आनन्दगिरिटीका (माण्डूक्य)
आगमप्रकरणम् (२)
यदुक्तं कालात्प्रसूतिं भूतानामिति तत्राऽऽह –
न हीति ।
अधिष्ठानभूतरज्ज्वादीनां स्वभावशब्दितस्वाज्ञानादेव सर्पाद्याभासत्वं तथा परस्य स्वमायाशक्तिवशादाकाशाद्याभासत्वम्। ‘आत्मन आकाशः संभूत’(तै. उ. २ । १। १) इत्यादिश्रुतेः । न तु कालस्य भूतकारणत्वं प्रमाणाभावादित्यर्थः ॥९॥
पादत्रये व्याख्याते व्याख्येयत्वेन क्रमवशात्प्राप्तं चतुर्थं पादं व्याख्यातुमुत्तरग्रन्थप्रवृत्तिरित्याह –
चतुर्थ इति ।
ननु पादत्रयवद्विधिमुखेनैव चतुर्थः पादोऽपि व्याख्यायताम् किमिति निषेधमुखेन व्याख्यायते, तत्राऽऽह –
सर्वेति ।
सर्वाणि शब्दप्रवृत्तौ निमित्तानि षष्ठीगुणादीनि, तैः शून्यत्वात् तुरीयस्य वाच्यत्वायोगान्निषेधद्वारैव तन्निर्देशः सम्भवतीत्यर्थः । साक्षाद्वाच्यत्वाभावं द्योतयितुं निर्दिदिक्षतीत्युक्तम् । यदि चतुर्थं विधिमुखेन निर्देष्टुं न शक्यं तर्हि शून्यमेव तदापद्येत तन्निषेधेनैव निर्दिश्यमानत्वात् ।
तथाविधं नास्त्यर्थवदिति शङ्कते –
शून्यमेवेति ।
न तुरीयस्य शून्यत्वमनुमातुं युक्तम् ।
विमतं सदधिष्ठानं कल्पितत्वात् तथाविधरजतादिवदित्यनुमानात्तुरीस्य सत्त्वसिद्धेरित्युत्तरमाह –
तन्नेति ।
दृष्टान्तं साधयति –
न हीति ।
रजतादीनां सदनुविद्धबुद्धिबोध्यत्वादवस्त्वास्पदत्वायोगात् तद्वदेव प्राणादिविकल्पानामपि नावस्त्वास्पदत्वं सिध्यतीत्यर्थः ।
यद्यधिष्ठानत्वं तुरीयस्येष्टं तर्हि वाच्यत्वमधिष्ठानत्वाद् घटादिवदिति प्रक्रमभङ्गः स्यादिति चोदयति –
एवं तर्हीति ।
किं प्रातिभासिकमधिष्ठानत्वं हेतूकृतं किं वा तात्त्विकम् । नाऽऽद्यः । तस्य तात्त्विकवाच्यत्वासाधकत्वात् । अतात्त्विके तु वाच्यत्वे प्रक्रमो न विरुध्येत ।
न द्वितीयः, शुक्त्यादिषु कल्पितरजतादेरवस्तुत्ववत् तुरीयेऽपि कल्पितप्रणादेरवस्तुत्वात् तत्प्रतियोगिकाधिष्ठानत्वस्य तात्त्विकत्वायोगादिति दूषयति –
न प्राणादीति ।
किं च वाच्यत्वे तुरीयस्य निरुच्यमाने तत्र शब्दप्रवृत्तौ निमित्तं वक्तव्यम् ।
तच्च षष्ठी वा रूढिर्वा जातिर्वा क्रिया वा गुणो वेति विकल्प्य प्रथमं प्रत्याह –
न हीति ।
तुरीयातिरिक्तस्यावस्तुत्वात् तस्य तुरीयस्य च वस्तुभूतसम्बन्धासिद्धेर्विषयाभावे कुतः षष्ठीत्यर्थः ।
द्वितीयं दूषयति –
नापीति ।
विशिष्टरूपेण विषयत्वेऽपि स्वरूपेण निरुपाधिकात्मना तदविषयत्वान्नात्र गवादाविव रूढिरवतरतीत्यर्थः ।
न तृतीयः, गवादाविवाद्वितीये तुरीये सामान्यविशेषभावस्याभिधातुमयोग्यत्वादिति मत्वाऽऽह –
गवादिवदिति ।
न चतुर्थः, पाचकादाविवाक्रिये तुरीये क्रियावत्त्वस्य शब्दप्रवृत्तिनिमित्तस्य वक्तुमयुक्तत्वादित्याह –
नापि क्रियावत्त्वमिति ।
न पञ्चमः ।
उत्पलादौ नीलादिशब्दवन्निर्गुणे तुरीये गुणवत्त्वस्य शब्दप्रवृत्तिनिमित्तस्य वक्तुमयुक्तत्वादित्याह –
नापीति ।
तदेवं तुरीयस्य वाच्यत्वानुमानं शब्दप्रवृत्तिनिमित्तानुपलब्धिबाधितमिति फलितमाह –
अत इति ।
यदि तृरीयस्य नास्ति विशिष्टजात्यादिमत्त्वं तर्हि नरविषाणादिदृष्टेरिव तद् दृष्टेरपि निष्फलत्वम् ।
विशिष्टजात्यादिमतो राजादेरुपासनस्य फलवत्त्वोपलम्भादिति शङ्कते –
शशविषाणादीति ।
यथा शुक्तिरियमित्यवगमे रजतादिविषयतृष्णा व्यावर्तते, तथा तुरीयं ब्रह्माहमित्यात्मत्वेन तुरीयस्य साक्षात्कारे सत्यनात्मविषया तृष्णा व्यवच्छिद्यते ।
तदेवमात्मत्वेन तुरीयावगमस्य सर्वाकाङ्क्षानिवर्तकत्वादनर्थकत्वशङ्का न युक्तेति परिहरति –
नेत्यादिना ।
तुरीयस्याऽऽत्मत्वावगमे सति सर्वानर्थेहेतुतृष्णादिदोषनिवृत्तिलक्षणं फलमुक्तं विद्वदनुभवेन साधयति –
न हीति ।
ननु तुरीयमशेषविशेषशून्यं नाऽऽत्मत्वेनावगन्तुं शक्यते तद्धेत्वभावादिति, तत्राऽऽह –
न चेति ।
सर्वोपनिषदामित्युक्तमेवोदाहरणलेशेन दर्शयति –
तत्त्वमसीति ।
निषेधमुखेनैव तुरीयस्य प्रतिपादनं न विधिमुखेनेत्युपपाद्य वृत्तानुवादपूर्वकमुत्तरग्रन्थमवतारयति –
सोऽयमित्यादिना ।
बीजाङ्कुरस्थानीयं मिथो हेतुहेतुमद्भावेन व्यवस्थितमित्यर्थः । अबीजात्मकं कार्यकारणविनिर्मुक्तमिति ।
तत्र हेतुं सूचयति –
परमार्थेति ।
तस्य विधिमुखेन निर्देशानुपपत्तिं प्रागुक्तामभिप्रेत्याऽऽह –
सर्पादीति ।
किमुत्तरेण ग्रन्थेन तुरीयं प्रतिपाद्यते, किं वा तस्य स्थानत्रयवैलक्षण्यं विवक्ष्यते । प्रथमे प्रतिपादकस्य विधानाव्यतिरेकादन्यनिषेधानर्थक्यम् । द्वितीयेऽपि तदानर्थक्यमापद्येत ।
अनुक्त्यैवोक्तादन्यत्वसिद्धेरिति मन्वानः शङ्कते –
नन्विति ।
न तावत्तुरीयं विधिमुखेन बोध्यम् । तस्य स्वप्रकाशत्वात् तस्मिन् प्रकाशाद्यनुदयात् । तथापि समारोपितविश्वादिरूपेण प्रतिपन्नं तन्निषेधेन बोध्यते । तदनिषेधे तस्य यथावदप्रथनात् ।
अतो न निषेधानर्थक्यमिति परिहरति –
न, सर्पादीति ।
तुरीयस्य पादत्रयविलक्षणस्यार्थादेव सिद्धावपि जीवात्मनः स्थानत्रयविशिष्टस्य तुरीयं ब्रह्मस्वरूपमिति नोपदेशमन्तरेण सिद्ध्यतीति तुरीयग्रन्थोऽर्थवानित्यर्थः।
यथा विधिमुखेन प्रवृत्तेन तत्त्वमसीति वाक्येन स्थानत्रयसाक्षिणस्त्वंपदलक्ष्यस्य तत्पदक्ष्यब्रह्मता लक्षणया बोध्यते, तथा निषेधशास्त्रेणापि तात्पर्यवृत्त्या जीवस्य तुरीयब्रह्मत्वं प्रतिपादयितुं दृष्टान्तमाह –
तत्त्वमसीति ।
ननु स्थानत्रयविशिष्टस्याऽऽत्मनो नैव तुरीयात्मत्वं तुरीयग्रन्थेन प्रतिपाद्यते ।
तुरीयस्य विशिष्टाद्विलक्षणत्वेनात्यान्तभिन्नत्वात्, तत्राऽऽह –
यदि हीति ।
प्रातिभासिकवैलक्षण्येऽपि विशिष्टोपलक्ष्ययोरात्यन्तिकवैलक्षण्याभावान्न तात्त्विकं तुरीयस्य विशिष्टादन्यत्वम् । अन्यथाऽत्यन्तभिन्नयोर्मिथः संस्पर्शविरहिणोरुपायोपेयभावायोगात् तुरीयप्रतिपत्तौ विशिष्टस्य द्वारत्वाभावादन्यस्य च तत्प्रतिपत्तिद्वारस्यादर्शनात् तुरीयाप्रतिपत्तिरेव स्यादित्यर्थः ।
शास्त्रात् तत्प्रतिपत्तिः स्यादिति चेन्नेत्याह –
शास्त्रेति ।
तद् विशिष्टरूपमनूद्य विशेषणांशापोहेन तस्य तुरीयत्वमुपदिशति । भेदे चाऽऽत्यन्तिके तदानर्थक्यान्न शास्त्रात् तत्प्रतिपत्तिरित्यर्थः ।
मा तर्हि तुरीयप्रतिपत्तिर्भूदिति चेत्, तत्राऽऽह –
शून्येति ।
विशिष्टयैव प्रतिपत्त्या तुरीयस्याप्रतिपत्तौ प्रतिपन्नस्य विश्वादेर्विशिष्टस्य प्रत्युदस्तत्वादन्यस्य चाप्रतिपन्नत्वान्नैरात्म्यधीरेवाऽऽपद्येतेत्यर्थः । भेदपक्षश्चेद् यथोक्तदोषवशान्न सम्भवति, तर्हि मा भूत् ।
अभेदपक्षोऽपि कथं निर्वहतीति चेत्, तत्र किं फलं पर्यनुयुज्यते किं वा प्रमाणान्तरमथ वा साधनान्तरमिति विकल्प्याऽऽद्यं दूषयति –
रज्जुरिवेति ।
यथा रज्जुरधिष्ठानभूता सर्पधारादिभिर्विकल्प्यते तथैक एवाऽऽत्मा स्थानत्रयेऽपि यदाऽन्तःप्रज्ञत्वादिना विकल्प्यमानो बहुधा भासते तदा तदनुवादेनान्तःप्रज्ञत्वादिप्रतिषेधजनितं यत्प्रमाणरूपविज्ञानं तदुत्पत्तिसमानकालमेवाऽऽत्मन्यनर्थनिवृत्तिरूपं फलं सिद्धमिति न फलपर्यनुयोगोऽवकाशवानित्यर्थः ।
शब्दस्य संसृष्टपरोक्षज्ञानहेतोरसंसृष्टापरोक्षज्ञानहेतुत्वायोगात् तुरीयज्ञाने प्रमाणान्तरमेष्टव्यमिति पक्षं प्रत्याह –
तुरीयेति ।
तस्य हि साक्षात्कारे न शब्दातिरिक्तं प्रमाणमन्वेष्यम् । शब्दस्य विषयानुसारेण प्रमाहेतुत्वात् । विषयस्य तुरीयस्यासंसृष्टापरोक्षत्वादित्यर्थः ।
तुरीयसाक्षात्कारे प्रसंख्यानाख्यं साधनान्तरमेष्टव्यमिति पक्षं प्रतिक्षिपति –
साधनान्तरं वेति ।
प्रसंख्यानस्याप्रमाणत्वान्न प्रमारूपसाक्षात्कारं प्रति हेतुतेति भावः ।
यथा रज्जुरियं सर्पो नेति विवेकधीसमुदयदशायामेव रज्ज्वां सर्पनिवृत्तिफले सिद्धे रज्जुसाक्षात्कारस्य फलान्तरं प्रमाणान्तरं साधनान्तरं वा न मृग्यते क्लृप्तत्वात्तथेहापीत्याह –
रज्ज्विति ।
विषयगतं प्राकट्यं प्रमाणफलं नाध्यस्तनिवृत्तिरित्याशङ्क्याऽऽह –
योषामिति ।
स्वविषयाज्ञानापनयनाय प्रवृत्ता प्रमाणक्रिया स्वविषये भावरूपमतिशयमाधत्ते चेदपनयार्थक्रियात्वाविशेषाच्छिदिरपि च्छेद्यसंयोगापनयनातिरिक्तमतिशयमादध्यात् । न च संयोगविनाशातिरिक्ते विभागे सम्प्रतिपत्तिरस्ति । प्राकट्यस्य च प्रकाशत्वे ज्ञानवन्नार्थनिष्ठत्वमप्रकाशत्वे तेनार्थेन नार्थोऽस्तीति भावः ।
अज्ञाननिवर्तकमेव प्रमाणमिति पक्षे विषयस्फुरणे कारणाभावाद्विषयसंवेदनं न स्यादित्याशङ्क्याऽऽह –
यदेति ।
घटो हि तमसा समावृतो व्यवहारायोग्यस्तिष्ठति, तस्य तमसो निष्क्रम्य व्यवहारयोग्यत्वापादने प्रत्यक्षादिप्रमाणं प्रवर्तते । तच्चानुपादित्सितस्यानिष्टस्याप्रमेयस्य तमसो निवृत्तिलक्षणे यदा पर्यवस्यति तदा घटसंवेदनमार्थिकं प्रमाणफलं न भवति । यथा छिदिक्रिया छेद्यस्य तरोरवयवयोर्मिथः संयोगनिरसने प्रवृत्ता सती तयोरेव च्छेद्यावयवयोर्दैधीभावे फले पर्यवस्यति, न त्वन्यतरावयवेऽपि च्छिदिर्व्याप्रियते । तथेहापि तमोनिवृत्तौ प्रमाणं निर्वृणोति घटस्फुरणं त्वार्थिकम् । न च तस्य स्थायित्वमभिव्यञ्जकप्रमातृव्यापारस्यास्थिरत्वादित्यर्थः ।
किं च घटादेर्जडस्य संविदपेक्षत्वात् तत्र संविदो मानफलत्वेऽपि नाऽऽत्मन्यजडे संविदेकताने मानस्याऽऽरोपितधर्मनिवर्तकत्वमन्तरेण संविज्जनकत्वव्यापारः सम्भवतीत्याह –
न चेति ।
तुरीयात्मनि संवेदनजननव्यापारो न प्रमाणस्य प्रकल्प्यते । तस्य संविदात्मकत्वादारोपितनिवृत्तिव्यतिरेकेण मानजन्यफलसंविदनपेक्षत्वादित्युक्तम् ।
तत्रैव हेत्वन्तरमाह –
अन्तःप्रज्ञत्वादीति ।
आश्रयाभावेनाऽऽश्रितप्रमाणाभावादनन्तरक्षणे तस्य व्यापारानुपपत्तिरित्यत्र वाक्यशेषमनुकूलयति –
तथा चेति ।
किं च ज्ञानाधीनद्वैतनिवृत्त्यवच्छिन्नक्षणातिरेकेण न क्षणान्तरे ज्ञानं स्थातुं पारयति, न चास्थिरं ज्ञानं व्यापाराय पर्याप्तम् ।
तथा च ज्ञानस्य द्वैतनिवृत्तिव्यतिरेकेण नाऽऽत्मनि व्यापारोऽस्तीत्याह –
ज्ञानस्येति ।
ननु ज्ञानं द्वैतनिवर्तकमपि न स्वात्मानं निवर्तयति । निवर्त्यनिवर्तकभावस्यैकत्र विरोधात् ।
अतो यावन्निवर्तकं स्थास्यति, तत्राऽऽह –
अवस्थाने चेति ।
निवर्तकस्य ज्ञानस्य द्वैतनिवृत्तेरनन्तरमपि निवर्तकान्तरमपेक्ष्यावस्थाने च तस्य तस्य निवर्तकान्तरसव्यपेक्षत्वादाद्यस्यापि विज्ञानस्य निवर्तकत्वासिद्धिः । न च ज्ञानस्य स्वनिवर्तकत्वानुपपत्तिः स्वपरविरोधिनां भावानां बहुलमुपलम्भादित्यर्थः ।
ज्ञानस्य जन्मातिरिक्तव्यापाराभावात् तज्जन्मनश्च द्वैतनिषेधेनैवोपक्षयात् क्षणान्तरे विषयस्फुरणजननायानवस्थानादारोपितातद्धर्मनिवृत्त्यैव ज्ञानं पर्यवसितमित्युपसंहरति –
तस्मादिति ।
प्रतिषेधजनितं विज्ञानमेव प्रमाणम् । तस्य व्यापारो जन्मैव । तेन समानकालैवानर्थनिवृत्तिरिति योजना ।
तत्र हेतुमाह –
बीजभावेति ।
सुषुप्तं हि स्वप्नजागरिते प्रति बीजभावस्तस्याशेषविशेषविज्ञानाभावरूपत्वाद् विशेषविज्ञानानां सर्वेषां धनमेकं साधारणमविभक्तं सुषुप्तमिति तत्प्रतिषेधो नेत्यादिना सम्भवतीत्यर्थः । युक्तं सर्पादीनां रज्ज्वादौ भ्रान्तिप्रतिपन्नानां प्रतिषेधादसत्त्वम् ।
आत्मनि तु प्रमाणेन गम्यमानानामन्तःप्रज्ञत्वादीनां न प्रतिषेधो युज्यते मानविरोधादिति शङ्कते –
कथमिति ।
प्रामाणिकत्वस्यासिद्धत्वाद् युक्तमन्तःप्रज्ञत्वादिनामसत्यत्वमिति परिहरति –
उच्यत इति ।
विमतमसत्यं व्यभिचारित्वात् संप्रतिपन्नवदित्याह –
ज्ञस्वरूपेति ।
तस्याविशेषोऽव्यभिचारस्तत्र रज्ज्वादाविवेत्युदाहरणम् । अन्तः प्रज्ञत्वादीनामितरेतरव्यभिचारे निदर्शनं सर्पधारादीति ।
विमतं सत्यमव्यभिचारित्वाद्रज्ज्वादिवदित्याह –
सर्वत्रेति ।
तस्य च सत्यत्वे सर्वकल्पनाधिष्ठानत्वसिद्धिरिति भावः ।
अव्यभिचारित्वहेतोरसिद्धिं शङ्कते –
सुषुप्त इति ।
न तत्र चैतन्यस्य व्यभिचारः सुषुप्तस्य स्फुरणव्याप्ततया साधकस्फुरणस्यावश्यकत्वादित्याह –
न सुषुप्तस्येति ।
सुषुप्ते साधकस्फुरणस्य सत्त्वे प्रमाणमाह –
न हीति ।
निषेधशास्त्रालोचनया निर्विशेषत्वं तुरीयस्योक्तम्, तदेव हेतूकृत्य ज्ञानेन्द्रियाविषयत्वमाह –
अत एवेति ।
दृष्टस्यैवार्थक्रियादर्शनाददृष्टत्वादर्थक्रियाराहित्यमिति विशेषणान्तरमाह –
यस्मादिति ।
अदृष्टमित्यनेनाग्रह्यमित्यस्य पौनरुक्त्यं परिहरति –
कर्मेन्द्रियैरिति ।
अलक्षणमित्ययुक्तम् ‘सत्यं ज्ञानमनन्तम्’(तै. उ. २ । १ । १) इत्यादिलक्षणोपलम्भादित्याशङ्क्याऽऽह –
अलिङ्गमिति ।
‘को ह्येवान्यात् कः प्राण्यात्’(तै. उ. २ । ७ । १) इत्यादिलिङ्गोपन्यासविरुद्धमेतदित्याशङ्क्याऽऽह –
अननुमेयमिति ।
प्रत्यक्षानुमानाविषयत्वप्रयुक्तं विशेषणान्तरमाह –
अत एवेति ।
मनोविषयत्वाभावादेव शब्दाविषयत्वं, शब्दप्रवृत्तेस्तत्प्रवृत्तिपूर्वकत्वादित्याह –
अत एवेति ।
तर्हि यथोक्तं वस्तु नास्त्येव प्रमाणाभावादित्याशङ्क्याऽऽह –
एकात्मेति ।
परोक्षार्थविषयतया विशेषणं व्याख्यायापरोक्षार्थतयाऽपि व्याकरोति –
अथ वेति ।
अपरोक्षात्मप्रत्ययस्याऽऽत्मनि प्रमाणत्वे बृहदारण्यकश्रुतिमुदाहरति –
आत्मेत्येवेति ।
‘यच्चाप्नोति’ इत्यादिना परिपूर्णत्वादिलक्षणस्तावदात्मोक्तः । स च वाङ्मनसातीतः श्रुतिभ्योऽवगतस्तमेवैकरसं परमात्मानं प्रत्यक्त्वेन गृहीत्वा तन्निष्ठस्तिष्ठतीत्यात्मनोऽवस्थात्रयातीतस्य तुरीयस्यापरोक्षनित्यदृष्टित्वं श्रुतितो दृष्टमित्यर्थः ।
विशेषणान्तरस्य पुनरुक्तिं परिहरन्नर्थभेदमाह –
अन्तरिति ।
स्थानिधर्मस्य स्थानधर्मस्य च प्रतिषेधोऽन्तःशब्देन परामृश्यते । शान्तं रागद्वेषादिरहितमविक्रियं कूटस्थमित्यर्थः । शिवं परिशुद्धं परमानन्दबोधरूपमिति यावत् ।
यस्माद् द्वैताभावोपलक्षितं तस्माच्चतुर्थमित्याह–
यत इति ।
अद्वैतमित्येतद् व्याचष्टे –
भेदेति ।
सङ्ख्याविशेषविषयत्वाभावे कथं चतुर्थत्वमित्याशङ्क्याऽऽह –
प्रतीयमानेति ।
चतुर्थतुरीययोर्व्याख्यानव्याख्येयत्वेनापौनरुक्त्यम् ।
तस्योक्तविशेषणत्वेऽपि मम किमायातमित्याशङ्क्याऽऽह –
स आत्मेति ।
आत्मनि यथोक्तविशेषणानि न प्रतिभान्तीत्याशङ्क्याऽऽह –
स विज्ञेय इति।
तदेव व्याचष्टे –
प्रतीयमानेति।
‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात्’(बृ. उ. ४ । ३ । २३) इत्यादिवाक्यानि प्रतीकोपादानेन दर्शयति –
न हि द्रष्टुरिति ।
आत्मन्यव्यवहार्ये कुतो विज्ञेयत्वमित्याशङ्क्य भूतपूर्वमविद्यावस्थायां या ज्ञेयत्वाख्याऽवगतिस्तयेदानीमपि विज्ञेयत्वमुक्तमित्याह –
भूतेति ।
विद्यावस्थायामेव किमिति ज्ञातृज्ञानज्ञेयविभागो न भवति, तत्राऽऽह –
ज्ञात इति ।
ज्ञानेन तत्कारणस्याज्ञानस्यापनीतत्वादित्यर्थः ॥७॥
नान्तःप्रज्ञमित्यादिश्रुत्युक्तेऽर्थे तद्विवरणरूपाञ्श्लोकानवतारयति –
अत्रेति ।
विविधं स्थानत्रयमस्माद्भवतीति व्युप्तत्त्या तुरीयो विभुरुच्यते । न हि तुरीयातिरेकेण स्थानत्रयमात्मानं धारयति । सर्वदुःखानामाध्यात्मिकादिभेदभिन्नानां तद्धेतूनां तदाधाराणामिति यावत् ।
ईशानपदं प्रयुज्य प्रभुपदं प्रयुञ्जानस्य पौनरुक्त्यमित्याशङ्क्याऽऽह –
ईशान इति ।
तुरीयस्य दुःखनिवृत्तिं प्रति सामर्थ्यस्य नित्यत्वान्न कदाचिदपि दुःखं स्यादित्याशङ्क्याऽऽह –
तद्विज्ञानेति ।
संसृष्टरूपेण व्ययोऽस्तीत्याशङ्क्य विशिनष्टि –
स्वरूपादिति ।
तत्र प्रश्नपूर्वकमद्वितीयत्वं हेतुमाह –
एतत् कुत इति ।
अतो द्वितीयस्य व्ययहेतोरभावादिति शेषः ।
विश्वादीनां दृश्यमानत्वात् तुरीयस्याद्वितीयत्वासिद्धिरित्याशङ्क्याऽऽह –
सर्वभावानामिति ।
अवस्थात्रयातीतस्य तुरीयस्योक्तलक्षणत्वं विद्वदनुभवसिद्धमिति सूचयति –
स्मृत इति ॥१०॥
विश्वादिष्ववान्तरविशेषनिरूपणद्वारेण तुरीयमेव निर्धारयति –
कार्येति ।
श्लोकस्य तात्पर्यमाह –
विश्वादीनामिति ।
विश्वतैजसयोरुभयबद्धत्वं सामान्यं, प्राज्ञस्य कारणमात्रबद्धत्वं विशेषः ।
अथेदं निरूपणं कुत्रोपयुज्यते ? तत्राऽऽह –
तुर्येति ।
प्राज्ञस्य कारणमात्रबद्धत्वं साधयति –
तत्त्वाप्रतिबोधेति ।
त्रयाणामवान्तरविशेषे स्थिते प्रकृतेतुरीये किमायातमित्याशङ्क्याऽऽह –
तत इति ।
तयोस्तस्मिन्नविद्यमानत्वं चिदेकताने तयोर्निरूपयितुमशक्यत्वादित्याह –
न सम्भवत इति ॥११॥
प्राज्ञस्य कारणबद्धत्वं साधयति –
नाऽऽत्मानमिति ।
तुरीयस्य कार्यकारणाभ्यामसंस्पृष्टत्वं स्पष्टयति –
तुर्यमिति ।
श्लोकव्यावर्त्यामाशङ्कामाह –
कथमिति ।
वाशब्दात् कथमित्यस्यानुवृत्तिः सूच्यते ।
प्रथमचोद्योत्तरत्वेन पादत्रयं व्याचष्टे –
यस्मादिति ।
विलक्षणमनात्मानमिति यावत् । अनृतमित्यस्य व्याख्यानमविद्याबीजप्रसूतमिति । द्वैतं द्वितीयमसत्यमित्यर्थः ।
वैधम्योदाहरणम् –
यथेति ।
प्राज्ञस्य विभागविज्ञानाभावे फलमाह –
ततश्चेति ।
यथोक्ते तमसि कार्यलिङ्गमनुमानं सूचयति –
अन्यथेति ।
द्वितीयं चोद्यं चतुर्थपादव्याख्यानेन प्रत्याख्याति –
यस्मादित्यादिना ।
सदैव तुरीयादन्यस्याभावात् तुरीयमेव सर्वं तच्च सदा दृग्रूपमिति यस्मात् तस्मादिति योजना । तत्रेति परिपूर्णं चिदेकतानं तुरीयं परामृश्यते ।
अत एवेति ।
कारणाभावे कार्यानुपपत्तेरित्यर्थः ।
तुरीये तत्त्वाग्रहणान्यथाग्रहणयोरसम्भवं दृष्टान्तेन साधयति –
न हीति ।
यत्तु तुरीयस्य सदा दृगात्मत्वमुक्तं तत्र प्रमाणमाह –
न हि द्रष्टुरिति ।
चतुर्थपादं प्रकारान्तरेण योजयति –
अथ वेति ।
तत्रापि श्रुतिमनुकूलयति –
नान्यदिति ॥१२॥
अनुमानप्रयुक्तां तुरीयेऽपि कारणबद्धत्वाशङ्कां परिहरति –
द्वैतस्येति ।
श्लोकस्य तात्पर्यं गृह्णाति –
निमित्तान्तरेति ।
विमतं कारणबद्धं द्वैताग्रहणवत्त्वात् प्राज्ञवदित्यनुमानमेव दर्शयन्निमित्तान्तरमेव स्फोरयति –
कथमिति ।
अनुमानकृताशङ्कानिवर्तकत्वेन श्लोकमवतारयति –
प्राप्तेति ।
प्राज्ञस्योत्तरभाविप्रबोधादिकार्यापेक्षया नियतपूर्वभावित्वं कारणबद्धत्वप्रयोजकम् ।
न च तुरीयस्य तदस्तीत्यप्रयोजको हेतुरित्याह –
यस्मादिति ।
किं च तुरीयस्य विशुद्धचिद्धातुत्वप्रसाधनप्रमाणबाधात् कालात्ययापदिष्टो हेतुरित्याह –
सदेति ।
न च पूर्वोक्तोपाधेः साधनव्याप्तिस्तुरीयस्योत्तरभाविकार्यापेक्षया नियतप्राग्भावित्वाभावादिति मत्वाऽऽह –
तत्त्वेति ।
दोषद्वयवत्त्वेनानुमानस्यामानत्वे फलितमाह –
अतो नेति ॥१३॥
कार्यकारणबद्धौ तावित्यादिश्लोकोक्तमर्थमनुभवावष्टम्भेन प्रपञ्जयति –
स्वप्नेति ।
ननु तैजसस्यैव स्वप्नयुक्तत्वं युक्तं न तु विश्वस्य प्रबुद्ध्यमानस्य तद्योगो युज्यते प्रबुध्यमानत्वाव्याघातात् । कथमविशेषेण विश्वतैजसौ स्वप्ननिद्रायुताविति ।
तत्र स्वप्नशब्दार्थमाह –
स्वप्न इति ।
यथा रज्ज्वां सर्पो गृह्यमाणोऽन्यथा गृह्यते तथाऽऽत्मनि देहादिग्रहणमन्यथाग्रहणम् । आत्मनो देहादिवैलक्षण्यस्य श्रुतियुक्तिसिद्धत्वात्, तेन स्वप्नशब्दितेनान्यथाग्रहणेन संसृष्टत्वं विश्वतैजसयोरविशिष्टमित्यर्थः ।
तथा निद्राणस्यैव निद्रा युक्ता न तु प्रबोधवतो विश्वस्येत्याशङ्क्याऽऽह –
निद्रेति ।
उक्ताभ्यां स्वप्ननिद्राभ्यां विश्वतैजसयोर्वैशिष्ट्यं निगमयति –
ताभ्यामिति ।
तयोरन्यथाग्रहणेन अग्रहणेन च वैशिष्ट्यं प्रागपि सूचितमित्याशङ्क्याऽऽह –
अत इति ।
द्वितीयं पादं विभजते –
प्राज्ञस्त्विति ।
द्वितीयार्धं व्याचष्टे –
नोभयमिति ।
तुरीये निद्रास्वप्नयोरदर्शने हेतुमाह –
विरुद्धत्वादिति ।
अज्ञानतत्कार्ययोर्नित्यविज्ञप्तिरूपे तुरीये विरुद्धत्वादनुपलब्धिरित्यत्र दृष्टान्तमाह –
सवितरीवेति ।
तुरीये वस्तुतो नाविद्यातत्कार्ययोः सङ्गतिरस्तीत्यङ्गीकृत्य प्रागपि सूचितमित्याह –
अतो नेति ॥१४॥
कदा तर्हि स्वप्नो भवतीत्यपेक्षायामाह –
अन्यथेति ।
निद्रा तर्हि कदेति सन्दिहानं प्रत्याह –
निद्रेति ।
तुरीयप्रतिपत्तिसमयं सङ्गिरते –
विपर्यास इति ।
श्लोकव्यावर्त्यामाकाङ्क्षां दर्शयति –
कदेति ।
कदा स्वप्ननिष्ठो भवति, कदा निद्रानिष्ठः स्यादित्यपि द्रष्टव्यम् ।
प्रश्नत्रयस्योत्तरं श्लोकेन दर्शयति –
उच्यत इति ।
तत्र कदा स्वप्नो भवतीति प्रश्नं परिहरति –
स्वप्नेति ।
अवस्थाद्वये स्वप्नद्रष्टुरित्यर्थः ।
द्वितीयं प्रश्नं समाधत्ते –
निद्रेति।
विश्वादिषु त्रिषु तयोरिति द्विवचनं कथमित्याशङ्क्याऽऽह –
स्वप्ननिद्रयोरिति ।
विश्वतैजसावेको राशिः । प्राज्ञो द्वितीयः । ततः श्लोके द्विवचनमविरुद्धमित्यर्थः ।
प्रथमे राशौ विपर्यासस्वरूपं कथयति –
अन्यथेति ।
द्वितीये राशौ विपर्यासविशेषं दर्शयति –
तृतीये त्विति ।
द्वितीयार्धगतान्यक्षराणि व्याकरोति –
अत इति ।
द्विवचनस्योपपन्नत्वाद् विपर्यासस्य च विभागेन निर्धारितत्वादित्यर्थः ।
तृतीयं प्रश्नं प्रतिविधत्ते –
तदेति ।
तत्त्वप्रबोधाद्विपर्यासक्षयावस्थायामित्यर्थः ॥१५॥
कदा तत्त्वप्रतिबोधो विपर्यासक्षयहेतुर्भवतीत्यपेक्षायामाह –
अनादीति ।
प्रतिबुद्ध्यमानं तत्त्वमेव विशिनष्टि –
अजमिति ।
जीवशब्दवाच्यमर्थं निर्दिशति –
योऽयमिति ।
परमात्मैव जीवभावमापन्नः संसरतीत्यर्थः ।
तस्य कथं जीवभावापत्तिरित्याशङ्क्य कार्यकरणबद्धत्वादित्याह –
स इति ।
परमात्मोभयलक्षणेन स्वापेन सुप्तो जीवो भवतीत्यन्वयः।
स्वापस्योभयलक्षणत्वमेव प्रकटयति –
तत्त्वेत्यादिना ।
मायालक्षणेनेत्युभयत्र सम्बध्यते ।
सुप्तमेव व्यनक्ति –
ममेत्यादिना ।
स्वापपरिगृहीतस्यैव प्रतिबोधनावकाशो भवतीत्याह –
यदेति ।
यदा सुषुप्तस्तदा बुध्यत इति शेषः ।
प्रतिबोधकं विशिनष्टि –
वेदान्तार्थेति ।
कथं प्रतिबोधनं, तदाह –
नासीति ।
अनुभूयमानत्वमेवमित्युच्यते । यदोक्तविशेषणेन गुरुणा प्रतिबोध्यमानः शिष्यस्तदाऽसावेवं वक्ष्यमाणप्रकारेण प्रतिबुद्धो भवतीत्युक्तम् ।
तमेव प्रकारं प्रश्नपूर्वकं द्वितीयार्धव्याख्यानेन विशदयति –
कथमित्यादिना ।
अस्मिन्निति सप्तम्या बोध्यात्मरूपं परामृश्यते । बाह्यं कार्यमान्तरं कारणं तच्चोभयमिह नास्ति । ततो जन्मादेर्भावविकारस्य नात्रावकाशः सम्भवतीत्यर्थः ।
अवतारितं विशेषणं सप्रमाणं योजयति –
सबाह्येति ।
अजत्वादेवानिद्रं कार्याभावे कारणस्य प्रमाणाभावेन वक्तुमशक्यत्वादिति मत्वाऽऽह –
यस्मादिति ।
अनिद्रत्वं हेतुं कृत्वा विशेषणान्तरं दर्शयति –
अत एवेति ।
अग्रहणान्यथाग्रहणसम्बन्धवैधुर्यं हेतुं कृत्वा विशेषणद्वयमित्याह –
यस्माच्चेति ।
तत्त्वमेवंलक्षणमस्तु, आत्मनः किमायातमित्याशङ्क्याऽऽह –
??
तदा विशिष्टेनाऽऽचार्येण विशिष्टं शिष्यं प्रति बोधनावस्थायामित्यर्थः ॥१६॥
तुरीयमद्वैतमित्युक्तं तदयुक्तं प्रपञ्चस्य द्वितीयस्य सत्त्वादित्याशङ्क्याऽऽह –
प्रपञ्च इति ।
प्रपञ्चनिवृत्त्या तुरीयप्रतिबोधात्तदद्वितीयत्वमविरुद्धमिति सैद्धान्तिकीमाशङ्कां पूर्ववाद्यनुवदति –
प्रपञ्चेति ।
तर्हि पूर्वं प्रपञ्चनिवृत्तेरनिवृत्तस्य तस्य सत्त्वान्नाद्वैतं सेद्धुमर्हतीति पूर्ववाद्येव ब्रवीति –
अनिवृत्त इति ।
सिद्धान्ती श्लोकेनोत्तरमाह –
उच्यत इति ।
किं प्रपञ्चस्य वस्तुत्वमुपेत्याद्वैतानुपपत्तिरुच्यते, किं वाऽवस्तुत्वमिति विकल्प्याऽऽद्येऽद्वैतानुपपत्तिमङ्गीकारोति –
सत्यमिति ।
अद्वैतं तर्हि कथमुपपद्येतेत्याशङ्क्य प्रपञ्चस्यावस्तुत्वपक्षे तदुपपत्तिरित्याह –
रज्ज्वामिति ।
यथा सर्पो रज्ज्वां कल्पितो वस्तुतो नास्ति तथा प्रपञ्चोऽपि कल्पितत्वान्नैव वस्तुतो विद्यते । तथा च तात्त्विकमद्वैतमविरुद्धमित्यर्थः ।
उक्तमर्थं व्यतिरेकमुखेन साधयति –
विद्यमानश्चेदिति ।
यद्यात्मनि कारणाधीनः सन् प्रपञ्चो विद्येत तदा कृतकस्यानित्यत्वनियमात्तन्निवृत्तिरवश्यम्भाविनी । कार्यस्य च निवृत्तिर्नाम कारणसंसर्गस्ततः सति कारणे प्रपञ्चनिवृत्तेरनात्यन्तिकत्वादद्वैतानुपपत्तिराशङ्क्येत । न च कारणाधीनः सन् प्रपञ्चोऽस्ति । तस्य कल्पितत्वेनावस्तुत्वादित्यर्थः ।
प्रपञ्चस्य मायया विद्यमानत्वं न तु वस्तुत्वमित्युदाहरणाभ्यामुपपादयति –
न हीत्यादिना ।
सर्पो हि रज्ज्वां भ्रान्त्या कल्पितो नायं सर्पो रज्जुरेष एवेति विवेकधिया निवृत्तो नैव वस्तुतो विद्यते । बाधितस्य कालत्रयेऽपि सत्त्वाभावात् । माया चेन्द्रजालशब्दवाच्या मायाविना प्रदर्शिता पार्श्वस्थानां मायादर्शनवतां चक्षुर्गतस्य यथार्थदर्शनप्रतिबन्धकस्यापगमे सति समुत्पन्नसम्यग्दर्शनतो निवृत्ता सती नैव वस्तुतो विद्यमान भवितुमुत्सहते । यथेहमुदाहरणद्वयं तथेदं द्वैतं प्रपञ्चाख्यं मायामात्रं न परमार्थतोऽस्तीत्यर्थः ।
प्रपञ्चस्यासत्त्वे शून्यवादः स्यादित्याशङ्क्याऽऽह –
रज्जुवदिति ।
प्रपञ्चस्य कालत्रयेऽपि सत्त्वाभावे तात्त्विकमद्वैतमविरुद्धमित्युपसंहरति –
तस्मादिति ॥१७॥
प्रकारान्तरेणाद्वैतानुपपत्तिमाशङ्क्य परिहरति –
विकल्प इति ।
यदि केनचिद्धेतुना तत्त्वज्ञानेन कार्येण शास्त्रादिविकल्पो हेतुतया विकल्पितस्तथाऽप्यसौ बाधितो निवर्तेत, न तु तात्त्विकमद्वैतं विरोद्धुमर्हति । तत्त्वज्ञानात्प्रागवस्थायामेव तत्त्वोपदेशं निमित्तीकृत्य यतः शास्त्रादिभेदोऽनूद्यते, उपदेशप्रयुक्ते तु ज्ञाने निवृत्ते न किञ्चिदपि द्वैतमस्तीत्यद्वैतविरुद्धमित्यर्थः ।
श्लोकव्यावर्त्यामाशङ्कामाह –
नन्विति ।
तदनिवृत्तौ नाद्वैतसिद्धिर्न च शास्त्रादिभेदस्य कल्पितत्वादविरोधः, तथा सति धूमाभासवत्तत्त्वज्ञानहेतुत्वानुपपत्तिरित्यर्थः ।
धूमाभासस्याव्याप्तस्यातद्धेतुत्वेऽपि कल्पितस्य शास्त्रादेस्तत्त्वज्ञानहेतुत्वं प्रतिबिम्बादिवदुपपन्नमित्युत्तरमाह –
उच्यत इति ।
शिष्यः शास्ता शास्त्रमित्ययं विकल्पो विभागः, सोऽपि निवृत्तिप्रतियोगित्वादवस्तुत्वाज्ञानबाध्यत्वादद्वैताविरोधीत्यर्थः ।
शिष्यादिविभागस्य कल्पितत्वं दृष्टान्तेन स्पष्टयति –
यथेति ।
मायाविना प्रयुक्ता माया यथा कल्पितेष्यते यथा च सर्पधारादिर्विकल्पितस्तथाऽयं प्रपञ्चः सर्वोऽपि कल्पितो वस्तु न भवतीति प्रपञ्चितम् । तथैव प्रपञ्चैकदेशः शिष्यादिरपि ज्ञानात्पाक्कल्पितः सन्नज्ञानकृतो मिथ्येत्यर्थः ।
किमिति ज्ञानात्पूर्वमसौ कल्प्यते, तत्राऽऽह –
उपदेशेति ।
उपदेशमुद्दिश्य यथोक्तविभागवचनमित्युक्तमुपसंहरति –
अत इति।
उपदेशात्प्रागिव तस्मादूर्ध्वमपि भेदोऽनुवर्ततामित्याशङ्क्य विरोधिसद्भावान्मैवमित्याह –
उपदेशेति ॥१८॥
तत्त्वज्ञानसमर्थानां मध्यमानामुत्तमानां चाधिकारिणामध्यारोपापवादाभ्यां पारमार्थिकं तत्त्वमुपदिष्टम् । इदानीं तत्त्वग्रहणासमर्थानामधमाधिकारिणामाध्यानविधानायाऽऽरोपदृष्टिमेवावष्टभ्य व्याचष्टे –
अभिधेयेत्यादिना ।
अध्यक्षरमित्येतद् व्याकरोति –
अक्षरमिति ।
अध्यक्षरमित्यत्र किं पुनस्तदक्षरमिति प्रश्नपूर्वकं व्युत्पादयति –
किं पुनरित्यादिना ।
तस्य विशेषणान्तरं दर्शयति –
सोऽयमिति ।
आत्मा हि पादशो विभाज्यते; मात्रामधिकृत्य पुनरोङ्कारो व्यवतिष्ठते, तत्कथं पादशो विभज्यमानस्याधिमात्रत्वमिति पृच्छति –
कथमिति ।
पादानां मात्राणां चैकत्वादेतदविरुद्धमित्याह –
आत्मन इति ॥८॥
पादानां मात्राणां च मध्ये विश्वाख्यविशेषस्याकाराख्यविशेषत्वं निगमयति –
तत्रेति ।
विश्वाकारयोरेकत्वं सादृश्ये सत्यारोपयितुं शक्यमन्यत्र सत्येव तस्मिन्नारोपसंदर्शनात्, तथा च किं तदारोपप्रयोजकं सादृश्यमिति पृच्छति –
केनेति ।
सामान्योपन्यासपरां श्रुतिमवतारयति –
आहेति ।
व्याप्तिमेवाकारस्य श्रुत्युपन्यासेन व्यनक्ति –
अकारेणेति ।
अध्यात्माधिदैविकयोरेकत्वं पूर्वमुक्तमुपेत्य विश्वस्य वैश्वानरस्य जगद्व्याप्तिं श्रुत्यवष्टम्भेन स्पष्टयति –
तथेति ।
किं च सामान्यद्वारा वाच्यवाचकयोरेकत्वमारोप्यं न भवति, तयोरेकत्वस्य प्रागेवोक्तत्वादित्याह –
अभिधानेति ।
सामान्यान्तरमाह –
आदिरिति ।
तदेव स्फुटयति –
यथैवेति ।
उकारो मकारश्चेत्युभयमपेक्ष्य प्रथमपाठादादिमत्त्वमकारस्य द्रष्टव्यम् । विश्वस्य पुनरादिमत्त्वं तैजसप्राज्ञावपेक्ष्याऽऽद्यस्थाने वर्तमानत्वादित्यर्थः ।
उक्तस्य सामन्यान्तरस्य फलं दर्शयति –
तस्मादिति ।
किमर्थमित्थं सामान्यद्वारा तयोरेकत्वमुच्यते ? तद्विज्ञानस्य फलवत्त्वादित्याह –
तदेकत्वेति ।
सादृश्यविकल्पादेव फलविकल्पः ॥९॥
तृतीयपादस्य तृतीयमात्रायाश्चैकत्वमुपन्यस्यति –
सुषुप्तेति ।
पूर्ववदेकत्वप्रयोजकमत्रापि प्रश्नपूर्वकमुपवर्णयति –
केनेत्यादिना ।
मानमेव विवृणोति –
मीयते इति ।
ओमित्योङ्कारस्य नैरन्तर्येणोच्चारणे सत्यकारोकारौ प्रथमं मकारे प्रविश्य पुनस्तस्मान्निर्गच्छन्ताविवोपलभ्येते तेन मकारेऽपि मानसामान्यमिति वक्तव्यमित्यर्थः ।
एकीभावमेव स्फोरयति –
ओङ्कारेति ।
मकारवत्प्राज्ञेऽपि तदस्ति सामान्यमित्याह –
तथेति ।
उक्तस्यापि सामान्यस्य फलमाह –
अतो वेति ।
सामान्यद्वयद्वारेण प्राज्ञमकारयोरेकत्वज्ञानं नाविवक्षितं फलवत्त्वादित्याह –
विद्वदिति ।
अविदुषोऽपि जगद्विषयज्ञानमस्तीत्याशङ्क्य विशिनष्टि –
जगद्याथात्म्यमिति ।
तद्याथात्म्यं चाव्याकृतत्वम् ।
प्रलयभवनमनिष्टत्वान्न फलमित्याशङ्क्याऽऽह –
जगदिति ।
तत्र तत्रैकत्वज्ञाने फलभेदकथनादुपासनाभेदमाशङ्क्याङ्गेषु फलभेदश्रुतेरर्थवादत्वमुपेत्याऽऽह –
अत्रेति ।
पादानां मात्राणां च क्रमादेकत्वविज्ञाने फलकथनं सर्वान् पादान् मात्राश्च सर्वाः स्वात्मन्यन्तर्भाव्य प्रधानस्य ब्रह्मध्यानस्य साधनं यदोङ्काराख्यमक्षरं तस्य स्तुतावुपयुज्यते । तेन च तदेवैकमुपासनमितरस्य तदङ्गत्वान्नोपास्तिभेदकत्वमित्यर्थः ॥११॥
पादानां मात्राणां च यदेकत्वं सनिमित्तं श्रुत्योपन्यस्तं तत्र श्रुत्यर्थविवरणरूपान् पूर्ववदेव श्लोकानवतारयति –
अत्रेति ।
प्रथमपादस्य प्रथममात्रायाश्चाभेदारोपार्थमुक्तं सामान्यद्वयं विशदयति –
विश्वस्येति ।
उक्तन्यायेनाऽऽदिरस्येत्यादाविति शेषः ।
पुनरुक्तिपरिहारद्वारा विवक्षितमर्थमाह –
अत्वेति ।
अनुवृत्तिद्योतकं दर्शयति –
चशब्दादिति ॥१९॥
द्वितीयपादस्य द्वितीयमात्रायाश्चैकत्वारोपप्रयोजकद्वयं श्रुत्युक्तं व्यनक्ति –
तैजसस्येति ।
स्फुटमिति क्रियाविशेषणम् ।
तथाविधमित्यस्यार्थं स्फुटमित्याह –
स्फुटमेवेति ।
उत्वविज्ञान इत्यस्य व्याख्यानं मात्रासम्प्रतिपत्ताविति ।
तस्य व्याख्यानं सर्वमित्युच्यते, तत्पूर्ववद् द्रष्टव्यमित्युच्यते –
पूर्ववदिति ॥२०॥
तृतीयपादस्य तृतीयमात्रायाश्चैकत्वाध्यासे सामान्यद्वयं श्रुत्या दर्शितं विशदयति –
मकारेति ।
अक्षरार्थस्य पूर्ववदेव सुज्ञानत्वात्तात्पर्यार्थमाह –
मकारत्व इति ॥२१॥
विश्वादीनामकारादीनां च यत्तुल्यं सामान्यमुक्तं तद्विज्ञानं स्तौति –
त्रिष्विति ।
यथोक्तस्थानत्रयं जगरितं स्वप्नः सुषुप्तं चेति त्रितयं, तुल्यं पादानां मात्राणां चेति शेषः । उक्तं सामान्यमाप्तिरुक्तर्षो मितिरित्यादि ।
महामुनिरित्यस्यार्थमाह –
ब्रह्मविदिति ॥२२॥
पूर्वोक्तसामान्यज्ञानवतो ध्याननिष्ठस्य फलविभागं दर्शयति –
अकार इति ।
यत्र तु पादानां मात्राणां च विभागो नास्ति तस्मिन्नोङ्कारे तुरीयात्मनि व्यवस्थितस्य प्राप्तृप्राप्तव्यप्राप्तिविभागो नास्तीत्याह –
नामात्र इति ।
ओङ्कारध्यायिनमकारो विश्वं प्रापयतीत्युक्तमयुक्तम् । विश्वप्राप्तेर्ध्यानमन्तरेण सिद्धत्वात् ।
अकारस्य चाध्येयस्योक्तफलप्रापकत्वायोगदित्याशङ्क्याऽऽह –
अकारेति ।
तदालम्बनं तत्प्रधानमिति यावत् ।
अकारप्रधानमोङ्कारं धायतो यथा वैश्वानरप्राप्तिस्तथोकारप्रधानं तमेव ध्यायतस्तैजसहिरण्यगर्भप्राप्तिर्भवतीत्याह –
यथेति ।
यश्च मकारप्रधानमोङ्कारं ध्यायति तस्य प्राज्ञाव्याकृतप्राप्तिर्युक्तेत्याह –
मकारश्चेति ।
क्रियापदानुवृत्तिरुभयत्र विवक्षिता ।
चतुर्थपादं व्याचष्टे –
क्षीणे त्विति ।
स्थूलप्रपञ्चो जागरितं विश्वश्चेत्येतत्त्रितयमकारमात्रं, सूक्ष्मप्रपञ्चः स्वप्नस्तैजसश्चैतत्त्रितयमुकारमात्रं, प्रपञ्चद्वयकारणं सुषुप्तं प्राज्ञश्चेत्येतत्त्रितयं मकारमात्रम् । तत्रापि पूर्वं पूर्वमुत्तरोत्तरभावमापद्यते । तदेतं सर्वमोङ्कारमात्रमिति ध्यात्वा स्थितस्य यदेतावन्तं कालमोमितिरूपेण प्रतिपन्नं तत्परिशुद्धं ब्रह्मैवेत्याचार्योपदेशसमुत्थसम्यग्ज्ञानेन पूर्वोक्तसर्वविभागनिमित्ताज्ञानस्य मकारत्वेन गृहीतस्य क्षये ब्रह्मण्येव शुद्धे पर्यवसितस्य न क्वचिद् गतिरुपपद्यते परिच्छेदाभावादित्यर्थः ॥२३॥
प्रत्यक्चैतन्यमोङ्कारसंवेदनं त्रिमात्रेणोङ्कारेणाध्यस्तेन तादात्म्यादोङ्कारो निरुच्यते । तस्य परेण ब्रह्मणैक्यममात्रादिश्रुत्या विवक्ष्यते । तमवतार्य व्याकरोति –
अमात्र इत्यादिना ।
केवलत्वमद्वितीयत्वम् ।
विशेषणान्तरमुपपादयति –
अभिधानेति ।
अभिधानं वाक्, अभिधेयं मनः चित्तातिरिक्तार्थाभावस्याभिधास्यमानत्वात् तयोर्मूलाज्ञानक्षयेण क्षीणत्वादिति हेत्वर्थः ।
अव्यवहार्यश्चेदात्मा नास्त्येवेत्याशङ्क्य विकारजातविनाशावधित्वेनाऽऽत्मनोऽवशेषान्नैवमित्याह –
प्रपञ्चेति ।
तस्य च सर्वानर्थाभावोपलक्षितस्य परमानन्दत्वेन पर्यवसानं सूचयति –
शिव इति ।
तस्यैव सर्वद्वैतकल्पनाधिष्ठानत्वेनावस्थानमभिप्रेत्याऽऽह –
अद्वैत इति ।
ओङ्कारस्तुरीयः सन्नात्मैवेति यदुक्तं तदुपसंहरति –
एवमिति ।
यथोक्तं विज्ञानं पादानां मात्राणां चैकत्वम्, न च पादा मात्राश्च तुरीयात्मन्योङ्कारे सन्ति, पूर्वपूर्वविभागशोत्तरोत्तरान्तर्भावेन क्रमादात्मनि पर्यवस्यतीत्येवंलक्षणतद्वता –
?
प्रयुक्तः सन्नोङ्कारो मात्राः पादांश्च स्वस्मिन्नन्तर्भाव्यावस्थितस्याऽऽत्मनो भेदमसहमानस्तद्रूपो भवतीत्यर्थः ।
उक्तैक्यज्ञानस्य फलमाह –
संविशतीति ।
सुषुप्ते ब्रह्मप्राप्तस्य पुनरुत्थानवन्मुक्तस्यापि पुनर्जन्म स्यादित्याशङ्क्याऽऽह –
परमार्थेति ।
सुषुप्तस्य पुनरुत्थनं बीजभूताज्ञानस्य सत्त्वादुपपद्यते । इह तु बीजभूतमज्ञानं तृतीयं सुषुप्ताख्यं दग्ध्वैव तेषामात्मानं तुरीयं प्रविष्टो विद्वानिति नासौ पुनरुत्थानमर्हति । कारणमन्तरेण तदयोगादित्यर्थः ।
तुरीयमेव पुनरुत्थनबीजभूतं भविष्यतीत्याशङ्क्य कर्यकारणविनिर्मुक्तस्य तस्य तदयोगान्मैवमित्याह –
तुरीयस्येति ।
मुक्तस्यापि पूर्वसंस्कारात्पुनरुत्थानमाशङ्क्य दृष्टान्तेन निराचष्टे –
न हीति ।
पूर्ववदित्यविवेकावस्थायामिवेत्यर्थः । तद्विवेकिनां रज्जुसर्पविवेकविज्ञानवतामिति यावत् । बुद्धिसंस्कारादित्यत्र बुद्धिशब्देन सर्पभ्रान्तिर्गृह्यते । उत्तमाधिकारिणामोङ्कारद्वारेण परिशुद्धब्रह्मात्मैक्यविदामपुनरावृत्तिलक्षणमुक्तं फलम् ।
इदानीं मन्दानां मध्यमानां च कथं ब्रह्मप्रतिपत्त्या फलप्राप्तिरित्याशङ्क्याऽऽह –
मन्देति ।
तेषामपि क्रममुक्तिरविरुद्धेत्यर्थः ।
तत्रैव वाक्यशेषानुकूल्यं कथयति –
तथा चेति ॥१२॥
यथा पूर्वमाचार्येण श्रुत्यर्थप्रकाशकाः श्लोकाः प्रणीतास्तथोत्तरेऽपि श्लोकाः श्रुत्युक्तेऽर्थ एव सम्भवन्तीत्याह –
पूर्ववदिति ।
ओङ्कारस्य पादशो विद्या कीदृशीत्याशङ्क्याऽऽह –
पादा इति ।
पादानां मात्राणां चान्योन्यमेकत्वं कृत्वा तद्विभागविधुरमोङ्कारं ब्रह्मबुद्ध्या ध्यायतो भवति कृतार्थेतेति दर्शयति –
ओङ्कारमिति ।
तस्मात् पादानां मात्राणां चान्योन्यमेकत्वादित्यर्थः ।
तदेकत्वं पुरस्कृत्योङ्कारमुभयविभागशून्यं ब्रह्मबुद्ध्या जानीयादित्याह –
ओङ्कारमिति ।
उत्तरार्धस्य तात्पर्यमाह –
एवमिति ॥२४॥
प्रणवानुसन्धानकुशलस्य प्रणवज्ञानेनैव सर्वद्वैतापवादकेन कृतार्थता भवतीत्युक्तम् । इदानीं तदनभिज्ञस्य परोपदेशमात्रशरणस्य ध्यानकर्तव्यतां कथयति –
युञ्जीतेति ।
ननु मनःसमाधानं ब्रह्मणि कर्तव्यम्; किमिति प्रणवे तत्कर्तव्यतोच्यते, तत्राऽऽह –
प्रणव इति ।
सम्प्रति प्रणवे समाहितचित्तस्य फलं दर्शयति –
प्रणवे नित्येति ।
समाधानविषयमाह –
यथेति ।
तुरीयरूपं यथेत्युच्यते ।
तत्र हेतुमाह –
यस्मादिति ।
तदेव साधयति –
न हीति ।
तत्र तैत्तिरीयकश्रुत्यानुकूल्यमाह –
विद्वानिति ॥२५॥
कीदृशस्तर्हि प्रणवो मन्दानां मध्यमानां चाधिकारिणां ध्येयो भवतीत्याशङ्क्याऽऽह –
प्रणवो हीति ।
उत्तमाधिकारिणां कीदृशस्तर्हि प्रणवः सम्यग्ज्ञानगोचरो भवति, तत्राऽऽह –
अपूर्व इति ।
परापरब्रह्मात्मना प्रणवो मन्दमध्यमाधिकारिणोर्ध्येयतामुपगच्छतीति पूर्वार्धं व्याचष्टे –
परेति ।
उत्तमाधिकारिणस्तु सर्वविशेषशून्यमेकरसं प्रत्यग्भूतं यद् ब्रह्म तद्रूपेण प्रणवः सम्यग्ज्ञानाधिगम्यो भवतीत्युत्तरार्धं विभजते –
परमार्थत इत्यदिना ।
उक्तेऽर्थे प्रमाणं सूचयति –
सबाह्येति ॥२६॥
यदोङ्कारस्य प्रत्यगात्मत्वमापन्नस्य तुरीयस्यापूर्वत्वमनन्तरत्वमित्यादिविशेषणमुक्तम्, तत्र हेतुमाह –
सर्वस्येति ।
यथोक्तविशेषणं प्रणवं प्रत्यञ्चं प्रतिपद्य कृतकृत्यो भवतीत्याह –
एवं हीति ।
पूर्वार्धं व्याकरोति –
आदीति ।
सर्वस्यैवोत्पद्यमानस्योत्पत्तिस्थितिलया यथोक्तप्रणवाधीना भवन्ति । अतस्तस्योक्तं विशेषणं युक्तमित्यर्थः ।
तत्र परिणामवादं व्यावर्त्य विवर्तवादं द्योतयितुमुदाहरति –
मायेति ।
अनेकोदाहरणमुत्पद्यमानस्यानेकविधात्वबोधनार्थम् ।
प्रणवस्य प्रत्यगात्मत्वं प्राप्तस्याविकृतस्यैव स्वमायाशक्तिवशाज्जगद्धेतुत्वमित्यत्र दृष्टान्तमाह –
यथेति ।
यथा मायावी स्वगतविकारमन्तरेण मायाहस्त्यादेरिन्द्रजालस्य स्वमायावशादेव हेतुः, यथा वा रज्ज्वादयः स्वगतविकारविरहिणः स्वाज्ञानादेव सर्पादिहेतवस्तथाऽयमात्मा प्रणवभूतो व्यवहारदशायां स्वाविद्यया सर्वस्य हेतुर्भवति । अतो युक्तं तस्य परमार्थावस्थायां पूर्वोक्तविशेषणवत्त्वमित्यर्थः ।
द्वितीयार्धं विभजते –
एवं हीति ।
पूर्वोक्तविशेषणसम्पन्नमिति यावत् ।
ज्ञानस्य मुक्तिहेतोः सहायान्तरापेक्षा नास्तीति सूचयति –
तत्क्षणादेवेति ।
तदात्मभावमित्यत्र तच्छब्देनापूर्वादिविशेषणं परमार्थवस्तु परामृश्यते ॥२७॥
ब्रह्मबुद्ध्या प्रणवमभिध्यायतो हृदयाख्यं देशमुपदिशति –
प्रणवमिति ।
परमार्थदर्शिनस्तु देशाद्यनवच्छिन्नवस्तुदर्शनादार्थिकं शोकाभावं ‘तत्र को मोहः कः शोक’(ई. उ. ७) इत्यादिश्रुतिसिद्धमनुवदति –
सर्वव्यापिनमिति ।
हृदयदेशे प्रणवभूतस्य ब्रह्मणो ध्येयत्वे हेतुं सूचयति –
स्मृतिप्रत्ययेति ।
बुद्धिमानिति विवेकित्वमुच्यते। मत्वेति साक्षात्कारसम्पत्तिर्विवक्ष्यते ।
विवेकद्वारा तत्त्वसाक्षात्कारे सति शोकनिवृत्तौ हेतुमाह –
शोकेति ।
तस्य हि निमित्तमात्माज्ञानम् ।
तस्याऽऽत्मसाक्षात्कारतो निवृत्तौ शोकानुपपत्तिरित्यत्र प्रमाणमाह –
तरतीति ।
आदिशब्देन ‘भिद्यते हृदयग्रन्थिः’(मु. उ. २ । २ । ९) इत्यादिश्रुतिर्गृह्यते ॥२८॥
ओङ्कारं तुरीयभावमापन्नं यः प्रतिपन्नस्तं स्तौति –
अमात्र इति ।
यथोक्तप्रणवप्रतिपत्तिविहीनस्तु जननमरणमात्रभागी न पुरुषार्थभाग् भवतीति विद्यारहितं निन्दिति –
नेतर इति ।
पादविभागस्य मात्राविभागस्य चाभावादोङ्कारस्तुरीयः सन्नमात्रो भवतीत्याह –
अमात्र इति ।
ननु कथमनन्ता परिच्छित्तिरोङ्कारस्य तुरीयस्योच्यते ।
न हि तत्र परिच्छित्तिरेवास्तीत्याशङ्क्याऽऽह –
नैतावत्त्वमिति ।
अनर्थात्मकद्वैतसंस्पर्शाभावादप्रतिबन्धेन परमानन्दत्वं तस्मिन्नाविर्भवतीत्यभिप्रेत्याऽऽह –
सर्वेति ।
यथाव्याख्यातः पूर्वार्धेनोक्तविशेषणवानित्यर्थः ।
ननु यथोक्तप्रणवपरिज्ञानरहितस्यापि शास्त्रपरिज्ञानवत्त्वान्न जन्मोपलक्षितसंसारभाक्त्वेन पुरुषार्थासिद्धिः । मैवम् । शास्त्रविदोऽपि तत्त्वज्ञानाभावे मुख्यपुरुषार्थसिद्धि[द्धे]रित्याभिप्रेत्याऽऽह –
नेतर इति ।
तदेवं प्रणवद्वारेण निरुपाधिकमात्मानमनुसन्दधानस्य पुरुषार्थपरिसमाप्तिर्नेतरेषां बहिर्मुखाणामिति स्थितम् ॥२९॥