ­त्ते­रा­त्म­वि­द्या­भि­व्य­क्तये शास्त्रारम्भो युज्यते ।

न च द्वैत­स्या­वि­द्या­कृ­तस्य विद्यमानदेहत्वे प्रमा­ण­म­स्ती­त्या­श­ङ्क्या­न्व­य­व्य­ति­रे­का­नु­वि­धा­यिनीं श्रुतिमुदाहरति –
यत्र हीति ।
इव­श­ब्दा­भ्या­म­वि­द्या­व­स्थायां प्रति­भा­त­द्वै­तस्य तत्प्रतिभानस्य चाऽऽभा­स­त्वे­ना­वि­द्या­म­य­त्व­मु­च्यते ।

आत्मैवाभूदिति ।
विदुषो विद्यावस्थायां कर्तृ­क­र­णा­दि­स­र्व­मा­त्म­मात्रं, नाति­रि­क्त­म­स्ती­त्युक्त्या विद्याद्वारा सर्वस्य द्वैत­स्याऽऽ­त्म­मा­त्र­त्व­व­च­ना­द्वि­द्या­नि­मि­त्ता­का­र्य­क­र­णा­त्म­क­द्वै­त­नि­वृ­त्ति­रा­त्मै­वे­त्य­भि­ल­प्यते । तथा च विद्यातो द्वैत­नि­वृ­त्ति­नि­र्दे­शा­त्त­स्या­वि­द्या­त्व­म­व­द्यो­त्यते । आदिशब्दात् ‘नेह नाना’(बृ. उ. ४ । ४ । १९) इत्य­धि­ष्ठा­न­नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गित्वं द्वैतस्याभिदधद् वाक्यं वाचारम्भणवाक्यं च गृहीतम् ।

अस्यार्थस्येति ।
द्वैत­ग­ता­वि­द्या­कृ­त­त्व­स्ये­त्यर्थः ।

विष­य­प्र­यो­ज­ना­द्य­नु­ब­न्धो­प­न्या­स­मु­खेन ग्रन्थारम्भे स्थिते सत्यादौ प्रक­र­ण­च­तु­ष्ट­यस्य प्रत्ये­क­म­स­ङ्कीर्णं प्रमेयं प्रति­प­त्ति­सौ­क­र्यार्थं सूच­यि­त­व्य­मि­त्याह –
तत्र तावदिति ।

ओङ्का­र­प्र­क­र­ण­स्या­स­ङ्कीर्णं प्रमेयं संगृह्णाति –
ओङ्कारेति ।
तन्निर्णयाय प्रक­र­ण­मा­र­ब्ध­मि­त्य­यु­क्तम् । तन्निर्णये प्रमाणाभावात् तस्य चानुपयोगित्वात् । आत्म­प्र­ति­प­त्तिर्हि पुरु­षा­र्थो­प­यो­गि­नी­त्या­श­ङ्क्याऽऽ­ग­मे­त्या­दि­वि­शे­ष­ण­द्व­यम् । तदुपदेशप्रधानं माण्डू­क्यो­प­नि­ष­द्व्या­ख्या­न­रू­पम् । तेन तत्र प्रामा­ण्या­दुक्तो निर्णयः सेत्स्यति, न त्विदं युक्तिप्रधानं युक्तिलेशस्य सतोऽपि गुण­त्वा­द­प्र­धा­न­त्वात् । न चाय­मो­ङ्का­र­नि­र्णयो नोपयुज्यते । यदा­त्म­न­स्त­त्त्व­म­ना­रो­पि­त­रूपं तत्प्र­ति­प­त्ता­वु­पा­य­त्वात् । तत्प्र­ति­प­त्तेश्च मुक्तिफलत्वात् । अतश्चाऽऽद्यं प्रक­र­ण­मो­ङ्का­र­नि­र्ण­या­वा­न्त­र­फ­ल­द्वा­रेण तत्त्वज्ञाने परमफले पर्य­व­स्य­ती­त्यु­प­दे­श­व­शा­द­धि­ग­न्त­व्य­मि­त्यर्थः ।

वैत­थ्य­प्र­क­र­ण­स्या­वा­न्त­र­वि­ष­य­वि­शेषं दर्शयति –
यस्येति ।

आरोपितनिषेधे सत्य­ना­रो­पि­त­प्र­ति­पत्तिः स्वाभा­वि­की­त्यत्र दृष्टान्तमाह –
रज्ज्वामिवेति ।
हेतुतो दृष्य­त्वा­द्य­न्त­व­त्त्वा­दि­यु­क्ति­व­श­दि­त्यर्थः ।

अद्वै­त­प्र­क­र­ण­स्या­र्थ­वि­शे­ष­मु­प­न्य­स्यति –
तथाऽ­द्वै­त­स्या­पीति ।
तस्यापि द्वैतवद् व्यव­स्था­नु­प­पत्त्या मिथ्या­त्व­प्र­सङ्गः शङ्क्यते । तस्यां सत्या­मौ­पा­धि­क­भे­दा­द्व्य­व­स्थायाः सुस्थ­त्वा­द­व्य­भि­चा­रा­दि­यु­क्ति­व­शा­द­द्वै­तस्य परमार्थत्वं प्रतिपादयितुं तृतीयं प्रकरणमित्यर्थः ।

अला­त­शा­न्ति­प्र­क­र­ण­स्या­र्थ­वि­शेषं कथयति –
अद्वैतस्येति ।

तस्य तथा­त्व­म­बा­धि­त­त्वेन वस्तुत्वं तत्प्र­ति­प­क्षत्वं पक्षा­न्त­र­णा­मि­त्य­त्र­हे­तु­माह –
अवैदिकानीति ।

तेषां निराकार्यत्वे हेतुमाह –
अतर्थत्वेनेति ।
मिथ्या­द्वै­त­नि­ष्ठ­त्वे­ने­त्यर्थः ।

तदुपपत्तिभिरेव निराकरणे हेतुमाह –
अन्योन्येति ।
पक्षा­न्त­र­प्र­ति­षे­ध­मु­खे­ना­द्वै­त­मेव द्रढयितुमन्त्यं प्रकरणमित्यर्थः । ओङ्का­र­नि­र्ण­य­द्वा­रे­णाऽऽ­त्म­प्र­ति­प­त्त्यु­पा­य­भू­त­माद्यं प्रक­र­ण­मि­त्य­यु­क्तम् । तन्निर्णयस्य तद्धी­हे­तु­त्वा­यो­गात् । न खल्व­र्था­न्त­र­ज्ञा­न­म­र्था­न्त­र­ज्ञाने व्याप्ति­म­न्त­रे­णो­प­यु­ज्यते । न चात्र धूमाग्न्योरिव व्याप्ति­रु­प­ल­भ्यते । न चात्म­का­र्य­त्व­मो­ङ्का­रस्य युक्तम् । आका­शा­दे­र­वि­शे­षात् ।

तस्य च सर्वा­त्म­त्वे­नाऽऽ­त्म­व­त्त­त्का­र्य­त्व­व्या­घा­ता­दिति मन्वानः सन् प्रथ­म­प्र­क­र­णार्थं प्रागु­क्त­मा­क्षि­पति –
कथमिति ।
न वय­म­नु­मा­ना­व­ष्ट­म्भा­दो­ङ्का­र­नि­र्ण­य­मा­त्म­प्र­ति­प­त्त्यु­पा­य­म­भ्यु­प­ग­च्छामो येन व्याप्त्यभावो दोषमावहेत् ।

किं तु श्रुति­प्रा­मा­ण्या­त्त­न्नि­र्ण­य­स्त­द्धी­हे­तु­रिति परिहरति –
उच्यत इति ।
तत्र मृत्युना नचिकेतसं प्रत्यो­मि­त्ये­त­दि­त्य­नेन वाक्येन ब्रह्म­त्वे­नो­मि­त्ये­त­दु­प­दि­ष्टम् । समा­हि­ते­नो­ङ्का­रो­च्चा­रणे यच्चैतन्यं स्फुरति तदो­ङ्का­र­सा­मी­प्या­देव शाखा­च­न्द्र­न्या­ये­नो­ङ्का­र­श­ब्देन लक्ष्यते ।

येन लक्ष­ण­यो­ङ्का­र­नि­र्णयो ब्रह्म­धी­हे­तु­रिति विवक्षित्वा श्रुतिमुदाहरति –
ओमित्येतदिति ।

प्रतिमायां विष्णु­बु­द्धि­व­दो­ङ्कारो ब्रह्म­बु­द्ध्यो­प­स्य­मानो ब्रह्म­प्र­ति­प­त्त्यु­पायो भव­ती­त्य­भि­प्रेत्य वाक्यान्तरं पठति –
एतदालम्बनमिति ।

किं चायमोङ्कारो यदा परा­प­र­ब्र­ह्म­दृ­ष्ट्यो­पा­स्यते तदा तज्ज्ञा­नो­पा­य­ता­मु­पा­रो­ह­तीति मत्वा पुनः श्रुतिम प्रदर्शयति –
एतद्वा इति ।

किं च समाधिनिष्ठो यदा ओमि­त्यु­च्चा­र्याऽऽ­त्मा­न­म­नु­सं­धत्ते तदा स्थूलमकारमुकारे सूक्ष्मे तं च कारणे मकारे तमपि कार्यकारणातीते प्रत्य­गा­त्म­न्यु­प­सं­हृत्य तन्निष्ठो भवतीत्यनेन प्रका­रे­णो­ङ्का­रस्य तत्प्र­ति­प­त्त्यु­पा­य­तेति विधान्तरेणाऽऽह –
ओमि­त्या­त्मा­न­मिति ।
किं च योऽयं स्थाणुः स पुमा­नि­ति­व­द्य­दे­त­दो­मि­त्यु­च्यते तद्ब्रह्मेति बाधायां सामानाधिकरण्येन समाहितो ब्रह्म बोध्यते ।

तथा च युक्तमोङ्कारस्य ब्रह्म­ज्ञा­न­हे­तु­त्व­मि­त्याह –
ओमिति ब्रह्मेति ।

किं च सर्वा­स्प­द­त्वा­दो­ङ्का­रस्य ब्रह्मणश्च तथा­त्वा­दे­क­ल­क्ष­ण­त्वा­द­न्य­त्वा­सि­द्धे­रो­ङ्का­र­प्र­ति­प­त्ति­र्ब्र­ह्म­प्र­ति­प­त्त­रे­वे­त्याह –
ओङ्कार एवेति ।
‘ओमितीदं सर्वम्’(तै. उ. १ । ८ । १) इत्या­दि­वा­क्या­न्त­र­सं­ग्र­हा­र्थ­मा­दि­प­द­मि­त्या­दि­श्रु­तिभ्यो ब्रह्म­प्र­ति­प­त्त्यु­पा­य­त्व­मो­ङ्का­रस्य प्रमितमिति शेषः ।

ननु स्वानु­ग­त­प्र­ति­भासे सन्मात्रे चिदात्मनि प्राणा­दि­वि­क­ल्पस्य कल्पि­त­त्वा­दा­त्मनः सर्वास्पदत्वं, न पुनरोङ्कारस्य तद­स्त्य­न­नु­ग­मा­दिति, तत्राऽऽह –
रज्ज्वादिरिवेति ।
यथा रज्जुः शुक्ति­रि­त्या­दि­र­धि­ष्ठा­न­वि­शेषः सर्पो रज­त­मि­त्या­दि­वि­क­ल्प­स्याऽऽ­स्प­दोऽ­भ्यु­प­ग­म्यते यथैष दृष्टान्तस्तथैव प्राणा­दि­रा­त्म­वि­कल्पो यस्तद्विषयः सर्वो वाक्प्रपञ्चो यथो­क्तो­ङ्का­र­मा­त्रा­त्म­क­स्त­दा­स्पदो गम्यते । न च जग­त्यो­ङ्का­र­स्या­न­नु­गमः । ओङ्कारेण सर्वा वाक् संतृण्णेति श्रुतेः । अतो युक्तमोङ्कारस्य सर्वा­स्प­द­त्व­मि­त्यर्थः ।

नन्व­र्थ­जा­त­स्याऽऽ­त्मा­स्प­द­त्वा­दो­ङ्का­रा­स्प­द­त्वाच्च वाक्प्रपञ्चस्य प्राप्त­मा­स्प­द­द्व­य­त्व­मिति, नेत्याह –
स चेति ।

आत्मवाचकत्वेऽपि नास्त्यो­ङ्का­र­स्याऽऽ­त्म­मा­त्रत्वं तद्वाचकस्य तन्मात्रत्वमिति व्याप्त्य­भा­वात्, प्राणा­दे­रा­त्म­वि­क­ल्प­स्या­भि­धा­न­व्य­ति­रे­क­द­र्श­ना­दि­त्या­श­ङ्क्याह –
ओङ्कारेति ।
तस्य विकारः सर्वो वाग्विशेषः, ‘अकारो वै सर्वा वाक्’(ऐ. आ. २ । ३ । ७) इति श्रुतेः, ओङ्कारस्य च तत्प्र­धा­न­त्वात्, तेन प्राणादिशब्देन वाच्यः प्रणा­दि­रा­त्म­वि­कल्पः सर्वः स्वाभि­धा­न­व्य­ति­रे­केण नास्ति; तच्चाभिधानं प्राणा­दि­श­ब्द­वि­शे­षा­त्म­क­मो­ङ्का­र­वि­का­प­भू­त­मो­ङ्का­रा­ति­रे­केण न सम्भ­व­ती­त्यो­ङ्का­र­मात्रं सर्वमिति निश्चीयते । आत्मनोऽपि तद्वाच्यस्य तन्मा­त्र­त्वा­भि­धा­ना­दि­त्यर्थः ।

शब्दा­ति­रि­क्ता­र्था­भावे शब्द­स्या­र्थ­वा­च­क­त्वा­नु­प­प­त्ते­रे­कत्र विष­य­वि­ष­यि­त्वा­यो­गा­न्नि­र्वि­कल्पं सन्मात्रं वस्तु वाच्य­वा­च­क­वि­भा­ग­शून्यं पर्य­व­स्य­ती­त्य­भि­प्रेत्य कार्यस्य वस्तुतोऽसत्वे प्रमाणमाह –
वाचारम्भणमिति ।

कार्यस्य सर्वस्यैवं मिथ्यात्वेऽपि कथ­मो­ङ्का­र­नि­र्ण­यस्य ब्रह्म­प्र­ति­प­त्त्यु­पा­य­त्व­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह –
तदस्येति ।
तदिदं विकारजातमस्य ब्रह्मणः सम्बन्धि वाचा सामान्यरूपया तन्त्या प्रसा­रि­त­र­ज्जु­तु­ल्यया सितं बद्धं व्याप्तमिति सम्बन्धः ।

शब्द­सा­मा­न्ये­ना­र्थ­सा­मा­न्यस्य व्याप्तावपि कथमर्थविशेषस्य शब्द­वि­शे­ष­व्या­प्ति­रि­त्या­श­ङ्क­याऽऽह –
नामभिरिति ।
शब्द­वि­शे­षै­र्दा­म­भि­र्दा­म­स्था­नी­यै­र्वि­शे­ष­रू­प­म­पी­द­म­र्थ­जातं व्याप्तं वक्तव्यं न्यासस्य तुल्य­त्वा­दि­त्यर्थः ।

उक्तमर्थं समर्थयते –
सर्वं हीति ।
इदं हि सर्वं सामा­न्य­वि­शे­षा­त्म­क­म­र्थ­जातं सामान्यरूपेण नाम्ना नीयते व्यवहारपथं प्राप्यते तेन नामनीत्युच्यते । तदेवं वाग­नु­र­क्त­बु­द्धि­बो­ध्य­त्वा­द्वा­ङ्मात्रं सर्वम् । वाग्जातं च सर्व­मो­ङ्का­रा­नु­वि­द्ध­त्वा­दो­ङ्का­र­मा­त्रम् । स चोङ्कारो लक्ष­णा­दि­नाऽऽ­त्म­धी­हे­तु­रि­त्या­द्य­प्र­क­र­णा­रम्भः सम्भवतीत्यर्थः । ‘तद्यथा शङ्कुना’(छा. उ. २ । २३ । ३) इति­श्रु­ति­सं­ग्र­हा­र्थ­मा­दि­प­दम् । प्रति­ज्ञा­त­प्र­थ­म­प्र­क­र­णा­र्थ­सि­द्धि­रिति शेषः ।

अर्थमुपपाद्य तस्मिन्नर्थे श्रुतिमवतारयति –
अत आहेति ।

श्रुतिं व्याचष्टे –
यदिदमिति ।
तदिदं सर्वमोङ्कार एवेति सम्बन्धः ।

अभि­धा­न­स्या­भि­धे­य­तया व्यप­स्थि­त­म­र्थ­जा­त­मो­ङ्कार एवेत्यत्र हेतुमाह –
तस्येति ।

तथाऽपि पृथगभिधानभेदः स्थास्यति, नेत्याह –
अभिधानस्येति ।

वाच्यं वाचकं च सर्व­मो­ङ्का­र­मा­त्र­मि­त्य­भ्यु­प­ग­मेऽपि परं ब्रह्म पथगेव स्थास्य­ती­त्या­श­ङ्क्याऽऽह –
परं चेति ।
यद्धि परं कारणं ब्रह्म तच्चेदमवगम्यते तदा किञ्चिदभिधानं तेने­द­म­भि­धे­य­मि­त्ये­व­मा­त्म­को­पा­य­पू­र्व­क­मेव तदधिगमोऽभिधेयं च स्वाभि­धा­ना­व्य­ति­रिक्तं तत्पु­न­रो­ङ्का­र­मा­त्र­मि­त्यु­क्त­त्वा­द्वाच्यं ब्रह्मापि वाचकाभिन्नं तन्मात्रमेव भविष्यति । यत्र तु कार्यकारणातीते चिन्मात्रे वाच्यवाचकविभागो व्यावर्तते तत्र नास्त्यो­ङ्का­र­मा­त्र­त्व­मो­ङ्का­रेण लक्षणया तद­ग­मा­ङ्गी­का­रा­दि­त्यर्थः ।

तस्ये­त्या­दि­श्रु­ति­म­व­तार्य व्याकरोति –
तस्येति ।

भूत­मि­त्या­दि­श्रुतिं गृहीत्वा व्याचष्टे –
कालेति ।
वाच्यस्य वाचकाभेदात्तस्य चोङ्का­र­मा­त्र­त्वा­दि­त्युक्तो न्यायः ।

काल­त्र­या­ती­त­मो­ङ्का­रा­ति­रिक्तं जडं वस्तु नास्त्येवं प्रमा­णा­भा­वा­दि­त्या­श­ङ्क्याऽऽह –
कार्या­धि­ग­म्य­मिति ।
अव्याकृतं साभा­स­म­ज्ञा­न­म­नि­र्वाच्यं, तन्न कालेन परिच्छिद्यते कालं प्रत्यपि कारणत्वात् । कार्यस्य कार­णा­त्प­श्चा­द्भा­विनो न प्राग्भा­वि­का­र­ण­प­रि­च्छे­द­कत्वं सङ्गच्छते । सूत्रमादिपदेन गृह्यते तदपि न कालेन परिच्छेत्तुं शक्यते । “स संवत्सरोऽभवन्न ह पुरा ततः संवत्सर आस”(श.ब्रा. १०।६।५।४) इति सूत्रा­त्का­लो­त्प­त्ति­श्रुतेः । तदपि सर्व­मो­ङ्का­र­मात्रं वाच्यस्य वाच­का­व्य­ति­रे­क­न्या­या­दि­त्यर्थः ॥१॥

अभि­धा­ना­भि­धे­य­यो­रे­क­स्मि­न्नेव सति कल्पितत्वेन तदे­क­रू­प­त्व­स्यो­क्त­त्वा­त्कि­मिति पुनः ‘सर्वं ह्येतद् ब्रह्म’(मा.उ. १। २) इत्युच्यते । तत्र वृत्ता­नु­वा­द­पू­र्व­क­मु­त्त­र­वा­क्यस्य सफलं तात्पर्यमाह –
अभिधानेत्यादिना ।

वाच्यस्य वाचकत्वोक्त्यैव तयो­रे­क­त्व­सि­द्धे­र्व्य­ति­हा­र­नि­र्देशो वृथे­त्या­श­ङ्क्याऽऽह –
इतरथेति ।
वाच्येन वाच­क­स्यै­क्य­म­नुक्त्वा वाचकेनैव वाच्य­स्यै­क्य­व­चने सत्यु­पा­यो­पे­य­प्र­यु­क्त­मे­कत्वं, न मुख्य­मै­क्य­मि­त्या­श­ङ्क्येत, तन्नि­वृ­त्त्यर्थं व्यति­हा­र­व­च­न­म­र्थ­व­दि­त्यर्थः ।

पर­स्प­रा­भे­दो­प­दे­शा­द­भि­धा­ना­भि­धे­य­यो­रे­क­त्व­प्र­ति­प­त्ति­रस्तु, साऽपि विफला ब्रह्म­प्र­ति­प­त्त्य­नु­प­यो­गि­त्वा­दि­त्या­श­ङ्क्याऽऽह –
एकत्वेति ।
अभि­धा­ना­भि­धे­य­यो­रे­क­त्व­प्र­ति­प­त्ते­श्चेदं प्रयोजनं यदेकेनैव प्रयत्नेन द्वयमपि विला­प­य­न्नु­भ­य­वि­ल­क्षणं ब्रह्म प्रतिपद्य निर्वृणोतीति योजना ।

अभि­धा­ना­भि­धे­य­यो­र्व्य­ति­हा­रो­प­देशे वाक्य­शे­ष­म­नु­कू­ल­यति –
तथा चेति ।

उक्ते वाचकस्य वाच्याभिन्नत्वे वाक्यमवतार्य योजयति –
तदाहेति ।
सर्वं कार्यं कारणं चेत्यर्थः ।

ब्रह्मणः श्रुत्यु­प­दि­ष्टस्य परोक्षत्वं व्यावर्तयति –
तच्चेति ।
यद्ब्रह्म श्रुत्या सर्वात्मकमुक्तं तन्न परोक्षमिति मन्तव्यं किं त्वयमात्मेति योजना । चतुष्पात्त्वेन विश्व­तै­ज­स­प्रा­ज्ञ­तु­री­य­त्वे­ने­त्यर्थः । अभिनयो नाम विव­क्षि­ता­र्थ­प्र­ति­प­त्त्य­र्थ­म­सा­धा­रणः शारीरो व्यापारः, तेन हस्ताग्रं हृदयदेशमानीय कथयतीत्यर्थः ।

सोऽय­मि­त्या­दि­वा­क्या­न्त­र­म­व­तार्य व्याकरोति –
ओङ्कारेति ।

सर्वाधिष्ठानतया परोक्षरूपेण परत्वं प्रत्यग्रूपेण चापरत्वं तेन कार्यकारणरूपेण सर्वात्मना व्यवस्थितः सन्नात्मा प्रति­प­त्ति­सौ­क­र्यार्थं चतुष्पात् कल्प्यते, तत्र दृष्टान्तमाह –
कार्षापणवदिति ।
देशविशेषे कार्षापणशब्दः षोडशपणानां संज्ञा । तत्र तथा व्यव­हा­र­प्रा­चु­र्याय पादकल्पना क्रियते तथेहापीत्यर्थः ।

यथा गौश्च­तु­ष्पा­दु­च्यते न तथा चतु­ष्पा­दा­देष्टुं शक्यते निष्क­ल­श्रु­ति­व्या­को­पा­दि­त्याह –
न गौरिवेति ।
विश्वादिषु तुर्यान्तेषु पादशब्दो यदि कर­ण­व्यु­त्प­त्ति­क­स्तदा विश्वा­दि­व­त्तु­र्य­स्यापि करणकोटिनिवेशो ज्ञेयासिद्धिः ।

यदि तु पादशब्दः सर्वत्र कर्म­व्यु­त्प­त्ति­क­स्तदा साध­ना­सि­द्धि­रि­त्या­शङ्क्य विभज्य पाद­श­ब्द­प्र­वृत्तिं प्रकटयति –
त्रया­णा­मि­त्या­दिना ।
करणसाधनः कर­ण­व्यु­त्प­त्तिकः, कर्मसाधनः कर्म­व्यु­त्प­त्तिक इति यावत् ॥२॥

आत्मनो निरवयवस्य पादद्वयमपि नोपपद्यते, पादचतुष्टयं तु दूरोत्सारितमिति शङ्कते –
कथमिति ।

पर­मा­र्थ­त­श्च­तु­ष्पा­त्त्वा­भा­वेऽपि काल्प­नि­क­मु­पा­यो­पे­य­भूतं पाद­च­तु­ष्ट­य­म­वि­रु­द्ध­मि­त्य­भि­प्रे­त्याऽऽद्यं पादं व्युत्पादयति –
आहेत्यादिना ।
स्थान­म­स्ये­त्य­भि­मा­नस्य विष­य­भू­त­मि­त्यर्थः ।

प्रज्ञा­या­स्ता­व­दा­न्त­र­त्व­प्र­सि­द्धे­र­यु­क्त­मिदं विशे­ष­ण­मि­त्या­शङ्क्य व्याचष्टे –
बहिरिति ।

चैतन्यलक्षणा प्रज्ञा स्वरूपभूता न बाह्ये विषये प्रतिभासते तस्या विष­या­न­पे­क्ष­त्वात्, बाह्यस्य च विषयस्य वस्तु­तोऽ­भा­वा­दि­त्या­श­ङ्क्याऽऽह –
बहिर्विषयेवेति ।
न स्वरूपप्रज्ञा वस्तुतो बाह्य­वि­ष­ये­ष्यते, बुद्धि­वृ­त्ति­रूपा त्वसा­व­ज्ञा­न­क­ल्पिता तद्विषया भवति । न च साऽपि वस्तु­त­स्त­द्वि­ष­य­ता­म­नु­भ­वति । वस्तुतः स्वयमभावाद्, बाह्यस्य विषयस्य काल्पनिकत्वात् । अतस्तद्विषयत्वं प्राति­भा­सि­क­मि­त्यर्थः ।

पूर्वेण विशेषणेन विशेषणान्तरं समुच्चिनोति –
तथेति ।

सप्ताङ्गत्वं श्रुत्य­व­ष्ट­म्भेन विश्वस्य विशदयति –
तस्येत्यादिना ।
प्रकृतस्य सन्नि­हि­त­प्र­सि­द्ध­स्यै­वाऽऽ­त्म­न­स्त्रै­लो­क्या­त्म­कस्य वक्ष्यमाणरीत्या वैश्वा­न­र­श­ब्दि­तस्य सुते­ज­स्त्व­गु­ण­वि­शिष्टो द्युलोको मूर्धैवेति धुलोकस्य शिर­स्त्व­मु­प­दि­श्यते । विश्वरूपो नानाविधः श्वेत­पी­ता­दि­गु­णा­त्मकः सूर्य­श्च­क्षु­र्वि­व­क्ष्यते । पृथङ् नानाविधं वर्त्म सञ्चरणमात्मा स्वभावोऽस्येति व्युत्पत्त्या वायुस्तथोच्यते । स च प्राणस्तस्येति सम्बन्धः । बहुलो विस्ती­र्ण­गु­ण­वा­ना­काशः सन्देहो देहस्य मध्यमो भागः । रयिरन्नं तद्धेतुरुदकं बस्तिरस्य मूत्रस्थानम् । पृथिव्येव प्रति­ष्ठा­त्व­गुणा वैश्वानरस्य पादौ । तद्यद्भक्तं प्रथ­म­मा­ग­च्छे­त्त­द्धो­मी­य­मि­य­मि­त्य­ग्नि­हो­त्र­क­ल्पना श्रुता । तस्याः शेष­त्वे­नाऽऽ­ह­व­नी­योऽ­ग्नि­रस्य मुख्यत्वेनोक्त इति योजना ।

उक्तं सप्ता­ङ्ग­त्व­मु­प­सं­ह­रति –
इत्येवमिति ।

विशेषणान्तरं समुच्चिनोति –
तथेति ।
बुद्ध्य­र्था­नी­न्द्रि­याणि श्रोत्र­त्व­क्च­क्षु­र्जि­ह्वा­घ्रा­णानि । कर्मा­र्था­नी­न्द्रि­याणि वाक्पा­णि­पा­द­पा­यू­पा­स्थानि । तान्येतानि द्विवि­धा­नी­न्दि­याणि दश भवन्ति । प्राणादय इत्या­दि­श­ब्दे­ना­पा­न­व्या­नो­दा­न­स­माना गृह्यन्ते । उप­ल­ब्धि­द्वा­रा­णी­त्यु­प­ल­ब्धि­पदं कर्मो­प­ल­क्ष­णा­र्थम् । द्वारत्वं करणत्वम् । तत्र बुद्धी­न्द्रि­याणां मनसो बुद्धेश्च प्रसि­द्ध­मु­प­लब्धौ करणत्वम् । कर्मे­न्द्रि­याणां तु वदनादौ कर्मणि करणत्वम् । प्राणादीनां पुनरुभयत्र पारम्पर्येण करणत्वम् । तेषु सत्स्वेव ज्ञान­क­र्म­णो­रु­त्पत्तेः, असत्सु चानुत्पत्तेः । मनोबुद्ध्योश्च सर्वत्र साधारणं करणत्वम् । अहङ्कारस्यापि प्राणादिवदेव करणत्वं मन्तव्यम् । चित्तस्य चैतन्याभासोदये करणत्वमुक्तमिति विवेक्तव्यम् । पूर्वो­क्तै­र्वि­शे­ष­णै­र्वि­शि­ष्टस्य वैश्वानरस्य स्थूलभुगिति विशेषणान्तरम् ।

तद्विभजते –
स एवंविश्ष्ट इति ।
शब्दादिविषयाणां स्थूलत्वं दिगा­दि­दे­व­ता­नु­गृ­हीतैः श्रोत्रा­दि­भि­र्गृ­ह्य­मा­ण­त्वम् ।

इदानीं वैश्वानरशब्दस्य प्रकृ­त­वि­श्व­वि­ष­यत्वं विशदयति –
विश्वेषामिति ।
कर्मणि षष्ठी । विश्वे च ते नराश्चेति विश्वानराः । निपा­ता­त्पू­र्व­प­दस्य दीर्घता । विश्वान् नरान् भोक्तृत्वेन व्यवस्थितान् प्रत्यनेकधा धर्मा­ध­र्म­क­र्मा­नु­सा­रेण सुख­दुः­खा­दि­प्रा­प­णा­दयं कर्मफलदाता वैश्वानरशब्दितो भवतीत्यर्थः । अथ वा विश्वश्चासौ नरश्चेति विश्वानरः स एव वैश्वानरः ।

स्वार्थे तद्धितो राक्ष­स­वा­य­स­व­दि­त्याह –
विश्वेति ।

कथं विश्वश्चासौ नरश्चेति विगृह्यते ? जाग्रतां नरा­णा­म­ने­क­त्वा­त्ता­द­त्म्या­नु­प­प­त्ते­रि­त्या­श­ङ्क्याह –
सर्वेति ।
सर्वपिण्डात्मा समष्टिरूपो विराडुच्यते । तेनाऽऽत्मना विश्वे­षा­म­न­न्य­त्वा­द्य­थो­क्त­स­मा­स­सि­द्धि­रि­त्यर्थः ।

विश्वस्य तैज­सा­दु­त्प­त्ते­स्त­स्यैव प्राथम्यं युक्तम्, कार्यस्य तु पश्चा­द्भा­वि­त्व­मु­चि­त­मि­त्या­श­ङ्क्याह –
एतदिति ।
प्रवि­ला­प­ना­पे­क्षया प्राथम्यं न सृष्ट्य­पे­क्ष­ये­त्यर्थः ।

अध्या­त्मा­धि­दै­व­यो­र्भे­द­मा­दाय प्रागुक्तं सप्ता­ङ्ग­त्व­मा­क्षि­पति –
कथमिति ।
ब्रह्मणि प्रकृते तस्य परोक्षत्वे शङ्किते तन्निरासार्थं ब्रह्मा­य­मा­त्मेति प्रत्यगात्मानं प्रकृत्य सोऽयमात्मा चतुष्पादिति चतुष्पात्त्वे तस्य प्रक्रान्ते द्युलोकादीनां मूर्धा­द्य­ङ्ग­त्व­स­प्ता­ङ्ग­त्व­सि­द्ध्यर्थं यदुक्तं तदयुक्तं प्रक्र­म­वि­रो­धा­दि­त्यर्थः ।

अध्या­त्मा­धि­दै­व­यो­र्भे­दा­भा­वान्न प्रक्र­म­वि­रो­धोऽ­स्तीति परिहरति –
नैष दोष इति ।

तत्र हेतुमाह –
सर्वस्येति ।
आध्या­त्मि­क­स्याऽऽ­धि­दै­वि­केन सहितस्य प्रपञ्चस्य सर्वस्यैव स्थूलस्य पञ्ची­कृ­त­प­ञ्च­म­हा­भू­त­त­त्का­र्या­त्म­क­स्या­ने­नाऽ­त्मना विराजा प्रथमपादत्वम् । तस्यैव सूक्ष्म­स्या­प­ञ्ची­कृ­त­प­ञ्च­म­हा­भू­त­त­त्का­र्या­त्मनो हिरण्यगर्भत्मना द्वितीयपादत्वम् । तस्यैव कार्यरूपतां त्यक्त्वा कार­ण­रू­प­ता­मा­प­न्न­स्या­व्या­कृ­ता­त्मना तृतीयपादत्वम् । तस्यैव तु कार्यकारणरूपतां विहाय सर्व­क­ल्प­ना­धि­ष्ठा­न­तया स्थितस्य सत्य­ज्ञा­ना­न­न्ता­न­न्दा­त्मना चतुर्थपादत्वम् । तदे­व­म­ध्या­त्मा­धि­दै­व­यो­र­भे­द­मा­द­यो­क्तेन प्रकारेण चतुष्पात्त्वस्य वक्तु­मि­ष्ट­त्वात् पूर्व­पू­र्व­पा­द­स्यो­त्त­रो­त्त­र­पा­दा­त्मना प्रवि­ला­प­ना­त्तु­री­य­नि­ष्ठायां पर्यवसानं सिद्ध्य­ती­त्यर्थः ।

यदैयं तुरीये पर्यवसानं जिज्ञा­सो­र्मु­मु­क्षो­रि­ष्यते तदा तत्त्व­ज्ञा­न­प्र­ति­ब­न्ध­कस्य प्राति­भा­सि­क­द्वै­त­स्यो­प­रमे सति अद्वै­त­प­रि­पू­र्ण­ब्र­ह्मा­ह­म­स्मीति वाक्या­र्थ­सा­क्षा­त्कारः सिध्यतीति फलितमाह –
एवं चेति ।
उक्तन्यायेन तत्त्व­सा­क्षा­त्कारे संगृहीते सर्वेषु भूतेषु ब्रह्मा­दि­स्था­व­रा­न्ते­ष्वा­त्मै­कोऽ­द्वि­तीयो दृष्टः स्यात् । ‘एको देवः सर्वभूतेषु’(श्वे. उ. १ । १०) इति तत्र तत्र ब्रह्म­चै­त­न्य­स्यैव प्रत्य­क्त्वे­ना­व­स्था­ना­भ्यु­प­ग­मात् तानि तानि च सर्वाणि प्रातिभासिकानि भूतानि तस्मि­न्ने­वा­त्मनि कल्पितानि दृष्टानि स्युः । तथा च पूर्णत्वमात्मनो भूतान्तराणां च तदतिरेकेण सत्ता­स्फु­र­ण­वि­र­हि­तत्वं सिद्ध्यति ।

ततश्च – “सर्व­भू­त­स्थ­मा­त्मानं सर्वभूतानि चाऽऽत्मनि । सम्प­श्य­न्ना­त्म­याजी वै स्वारा­ज्य­म­भि­ग­च्छति॥”(मनु. स्मृ. १२ । ९१) इति स्मृतिरनुगृहीता भवतीत्याह –
सर्व­भू­त­स्थ­श्चेति ।

न चेदं मानवं वचनममानमिति शङ्कनीयम् । ‘यद्वै किञ्च मनु­र­व­द­त्त­द्भे­ष­जम्’(तै. सं. २ । २ । १० । २) इति श्रुते­रि­त्य­भि­प्रेत्य दर्शि­त­स्मृ­ति­मू­ल­भूतां श्रुतिं सूचयति –
यस्त्विति ।
यो हि पादत्रयं प्रागुक्तया प्रक्रियया प्रविलाप्य तुरीये नित्ये विज्ञप्तिमात्रे सदानन्दैकताने परिपूर्णे प्रतिष्ठां प्रतिपद्यते स ब्रह्मा­ह­म­स्मी­त्या­त्मानं जानानः सर्वेषां भूता­ना­म­धि­ष्ठा­ना­न्त­र­म­नु­प­ल­भ­मान आत्मन्येव प्रातीतिकानि तानि प्रत्येति । तेषु सर्वेष्वात्मानं सत्ता­स्फू­र्ति­प्र­द­म­व­ग­च्छति । ततश्च न किञ्चिदपि गोपा­यि­तु­मि­च्छ­तीति श्रुत्यर्थश्च यथोक्तरित्या तत्त्व­सा­क्षा­त्कारे सङ्गृहीते सति स्वीकृतः स्यादित्यर्थः ।

अध्या­त्मा­धि­दै­व­यो­र­भे­दा­भ्यु­प­ग­म­द्वा­रेण प्रागु­क्त­प­रि­पाट्या तत्त्व­ज्ञा­ना­न­भ्यु­प­गमे दोषमाह –
अन्यथेति ।
साङ्ख्या­दि­प­क्ष­स्यापि प्रामा­णि­क­त्वा­त्त­थैव प्रतिदेहं परिच्छिन्नस्य प्रत्यगात्मनो दर्शनेन प्रामा­णि­कोऽ­र्थोऽ­भ्यु­प­गतो भवति ।

व्यव­स्था­नु­प­पत्त्या च प्रति­श­री­र­मा­त्म­भेदः सिद्ध्य­ती­त्या­श­ङ्क्याऽऽह –
तथा चेति ।
साङ्ख्यादीनां द्वैतविषयं दर्शनमिष्टम् । तेन त्वदी­य­द­र्श­न­स्या­द्वै­त­वि­ष­यस्य विशे­षा­भा­वा­द­द्वैतं तत्त्वमिति श्रुतिसिद्धो विशे­ष­स्त्व­त्पक्षे न सिध्येदतः श्रुतिविरोधो भेदवादे प्रसज्येत । व्यवस्था त्वौपा­धि­क­भे­द­म­धि­कृत्य सुस्था भविष्यतीत्यर्थः । ननु भेदवादेऽपि नाद्वै­त­श्रु­ति­र्वि­रु­ध्यते ।

ध्यानार्थमन्नं ब्रह्मे­ति­व­द­द्वैतं तत्त्व­मि­त्यु­प­दे­श­सि­द्धे­रि­त्या­श­ङ्क्याऽऽह –
इष्यते चेति ।
उप­क्र­मो­प­सं­हा­रै­क­रू­प्या­दिना सर्वा­सा­मु­प­नि­षदां सर्वेषु देहे­ष्वा­त्मै­क्य­प्र­ति­पा­द­न­प­र­त्व­मि­ष्ट­मतो न ध्याना­र्थ­त्व­म­द्वै­त­श्रु­ते­रेष्टुं शक्यम् । वस्तु­प­र­त्व­लि­ङ्ग­वि­रो­धा­दि­त्यर्थः ।

अध्या­त्मा­धि­दै­व­यो­रे­क­त्व­मु­पे­त्या­द्वै­त­प­र्य­व­साने सिद्धे सत्या­ध्या­त्मि­कस्य व्यष्ट्यात्मनो विश्वस्य त्रैलो­क्या­त्म­के­नाऽऽ­धि­दै­वि­केन विराजा सहैकत्वं गृहीत्वा यत्तस्य सप्ता­ङ्ग­त्व­मुक्तं तद­वि­रु­द्ध­मि­त्यु­प­सं­ह­रति –
अत इति ।

अध्या­त्मा­धि­दै­व­यो­रैक्ये हेत्वन्तरमाह –
मूर्धेति ।
दिवादित्यादिकं वैश्वानरावयवं वैश्वा­न­र­बुद्ध्या ध्यायतो जिज्ञासया पुन­र­ख­ण्ड­प­क्ष­मु­प­ग­तस्य ‘मूर्धा ते व्यप­ति­ष्य­द्यन्मां नाऽऽगमिष्यः’(छा. उ. ५ । १२ । २) इत्य­न्धोऽ­भ­विष्यो यन्मा­मि­त्या­दि­व्य­स्तो­पा­स­न­निन्दा सम­स्तो­पा­स­न­वि­धि­त्सया दृश्यते । न च द्युलोकादिकं विपरीतबुद्ध्या गृहीतवतः स्वकी­य­मू­र्धा­दि­प­रि­प­त­न­मु­चितं यद्य­ध्या­त्मा­धि­दै­व­यो­रे­कत्वं न भवेत् तस्मा­त्त­यो­रे­क­त्व­मत्र विवक्षितं भवतीत्यर्थः । ननु विराजो विश्वेनैकत्वमेव मूलग्रन्थे दृश्यते ।

तत्क­थ­म­वि­शे­षे­णा­ध्या­त्मा­धि­दै­व­यो­रे­कत्वं विव­क्षि­त्वाऽ­द्वै­त­प­र्य­व­सानं भाष्यकृतोच्यते, तत्राऽऽह –
विराजेति ।
यन्मुखतो विराजो विश्वेनैकत्वं दर्शितं तत्तु हिरण्यगर्भस्य तैज­से­ना­न्त­र्या­मि­ण­श्चा­व्या­कृ­तो­प­हि­तस्य प्राज्ञेन सहै­क­त्व­स्यो­प­ल­क्ष­णा­र्थ­मतो मूल­ग्र­न्थेऽ­प्य­वि­शे­षे­णा­ध्या­त्मा­धि­दै­व­यो­रे­कत्वं विव­क्षि­त­मि­त्य­द्वै­त­प­र्व­य­सा­न­सि­द्धि­रि­त्यर्थः ।

अध्या­त्मा­धि­दै­व­यो­र्य­दे­क­त्व­मि­हो­च्यते तन्म­धु­ब्रा­ह्म­णेऽपि दर्शितमित्याह –
उक्तं चेति ।
अधिदैवमध्यात्मं चैकरूपं निर्देशं प्रति­प­र्या­य­म­य­मेव स इत्य­भे­द­व­च­ना­दे­क­त्व­मत्र विव­क्षि­त­मि­त्यर्थः । ननु विश्वविराजोः स्थूला­भि­मा­नि­त्वा­त्तै­ज­स­हि­र­ण्य­ग­र्भ­योश्च सूक्ष्मा­भि­मा­नि­त्वा­दे­कत्वं युक्तम् ।

प्राज्ञा­व्या­कृ­त­योस्तु केन साधा­र्म्ये­णै­कत्वं, तत्राऽऽह –
सुषुप्तेति ।
प्राज्ञो हि सर्वं विशेषमुपसंहृत्य निर्विशेषः सुषुप्ते वर्तते, प्रल­य­द­शा­या­म­व्या­कृतं च निःशेषविशेषं स्वात्म­न्यु­प­सं­हृत्य निर्विशेषरूपं तिष्ठति, तेनोक्तं साधर्म्यं पुरोधाय तयो­रै­क्य­म­वि­रु­द्ध­मि­त्यर्थः ।

अध्या­त्मा­धि­दै­व­यो­रे­कत्वे प्रागु­क्त­न्या­येन प्रसिद्धे सत्यु­प­सं­हा­र­प्र­क्रि­यया सिद्धमद्वैतमिति फलितमाह –
एवं चेति ।
तच्चाद्वैतं प्रति­ब­न्ध­ध्वं­स­मा­त्रेण न स्फुरति, किं तु वाक्या­दे­वाऽऽ­चा­र्यो­प­दि­ष्टा­दिति वक्तुं चशब्दः ॥३॥

द्विती­य­पा­द­म­तार्य व्याचष्टे –
स्वप्नेत्यादिना ।
स्थानं पूर्ववत् । द्रष्टु­र्म­मा­भि­मा­नस्य विषयभूतमिति यावत् ।

स्वप्नपदार्थं निरूपयितुं तत्कारणं निरूपयति –
जग्रदित्यादिना ।

तस्याः स्वप्नाद् वैधर्म्यार्थं विशेषणमाह –
अनेकेति ।
अनेकानि विविधानि साधनानि करणानि यस्याः सा तथेति यावत् ।

विषयद्वारकमपि वैषम्यं दर्शयति –
बहिरिति ।
बाह्यस्य शब्दा­दे­र्वि­ष­य­स्या­वि­द्या­वि­व­र्त­त्वेन वस्तुतोऽभावान्न तद्विषयत्वमपि यथोक्तप्रज्ञाया वास्तवं, किं तु प्राती­ति­क­मि­त्य­भि­प्रे­त्यो­क्त­मि­वेति । न च यथोक्ता प्रज्ञा प्रमाणसिद्धा, तस्या अनवस्थानात् ।

तेन साक्षिवेद्या सेति विवक्षित्वाऽऽह –
अवभासमानेति ।

द्वैत­त­त्प्र­ति­भा­स­यो­र्व­स्तु­तोऽ­सत्त्वे हेतुं सूचयति –
मनः स्पन्दनेति ।

यथोक्ता प्रज्ञा स्वानुरूपां वासनां स्वस­मा­ना­धा­रा­मु­त्पा­द­य­ती­त्याह –
तथाभूतमिति ।

जाग्र­द्वा­स­ना­वा­सितं मनो जागरितवदवभासते स्वप्न­द्र­ष्टु­रि­त्ये­ष्टव्यं मनस एव वासनावतः स्वप्ने विषयत्वात् अति­रि­क्त­वि­ष­या­भा­वा­दि­त्याह –
तथा संस्कृतमिति ।

जाग्र­द्वा­स­ना­वा­सितं मनो जाग­रि­त­व­द्भा­ती­त्यत्र दृष्टान्तमाह –
चित्रित इति ।
यथा पट­श्चि­त्रि­त­श्चि­त्र­व­द्भाति तथा मनो जागरितसंस्कृतं तद्वद्भातीति युक्तमित्यर्थः ।

स्वप्नस्य जाग­रि­ता­द्वै­धर्म्यं सूचयति –
बाह्येति ।

यथोक्तस्य मनसो जागरितवदनेकधा प्रतिभाने कारणान्तरमाह –
अविद्येति ।

यदुक्तं स्वप्नस्य जाग­रि­त­ज­नि­त­वा­स­ना­ज­न्यत्वं तत्र – बृह­दा­र­ण्य­क­श्रुतिं प्रमाणयति –
तथा चेति ।
अस्य लोकस्येति जाग­रि­तो­क्ति­स्तस्य विशेषणं सर्वावदिति । सर्वा साध­न­स­म्प­त्ति­र­स्मि­न्न­स्तीति सर्ववान् सर्ववानेव सर्वावान्, तस्य मात्रा लेशो वासना ताम­पा­दा­या­प­च्छिद्य गृहीत्वा स्वपिति वासनाप्रधानं स्वप्न­म­नु­भ­व­ती­त्यर्थः ।

यत्तु स्वप्नरूपेण परिणतं मनः साक्षिणो विषयो भवतीति, तत्र श्रुत्यन्तरं दर्शयति –
तथेति ।
परत्वं मन­स­स्त­दु­पा­धि­त्वा­द्वाऽ­सा­धा­र­ण­का­र­ण­त्वाद्वा, देवत्वं द्योत­ना­त्म­क­त्वात् तत् मनो ज्योतिरिति ज्योतिः शब्दात्, तस्मि­न्ने­की­भ­वति, स्वप्ने द्रष्टा तत्प्रधानो भवतीति स्वप्नं प्रकृत्यात्र स्वप्ने स्वप्रकाशो द्रष्टा महिमानं मनसो विभूतिं ज्ञान­ज्ञे­य­प­रि­णा­म­त्व­ल­क्षणां साक्षात्कारोति । तथा च मनसो विषयत्वान्न तत्राऽऽ­त्म­ग्रा­ह­क­त्व­श­ङ्के­त्यर्थः ।

ननु विश्वस्य बाह्ये­न्द्रि­य­ज­न्य­प्र­ज्ञा­या­स्तै­ज­सस्य मनो­ज­न्य­प्र­ज्ञा­या­श्चा­न्तः­स्थ­त्वा­वि­शे­षा­द­न्तः­प्र­ज्ञ­त्व­वि­शे­षणं न व्यावर्तकमिति, तत्राऽऽह –
इन्द्रियेति ।
उपपादितं तावद्विश्वस्य बहिष्प्रज्ञत्वं तैजसस्त्वन्तः प्रज्ञो विज्ञायते बाह्या­नी­न्द्रि­या­ण्य­पेक्ष्य मन­सोऽ­न्तः­स्थ­त्वात् तत्प­रि­णा­म­त्वाच्च स्वप्न­प्र­ज्ञा­या­स्त­द्वा­न­न्तः­प्रज्ञो युज्यते । किं च मनःस्वभावभूता या जागरितवासना तद्रूपा स्वप्नप्रज्ञेति युक्तं तैज­स­स्या­न्तः­प्र­ज्ञ­त्व­मि­त्यर्थः ।

स्वप्ना­भि­मा­नि­न­स्ते­जो­वि­का­र­त्वा­भा­वात् कुत­स्तै­ज­स­त्व­मि­त्या­श­ङ्क्याऽऽह –
विषयेति ।
स्थूलो विषयो यस्यां वासनामाय्यां प्रज्ञायां न ज्ञायते तस्यां विष­य­सं­स्प­र्श­म­न्त­रेण प्रकाशमात्रतया स्थिता­या­मा­श्र­य­त्वेन भवतीति स्वप्नद्रष्टा तैजसो विवक्षितः । तेजःशब्देन यथो­क्त­वा­स­ना­मय्याः प्रज्ञाया निर्दे­शा­दि­त्यर्थः । ननु विश्व­तै­ज­स­यो­र­वि­शिष्टं प्रवि­वि­क्त­भु­गिति विशेषणम् । प्रज्ञाया भोज्यत्वस्य तुल्यत्वात् । मैवम् । तस्या भोज्य­त्वा­वि­शे­षेऽपि तस्या­म­वा­न्त­र­भे­दात् सवि­ष­य­त्वा­द्वि­श्वस्य भोज्या प्रज्ञा स्थूला लक्ष्यते ।

तैजसे तु प्रज्ञा विष­य­सं­स्प­र्श­शून्या वास­ना­मा­त्र­रू­पेति विविक्तो भोगः सिध्यतीत्याह –
विश्वस्येति ।
सप्ता­ङ्गै­को­न­विं­श­ति­मु­ख­त्व­मि­त्ये­त­द­न्य­दि­त्यु­च्यते ॥४॥

पादद्वयमेवं व्याख्याय तृतीयं पादं व्याख्यास्यन् व्याख्या­य­मा­न­श्रुतौ न कञ्च­ने­त्या­दि­वि­शे­ष­णस्य तात्पर्यमाह –
दर्शनेति ।
दर्शनस्य स्थूलविषयस्य वृत्ति­र­त्रा­स्तीति जागरितं दर्श­न­वृ­त्ति­रि­त्यु­च्यते, स्थूल­वि­ष­य­द­र्श­ना­द­न्य­द्द­र्श­न­म­द­र्शनं वासनामात्रं तस्य वृत्ति­र­त्रा­स्ती­त्य­द­र्श­न­वृत्तिः स्वप्नस्तयोः सुषुप्तवदेव स्वापस्य तत्त्वाग्रहणस्य तुल्यत्वात् ‘यत्र सुप्त’(बृ. उ. ४ । ३ । १९) इत्युक्ते तयोरपि प्रसक्तौ तद्व्यवच्छेदेन सुषुप्तस्यैव ग्रहणार्थं ‘यत्र सुप्त’ इत्यादिवाक्ये ‘न कञ्चने’ त्यादिविशेषणम् । तद्धि स्थानद्वयं व्यवच्छिद्य सुषुप्तमेव ग्राहयतीत्यर्थः ।

न कञ्चन स्वप्नं पश्यतीत्यनेनैव विशेषणेन स्थान­द्व­य­व्य­व­च्छे­द­स­म्भ­वाद् विशे­ष­णा­न्त­र­म­कि­ञ्चि­त्क­र­मि­त्या­श­ङ्क्याऽऽह –
अथ वेति ।
तत्त्वा­प्र­ति­बोधः स्वापस्तस्य स्थानत्रयेऽपि तुल्य­त्वा­ज्जा­ग्र­त्स्व­प्नाभ्यां विभज्य सुषुप्तं ज्ञापयितुं विशेषणमित्यर्थः ।

एकस्यैव विशेषणस्य व्यव­च्छे­द­क­त्व­स­म्भ­वा­दलं विशे­ष­णा­भ्या­मि­त्यस्य कः समा­धि­रि­त्या­शङ्क्य विशे­ष­ण­यो­र्वि­क­ल्पेन व्यव­च्छे­द­क­त्वा­न्नाऽ­न­र्थ­क्य­मिति मत्वाऽऽह –
न हीति ।

यत्रे­त्य­स्या­पे­क्षि­तार्थं कथयति –
तदेतदिति ।
अन्य­था­ग्र­ह­ण­शू­न्यत्वं काम­सं­स्प­र्श­वि­र­हि­तत्वं च विशेषणाभ्यां विवक्षितम् ।

कथमस्य सद्वि­ती­य­स्यै­की­भू­त­त्व­वि­शे­ष­ण­मि­त्या­श­ङ्क्याह –
स्थानद्वयेति ।
जागरितं स्वप्नश्चेति स्थानद्वयम् । तेन प्रविभक्तं यद् द्वैतं स्थूलं सूक्ष्मं च तत्सर्वं मनः­स्प­न्दि­त­मा­त्र­मिति वक्ष्यते । तच्च यथा स्वकी­य­रू­प­मा­त्मनो विभक्तं तथैव तस्या­त्या­गे­ना­व्या­कृ­ताख्यं कारणमापन्नं स्वकी­य­स­र्व­वि­स्ता­र­स­हितं कारणात्मकं भवति । यथाऽहर्नैशेन तमसा ग्रस्तं तमस्त्वेनैव व्यवह्रियते तथेदमपि कार्यजातं कारणभावमापन्नं कारणमित्येव व्यवह्रियते । तस्यां चावस्थायां तदु­पा­धि­रा­त्मै­की­भू­त­वि­शे­ष­ण­भाग् भवतीत्यर्थः ।

तथाऽपि कारणोपहितस्य प्रज्ञा­न­घ­न­वि­शे­ष­ण­म­युक्तं निरुपाधिकस्यैव तथा विशे­ष­ण­स­म्भ­वा­दि­त्या­श­ङ्क्याह –
अत एवेति ।
सर्वस्य कार्यप्रपञ्चस्य समनस्कस्य सुषुप्ते कारणात्मना स्थित­त्वा­दे­वे­त्यर्थः ।

सुषु­प्ता­व­स्था­या­मु­क्त­प्र­ज्ञा­ना­ना­मे­क­मू­र्तित्वं न वास्तवं, पुन­र्य­था­पू­र्व­वि­भा­ग­यो­ग्य­त्वा­दिति मत्वोक्तम् –
इवेति ।

सुषु­प्त्य­व­स्थायाः कार­णा­त्म­क­त्वा­ज्जा­ग्र­त्स्व­प्न­प्र­ज्ञा­नानां तत्रैकीभावात् प्रज्ञा­न­घ­न­श­ब्द­वा­च्य­ते­त्यु­क्त­म­नु­व­दति –
सेयमिति ।

उक्तमेवार्थं दृष्टान्तेन बुद्धा­वा­वि­र्भा­व­यति –
यथेत्यादिना ।
एवकारस्य नायो­ग­व्य­व­च्छि­त्ति­रर्थः ।

किं तु अन्य­यो­ग­व्य­व­च्छि­त्ति­रि­त्याह –
एवशब्दादिति ।

प्रज्ञ­स्याऽऽ­न­न्द­वि­का­र­त्वा­भावे कथ­मा­न­न्द­म­य­त्व­वि­शे­ष­ण­मि­त्या­शङ्क्य स्वरू­प­सु­खा­भि­व्य­क्ति­प्र­ति­ब­न्ध­क­दुः­खा­भा­वात् प्राचु­र्या­र्थत्वं मयटो गृहीत्वा विशेषणोपपत्तिं दर्शयति –
मनस इति ।

मयटः स्वरू­पा­र्थ­त्वा­दा­न­न्द­म­य­त्व­मा­न­न्द­त्व­मेव किं न स्यादि­त्या­श­ङ्क्याऽऽह –
नेत्यादिना ।
न हि सुषुप्ते निरु­पा­धि­का­न­न्दत्वं प्राज्ञ­स्या­भ्यु­प­गन्तुं शक्यं तस्य कारणोपहितत्वात् । अन्यथा मुक्त­त्वा­त्पु­न­रु­त्था­ना­यो­गात् । तस्मा­दा­न­न्द­प्रा­चु­र्य­मे­वास्य स्वीकर्तुं युक्तमित्यर्थः ।

आनन्दभुगिति विशेषणं सदृष्टान्तं व्याचष्टे –
यथेति ।
तथा सुषुप्तोऽपीति शेषः ।

दार्ष्टान्तिकं विवृणोति –
अत्यन्तेति ।
इयं स्थितिरिति सुषुप्तिरुक्ता । अनेनेति प्राज्ञोक्तिः ।

सौषुप्तस्य पुरुषस्य तस्यामवस्थायां स्वरू­प­भू­ता­न­ति­श­या­न­न्दा­भि­व्य­क्ति­र­स्ती­त्यत्र प्रमाणमाह –
एषोऽस्येति ।

प्राज्ञस्यैव चेतोमुख इति विशेषणान्तरं तद्व्याचष्टे –
स्वप्नादीति ।
स्वप्नो जागरितं चेति प्रतिबोधशब्दितं चेतस्तत्प्रति द्वारभूतत्वं द्वारभावेन स्थितत्वम् । न हि स्वप्नस्य जागरितस्य वा सुषु­प्त­द्वा­र­म­न्त­रेण सम्भवोऽस्ति । तयो­स्त­त्का­र्य­त्वात् । अतः सुषुप्ताभिमानी प्राज्ञः स्थान­द्व­य­का­र­ण­त्वा­च्चे­तो­मु­ख­व्य­प­दे­श­भा­गि­त्यर्थः । अथवा प्राज्ञस्य सुषु­प्ता­भि­मा­निनः स्वप्नं जागरितं वा प्रति क्रमाक्रमाभ्यां यदागमनं तत्प्रति चैतन्यमेव द्वारम् ।

न हि तद् व्यतिरेकेण काऽपि चेष्टा सिध्य­ती­त्य­भि­प्रेत्य पक्षान्तमाह –
बोधेत्यादिना ।
भूते भविष्यति च विषये ज्ञातृत्वं तथा सर्वस्मिन्नपि वर्तमाने विषये ज्ञातृ­त्व­म­स्यै­वेति प्रकर्षेण जानातीति प्रज्ञः । प्रज्ञ एव प्राज्ञः ।

तदेव प्राज्ञपदं व्युत्पादयति –
भूतेति ।

सुषुप्ते सम­स्त­वि­शे­ष­वि­ज्ञा­नो­प­र­मात् कुतो ज्ञातृ­त्व­मि­त्या­श­ङ्क्याह –
सुषुप्तोऽपीति ।
यद्यपि सुषु­प्त­स्त­स्या­म­व­स्थायां सम­स्त­वि­शे­ष­वि­ज्ञा­न­वि­र­हितो भवति तथापि भूता निष्पन्ना या जागरिते स्वप्ने च सर्व­वि­ष­य­ज्ञा­तृ­त्व­ल­क्षणा गतिस्तया प्रकर्षेण सर्वम् आस­म­न्ता­ज्जा­ना­तीति प्राज्ञ­श­ब्द­वाच्यो भवतीत्यर्थः ।

तर्हि प्राज्ञशब्दस्य मुख्यार्थत्वं न सिध्य­ती­त्या­श­ङ्क्याऽऽह –
अथवेति ।

असा­धा­र­ण­मि­ति­वि­शे­ष­ण­द्यो­ति­त­मर्थं स्फुटयति –
इतरयोरिति ।

आध्यात्मिकस्य तृतीयपादस्य व्याख्या­मु­प­सं­ह­रति –
सोऽयमिति ॥ ५॥

प्राज्ञ­स्याऽऽ­धि­दै­वि­के­ना­न्त­र्या­मिणा सहाभेदं गृहीत्वा विशेषणान्तरं दर्शयति –
एष हीति ।
स्वरू­पा­व­स्थ­त्व­मु­पा­धि­प्रा­धा­न्य­म­व­धूय चैत­न्य­प्रा­धा­न्यम् । अन्यथा स्वात­न्त्र्या­नु­प­पत्तेः ।

नैयायिकादयस्तु ताट­स्थ्य­मी­श्व­र­स्याऽऽ­ति­ष्ठन्ते, तदयुक्तं, पत्यु­र­सा­म­ञ्ज­स्या­दिति न्याय­वि­रो­धा­दि­त्याह –
नैतस्मादिति ।

श्रुतिविरोधादपि न तस्य ताट­स्थ्य­मा­स्थे­य­मि­त्याह –
प्राणेति ।
प्रकृतमज्ञातं परं ब्रह्म सदाख्यं प्राणशब्दितं तद्बन्धनं बध्यतेऽस्मिन् पर्यवस्यतीति व्युत्पत्तेः । न हि जीवस्य परमात्मातिरेकेण पर्यवसानमस्ति । मनस्तदुपहितं जीवचैतन्यमात्रं प्राण­श­ब्द­स्याऽऽ­ध्या­त्मि­का­र्थस्य परस्मिन् प्रयो­गा­न्म­नः­श­ब्दि­तस्य च जीवस्य तस्मिन् पर्य­व­सा­ना­भि­धा­ना­द्व­स्तुतो भेदो नास्तीति द्योति­त­मि­त्यर्थः ।

प्राज्ञस्यैव विशेषणान्तरं साधयति –
अयमेवेति ।
नन्ववधारणं नोपपद्यते ।

व्यास­प­रा­श­र­प्र­भृ­ती­ना­म­न्ये­षा­मपि सर्व­ज्ञ­त्व­प्र­सि­द्धे­रि­त्या­शङ्क्य विशिनष्टि –
सर्वेति ।

अन्तर्यामित्वं विशेषणान्तरं विशदयति –
अन्तरिति ।
अन्यस्य कस्य­चि­द­न्त­र­नु­प्र­वेशे नियमने च साम­र्थ्या­भा­वा­द­व­धा­र­णम् ।

उक्तं विशेषणत्रयं हेतुं कृत्वा प्रकृतस्य प्राज्ञस्य सर्व­ज­ग­त्का­र­णत्वं विशेषणान्तरमाह –
अत एवेति ।
यथोक्तं स्वप्न­जा­ग­रि­त­स्था­न­द्व­य­प्र­वि­भ­क्त­मि­त्यर्थः । सभे­द­म­ध्या­त्मा­धि­दै­वा­धि­भ­त­भे­द­स­हि­त­मिति यावत् ।

निमि­त्त­का­र­ण­त्व­नि­य­मेऽपि प्राचीनानि विशेषणानि निर्व­ह­न्ती­त्या­शङ्क्य प्रकृतिश्च प्रति­ज्ञा­दृ­ष्टा­न्ता­नु­प­रो­धा­दिति न्याया­न्नि­मि­त्तो­पा­दा­न­यो­र्ज­गति न भिन्न­त्व­मि­त्येवं नियमतः सिद्धमतो विशे­ष­णा­न्त­र­मि­त्याह –
यत इति ।
प्रभ­व­त्य­स्मा­दिति प्रभवः । अप्ये­त्य­स्मि­न्नि­त्य­प्ययः। न चैतौ भूता­ना­मे­क­त्रो­पा­दा­ना­दृते सम्भा­वि­ता­वि­त्यर्थः ॥६॥

आचा­र्यै­र्मा­ण्डू­क्यो­प­नि­षदं पठित्वा तद्व्या­ख्या­न­श्लो­का­व­ता­र­ण­म­त्रे­त्या­दिना कृतं तदत्रेत्यनूद्य भाष्यकारो व्याकरोति –
एतस्मिन्निति ।
विश्वस्य विभुत्वं प्रागु­क्ता­धि­दै­वि­का­भे­दा­द­व­धे­यम् । अध्या­त्मा­धि­दै­वा­भेदे पूर्वोदाहृतां श्रुतिं सूचयितुं हिशब्दः ।

स्थूल­सू­क्ष्म­का­र­णो­पा­धि­भे­दा­ज्जी­व­भे­द­मा­शङ्क्य स्वरूपैक्येऽपि स्वत­न्त्रो­पा­धि­भे­द­म­न्त­रेण विशे­ष­ण­मा­त्र­भे­दा­द­वा­न्त­र­भे­दो­क्ति­रि­त्याह –
एक एवेति ।

पदार्थानां पूर्व­मे­वो­क्त­त्वात् तात्पर्यं श्लोकस्य वक्त­व्य­म­व­शि­ष्यते तदाह –
पर्यायेणेति ।
यद्या­त्म­न­श्चै­त­न्य­मिव स्वाभाविकं स्थानत्रयं न तर्हि तद्वदेव तं व्यभि­च­रि­तु­म­र्हति, व्यभिचरति चाऽऽत्मानं स्थानत्रयं क्रमाक्रमाभ्यां तस्य त्रिस्था­न­त्वा­द­त­स्त­द्व्य­ति­रि­क्त­त्व­मा­त्मनः सिद्धम् । यः सुप्तः सोऽहं जाग­र्मी­त्य­नु­स­न्धा­ना­दे­कत्वं तस्यावगतम् । एकत्वेन हि स्मृत्या घटा­दा­वे­क­त्व­मि­ष्यते । धर्मा­ध­र्म­रा­ग­द्वे­षा­दि­म­ल­स्या­व­स्था­ध­र्म­त्वात् तदतिरेके शुद्धत्वमपि सिध्यति । सङ्गस्यापि वेद्य­त्वे­ना­व­स्था­ध­र्म­त्वा­ङ्गी­का­रात् तद­ति­रे­कि­ण­स्त­द्द्र­ष्टु­र­स­ङ्ग­त्व­मपि सङ्ग­त­मे­वे­त्यर्थः ।

युक्ति­सि­द्धेऽर्थे श्रुतिमुदाहरति –
महामत्स्यादीति ।
महान्नादेयेन स्रोत­साऽ­प्र­क­म्प्य­ग­ति­र­ति­ब­ली­यां­स्ति­मि­रुभे कूले नद्याः सञ्चरन् क्रम­स­ञ्च­र­णा­त्ता­भ्या­म­ति­रि­च्यते । न च तस्य कूल­द्व­य­ग­त­दो­ष­गु­ण­व­त्त्वम् । न चासौ क्वचिदपि सज्जते । न च श्येनो वा सुपर्णो वा नभसि परिपतन् क्वचिदपि प्रतिहन्यते तथैवायमात्मा क्रमेण स्थानत्रये सञ्च­र­न्नु­क्त­ल­क्षणो युक्तोऽ­ङ्गी­क­र्तु­मि­त्यर्थः ॥१॥

विश्व­तै­ज­स­प्रा­ज्ञानां स्थानत्रयं क्रमेण सञ्चरतामैक्यमेव वस्तुतो भवतीत्यत्र हेत्वन्तरं विवक्षन्नाह –
दक्षिणेति ।

श्लोकस्य तात्पर्यं संगृह्णाति –
जागरितेति ।
न चैक­स्या­म­व­स्था­या­मे­क­स्मि­न्नेव देहे भिन्न­त्व­मा­त्म­न­स्त­द्वा­दि­भि­र­पी­ष्यते। जाग्र­द­व­स्था­या­मिति तु देहे व्यव­स्थि­त­त्वोक्त्या विशेषणम् । तद्धि तत्र व्यवस्थितत्वं यदात्मनः सर्वगतस्य तदभिमानित्वम् । देहाभिमानश्च जागरिते परं सम्भवति । तेन तस्या­मे­वा­व­स्था­या­मे­क­स्मि­न्नेव देहे त्रया­णा­म­नु­भ­वा­त्तेषां मिथो भेदो नास्तीति सिध्यतीत्यर्थः । मुखं द्वार­मु­प­ल­ब्धि­स्थानं शरीरमात्रे दृश्यमानस्य ।

कथमिदमुपलब्धौ विशे­षा­य­त­न­मु­प­दि­श्यते ? स्थाना­न्त­रा­पे­क्ष­याऽस्य प्राधा­न्या­दि­त्याह –
प्राधान्येनेति ।
अनुभूयते ध्याननिष्ठैरिति शेषः ।

उक्तेऽर्थे श्रुतिं संवादयति –
इन्ध इति ।

बृह­दा­र­ण्य­क­श्रु­ते­रु­दा­हृ­ता­या­स्ता­त्प­र्या­र्थ­माह –
इन्ध इत्यादिना ।

वैरा­ज­स्याऽऽ­त्मनो यथो­क्त­गु­ण­व­त्त्वेऽपि द्रष्टु­श्चा­क्षु­षस्य किमा­या­त­मि­त्या­श­ङ्क्याऽऽह –
चक्षुषि चेति ।
अध्या­त्मा­धि­दै­व­यो­रे­क­त्वा­दा­धि­दै­विको गुण­श्चा­क्षु­षेऽ­प्या­ध्या­त्मिके सम्भवतीत्यर्थः ।

उक्त­मे­क­त्व­मा­क्षि­पति –
नन्विति ।
हिरण्यगर्भः सूक्ष्म­प्र­प­ञ्चा­भि­मानी सूर्य­म­ण्ड­ला­न्त­र्गतः सूक्ष्म­स­म­ष्टि­देहो लिङ्गात्मा चक्षु­र्गो­ल­का­नु­ग­ते­न्द्रि­या­नु­ग्रा­हकः संसा­रि­णोऽ­र्था­न्त­रम् । विराडात्माऽपि स्थूल­प्र­प­ञ्चा­भि­मानी सूर्य­म­ण्ड­ला­त्मकः सम­ष्टि­दे­ह­श्च­क्षु­र्गो­ल­क­द्व­या­नु­ग्रा­ह­क­स्त­तोऽ­र्था­न्त­र­मेव । क्षेत्रज्ञस्तु व्यष्टिदेहो दक्षिणे चक्षुषि व्यवस्थितो द्रष्टा चक्षुषोः करणानां नियन्ता कार्यकरणस्वामी ताभ्यां सम­ष्टि­दे­हा­भ्या­म­न्योऽ­भ्यु­प­ग­म्यते । तदेवं सम­ष्टि­व्य­ष्टि­त्वेन व्यव­स्थि­त­जी­व­भे­दा­दु­क्त­मे­क­त्व­म­यु­क्त­मि­त्यर्थः ।

काल्पनिको जिवभेदो वास्तवो वेति विक­ल्प्याऽऽ­द्य­म­ङ्गी­कृत्य द्वितीयं दूषयति –
नेत्यादिना ।

एको हि परो देवः सर्वेषु भूतेषु समष्टित्वेन व्यष्टित्वेन च समा­वृ­त­स्ति­ष्ठ­तीति श्रवणाद् वस्तुतो भेदो नास्तीत्युक्तं हेतुं साधयति –
एक इति ।

सर्वेषु क्षेत्रेषु व्यवस्थितं क्षेत्रज्ञं मामीश्वरं विद्धीति भगवतो वचनाच्च तात्त्वि­क­भे­दा­सि­द्धि­रि­त्याह –
क्षेत्रज्ञं चेति ।

सर्वेषु भूतेषु क्षेत्र­ज्ञ­श्चे­दा­त्मैकः कथं तर्हि प्रतिभूतं भेद­प्र­थे­त्या­श­ङ्क्याऽऽह –
अविभक्तं चेति ।
तत्त्व­तोऽ­वि­भा­गेऽपि देहकल्पनया भेदधीरित्यर्थः ।

ननु करणेषु सर्वेषु विश्व­स्या­वि­शे­षान्न दक्षिणे चक्षुषि विशेषनिर्देशो युज्यते; यद्यपि कर­णा­न्त­रे­भ्य­श्च­क्षुषि प्राधान्यमुक्तं तथाऽपि नार्थो दक्षि­ण­वि­शे­ष­णे­नेति, तत्राऽऽह –
सर्वेष्विति ।
श्रुत्य­नु­भ­वाभ्यां निर्दे­श­वि­शे­ष­सि­द्धि­रि­त्यर्थः ।

यद्यपि देहदेशभेदे विश्वोऽनुभूयते तथाऽपि कथं जागरिते तैजसोऽनुभूयत इत्याशङ्क्य द्वितीयं पादं व्याचष्टे –
दक्षिणेति ।
यथा स्वप्ने जाग­रि­त­वा­स­ना­रू­पे­णा­भि­व्य­क्त­म­र्थ­जातं द्रष्टाऽनुभवति तथैव जागरिते दक्षिणे चक्षुषि द्रष्टृत्वेन व्यवस्थितः सन्निकृष्टं रूपं दृष्ट्वा पुन­र्नि­मी­लि­ताक्षो दृष्टमेव रूपं रूपो­प­ल­ब्धि­ज­नि­त­मु­द­बु­द्ध­वा­स­ना­त्मना मन­स्य­न्त­र­भि­व्यक्तं स्मर­न्वि­श्व­स्तै­जसो भवति । तथा च तयोर्भेदाशङ्का नावतरतीत्यर्थः ।

स्वप्न­जा­ग­रि­त­यो­र्वि­ल­क्ष­ण­त्वा­त्त­द्द्र­ष्ट्रो­र्वि­श्व–तै­ज­स­यो­रपि वैल­क्ष­ण्य­मु­चि­त­मि­त्या­श­ङ्क्याऽऽह –
यथेति ।
जागरिते यथाऽर्थजातं द्रष्टा पश्यति तथैव स्वप्नेऽपि तदुपलभते, ततो न तयो­र्वै­ल­क्ष­ण्य­सि­द्धि­रि­त्यर्थः ।

द्वितीयपादस्य व्याख्या­मु­प­सं­ह­रति –
अत इति ।
स्थानद्वये द्रष्टु­र्भे­दा­शङ्का निरवकाशेति दर्शयितुमेवकारः ।

तृतीयं पादं व्याकु­र्व­ञ्जा­ग्र­त्येव सुषुप्तिं दर्शयति –
आकाशे चेति ।
यो विश्व­स्तै­ज­स­त्व­मु­प­गतः स पुनः स्मरणाख्यस्य व्यापारस्य व्यावृत्तौ हृद­या­व­च्छि­न्ना­काशे स्थितः सन् प्राज्ञो भूत्वा तल्लक्षणलक्षितो भवति । न हि तस्य रूप­वि­ष­य­द­र्श­न­स्म­रणे परिहृत्य विशि­ष्टा­का­श­नि­वि­ष्टस्य प्राज्ञा­द­र्था­न्त­र­त्वम् । अतश्च स एकीभूतो विष­य­वि­ष­य्या­का­र­र­हितः यतो घनप्रज्ञो विशे­ष­वि­ज्ञा­न­वि­रही रूपा­न्त­र­र­हि­त­स्ति­ष्ठ­ती­त्यर्थः ।

उक्तमर्थं प्रपञ्चयन् मनो­व्या­पा­रा­भा­वा­दिति हेतुमुक्त्वा व्याचष्टे –
दर्शनेत्यादिना ।
अवि­शे­षे­णा­व्या­कृ­त­रू­पे­णे­त्यर्थः । अवस्थानं जागरिते सुषुप्तमिति शेषः ।

यदु­क्त­म­व्या­कृ­तेन प्राणात्मना हृद­येऽ­व­स्था­न­मिति तत्र प्रमाणमाह –
प्राणो हीति ।
यो हि प्राणोऽध्यात्मं प्रसिद्धः स वागादीन् प्राणानात्मनि संवृङ्क्ते संहरतीति प्राणा­स्या­ध्यात्मं वागा­दि­सं­ह­र्तृ­त्व­मु­क्तम् । अधिदैवं च यो वायुः सूत्रात्मा सोऽग्न्या­दी­ना­त्मनि संह­र­ती­त्य­ग्न्या­दि­सं­ह­र्तृत्वं वायोरुक्तम् । अध्या­त्मा­धि­दै­व­यो­श्चै­क­त्वात् प्राणस्य वायोश्च वागा­दि­ष्व­ग्न्या­दिषु च संह­र्तृ­त्वे­ना­व्या­कृ­त­त्वस्य संवर्गविद्यायां सूचि­त­त्वा­द­व्या­कृ­तेन प्राणात्मना सुषुप्ते प्राज्ञ­स्या­व­स्था­न­मिति युक्त­मे­वो­क्त­मि­त्यर्थः ।

पूर्वमेव विश्व­वि­रा­जो­रै­क्य­स्या­न­न्तरं च सुषु­प्ता­व्या­कृ­त­यो­रे­क­त्वस्य दर्शितत्वात् तैज­स­हि­र­ण्य­ग­र्भ­यो­र­नु­क्त­म­भेदं वक्त­व्य­मि­दा­नी­मु­प­न्य­स्यति –
तैजस इति ।

तत्र हेतुमाह –
मनःस्थत्वादिति ।
हिरण्यगर्भस्य सम­ष्टि­म­नो­नि­ष्ठ­त्वात् तैजसस्य व्यष्टि­म­नो­ग­त­त्वात् तयोश्च सम­ष्टि­व्य­ष्टि­म­न­सो­रे­क­त्वात् तद्गतयोरपि तैज­स­हि­र­ण्य­ग­र्भ­यो­रे­क­त्व­मु­चि­त­मि­त्यर्थः ।

किं च हिरण्यगर्भस्य क्रिया­श­क्त्यु­पाधौ लिङ्गात्मतया प्रसिद्धत्वात् तस्य च सामा­ना­धि­क­र­ण्य­श्रुत्या मनसा सहा­भे­दा­व­ग­मा­न्म­नो­नि­ष्ठस्य तैजसस्य युक्तं हिर­ण्य­ग­र्भ­त्व­मि­त्याह –
लिङ्गमिति ।

किं च पुरुषस्य मनो­म­य­त्व­श्र­व­णा­त्पु­रु­ष­वि­शे­ष­त्वाच्च हिरण्यगर्भस्य तत्प्र­धा­न­त्वा­धि­ग­मात् तन्निष्ठस्तैजसो हिरण्यगर्भो भवि­तु­म­र्ह­ती­त्याह –
मनोमय इति ।

प्राणस्य प्रागु­क्त­म­व्या­कृ­त­त्व­मा­क्षि­पति –
नन्विति ।
सुषुप्ते हि प्राणो नामरूपाभ्यां व्याकृतो युक्त­स्त­द्व्या­पा­रस्य पार्श्व­स्थै­र­ति­स्पष्टं दृष्ट­त्वा­दि­त्यर्थः। किं च तस्यामवस्थायां वागादीनि करणानि प्राणात्मकानि भवन्ति । ‘त एतस्यैव सर्वे रूपमभवन्’(बृ. उ. १ । ५ । २१) इति श्रुतेः ।

अतोऽपि प्राणस्य व्याकृतत्वं युक्तमित्याह –
तदात्मकानीति ।

उक्तन्यायेन प्राण­स्या­व्या­कृ­त­त्वा­यो­गा­द­व्या­कृ­तेन प्राणात्मना सुषु­प्त­स्या­व­स्था­न­म­यु­क्त­मिति निगमयति –
कथमिति ।

एक­ल­क्ष­ण­त्वा­द­व्या­कृ­त­प्रा­ण­यो­रे­क­त्वो­प­प­त्ति­रि­त्यु­त्त­र­माह –
नैष दोष इति ।
अव्याकृतं हि देश­का­ल­व­स्तु­प­रि­च्छे­द­शू­न्यम् । प्राणोऽपि सौषु­प्त­द्र­ष्टु­स्तथा । न हि सौषुप्तदृष्ट्या तत्कालीनस्य प्राणस्य देशा­दि­प­रि­च्छे­दोऽ­व­ग­म्यते । तथा च लक्ष­णा­वि­शे­षा­द­व्या­कृ­त­प्रा­ण­यो­रे­क­त्व­म­वि­रु­द्ध­मि­त्यर्थः ।

तस्यायं प्राणो ममायमिति देश­प­रि­च्छे­द­प्र­ति­भा­ना­दे­क­ल­क्ष­ण­त्वा­भा­वान्न प्राणा­स्या­व्या­कृ­त­त्व­मि­त्या­श­ङ्क्याऽऽह –
यद्यपीति ।
परि­च्छि­न्ना­भि­मा­न­वतां मध्ये प्रत्येकं ममायमिति प्रणाभिमाने सति प्राणस्य यद्यपि व्याकृततैव भवति तथाऽपि सुषु­प्त्य­व­स्थायां पिण्डेन परिच्छिन्नो यो विशेषस्तद्विषयो ममे­त्य­भि­मा­न­स्तस्य निरोधस्तस्मिन् भवतीति प्राणोऽव्याकृत एवेति योजना । प्रति­बु­द्ध­दृष्ट्या विशे­षा­भि­मा­न­वि­ष­य­त्वेन व्याकृतत्वेऽपि सुषुप्तदृष्ट्या तदु­प­सं­हा­रा­द­व्या­कृ­तत्वं प्राण­स्या­वि­रु­द्ध­मिति भावः ।

विशे­षा­भि­मा­न­नि­रोधे प्राण­स्या­व्या­कृ­तत्वं क्व दृष्ट­मि­त्या­श­ङ्क्याऽऽह –
यथेति ।
परि­च्छि­न्ना­भि­मा­निनां प्राणलयो मरणं, तत्रा­भि­मा­न­नि­रोधे प्राणो नाम­रू­पा­भ्या­म­व्या­कृतो यथेष्यते तथैव प्राणा­भि­मा­नि­नोऽपि तद­भि­मा­न­नि­रो­धे­ना­वि­शे­षा­पत्तिः सुषुप्तिः, तत्राव्याकृतता प्राणस्य प्रागु­क्त­दृ­ष्टा­न्ते­ना­वि­शिष्टा । ततो विशे­षा­भि­मा­न­नि­रोधे प्राण­स्या­व्या­कृ­तत्वं प्रसि­द्ध­मि­त्यर्थः। किं च यथाऽऽ­धि­दै­वि­क­म­व्या­कृतं जगत्प्रसवबीजम् । ‘तद्धेदं तर्ह्य­व्या­कृ­त­मा­सीत् तन्ना­म­रू­पा­भ्या­मेव व्याक्रियत’(बृ. उ. १ । ४ । ७) इति श्रुतेः। तथा प्राणाख्यं सुषुप्तं जाग­रि­त­स्व­प्न­यो­र्भ­वति बीजम् ।

तथा च कार्यं प्रति प्रस­व­बी­ज­रू­प­त्व­म­वि­शि­ष्ट­मु­भ­यो­रिति लक्ष­णा­वि­शे­षा­द­व्या­कृ­त­प्रा­ण­यो­रे­क­त्वस्य प्रसि­द्धि­रि­त्याह –
प्रसवेति ।
समा­न­मि­त्य­नु­क­र्षा­र्थ­श्च­कारः ।

उपा­धि­स्व­भा­वा­लो­च­नया सुषु­प्ता­व्या­कृ­त­यो­र­भे­द­म­भि­धा­यो­प­हि­त­स्व­भा­वा­लो­च­न­याऽपि तयोरभेदमाह –
तदध्यक्षश्चेति ।
अव्याकृतावस्थः सुषुप्तावस्थश्च तयो­रु­प­हि­त­स्व­भा­व­यो­रा­ध्या­त्मि­का­धि­दै­वि­क­यो­रे­कोऽ­धि­ष्ठाता चिद्धातुः । अतोऽपि तयोरेकत्वं सिद्ध्य­ती­त्यर्थः ।

सुषु­प्ता­व्या­कृ­त­यो­रे­व­मे­कत्वं प्रसाध्य तस्मि­न्न­व्या­कृते सुषुप्ते प्रागुक्तं विशेषणं युक्तमित्याह –
परिच्छिन्नेति ।
यद्यपि विशे­षा­न­भि­व्य­क्ति­मा­त्रे­णै­की­भू­त­त्वादि विशे­ष­ण­मु­प­पा­दि­तितं तथाऽपि परि­च्छि­न्ना­भि­मा­नि­ना­मु­पा­धि­प्र­धा­नानां तत्र तत्राध्यक्षाणां चोप­हि­ता­ना­म­व्या­कृ­ते­नै­क­त्वम् । अतोऽपि प्रागु­क्त­वि­शे­ष­णो­प­प­त्ति­रि­त्यर्थः ।

किं चाध्या­त्मा­धि­दै­व­यो­रे­क­त्व­मिति प्रागु­क्त­हे­तु­स­द्भा­वाच्च युक्तं सुषुप्ते प्राज्ञे प्राणा­त्म­न्य­व्या­कृते यथोक्तं विशेषणमित्याह –
पूर्वोक्तमिति ।
ग्रन्थ­ग­ता­दि­श­ब्देन सर्वे­श्व­र­त्वा­दि­वि­शे­षणं गृह्यते ।

प्राणशब्दस्य पञ्चवृत्तौ वायुविकारे रूढ­त्वा­न्ना­व्या­कृ­त­वि­ष­यत्वं रूढिविरोधादिति शङ्कते –
कथमिति ।

अन्यत्र रूढत्वेऽपि श्रौत­प्र­यो­ग­व­शा­द­व्या­कृ­त­वि­ष­यत्वं प्राणशब्दस्य युक्तमिति परिहरति –
प्राणबन्धनमिति ।

प्रकरणस्य ब्रह्म­वि­ष­य­त्वाद् ब्रह्मण्येव प्रकृते वाक्ये प्राणशब्दस्य प्रयो­गा­न्ना­व्या­कृ­त­वि­ष­यत्वं तस्य युक्तं प्रक­र­ण­वि­रो­धा­दिति शङ्कते –
नन्विति ।

प्रकरणस्य ब्रह्म­वि­ष­य­त्वेऽपि ब्रह्मणः सल्लक्षणस्य शब­ल­त्वा­ङ्गी­का­रा­द­स्मि­न्नपि वाक्ये तत्रैव प्राण­श­ब्द­प्र­यो­गा­द्युक्तं तस्या­व्या­कृ­त­वि­ष­य­त्व­मि­त्यु­त्त­र­माह –
नैष दोष इति ।

संग्रहवाक्यं प्रपञ्चयति –
यद्यपीति ।
तत्रेति प्राण­ब­न्ध­न­वाक्यं परामृश्यते । जीवशब्दः सर्वस्यैव कार्य­जा­त­स्यो­प­ल­क्ष­णम् ।

प्रक­र­ण­वा­क्य­यो­रु­भ­यो­रपि परि­शु­द्ध­ब्र­ह्म­वि­ष­यत्वे का क्षति­रि­त्या­शङ्क्य परिशुद्धस्य ब्रह्मणः शब्द­प्र­वृ­त्ति­नि­मि­त्ता­गो­च­र­त्वात् तत्र शब्द­वा­च्य­त्वा­नु­प­प­त्ते­र्मै­व­मि­त्याह –
यदि हीति ।

न केवलं निरुपधिकं निर्विशेषं ब्रह्म वाङ्म­न­स­यो­र­गो­च­र­मिति श्रुतेरेव निर्धार्यते, किं तु स्मृतेरपीत्याह –
न सदिति ।
किं च कार्यजातं प्रति बीज­भू­ता­ज्ञा­न­र­हि­त­तया शुद्ध­त्वे­नै­वा­स्मिन् प्रकरणे ब्रह्म विवक्षितं चेत् तर्हि ‘सता सोम्य तदा सम्पन्नो भवति’(छा. उ. ६ । ८ । १) इति जीवानां सत्प्रा­प्ति­श्र­व­णाद् ब्रह्मणः सच्छद्बितस्य शुद्धत्वे सुषुप्त्यादौ तत्र लीना­ना­मे­की­भू­तानां जीवानां पुनरुत्थानं नोपपद्यते, दृश्यते च पुनरुत्थानम् ।

तेन शबलमेव ब्रह्मात्र विवक्षितमित्याह –
निर्बीजतयेति ।

सुषुप्त्यादौ शुद्धे ब्रह्मणि सम्पन्नानामपि पुनरुत्थाने मोक्षा­नु­प­प­त्ति­दो­ष­माह –
मुक्तानां चेति ।

न तेषां पुनरुत्थानं हेत्व­भा­वा­दि­त्या­शङ्क्य सुषुप्तानां प्रलीनानां च न तर्हि पुनरुत्थानं हेत्वभावस्य तुल्य­त्वा­दि­त्याह –
बीजाभावेति ।
नन्व­ना­द्य­नि­र्वा­च्य­म­ज्ञानं संसारस्य बीजभूतं नास्त्येव यद् ब्रह्मणो विशेषणं भवति ।

अग्र­ह­ण­मि­थ्या­ज्ञा­न­त­त्सं­स्का­रा­णा­म­ज्ञा­न­श­ब्द­वा­च्य­त्वा­त्त­त्राऽह –
ज्ञानेति ।
अज्ञोऽ­ह­मि­त्य­ज्ञा­न­म­प­रो­क्षम् । अग्रहणस्य च ग्रह­ण­प्रा­ग­भा­वस्य नाप­रो­क्ष­त्व­मि­न्द्रि­य­स­न्नि­क­र्षा­भा­वा­द­नु­प­ल­ब्धि­ग­म्य­त्वाच्च । भ्रान्ति­त­त्सं­स्का­र­यो­श्चा­भा­वे­त­र­का­र्य­त्वा­दु­पा­दा­ना­पे­क्ष­णा­दा­त्म­नश्च केव­ल­स्या­त­द्धे­तु­त्वा­त्त­दु­पा­दा­न­त्वे­ना­ना­द्य­ज्ञा­न­सिद्धिः । किं च देवदत्तप्रमा तन्नि­ष्ठ­प्र­मा­प्रा­ग­भा­वा­ति­रि­क्ता‍ना­दि­प्र­ध्वं­सिनी प्रमात्वाद् यज्ञ­द­त्त­प्र­मा­वत् । न च तदभावे सम्य­ग्ज्ञा­ना­र्थ­व­त्त्वम् । क्षणिकत्वेन भ्रान्ते­स्त­द­नि­व­र्त्य­त्वात् संस्कारस्य च सत्यपि सम्यग्ज्ञाने क्वचि­द­नु­वृ­त्ति­द­र्श­नात् । न चाग्रहणस्य तन्नि­व­र्त्य­त्वम् । ज्ञानस्य तन्नि­वृ­त्ति­त्वात् । अतो ज्ञानदाह्यं संसा­र­बी­ज­भू­त­म­ना­द्य­नि­र्वा­च्य­म­ज्ञानं ज्ञान­स्या­र्थ­व­त्त्वा­याऽऽ­स्थे­यम् । अन्यथा तदा­न­र्थ­क्य­प्र­स­ङ्गा­दि­त्यर्थः ।

शुद्धस्य ब्रह्मणो वाक्य­प्र­क­र­णाभ्यां विव­क्षि­त­त्वा­भावे फलितमाह –
तस्मादिति ।
ब्रह्मणः शबलस्यैव प्राकरणिकत्वाद् वाक्येऽपि तस्मिन् प्रणशब्दाद् युक्तं प्राण­श­ब्द­स्या­व्या­कृ­त­वि­ष­य­त्व­मिति भावः । यतोऽ­ना­द्य­नि­र्वा­च्या­ज्ञा­न­श­ब­ल­स्यैव कारणत्वं ब्रह्मणो विवक्ष्यते ।

अत एव कारणत्वनिषेधेन परिशुद्धं ब्रह्म श्रुति­षू­प­दि­श्यते, तदेतदाह –
अत एवेति ।
अक्ष­र­म­व्या­कृ­तम्, तच्च कार्यापेक्षया परम् । तस्मात्परोऽयं परमात्मा । स हि कार्य­का­र­णा­भ्या­म­स्पृष्टो वर्तते । बाह्यं कार्यमभ्यन्तरं कारणमिति ताभ्यां सह तत्क­ल्प­ना­धि­ष्ठा­न­त्वेन वर्त­मा­न­श्चि­द्धातुः । तथा च स चिद्धातुरजो जन्मा­दि­स­म­स्त­वि­क्रि­या­शू­न्य­त्वेन कूटस्थः श्रुति­स्मृ­त्यो­र्व्य­प­दि­श्यते । यतो ब्रह्मणः सकाशाद्वाचः सर्वा मनसा सहावकाशमप्राप्य निवर्तन्ते, तद् ब्रह्माऽऽ­न­न्द­रूपं विद्वान्न बिभेति । नेति नेतीति वीप्सया सर्व­मा­रो­पि­त­म­पा­क्रि­यते । आदि­श­ब्दे­ना­स्थू­ला­दि­वाक्यं गृह्यते । बीजत्वनिरासेन शुद्धं ब्रह्म व्यपदिश्यते चेद्बीजत्वं शबलस्यैवेति सिध्यतीत्यर्थः ।

आचा­र्ये­णा­नु­क्त­त्वान्न कारणातिरिक्तं शुद्धं ब्रह्मा­स्ती­त्या­शङ्क्य नान्तः­प्र­ज्ञ­मि­त्या­दि­वा­क्य­शे­षा­न्मै­व­मि­त्याह –
तामिति ।

उक्तन्यायेन वस्तु­व्य­व­स्था­या­म­व्या­कृ­तस्य देहेऽ­नु­भ­वा­भा­वा­त्त्रिधा देहे व्यवस्थित इति कथ­मु­क्त­मि­त्या­श­ङ्क्याऽऽह –
बीजेति ॥२॥

विश्वादीनां त्रयाणां त्रिधा देहे व्यवस्थितिं प्रतिपाद्य तेषामेव त्रिधा भोगं निगमयति –
विश्वो हीति ॥३॥

भोगप्रयुक्तां तृप्तिमधुना त्रेधा विभजते –
स्थूलमिति ।

उदा­हृ­त­श्लो­क­यो­र्व्या­ख्या­ना­पेक्षां वारयति –
उक्तार्थाविति ॥४॥

प्रकृ­त­भो­क्तृ­भो­ग्य­प­दा­र्थ­द्व­य­प­रि­ज्ञा­न­स्या­वा­न्त­र­फ­ल­माह –
त्रिष्विति ।

पूर्वार्थं व्याचष्टे –
जाग्रदादिष्विति ।
भोग्य­त्वे­नै­क­त्वेऽपि त्रैवि­ध्य­म­वा­न्त­र­भे­दा­दु­न्ने­यम् ।

भोक्तुरेकत्वे हेतुमाह –
सोऽहमिति ।
योऽहं सुषुप्तः सोऽहं स्वप्नं प्राप्तः । यश्च स्वप्नमद्राक्षं सोऽहमिदानीं जाग­र्मी­त्ये­कत्वं प्रतिसन्धीयते । न च तत्र बाधकमस्ति । तद् युक्तं भोक्तु­रे­क­त्व­मि­त्यर्थः ।

किं चाज्ञानं तत्कार्यं च प्रति प्राज्ञादिषु द्रष्टृ­त्व­स्या­वि­शि­ष्ट­त्वाद् द्रष्टृभेदे च प्रमाणाभावाद् युक्तं तदेकत्वमित्याह –
द्रष्टृत्वेति ।

द्वितीयार्थं विभजते –
यो वेदेति ।

कथमेतावता भोग­प्र­यु­क्त­दो­ष­रा­हित्यं, तत्राऽऽह –
भोज्यस्येति ।

यद्यपि भोक्तुरेकस्यैव सर्वं भोग्यमित्यवगतं तथाऽपि कथं सर्वं भुञ्जानो भोग­प्र­यु­क्त­दो­ष­वान्न भव­ती­त्या­श­ङ्क्याऽऽह –
न हीति ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति –
न ह्यग्निरिति ।
स्वविषयान् काष्ठादीन् दग्ध्वा न हीयते वर्धते वाऽग्निरिति सम्बन्धः ॥५॥

एष योनिरित्यत्र प्राज्ञस्य प्रपञ्चकारणत्वं प्रतिज्ञातम्; तत्र सत्का­र्य­म­स­त्कार्यं प्रति वा कारणत्वमिति सन्देहे निर्धा­र­यि­तु­मा­र­भते –
प्रभव इति ।

तत्रा­वा­न्त­र­भे­द­माह –
सर्वमिति ।
पुरुषो हि सर्वमचेतनं जगदुपाधिभूतं तमः प्रधानं गृहीत्वा जनयति । अत एव पुरुषे कारणवाचि प्राणपदं प्रयुज्यते । एवं स च चैत­न्य­प्र­धा­न­श्चे­त­स­श्चै­त­न्य­स्यां­शु­व­द­व­स्थि­तान् प्रति­बि­म्ब­क­ल्पा­ञ्जी­वा­ना­भा­स­भू­ता­नु­त्पा­द­यति । एवं चेत­ना­चे­त­ना­त्म­क­म­शेषं जगदसङ्कीर्णं सम्पा­द­य­ती­त्यर्थः ।

ननु सतां भावानां सत्त्वादेव प्रभवो न सम्भ­व­त्य­ति­प्र­स­ङ्गा­दि­त्या­शङ्क्य पूर्वार्धं व्याचष्टे–
सतामिति ।
स्वेना­धि­ष्ठा­ना­त्मना विद्य­मा­ना­ना­मे­वा­वि­द्या­कृतं माया­म­य­मा­रो­पि­त­स्व­रूपं तेन प्रभवः सम्भवतीत्यर्थः ।

अस­ज्ज­न्म­नि­र­स­न­म­न्त­रेण कथं सज्जन्म निर्धारयितुं शक्य­मि­त्या­श­ङ्क्याऽऽह –
वक्ष्यतीति ।

जन्मनः पूर्वं सर्वस्य सत्त्वे च कार­ण­व्या­पा­र­सा­ध्य­त्वा­सि­द्धे­र्मि­थ्यात्वे च कथं सतामेव प्रभवो भावा­ना­मि­त्या­श­ङ्क्याऽऽह –
यदीति ।
कार्य­प्र­प­ञ्च­स्या­सत्त्वे कारणस्य ब्रह्मणः स्वारस्येन व्यव­हा­र्य­त्वा­भा­वात् तस्य ग्रहणे द्वारभूतस्य लिङ्ग­स्या­भा­वा­द­स­त्त्व­मेव सिध्येत् । कार्येण हि लिङ्गेन कारणं ब्रह्मादृष्टमपि सदित्यवगम्यते । तच्चेदसद्भवेन्न तस्य कारणेन सम्ब­न्ध­धी­रि­त्य­स­देव कारणमपि स्यादित्यर्थः ।

कार्य­का­र­ण­यो­रु­भ­यो­रपि भव­त्व­स­त्त्व­मि­त्या­श­ङ्क्याऽऽह –
दृष्टं चेति ।
अवि­द्य­याऽ­ना­द्य­नि­र्वा­च्यया कृताश्च ते माया­बी­जा­दु­त्प­न्नाश्च तेषामविद्यैव माये­त्य­ङ्गी­का­रात्, तेषां रज्ज्वादौ कल्पि­त­स­र्पा­दी­ना­म­धि­ष्ठा­न­भू­त­र­ज्ज्वा­दि­रू­पेण सत्त्वं दृष्टमिति योजना । विमतं सदुपादानं कल्पि­त­त्वा­द्र­ज्जु­स­र्प­व­दि­त्यर्थः ।

दृष्टान्तस्य साध्यविकलत्वं शङ्कित्वा परिहरति –
न हीति ।

विवक्षितं दृष्टान्तमनूद्य दार्ष्टा­न्ति­क­माह –
यथेत्यादिना ।
प्राणशब्दितं बीजमज्ञातं ब्रह्म सल्लक्षणं तदात्मनेति यावत् ।

तदेवमचेतनं सर्वं जगत् प्रागु­प्त­त्ते­र्बी­जा­त्मना स्थितं प्राणो बीजात्मा व्यवहारयोग्यतया जन­य­ती­त्यु­प­सं­ह­रति –
इत्यत इति ।

चतुर्थं पादं प्रतीकमादाय व्याकरोति –
चेतों­शू­नि­त्या­दिना ।
रवेरंशवो यथा वर्तन्ते तथा पुरुषस्य स्वयं­चै­त­न्या­त्म­कस्य चेतो­रू­पा­श्चै­त­न्या­भासा जीवाश्चेतोंशवो निर्दिश्यन्ते । तान् पुरुषो जन­य­ती­त्यु­त्त­रत्र सम्बन्धः ।

तेषां चिदा­त्म­का­त्पु­रु­षात् तत्त्वतो भेदाभावं विवक्षित्वा विशिनष्टि –
जलार्केति ।

भेदधीस्तु तेषा­मु­पा­धि­भे­दा­दि­त्याह –
प्राज्ञेति ।

पृथगिति सूचितं पुरुषस्य जीवसर्जने हेतुं कथयति –
विषयेति ।
यथाऽग्निना समानरूपा विस्फुलिङ्गा जन्यन्ते, तथा चिदात्मना समानस्वभावा जीवा­स्ते­नो­त्पा­द्यन्ते । विष­य­वि­ल­क्ष­ण­त्वात् । न प्राणेन बीजात्मना तेषामुत्पादनम् । न चोत्पाद्यानां जीवा­ना­मु­त्पा­द­का­च्चि­दा­त्म­न­स्त­त्त्वतो भिन्नत्वम् । जल­पा­त्र­प्र­ति­बि­म्बि­ता­दि­त्या­दीनां बिम्बभूतान् ततस्तत्त्वतो भेदाभावात् । तान्विश्वादीन् पुरु­ष­श्चि­त्प्र­धानो जनयतीत्यर्थः ।

विषयभावेन व्यवस्थितान् पुनर्भावान् प्राणो जनयतीति तृती­य­पा­दा­र्थ­मु­प­सं­ह­रति –
इतरानिति ॥६॥

चेत­ना­चे­त­ना­त्म­कस्य जगतः सर्गे प्रस्तुते स्वम­त­वि­वे­च­नार्थं मता­न्त­र­मु­प­न्य­स्यति –
विभूतिं प्रसवमिति ।

ईश्वरस्य विभू­ति­र्वि­स्तारः स्वकी­यै­श्व­र्य­ख्या­पनं सृष्टिरिति पक्षे सृष्टे­र्व­स्तु­त्व­श­ङ्कायां पक्षान्तरमाह –
स्वप्नेति ।

कुतः सृष्टि­चि­न्त­का­ना­मे­त­न्मतं, तत्त्वविदामेव किं न स्यात्, तत्राऽऽह –
न त्विति ।

सृष्टेरपि वस्तुत्वाद् वस्तु­चि­न्त­का­ना­मपि तत्राऽऽदरो भवि­ष्य­ती­त्या­श­ङ्क्याऽऽह –
इन्द्र इति ।

मायामयी सृष्टिरादरविषया न भवतीत्यत्र दृष्टान्तमाह –
न हीति ।
माया­दी­त्या­दि­श­ब्देन तत्कार्यं गृह्यते ।

दृष्टा­न्त­नि­वि­ष्ट­मर्थः दार्ष्टान्तिके योजयति –
तथैवेति ।

तर्हि पर­मा­र्थ­चि­न्त­कानां कुत्राऽऽदर इत्याशङ्क्य सदृ­ष्टा­न्त­मु­त्त­र­माह –
सूत्रेत्यादिना ।
माया­च्छ­न्न­त्व­म­दृ­श्य­मा­नत्वे हेतुः । तुरीयाख्यं जाग्र­त्स्व­प्न­सु­षु­प्तेभ्यो विश्व­तै­ज­स­प्रा­ज्ञे­भ्य­श्चा­ति­रिक्तं तदस्पृष्टमिति शेषः । पर­मा­र्थ­त­त्त्व­चिन्ता हि सम्यग्धीद्वारा फलवती, न सृष्टेः ।

ततः सृष्टा­व­ना­द­र­स्त­त्त्व­नि­ष्ठा­ना­मि­त्याह –
नेति ।

पर­मा­र्थ­चि­न्त­कानां सृष्टा­व­ना­द­रा­द­प­र­मा­र्थ­नि­ष्ठा­ना­मेव सृष्टौ विशे­ष­चि­न्ते­त्यु­क्तेऽर्थे द्विती­या­र्थ­म­व­ता­र­यति –
इत्यत इति ।
जाग्रद् गतानामर्थानामेव स्वप्ने प्रथनात् तस्य सत्यत्वं मायायाश्च मण्या­दि­ल­क्ष­णायाः सत्य­त्वा­ङ्गी­का­रा­द­न­यो­र्वि­क­ल्पयोः सिद्धान्ताद् वैषम्यमुन्नेयम् ॥७॥

सृष्टि­चि­न्त­का­ना­मेव सृष्टिविषये विक­ल्पा­न्त­र­मु­त्था­प­यति –
इच्छामात्रमिति ।

ज्योतिर्विदां कल्पनाप्रकारमाह –
कालादिति ।

पर­मे­श्व­र­स्ये­च्छा­मात्रं सृष्टिरित्यत्र हेतुमाह –
सत्येति ।
यथा लोके कुलालादेः सङ्कल्पनामात्रं घटादिकार्यं, न तदतिरेकेण घटा­दि­का­र्य­सृ­ष्टि­रिष्टा । नाम­रू­पा­भ्या­म­न्त­रेव कार्यं सङ्कल्प्य बहि­स्त­न्नि­र्मा­णा­भ्यु­प­ग­मात् । तथा भगवतः सृष्टिः सङ्क­ल्प­ना­मात्रा, न तदतिरिक्ता काचिदस्तीति केषा­ञ्चि­दी­श्व­र­वा­दिनां मतमित्यर्थः ॥८॥

यथा तथा वाऽस्तु सृष्टि­स्त­स्यास्तु किं प्रयोजनमित्यत्र विकल्पद्वयमाह –
भोगार्थमिति ।

सिद्धान्तमाह –
देवस्येति ।

कः स्वभावो नामेत्युक्ते नैस­र्गि­कोऽ­प­रोक्षो माया­श­ब्दा­र्थ­स्त­स्ये­त्याह –
अयमिति ।

सर्व­प­क्षा­णा­म­प­वादं सूचयति –
आप्तेति ।
देवस्य परमेश्वरस्य स्वभावः सृष्टिरिति स्वभावपक्षं नैस­र्गि­क­मा­या­वि­नि­र्मिता सृष्टिरिति मतं सिद्धा­न्त­त्वे­नाऽऽ­श्रित्य चतुर्थपादेन दूषणमुच्यते पक्षयोरनयोरिति योज्यम्। ईश्व­र­स्ये­श्व­र­त्व­ख्या­पनं सृष्टिरित्येकः पक्षः । स्वप्नसरूपा मायासरूपा वा सृष्टिरिति पक्ष­द्व­य­मी­श्व­रस्य सत्यसङ्कल्पस्य सृष्टिरिति पक्षान्तरम् । कालादेव जगतः सृष्टि­र्ने­श्व­रात् । ईश्वरस्तूदासीनः । तत्र विकल्पान्तरं भोगार्थं क्रीडार्थं वा सृष्टिरिति फलगतं च विकल्पद्वयम् ।

तेषामेतेषां सर्वेषामेव पक्षाणां दूषणं चतु­र्थ­पा­दे­नो­क्त­मिति पक्षान्तरमाह –
सर्वेषामिति ।
नो खल्वाप्तकामस्य परस्याऽऽत्मनो मायां विना विभू­ति­ख्या­प­न­मु­प­यु­ज्यते । न च स्वप्नमायाभ्यां सारूप्यमन्तरेण स्वप्न­मा­या­सृ­ष्टि­रेष्टुं शक्यते । अवस्तुनोरेव तयो­स्त­च्छ­ब्द­प्र­यो­गात् । न च पर­मा­न­न्द­स्व­भा­वस्य परस्य विना मायामिच्छा सङ्गच्छते । न हि तस्य स्वतोऽ­वि­क्रि­य­स्ये­च्छा­दि­भाक्त्वं युक्तम् । न च मायामन्तरेण भोगक्रीडे तस्योपपद्येते । ततो मायामयी भगवः सृष्टिरित्यर्थः ।