अद्वैतशारदा

आनन्दगिरिटीका (माण्डूक्य)

आगमप्रकरणम् (२)

यदुक्तं कालात्प्रसूतिं भूतानामिति तत्राऽऽह –
न हीति ।
अधि­ष्ठा­न­भू­त­र­ज्ज्वा­दीनां स्वभा­व­श­ब्दि­त­स्वा­ज्ञा­ना­देव सर्पा­द्या­भा­सत्वं तथा परस्य स्वमा­या­श­क्ति­व­शा­दा­का­शा­द्या­भा­स­त्वम्। ‘आत्मन आकाशः संभूत’(तै. उ. २ । १। १) इत्यादिश्रुतेः । न तु कालस्य भूतकारणत्वं प्रमा­णा­भा­वा­दि­त्यर्थः ॥९॥

पादत्रये व्याख्याते व्याख्येयत्वेन क्रम­व­शा­त्प्राप्तं चतुर्थं पादं व्याख्या­तु­मु­त्त­र­ग्र­न्थ­प्र­वृ­त्ति­रि­त्याह –
चतुर्थ इति ।

ननु पाद­त्र­य­व­द्वि­धि­मु­खे­नैव चतुर्थः पादोऽपि व्याख्यायताम् किमिति निषेधमुखेन व्याख्यायते, तत्राऽऽह –
सर्वेति ।
सर्वाणि शब्दप्रवृत्तौ निमित्तानि षष्ठीगुणादीनि, तैः शून्यत्वात् तुरीयस्य वाच्य­त्वा­यो­गा­न्नि­षे­ध­द्वा­रैव तन्निर्देशः सम्भवतीत्यर्थः । साक्षा­द्वा­च्य­त्वा­भावं द्योतयितुं निर्दि­दि­क्ष­ती­त्यु­क्तम् । यदि चतुर्थं विधिमुखेन निर्देष्टुं न शक्यं तर्हि शून्यमेव तदापद्येत तन्निषेधेनैव निर्दि­श्य­मा­न­त्वात् ।

तथाविधं नास्त्यर्थवदिति शङ्कते –
शून्यमेवेति ।
न तुरीयस्य शून्य­त्व­म­नु­मातुं युक्तम् ।

विमतं सदधिष्ठानं कल्पितत्वात् तथा­वि­ध­र­ज­ता­दि­व­दि­त्य­नु­मा­ना­त्तु­रीस्य सत्त्व­सि­द्धे­रि­त्यु­त्त­र­माह –
तन्नेति ।

दृष्टान्तं साधयति –
न हीति ।
रजतादीनां सद­नु­वि­द्ध­बु­द्धि­बो­ध्य­त्वा­द­व­स्त्वा­स्प­द­त्वा­यो­गात् तद्वदेव प्राणा­दि­वि­क­ल्पा­ना­मपि नाव­स्त्वा­स्प­दत्वं सिध्यतीत्यर्थः ।

यद्यधिष्ठानत्वं तुरीयस्येष्टं तर्हि वाच्य­त्व­म­धि­ष्ठा­न­त्वाद् घटादिवदिति प्रक्रमभङ्गः स्यादिति चोदयति –
एवं तर्हीति ।
किं प्राति­भा­सि­क­म­धि­ष्ठा­नत्वं हेतूकृतं किं वा तात्त्विकम् । नाऽऽद्यः । तस्य तात्त्वि­क­वा­च्य­त्वा­सा­ध­क­त्वात् । अतात्त्विके तु वाच्यत्वे प्रक्रमो न विरुध्येत ।

न द्वितीयः, शुक्त्यादिषु कल्पि­त­र­ज­ता­दे­र­व­स्तु­त्व­वत् तुरीयेऽपि कल्पि­त­प्र­णा­दे­र­व­स्तु­त्वात् तत्प्र­ति­यो­गि­का­धि­ष्ठा­न­त्वस्य तात्त्वि­क­त्वा­यो­गा­दिति दूषयति –
न प्राणादीति ।
किं च वाच्यत्वे तुरीयस्य निरुच्यमाने तत्र शब्दप्रवृत्तौ निमित्तं वक्तव्यम् ।

तच्च षष्ठी वा रूढिर्वा जातिर्वा क्रिया वा गुणो वेति विकल्प्य प्रथमं प्रत्याह –
न हीति ।
तुरी­या­ति­रि­क्त­स्या­व­स्तु­त्वात् तस्य तुरीयस्य च वस्तु­भू­त­स­म्ब­न्धा­सि­द्धे­र्वि­ष­या­भावे कुतः षष्ठीत्यर्थः ।

द्वितीयं दूषयति –
नापीति ।
विशिष्टरूपेण विषयत्वेऽपि स्वरूपेण निरुपाधिकात्मना तद­वि­ष­य­त्वा­न्नात्र गवादाविव रूढि­र­व­त­र­ती­त्यर्थः ।

न तृतीयः, गवा­दा­वि­वा­द्वि­तीये तुरीये सामा­न्य­वि­शे­ष­भा­व­स्या­भि­धा­तु­म­यो­ग्य­त्वा­दिति मत्वाऽऽह –
गवादिवदिति ।

न चतुर्थः, पाच­का­दा­वि­वा­क्रिये तुरीये क्रियावत्त्वस्य शब्द­प्र­वृ­त्ति­नि­मि­त्तस्य वक्तु­म­यु­क्त­त्वा­दि­त्याह –
नापि क्रिया­व­त्त्व­मिति ।
न पञ्चमः ।

उत्पलादौ नीला­दि­श­ब्द­व­न्नि­र्गुणे तुरीये गुणवत्त्वस्य शब्द­प्र­वृ­त्ति­नि­मि­त्तस्य वक्तु­म­यु­क्त­त्वा­दि­त्याह –
नापीति ।

तदेवं तुरीयस्य वाच्यत्वानुमानं शब्द­प्र­वृ­त्ति­नि­मि­त्ता­नु­प­ल­ब्धि­बा­धि­त­मिति फलितमाह –
अत इति ।
यदि तृरीयस्य नास्ति विशि­ष्ट­जा­त्या­दि­मत्त्वं तर्हि नर­वि­षा­णा­दि­दृ­ष्टे­रिव तद् दृष्टेरपि निष्फलत्वम् ।

विशि­ष्ट­जा­त्या­दि­मतो राजादेरुपासनस्य फल­व­त्त्वो­प­ल­म्भा­दिति शङ्कते –
शशविषाणादीति ।
यथा शुक्ति­रि­य­मि­त्य­व­गमे रज­ता­दि­वि­ष­य­तृष्णा व्यावर्तते, तथा तुरीयं ब्रह्मा­ह­मि­त्या­त्म­त्वेन तुरीयस्य साक्षात्कारे सत्यनात्मविषया तृष्णा व्यवच्छिद्यते ।

तदेवमात्मत्वेन तुरीयावगमस्य सर्वा­का­ङ्क्षा­नि­व­र्त­क­त्वा­द­न­र्थ­क­त्व­शङ्का न युक्तेति परिहरति –
नेत्यादिना ।

तुरी­य­स्याऽऽ­त्म­त्वा­व­गमे सति सर्वा­न­र्थे­हे­तु­तृ­ष्णा­दि­दो­ष­नि­वृ­त्ति­ल­क्षणं फलमुक्तं विद्वदनुभवेन साधयति –
न हीति ।

ननु तुरी­य­म­शे­ष­वि­शे­ष­शून्यं नाऽऽत्म­त्वे­ना­व­गन्तुं शक्यते तद्धे­त्व­भा­वा­दिति, तत्राऽऽह –
न चेति ।

सर्वो­प­नि­ष­दा­मि­त्यु­क्त­मे­वो­दा­ह­र­ण­ले­शेन दर्शयति –
तत्त्वमसीति ।

निषेधमुखेनैव तुरीयस्य प्रतिपादनं न विधि­मु­खे­ने­त्यु­प­पाद्य वृत्ता­नु­वा­द­पू­र्व­क­मु­त्त­र­ग्र­न्थ­म­व­ता­र­यति –
सोऽयमित्यादिना ।
बीजा­ङ्कु­र­स्था­नीयं मिथो हेतु­हे­तु­म­द्भा­वेन व्यव­स्थि­त­मि­त्यर्थः । अबीजात्मकं कार्य­का­र­ण­वि­नि­र्मु­क्त­मिति ।

तत्र हेतुं सूचयति –
परमार्थेति ।

तस्य विधिमुखेन निर्दे­शा­नु­प­पत्तिं प्रागु­क्ता­म­भि­प्रे­त्याऽऽह –
सर्पादीति ।
किमुत्तरेण ग्रन्थेन तुरीयं प्रतिपाद्यते, किं वा तस्य स्थान­त्र­य­वै­ल­क्षण्यं विवक्ष्यते । प्रथमे प्रतिपादकस्य विधा­ना­व्य­ति­रे­का­द­न्य­नि­षे­धा­न­र्थ­क्यम् । द्वितीयेऽपि तदा­न­र्थ­क्य­मा­प­द्येत ।

अनु­क्त्यै­वो­क्ता­द­न्य­त्व­सि­द्धे­रिति मन्वानः शङ्कते –
नन्विति ।
न तावत्तुरीयं विधिमुखेन बोध्यम् । तस्य स्वप्रकाशत्वात् तस्मिन् प्रका­शा­द्य­नु­द­यात् । तथापि समा­रो­पि­त­वि­श्वा­दि­रू­पेण प्रतिपन्नं तन्निषेधेन बोध्यते । तदनिषेधे तस्य यथावदप्रथनात् ।

अतो न निषे­धा­न­र्थ­क्य­मिति परिहरति –
न, सर्पादीति ।
तुरीयस्य पाद­त्र­य­वि­ल­क्ष­ण­स्या­र्था­देव सिद्धावपि जीवात्मनः स्थान­त्र­य­वि­शि­ष्टस्य तुरीयं ब्रह्म­स्व­रू­प­मिति नोपदेशमन्तरेण सिद्ध्यतीति तुरी­य­ग्र­न्थोऽ­र्थ­वा­नि­त्यर्थः।

यथा विधिमुखेन प्रवृत्तेन तत्त्वमसीति वाक्येन स्थान­त्र­य­सा­क्षि­ण­स्त्वं­प­द­ल­क्ष्यस्य तत्प­द­क्ष्य­ब्र­ह्मता लक्षणया बोध्यते, तथा निषे­ध­शा­स्त्रे­णापि तात्प­र्य­वृत्त्या जीवस्य तुरीयब्रह्मत्वं प्रतिपादयितुं दृष्टान्तमाह –
तत्त्वमसीति ।
ननु स्थान­त्र­य­वि­शि­ष्ट­स्याऽऽ­त्मनो नैव तुरीयात्मत्वं तुरीयग्रन्थेन प्रतिपाद्यते ।

तुरीयस्य विशि­ष्टा­द्वि­ल­क्ष­ण­त्वे­ना­त्या­न्त­भि­न्न­त्वात्, तत्राऽऽह –
यदि हीति ।
प्राति­भा­सि­क­वै­ल­क्ष­ण्येऽपि विशि­ष्टो­प­ल­क्ष्य­यो­रा­त्य­न्ति­क­वै­ल­क्ष­ण्या­भा­वान्न तात्त्विकं तुरीयस्य विशि­ष्टा­द­न्य­त्वम् । अन्य­थाऽ­त्य­न्त­भि­न्न­यो­र्मिथः संस्प­र्श­वि­र­हि­णो­रु­पा­यो­पे­य­भा­वा­यो­गात् तुरीयप्रतिपत्तौ विशिष्टस्य द्वार­त्वा­भा­वा­द­न्यस्य च तत्प्र­ति­प­त्ति­द्वा­र­स्या­द­र्श­नात् तुरी­या­प्र­ति­प­त्ति­रेव स्यादित्यर्थः ।

शास्त्रात् तत्प्रतिपत्तिः स्यादिति चेन्नेत्याह –
शास्त्रेति ।
तद् विशि­ष्ट­रू­प­म­नूद्य विशेषणांशापोहेन तस्य तुरी­य­त्व­मु­प­दि­शति । भेदे चाऽऽत्यन्तिके तदानर्थक्यान्न शास्त्रात् तत्प्र­ति­प­त्ति­रि­त्यर्थः ।

मा तर्हि तुरी­य­प्र­ति­प­त्ति­र्भू­दिति चेत्, तत्राऽऽह –
शून्येति ।
विशिष्टयैव प्रतिपत्त्या तुरी­य­स्या­प्र­ति­पत्तौ प्रतिपन्नस्य विश्वा­दे­र्वि­शि­ष्टस्य प्रत्यु­द­स्त­त्वा­द­न्यस्य चाप्र­ति­प­न्न­त्वा­न्नै­रा­त्म्य­धी­रे­वाऽऽ­प­द्ये­ते­त्यर्थः । भेदपक्षश्चेद् यथोक्तदोषवशान्न सम्भवति, तर्हि मा भूत् ।

अभेदपक्षोऽपि कथं निर्वहतीति चेत्, तत्र किं फलं पर्यनुयुज्यते किं वा प्रमाणान्तरमथ वा साधनान्तरमिति विकल्प्याऽऽद्यं दूषयति –
रज्जुरिवेति ।
यथा रज्जु­र­धि­ष्ठा­न­भूता सर्प­धा­रा­दि­भि­र्वि­क­ल्प्यते तथैक एवाऽऽत्मा स्थानत्रयेऽपि यदाऽ­न्तः­प्र­ज्ञ­त्वा­दिना विकल्प्यमानो बहुधा भासते तदा तद­नु­वा­दे­ना­न्तः­प्र­ज्ञ­त्वा­दि­प्र­ति­षे­ध­ज­नितं यत्प्र­मा­ण­रू­प­वि­ज्ञानं तदु­त्प­त्ति­स­मा­न­का­ल­मे­वाऽऽ­त्म­न्य­न­र्थ­नि­वृ­त्ति­रूपं फलं सिद्धमिति न फल­प­र्य­नु­यो­गोऽ­व­का­श­वा­नि­त्यर्थः ।

शब्दस्य संसृ­ष्ट­प­रो­क्ष­ज्ञा­न­हे­तो­र­सं­सृ­ष्टा­प­रो­क्ष­ज्ञा­न­हे­तु­त्वा­यो­गात् तुरीयज्ञाने प्रमा­णा­न्त­र­मे­ष्ट­व्य­मिति पक्षं प्रत्याह –
तुरीयेति ।
तस्य हि साक्षात्कारे न शब्दातिरिक्तं प्रमा­ण­म­न्वे­ष्यम् । शब्दस्य विषयानुसारेण प्रमाहेतुत्वात् । विषयस्य तुरी­य­स्या­सं­सृ­ष्टा­प­रो­क्ष­त्वा­दि­त्यर्थः ।

तुरी­य­सा­क्षा­त्कारे प्रसंख्यानाख्यं साध­ना­न्त­र­मे­ष्ट­व्य­मिति पक्षं प्रतिक्षिपति –
साधनान्तरं वेति ।
प्रसं­ख्या­न­स्या­प्र­मा­ण­त्वान्न प्रमा­रू­प­सा­क्षा­त्कारं प्रति हेतुतेति भावः ।

यथा रज्जुरियं सर्पो नेति विवे­क­धी­स­मु­द­य­द­शा­या­मेव रज्ज्वां सर्पनिवृत्तिफले सिद्धे रज्जु­सा­क्षा­त्का­रस्य फलान्तरं प्रमाणान्तरं साधनान्तरं वा न मृग्यते क्लृप्त­त्वा­त्त­थे­हा­पी­त्याह –
रज्ज्विति ।

विषयगतं प्राकट्यं प्रमाणफलं नाध्य­स्त­नि­वृ­त्ति­रि­त्या­श­ङ्क्याऽऽह –
योषामिति ।
स्ववि­ष­या­ज्ञा­ना­प­न­य­नाय प्रवृत्ता प्रमाणक्रिया स्वविषये भाव­रू­प­म­ति­श­य­मा­धत्ते चेद­प­न­या­र्थ­क्रि­या­त्वा­वि­शे­षा­च्छि­दि­रपि च्छेद्य­सं­यो­गा­प­न­य­ना­ति­रि­क्त­म­ति­श­य­मा­द­ध्यात् । न च संयो­ग­वि­ना­शा­ति­रिक्ते विभागे सम्प्र­ति­प­त्ति­रस्ति । प्राकट्यस्य च प्रकाशत्वे ज्ञान­व­न्ना­र्थ­नि­ष्ठ­त्व­म­प्र­का­शत्वे तेनार्थेन नार्थोऽस्तीति भावः ।

अज्ञा­न­नि­व­र्त­क­मेव प्रमाणमिति पक्षे विषयस्फुरणे कार­णा­भा­वा­द्वि­ष­य­सं­वे­दनं न स्यादि­त्या­श­ङ्क्याऽऽह –
यदेति ।
घटो हि तमसा समावृतो व्यव­हा­रा­यो­ग्य­स्ति­ष्ठति, तस्य तमसो निष्क्रम्य व्यव­हा­र­यो­ग्य­त्वा­पा­दने प्रत्य­क्षा­दि­प्र­माणं प्रवर्तते । तच्चा­नु­पा­दि­त्सि­त­स्या­नि­ष्ट­स्या­प्र­मे­यस्य तमसो निवृत्तिलक्षणे यदा पर्यवस्यति तदा घट­सं­वे­द­न­मा­र्थिकं प्रमाणफलं न भवति । यथा छिदिक्रिया छेद्यस्य तरोरवयवयोर्मिथः संयोगनिरसने प्रवृत्ता सती तयोरेव च्छेद्या­व­य­व­यो­र्दै­धी­भावे फले पर्यवस्यति, न त्वन्य­त­रा­व­य­वेऽपि च्छिदि­र्व्या­प्रि­यते । तथेहापि तमोनिवृत्तौ प्रमाणं निर्वृणोति घटस्फुरणं त्वार्थिकम् । न च तस्य स्थायि­त्व­म­भि­व्य­ञ्ज­क­प्र­मा­तृ­व्या­पा­र­स्या­स्थि­र­त्वा­दि­त्यर्थः ।

किं च घटादेर्जडस्य संवि­द­पे­क्ष­त्वात् तत्र संविदो मानफलत्वेऽपि नाऽऽत्मन्यजडे संविदेकताने मान­स्याऽऽ­रो­पि­त­ध­र्म­नि­व­र्त­क­त्व­म­न्त­रेण संवि­ज्ज­न­क­त्व­व्या­पारः सम्भवतीत्याह –
न चेति ।
तुरीयात्मनि संवे­द­न­ज­न­न­व्या­पारो न प्रमाणस्य प्रकल्प्यते । तस्य संवि­दा­त्म­क­त्वा­दा­रो­पि­त­नि­वृ­त्ति­व्य­ति­रे­केण मान­ज­न्य­फ­ल­सं­वि­द­न­पे­क्ष­त्वा­दि­त्यु­क्तम् ।

तत्रैव हेत्वन्तरमाह –
अन्तः­प्र­ज्ञ­त्वा­दीति ।

आश्र­या­भा­वे­नाऽऽ­श्रि­त­प्र­मा­णा­भा­वा­द­न­न्त­र­क्षणे तस्य व्यापा­रा­नु­प­प­त्ति­रि­त्यत्र वाक्य­शे­ष­म­नु­कू­ल­यति –
तथा चेति ।
किं च ज्ञाना­धी­न­द्वै­त­नि­वृ­त्त्य­व­च्छि­न्न­क्ष­णा­ति­रे­केण न क्षणान्तरे ज्ञानं स्थातुं पारयति, न चास्थिरं ज्ञानं व्यापाराय पर्याप्तम् ।

तथा च ज्ञानस्य द्वैत­नि­वृ­त्ति­व्य­ति­रे­केण नाऽऽत्मनि व्यापा­रोऽ­स्ती­त्याह –
ज्ञानस्येति ।
ननु ज्ञानं द्वैतनिवर्तकमपि न स्वात्मानं निवर्तयति । निव­र्त्य­नि­व­र्त­क­भा­व­स्यै­कत्र विरोधात् ।

अतो यावन्निवर्तकं स्थास्यति, तत्राऽऽह –
अवस्थाने चेति ।
निवर्तकस्य ज्ञानस्य द्वैत­नि­वृ­त्ते­र­न­न्त­र­मपि निव­र्त­का­न्त­र­म­पे­क्ष्या­व­स्थाने च तस्य तस्य निव­र्त­का­न्त­र­स­व्य­पे­क्ष­त्वा­दा­द्य­स्यापि विज्ञानस्य निव­र्त­क­त्वा­सिद्धिः । न च ज्ञानस्य स्वनि­व­र्त­क­त्वा­नु­प­पत्तिः स्वपरविरोधिनां भावानां बहु­ल­मु­प­ल­म्भा­दि­त्यर्थः ।

ज्ञानस्य जन्मा­ति­रि­क्त­व्या­पा­रा­भा­वात् तज्जन्मनश्च द्वैत­नि­षे­धे­नै­वो­प­क्ष­यात् क्षणान्तरे विष­य­स्फु­र­ण­ज­न­ना­या­न­व­स्था­ना­दा­रो­पि­ता­त­द्ध­र्म­नि­वृ­त्त्यैव ज्ञानं पर्य­व­सि­त­मि­त्यु­प­सं­ह­रति –
तस्मादिति ।
प्रतिषेधजनितं विज्ञानमेव प्रमाणम् । तस्य व्यापारो जन्मैव । तेन समा­न­का­लै­वा­न­र्थ­नि­वृ­त्ति­रिति योजना ।

तत्र हेतुमाह –
बीजभावेति ।
सुषुप्तं हि स्वप्नजागरिते प्रति बीज­भा­व­स्त­स्या­शे­ष­वि­शे­ष­वि­ज्ञा­ना­भा­व­रू­प­त्वाद् विशे­ष­वि­ज्ञा­नानां सर्वेषां धनमेकं साधारणमविभक्तं सुषुप्तमिति तत्प्रतिषेधो नेत्यादिना सम्भवतीत्यर्थः । युक्तं सर्पादीनां रज्ज्वादौ भ्रान्ति­प्र­ति­प­न्नानां प्रति­षे­धा­द­स­त्त्वम् ।

आत्मनि तु प्रमाणेन गम्य­मा­ना­ना­म­न्तः­प्र­ज्ञ­त्वा­दीनां न प्रतिषेधो युज्यते मानविरोधादिति शङ्कते –
कथमिति ।

प्रामा­णि­क­त्व­स्या­सि­द्ध­त्वाद् युक्त­म­न्तः­प्र­ज्ञ­त्वा­दि­ना­म­स­त्य­त्व­मिति परिहरति –
उच्यत इति ।

विमतमसत्यं व्यभिचारित्वात् संप्र­ति­प­न्न­व­दि­त्याह –
ज्ञस्वरूपेति ।
तस्या­वि­शे­षोऽ­व्य­भि­चा­र­स्तत्र रज्ज्वा­दा­वि­वे­त्यु­दा­ह­र­णम् । अन्तः प्रज्ञ­त्वा­दी­ना­मि­त­रे­त­र­व्य­भि­चारे निदर्शनं सर्पधारादीति ।

विमतं सत्य­म­व्य­भि­चा­रि­त्वा­द्र­ज्ज्वा­दि­व­दि­त्याह –
सर्वत्रेति ।
तस्य च सत्यत्वे सर्व­क­ल्प­ना­धि­ष्ठा­न­त्व­सि­द्धि­रिति भावः ।

अव्य­भि­चा­रि­त्व­हे­तो­र­सिद्धिं शङ्कते –
सुषुप्त इति ।

न तत्र चैतन्यस्य व्यभिचारः सुषुप्तस्य स्फुर­ण­व्या­प्त­तया साध­क­स्फु­र­ण­स्या­व­श्य­क­त्वा­दि­त्याह –
न सुषुप्तस्येति ।

सुषुप्ते साधकस्फुरणस्य सत्त्वे प्रमाणमाह –
न हीति ।

निषे­ध­शा­स्त्रा­लो­च­नया निर्विशेषत्वं तुरीयस्योक्तम्, तदेव हेतूकृत्य ज्ञाने­न्द्रि­या­वि­ष­य­त्व­माह –
अत एवेति ।

दृष्ट­स्यै­वा­र्थ­क्रि­या­द­र्श­ना­द­दृ­ष्ट­त्वा­द­र्थ­क्रि­या­रा­हि­त्य­मिति विशेषणान्तरमाह –
यस्मादिति ।

अदृ­ष्ट­मि­त्य­ने­ना­ग्र­ह्य­मि­त्यस्य पौनरुक्त्यं परिहरति –
कर्मे­न्द्रि­यै­रिति ।

अल­क्ष­ण­मि­त्य­यु­क्तम् ‘सत्यं ज्ञानमनन्तम्’(तै. उ. २ । १ । १) इत्या­दि­ल­क्ष­णो­प­ल­म्भा­दि­त्या­श­ङ्क्याऽऽह –
अलिङ्गमिति ।

‘को ह्येवान्यात् कः प्राण्यात्’(तै. उ. २ । ७ । १) इत्या­दि­लि­ङ्गो­प­न्या­स­वि­रु­द्ध­मे­त­दि­त्या­श­ङ्क्याऽऽह –
अननुमेयमिति ।

प्रत्य­क्षा­नु­मा­ना­वि­ष­य­त्व­प्र­युक्तं विशेषणान्तरमाह –
अत एवेति ।

मनो­वि­ष­य­त्वा­भा­वा­देव शब्दाविषयत्वं, शब्द­प्र­वृ­त्ते­स्त­त्प्र­वृ­त्ति­पू­र्व­क­त्वा­दि­त्याह –
अत एवेति ।

तर्हि यथोक्तं वस्तु नास्त्येव प्रमा­णा­भा­वा­दि­त्या­श­ङ्क्याऽऽह –
एकात्मेति ।

परो­क्षा­र्थ­वि­ष­य­तया विशेषणं व्याख्या­या­प­रो­क्षा­र्थ­त­याऽपि व्याकरोति –
अथ वेति ।

अप­रो­क्षा­त्म­प्र­त्य­य­स्याऽऽ­त्मनि प्रमाणत्वे बृह­दा­र­ण्य­क­श्रु­ति­मु­दा­ह­रति –
आत्मेत्येवेति ।
‘यच्चाप्नोति’ इत्यादिना परि­पू­र्ण­त्वा­दि­ल­क्ष­ण­स्ता­व­दा­त्मोक्तः । स च वाङ्मनसातीतः श्रुति­भ्योऽ­व­ग­त­स्त­मे­वै­क­रसं परमात्मानं प्रत्यक्त्वेन गृहीत्वा तन्नि­ष्ठ­स्ति­ष्ठ­ती­त्या­त्म­नोऽ­व­स्था­त्र­या­ती­तस्य तुरी­य­स्या­प­रो­क्ष­नि­त्य­दृ­ष्टित्वं श्रुतितो दृष्टमित्यर्थः ।

विशेषणान्तरस्य पुनरुक्तिं परि­ह­र­न्न­र्थ­भे­द­माह –
अन्तरिति ।
स्थानिधर्मस्य स्थानधर्मस्य च प्रति­षे­धोऽ­न्तः­श­ब्देन परामृश्यते । शान्तं राग­द्वे­षा­दि­र­हि­त­म­वि­क्रियं कूटस्थमित्यर्थः । शिवं परिशुद्धं पर­मा­न­न्द­बो­ध­रू­प­मिति यावत् ।

यस्माद् द्वैता­भा­वो­प­ल­क्षितं तस्मा­च्च­तु­र्थ­मि­त्याह–
यत इति ।

अद्वैतमित्येतद् व्याचष्टे –
भेदेति ।

सङ्ख्या­वि­शे­ष­वि­ष­य­त्वा­भावे कथं चतु­र्थ­त्व­मि­त्या­श­ङ्क्याऽऽह –
प्रतीयमानेति ।
चतु­र्थ­तु­री­य­यो­र्व्या­ख्या­न­व्या­ख्ये­य­त्वे­ना­पौ­न­रु­क्त्यम् ।

तस्यो­क्त­वि­शे­ष­ण­त्वेऽपि मम किमा­या­त­मि­त्या­श­ङ्क्याऽऽह –
स आत्मेति ।

आत्मनि यथोक्तविशेषणानि न प्रति­भा­न्ती­त्या­श­ङ्क्याऽऽह –
स विज्ञेय इति।

तदेव व्याचष्टे –
प्रतीयमानेति।

‘न हि द्रष्टु­र्दृ­ष्टे­र्वि­प­रि­लोपो विद्य­तेऽ­वि­ना­शि­त्वात्’(बृ. उ. ४ । ३ । २३) इत्यादिवाक्यानि प्रतीकोपादानेन दर्शयति –
न हि द्रष्टुरिति ।

आत्म­न्य­व्य­व­हार्ये कुतो विज्ञे­य­त्व­मि­त्या­शङ्क्य भूत­पू­र्व­म­वि­द्या­व­स्थायां या ज्ञेय­त्वा­ख्याऽ­व­ग­ति­स्त­ये­दा­नी­मपि विज्ञे­य­त्व­मु­क्त­मि­त्याह –
भूतेति ।

विद्या­व­स्था­या­मेव किमिति ज्ञातृ­ज्ञा­न­ज्ञे­य­वि­भागो न भवति, तत्राऽऽह –
ज्ञात इति ।
ज्ञानेन तत्का­र­ण­स्या­ज्ञा­न­स्या­प­नी­त­त्वा­दि­त्यर्थः ॥७॥

नान्तः­प्र­ज्ञ­मि­त्या­दि­श्रु­त्यु­क्तेऽर्थे तद्वि­व­र­ण­रू­पा­ञ्श्लो­का­न­व­ता­र­यति –
अत्रेति ।
विविधं स्थान­त्र­य­म­स्मा­द्भ­व­तीति व्युप्तत्त्या तुरीयो विभुरुच्यते । न हि तुरीयातिरेकेण स्थान­त्र­य­मा­त्मानं धारयति । सर्व­दुः­खा­ना­मा­ध्या­त्मि­का­दि­भे­द­भि­न्नानां तद्धेतूनां तदाधाराणामिति यावत् ।

ईशानपदं प्रयुज्य प्रभुपदं प्रयुञ्जानस्य पौन­रु­क्त्य­मि­त्या­श­ङ्क्याऽऽह –
ईशान इति ।

तुरीयस्य दुःखनिवृत्तिं प्रति सामर्थ्यस्य नित्यत्वान्न कदाचिदपि दुःखं स्यादि­त्या­श­ङ्क्याऽऽह –
तद्विज्ञानेति ।

संसृष्टरूपेण व्ययोऽ­स्ती­त्या­शङ्क्य विशिनष्टि –
स्वरूपादिति ।

तत्र प्रश्न­पू­र्व­क­म­द्वि­ती­यत्वं हेतुमाह –
एतत् कुत इति ।
अतो द्वितीयस्य व्यय­हे­तो­र­भा­वा­दिति शेषः ।

विश्वादीनां दृश्यमानत्वात् तुरी­य­स्या­द्वि­ती­य­त्वा­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह –
सर्वभावानामिति ।

अव­स्था­त्र­या­ती­तस्य तुरी­य­स्यो­क्त­ल­क्ष­णत्वं विद्व­द­नु­भ­व­सि­द्ध­मिति सूचयति –
स्मृत इति ॥१०॥

विश्वा­दि­ष्व­वा­न्त­र­वि­शे­ष­नि­रू­प­ण­द्वा­रेण तुरीयमेव निर्धारयति –
कार्येति ।

श्लोकस्य तात्पर्यमाह –
विश्वादीनामिति ।
विश्व­तै­ज­स­यो­रु­भ­य­ब­द्धत्वं सामान्यं, प्राज्ञस्य कार­ण­मा­त्र­ब­द्धत्वं विशेषः ।

अथेदं निरूपणं कुत्रोपयुज्यते ? तत्राऽऽह –
तुर्येति ।

प्राज्ञस्य कार­ण­मा­त्र­ब­द्धत्वं साधयति –
तत्त्वा­प्र­ति­बो­धेति ।

त्रया­णा­म­वा­न्त­र­वि­शेषे स्थिते प्रकृतेतुरीये किमा­या­त­मि­त्या­श­ङ्क्याऽऽह –
तत इति ।

तयो­स्त­स्मि­न्न­वि­द्य­मा­नत्वं चिदेकताने तयो­र्नि­रू­प­यि­तु­म­श­क्य­त्वा­दि­त्याह –
न सम्भवत इति ॥११॥

प्राज्ञस्य कारणबद्धत्वं साधयति –
नाऽऽत्मानमिति ।

तुरीयस्य कार्य­का­र­णा­भ्या­म­सं­स्पृ­ष्टत्वं स्पष्टयति –
तुर्यमिति ।

श्लोक­व्या­व­र्त्या­मा­श­ङ्का­माह –
कथमिति ।
वाशब्दात् कथ­मि­त्य­स्या­नु­वृत्तिः सूच्यते ।

प्रथ­म­चो­द्यो­त्त­र­त्वेन पादत्रयं व्याचष्टे –
यस्मादिति ।
विल­क्ष­ण­म­ना­त्मा­न­मिति यावत् । अनृतमित्यस्य व्याख्या­न­म­वि­द्या­बी­ज­प्र­सू­त­मिति । द्वैतं द्विती­य­म­स­त्य­मि­त्यर्थः ।

वैधम्योदाहरणम् –
यथेति ।

प्राज्ञस्य विभा­ग­वि­ज्ञा­ना­भावे फलमाह –
ततश्चेति ।

यथोक्ते तमसि कार्य­लि­ङ्ग­म­नु­मानं सूचयति –
अन्यथेति ।

द्वितीयं चोद्यं चतु­र्थ­पा­द­व्या­ख्या­नेन प्रत्याख्याति –
यस्मादित्यादिना ।
सदैव तुरी­या­द­न्य­स्या­भा­वात् तुरीयमेव सर्वं तच्च सदा दृग्रूपमिति यस्मात् तस्मादिति योजना । तत्रेति परिपूर्णं चिदेकतानं तुरीयं परामृश्यते ।

अत एवेति ।
कारणाभावे कार्या­नु­प­प­त्ते­रि­त्यर्थः ।

तुरीये तत्त्वा­ग्र­ह­णा­न्य­था­ग्र­ह­ण­यो­र­स­म्भवं दृष्टान्तेन साधयति –
न हीति ।

यत्तु तुरीयस्य सदा दृगा­त्म­त्व­मुक्तं तत्र प्रमाणमाह –
न हि द्रष्टुरिति ।

चतुर्थपादं प्रकारान्तरेण योजयति –
अथ वेति ।

तत्रापि श्रुतिमनुकूलयति –
नान्यदिति ॥१२॥

अनु­मा­न­प्र­युक्तां तुरीयेऽपि कार­ण­ब­द्ध­त्वा­शङ्कां परिहरति –
द्वैतस्येति ।

श्लोकस्य तात्पर्यं गृह्णाति –
निमित्तान्तरेति ।

विमतं कारणबद्धं द्वैता­ग्र­ह­ण­व­त्त्वात् प्राज्ञ­व­दि­त्य­नु­मा­न­मेव दर्श­य­न्नि­मि­त्ता­न्त­र­मेव स्फोरयति –
कथमिति ।

अनु­मा­न­कृ­ता­श­ङ्का­नि­व­र्त­क­त्वेन श्लोकमवतारयति –
प्राप्तेति ।
प्राज्ञ­स्यो­त्त­र­भा­वि­प्र­बो­धा­दि­का­र्या­पे­क्षया निय­त­पू­र्व­भा­वित्वं कार­ण­ब­द्ध­त्व­प्र­यो­ज­कम् ।

न च तुरीयस्य तद­स्ती­त्य­प्र­यो­जको हेतुरित्याह –
यस्मादिति ।

किं च तुरीयस्य विशु­द्ध­चि­द्धा­तु­त्व­प्र­सा­ध­न­प्र­मा­ण­बा­धात् काला­त्य­या­प­दिष्टो हेतुरित्याह –
सदेति ।

न च पूर्वोक्तोपाधेः साध­न­व्या­प्ति­स्तु­री­य­स्यो­त्त­र­भा­वि­का­र्या­पे­क्षया निय­त­प्रा­ग्भा­वि­त्वा­भा­वा­दिति मत्वाऽऽह –
तत्त्वेति ।

दोष­द्व­य­व­त्त्वे­ना­नु­मा­न­स्या­मा­नत्वे फलितमाह –
अतो नेति ॥१३॥

कार्यकारणबद्धौ तावि­त्या­दि­श्लो­को­क्त­म­र्थ­म­नु­भ­वा­व­ष्ट­म्भेन प्रपञ्जयति –
स्वप्नेति ।
ननु तैजसस्यैव स्वप्नयुक्तत्वं युक्तं न तु विश्वस्य प्रबु­द्ध्य­मा­नस्य तद्योगो युज्यते प्रबु­ध्य­मा­न­त्वा­व्या­घा­तात् । कथमविशेषेण विश्वतैजसौ स्वप्न­नि­द्रा­यु­ता­विति ।

तत्र स्वप्न­श­ब्दा­र्थ­माह –
स्वप्न इति ।
यथा रज्ज्वां सर्पो गृह्यमाणोऽन्यथा गृह्यते तथाऽऽत्मनि देहा­दि­ग्र­ह­ण­म­न्य­था­ग्र­ह­णम् । आत्मनो देहा­दि­वै­ल­क्ष­ण्यस्य श्रुति­यु­क्ति­सि­द्ध­त्वात्, तेन स्वप्न­श­ब्दि­ते­ना­न्य­था­ग्र­ह­णेन संसृष्टत्वं विश्व­तै­ज­स­यो­र­वि­शि­ष्ट­मि­त्यर्थः ।

तथा निद्राणस्यैव निद्रा युक्ता न तु प्रबोधवतो विश्व­स्ये­त्या­श­ङ्क्याऽऽह –
निद्रेति ।

उक्ताभ्यां स्वप्न­नि­द्राभ्यां विश्व­तै­ज­स­यो­र्वै­शिष्ट्यं निगमयति –
ताभ्यामिति ।

तयो­र­न्य­था­ग्र­ह­णेन अग्रहणेन च वैशिष्ट्यं प्रागपि सूचि­त­मि­त्या­श­ङ्क्याऽऽह –
अत इति ।

द्वितीयं पादं विभजते –
प्राज्ञस्त्विति ।

द्वितीयार्धं व्याचष्टे –
नोभयमिति ।

तुरीये निद्रा­स्व­प्न­यो­र­द­र्शने हेतुमाह –
विरुद्धत्वादिति ।

अज्ञा­न­त­त्का­र्य­यो­र्नि­त्य­वि­ज्ञ­प्ति­रूपे तुरीये विरु­द्ध­त्वा­द­नु­प­ल­ब्धि­रि­त्यत्र दृष्टान्तमाह –
सवितरीवेति ।

तुरीये वस्तुतो नावि­द्या­त­त्का­र्ययोः सङ्ग­ति­र­स्ती­त्य­ङ्गी­कृत्य प्रागपि सूचितमित्याह –
अतो नेति ॥१४॥

कदा तर्हि स्वप्नो भव­ती­त्य­पे­क्षा­या­माह –
अन्यथेति ।

निद्रा तर्हि कदेति सन्दिहानं प्रत्याह –
निद्रेति ।

तुरी­य­प्र­ति­प­त्ति­स­मयं सङ्गिरते –
विपर्यास इति ।

श्लोक­व्या­व­र्त्या­मा­काङ्क्षां दर्शयति –
कदेति ।
कदा स्वप्ननिष्ठो भवति, कदा निद्रानिष्ठः स्यादित्यपि द्रष्टव्यम् ।

प्रश्न­त्र­य­स्यो­त्तरं श्लोकेन दर्शयति –
उच्यत इति ।

तत्र कदा स्वप्नो भवतीति प्रश्नं परिहरति –
स्वप्नेति ।
अवस्थाद्वये स्वप्न­द्र­ष्टु­रि­त्यर्थः ।

द्वितीयं प्रश्नं समाधत्ते –
निद्रेति।

विश्वादिषु त्रिषु तयोरिति द्विवचनं कथ­मि­त्या­श­ङ्क्याऽऽह –
स्वप्न­नि­द्र­यो­रिति ।
विश्वतैजसावेको राशिः । प्राज्ञो द्वितीयः । ततः श्लोके द्विव­च­न­म­वि­रु­द्ध­मि­त्यर्थः ।

प्रथमे राशौ विपर्यासस्वरूपं कथयति –
अन्यथेति ।

द्वितीये राशौ विपर्यासविशेषं दर्शयति –
तृतीये त्विति ।

द्विती­या­र्ध­ग­ता­न्य­क्ष­राणि व्याकरोति –
अत इति ।
द्विव­च­न­स्यो­प­प­न्न­त्वाद् विपर्यासस्य च विभागेन निर्धा­रि­त­त्वा­दि­त्यर्थः ।

तृतीयं प्रश्नं प्रतिविधत्ते –
तदेति ।
तत्त्व­प्र­बो­धा­द्वि­प­र्या­स­क्ष­या­व­स्था­या­मि­त्यर्थः ॥१५॥

कदा तत्त्वप्रतिबोधो विप­र्या­स­क्ष­य­हे­तु­र्भ­व­ती­त्य­पे­क्षा­या­माह –
अनादीति ।

प्रति­बु­द्ध्य­मानं तत्त्वमेव विशिनष्टि –
अजमिति ।

जीव­श­ब्द­वा­च्य­मर्थं निर्दिशति –
योऽयमिति ।
परमात्मैव जीवभावमापन्नः संसरतीत्यर्थः ।

तस्य कथं जीव­भा­वा­प­त्ति­रि­त्या­शङ्क्य कार्य­क­र­ण­ब­द्ध­त्वा­दि­त्याह –
स इति ।
पर­मा­त्मो­भ­य­ल­क्ष­णेन स्वापेन सुप्तो जीवो भवतीत्यन्वयः।

स्वाप­स्यो­भ­य­ल­क्ष­ण­त्व­मेव प्रकटयति –
तत्त्वेत्यादिना ।
माया­ल­क्ष­णे­ने­त्यु­भ­यत्र सम्बध्यते ।

सुप्तमेव व्यनक्ति –
ममेत्यादिना ।

स्वाप­प­रि­गृ­ही­त­स्यैव प्रतिबोधनावकाशो भवतीत्याह –
यदेति ।
यदा सुषुप्तस्तदा बुध्यत इति शेषः ।

प्रतिबोधकं विशिनष्टि –
वेदान्तार्थेति ।

कथं प्रतिबोधनं, तदाह –
नासीति ।
अनु­भू­य­मा­न­त्व­मे­व­मि­त्यु­च्यते । यदोक्तविशेषणेन गुरुणा प्रतिबोध्यमानः शिष्य­स्त­दाऽ­सा­वेवं वक्ष्य­मा­ण­प्र­का­रेण प्रतिबुद्धो भवतीत्युक्तम् ।

तमेव प्रकारं प्रश्नपूर्वकं द्विती­या­र्ध­व्या­ख्या­नेन विशदयति –
कथमित्यादिना ।
अस्मिन्निति सप्तम्या बोध्यात्मरूपं परामृश्यते । बाह्यं कार्यमान्तरं कारणं तच्चोभयमिह नास्ति । ततो जन्मा­दे­र्भा­व­वि­का­रस्य नात्रावकाशः सम्भवतीत्यर्थः ।

अवतारितं विशेषणं सप्रमाणं योजयति –
सबाह्येति ।

अज­त्वा­दे­वा­निद्रं कार्याभावे कारणस्य प्रमाणाभावेन वक्तु­म­श­क्य­त्वा­दिति मत्वाऽऽह –
यस्मादिति ।

अनिद्रत्वं हेतुं कृत्वा विशेषणान्तरं दर्शयति –
अत एवेति ।

अग्र­ह­णा­न्य­था­ग्र­ह­ण­स­म्ब­न्ध­वै­धुर्यं हेतुं कृत्वा विशे­ष­ण­द्व­य­मि­त्याह –
यस्माच्चेति ।

तत्त्व­मे­वं­ल­क्ष­ण­मस्तु, आत्मनः किमा­या­त­मि­त्या­श­ङ्क्याऽऽह –
??
तदा विशि­ष्टे­नाऽऽ­चा­र्येण विशिष्टं शिष्यं प्रति बोध­ना­व­स्था­या­मि­त्यर्थः ॥१६॥

तुरी­य­म­द्वै­त­मि­त्युक्तं तदयुक्तं प्रपञ्चस्य द्वितीयस्य सत्त्वा­दि­त्या­श­ङ्क्याऽऽह –
प्रपञ्च इति ।

प्रप­ञ्च­नि­वृत्त्या तुरी­य­प्र­ति­बो­धा­त्त­द­द्वि­ती­य­त्व­म­वि­रु­द्ध­मिति सैद्धा­न्ति­की­मा­शङ्कां पूर्व­वा­द्य­नु­व­दति –
प्रपञ्चेति ।

तर्हि पूर्वं प्रप­ञ्च­नि­वृ­त्ते­र­नि­वृ­त्तस्य तस्य सत्त्वा­न्ना­द्वैतं सेद्धुमर्हतीति पूर्ववाद्येव ब्रवीति –
अनिवृत्त इति ।

सिद्धान्ती श्लोकेनोत्तरमाह –
उच्यत इति ।

किं प्रपञ्चस्य वस्तु­त्व­मु­पे­त्या­द्वै­ता­नु­प­प­त्ति­रु­च्यते, किं वाऽवस्तुत्वमिति विक­ल्प्याऽऽ­द्येऽ­द्वै­ता­नु­प­प­त्ति­म­ङ्गी­का­रोति –
सत्यमिति ।

अद्वैतं तर्हि कथ­मु­प­प­द्ये­ते­त्या­शङ्क्य प्रप­ञ्च­स्या­व­स्तु­त्व­पक्षे तदु­प­प­त्ति­रि­त्याह –
रज्ज्वामिति ।
यथा सर्पो रज्ज्वां कल्पितो वस्तुतो नास्ति तथा प्रपञ्चोऽपि कल्पितत्वान्नैव वस्तुतो विद्यते । तथा च तात्त्वि­क­म­द्वै­त­म­वि­रु­द्ध­मि­त्यर्थः ।

उक्तमर्थं व्यतिरेकमुखेन साधयति –
विद्य­मा­न­श्चे­दिति ।
यद्यात्मनि कारणाधीनः सन् प्रपञ्चो विद्येत तदा कृत­क­स्या­नि­त्य­त्व­नि­य­मा­त्त­न्नि­वृ­त्ति­र­व­श्य­म्भा­विनी । कार्यस्य च निवृत्तिर्नाम कारणसंसर्गस्ततः सति कारणे प्रप­ञ्च­नि­वृ­त्ते­र­ना­त्य­न्ति­क­त्वा­द­द्वै­ता­नु­प­प­त्ति­रा­श­ङ्क्येत । न च कारणाधीनः सन् प्रपञ्चोऽस्ति । तस्य कल्पि­त­त्वे­ना­व­स्तु­त्वा­दि­त्यर्थः ।

प्रपञ्चस्य मायया विद्यमानत्वं न तु वस्तु­त्व­मि­त्यु­दा­ह­र­णा­भ्या­मु­प­पा­द­यति –
न हीत्यादिना ।
सर्पो हि रज्ज्वां भ्रान्त्या कल्पितो नायं सर्पो रज्जुरेष एवेति विवेकधिया निवृत्तो नैव वस्तुतो विद्यते । बाधितस्य कालत्रयेऽपि सत्त्वाभावात् । माया चेन्द्र­जा­ल­श­ब्द­वाच्या मायाविना प्रदर्शिता पार्श्वस्थानां मायादर्शनवतां चक्षुर्गतस्य यथा­र्थ­द­र्श­न­प्र­ति­ब­न्ध­क­स्या­प­गमे सति समु­त्प­न्न­स­म्य­ग्द­र्श­नतो निवृत्ता सती नैव वस्तुतो विद्यमान भवितुमुत्सहते । यथे­ह­मु­दा­ह­र­ण­द्वयं तथेदं द्वैतं प्रपञ्चाख्यं मायामात्रं न पर­मा­र्थ­तोऽ­स्ती­त्यर्थः ।

प्रप­ञ्च­स्या­सत्त्वे शून्यवादः स्यादि­त्या­श­ङ्क्याऽऽह –
रज्जुवदिति ।

प्रपञ्चस्य कालत्रयेऽपि सत्त्वाभावे तात्त्वि­क­म­द्वै­त­म­वि­रु­द्ध­मि­त्यु­प­सं­ह­रति –
तस्मादिति ॥१७॥

प्रका­रा­न्त­रे­णा­द्वै­ता­नु­प­प­त्ति­मा­शङ्क्य परिहरति –
विकल्प इति ।
यदि केनचिद्धेतुना तत्त्वज्ञानेन कार्येण शास्त्रा­दि­वि­कल्पो हेतुतया विक­ल्पि­त­स्त­थाऽ­प्यसौ बाधितो निवर्तेत, न तु तात्त्वि­क­म­द्वैतं विरोद्धुमर्हति । तत्त्व­ज्ञा­ना­त्प्रा­ग­व­स्था­या­मेव तत्त्वोपदेशं निमित्तीकृत्य यतः शास्त्रा­दि­भे­दोऽ­नू­द्यते, उपदेशप्रयुक्ते तु ज्ञाने निवृत्ते न किञ्चिदपि द्वैत­म­स्ती­त्य­द्वै­त­वि­रु­द्ध­मि­त्यर्थः ।

श्लोक­व्या­व­र्त्या­मा­श­ङ्का­माह –
नन्विति ।
तदनिवृत्तौ नाद्वै­त­सि­द्धिर्न च शास्त्रा­दि­भे­दस्य कल्पि­त­त्वा­द­वि­रोधः, तथा सति धूमा­भा­स­व­त्त­त्त्व­ज्ञा­न­हे­तु­त्वा­नु­प­प­त्ति­रि­त्यर्थः ।

धूमा­भा­स­स्या­व्या­प्त­स्या­त­द्धे­तु­त्वेऽपि कल्पितस्य शास्त्रा­दे­स्त­त्त्व­ज्ञा­न­हे­तुत्वं प्रति­बि­म्बा­दि­व­दु­प­प­न्न­मि­त्यु­त्त­र­माह –
उच्यत इति ।
शिष्यः शास्ता शास्त्रमित्ययं विकल्पो विभागः, सोऽपि निवृ­त्ति­प्र­ति­यो­गि­त्वा­द­व­स्तु­त्वा­ज्ञा­न­बा­ध्य­त्वा­द­द्वै­ता­वि­रो­धी­त्यर्थः ।

शिष्या­दि­वि­भा­गस्य कल्पितत्वं दृष्टान्तेन स्पष्टयति –
यथेति ।
मायाविना प्रयुक्ता माया यथा कल्पितेष्यते यथा च सर्प­धा­रा­दि­र्वि­क­ल्पि­त­स्त­थाऽयं प्रपञ्चः सर्वोऽपि कल्पितो वस्तु न भवतीति प्रपञ्चितम् । तथैव प्रपञ्चैकदेशः शिष्यादिरपि ज्ञाना­त्पा­क्क­ल्पितः सन्नज्ञानकृतो मिथ्येत्यर्थः ।

किमिति ज्ञाना­त्पू­र्व­मसौ कल्प्यते, तत्राऽऽह –
उपदेशेति ।

उपदेशमुद्दिश्य यथो­क्त­वि­भा­ग­व­च­न­मि­त्यु­क्त­मु­प­सं­ह­रति –
अत इति।

उपदेशात्प्रागिव तस्मादूर्ध्वमपि भेदोऽ­नु­व­र्त­ता­मि­त्या­शङ्क्य विरो­धि­स­द्भा­वा­न्मै­व­मि­त्याह –
उपदेशेति ॥१८॥

तत्त्व­ज्ञा­न­स­म­र्थानां मध्य­मा­ना­मु­त्त­मानां चाधि­का­रि­णा­म­ध्या­रो­पा­प­वा­दाभ्यां पारमार्थिकं तत्त्व­मु­प­दि­ष्टम् । इदानीं तत्त्व­ग्र­ह­णा­स­म­र्था­ना­म­ध­मा­धि­का­रि­णा­मा­ध्या­न­वि­धा­ना­याऽऽ­रो­प­दृ­ष्टि­मे­वा­व­ष्टभ्य व्याचष्टे –
अभिधेयेत्यादिना ।

अध्य­क्ष­र­मि­त्ये­तद् व्याकरोति –
अक्षरमिति ।

अध्य­क्ष­र­मि­त्यत्र किं पुनस्तदक्षरमिति प्रश्नपूर्वकं व्युत्पादयति –
किं पुनरित्यादिना ।

तस्य विशेषणान्तरं दर्शयति –
सोऽयमिति ।

आत्मा हि पादशो विभाज्यते; मात्रामधिकृत्य पुनरोङ्कारो व्यवतिष्ठते, तत्कथं पादशो विभ­ज्य­मा­न­स्या­धि­मा­त्र­त्व­मिति पृच्छति –
कथमिति ।

पादानां मात्राणां चैक­त्वा­दे­त­द­वि­रु­द्ध­मि­त्याह –
आत्मन इति ॥८॥

पादानां मात्राणां च मध्ये विश्वा­ख्य­वि­शे­ष­स्या­का­रा­ख्य­वि­शे­षत्वं निगमयति –
तत्रेति ।

विश्वा­का­र­यो­रे­कत्वं सादृश्ये सत्यारोपयितुं शक्यमन्यत्र सत्येव तस्मि­न्ना­रो­प­सं­द­र्श­नात्, तथा च किं तदारोपप्रयोजकं सादृश्यमिति पृच्छति –
केनेति ।

सामा­न्यो­प­न्या­स­परां श्रुतिमवतारयति –
आहेति ।

व्याप्ति­मे­वा­का­रस्य श्रुत्यु­प­न्या­सेन व्यनक्ति –
अकारेणेति ।

अध्या­त्मा­धि­दै­वि­क­यो­रे­कत्वं पूर्व­मु­क्त­मु­पेत्य विश्वस्य वैश्वानरस्य जगद्व्याप्तिं श्रुत्य­व­ष्ट­म्भेन स्पष्टयति –
तथेति ।

किं च सामान्यद्वारा वाच्य­वा­च­क­यो­रे­क­त्व­मा­रोप्यं न भवति, तयोरेकत्वस्य प्रागे­वो­क्त­त्वा­दि­त्याह –
अभिधानेति ।

सामान्यान्तरमाह –
आदिरिति ।

तदेव स्फुटयति –
यथैवेति ।
उकारो मका­र­श्चे­त्यु­भ­य­म­पेक्ष्य प्रथ­म­पा­ठा­दा­दि­म­त्त्व­म­का­रस्य द्रष्टव्यम् । विश्वस्य पुनरादिमत्त्वं तैज­स­प्रा­ज्ञा­व­पे­क्ष्याऽऽ­द्य­स्थाने वर्त­मा­न­त्वा­दि­त्यर्थः ।

उक्तस्य सामन्यान्तरस्य फलं दर्शयति –
तस्मादिति ।

किमर्थमित्थं सामान्यद्वारा तयो­रे­क­त्व­मु­च्यते ? तद्विज्ञानस्य फल­व­त्त्वा­दि­त्याह –
तदेकत्वेति ।
सादृ­श्य­वि­क­ल्पा­देव फलविकल्पः ॥९॥

तृतीयपादस्य तृती­य­मा­त्रा­या­श्चै­क­त्व­मु­प­न्य­स्यति –
सुषुप्तेति ।

पूर्व­व­दे­क­त्व­प्र­यो­ज­क­म­त्रापि प्रश्न­पू­र्व­क­मु­प­व­र्ण­यति –
केनेत्यादिना ।

मानमेव विवृणोति –
मीयते इति ।
ओमित्योङ्कारस्य नैर­न्त­र्ये­णो­च्चा­रणे सत्यकारोकारौ प्रथमं मकारे प्रविश्य पुन­स्त­स्मा­न्नि­र्ग­च्छ­न्ता­वि­वो­प­ल­भ्येते तेन मकारेऽपि मानसामान्यमिति वक्त­व्य­मि­त्यर्थः ।

एकीभावमेव स्फोरयति –
ओङ्कारेति ।

मका­र­व­त्प्रा­ज्ञेऽपि तदस्ति सामान्यमित्याह –
तथेति ।

उक्तस्यापि सामान्यस्य फलमाह –
अतो वेति ।

सामा­न्य­द्व­य­द्वा­रेण प्राज्ञ­म­का­र­यो­रे­क­त्व­ज्ञानं नाविवक्षितं फल­व­त्त्वा­दि­त्याह –
विद्वदिति ।

अविदुषोऽपि जग­द्वि­ष­य­ज्ञा­न­म­स्ती­त्या­शङ्क्य विशिनष्टि –
जग­द्या­था­त्म्य­मिति ।
तद्याथात्म्यं चाव्याकृतत्वम् ।

प्रल­य­भ­व­न­म­नि­ष्ट­त्वान्न फल­मि­त्या­श­ङ्क्याऽऽह –
जगदिति ।

तत्र तत्रैकत्वज्ञाने फल­भे­द­क­थ­ना­दु­पा­स­ना­भे­द­मा­श­ङ्क्या­ङ्गेषु फल­भे­द­श्रु­ते­र­र्थ­वा­द­त्व­मु­पे­त्याऽऽह –
अत्रेति ।
पादानां मात्राणां च क्रमा­दे­क­त्व­वि­ज्ञाने फलकथनं सर्वान् पादान् मात्राश्च सर्वाः स्वात्म­न्य­न्त­र्भाव्य प्रधानस्य ब्रह्मध्यानस्य साधनं यदो­ङ्का­रा­ख्य­म­क्षरं तस्य स्तुता­वु­प­यु­ज्यते । तेन च तदे­वै­क­मु­पा­स­न­मि­त­रस्य तद­ङ्ग­त्वा­न्नो­पा­स्ति­भे­द­क­त्व­मि­त्यर्थः ॥११॥

पादानां मात्राणां च यदेकत्वं सनिमित्तं श्रुत्यो­प­न्यस्तं तत्र श्रुत्य­र्थ­वि­व­र­ण­रू­पान् पूर्ववदेव श्लोकानवतारयति –
अत्रेति ।

प्रथमपादस्य प्रथ­म­मा­त्रा­या­श्चा­भे­दा­रो­पा­र्थ­मुक्तं सामान्यद्वयं विशदयति –
विश्वस्येति ।
उक्त­न्या­ये­नाऽऽ­दि­र­स्ये­त्या­दा­विति शेषः ।

पुन­रु­क्ति­प­रि­हा­र­द्वारा विवक्षितमर्थमाह –
अत्वेति ।

अनु­वृ­त्ति­द्यो­तकं दर्शयति –
चशब्दादिति ॥१९॥

द्वितीयपादस्य द्विती­य­मा­त्रा­या­श्चै­क­त्वा­रो­प­प्र­यो­ज­क­द्वयं श्रुत्युक्तं व्यनक्ति –
तैजसस्येति ।
स्फुटमिति क्रियाविशेषणम् ।

तथा­वि­ध­मि­त्य­स्यार्थं स्फुटमित्याह –
स्फुटमेवेति ।
उत्वविज्ञान इत्यस्य व्याख्यानं मात्रा­स­म्प्र­ति­प­त्ता­विति ।

तस्य व्याख्यानं सर्व­मि­त्यु­च्यते, तत्पूर्ववद् द्रष्ट­व्य­मि­त्यु­च्यते –
पूर्ववदिति ॥२०॥

तृतीयपादस्य तृती­य­मा­त्रा­या­श्चै­क­त्वा­ध्यासे सामान्यद्वयं श्रुत्या दर्शितं विशदयति –
मकारेति ।

अक्षरार्थस्य पूर्ववदेव सुज्ञा­न­त्वा­त्ता­त्प­र्या­र्थ­माह –
मकारत्व इति ॥२१॥

विश्वा­दी­ना­म­का­रा­दीनां च यत्तुल्यं सामान्यमुक्तं तद्विज्ञानं स्तौति –
त्रिष्विति ।
यथो­क्त­स्था­न­त्रयं जगरितं स्वप्नः सुषुप्तं चेति त्रितयं, तुल्यं पादानां मात्राणां चेति शेषः । उक्तं सामा­न्य­मा­प्ति­रु­क्तर्षो मितिरित्यादि ।

महा­मु­नि­रि­त्य­स्या­र्थ­माह –
ब्रह्मविदिति ॥२२॥

पूर्वो­क्त­सा­मा­न्य­ज्ञा­न­वतो ध्याननिष्ठस्य फलविभागं दर्शयति –
अकार इति ।

यत्र तु पादानां मात्राणां च विभागो नास्ति तस्मिन्नोङ्कारे तुरीयात्मनि व्यवस्थितस्य प्राप्तृ­प्रा­प्त­व्य­प्रा­प्ति­वि­भागो नास्तीत्याह –
नामात्र इति ।
ओङ्का­र­ध्या­यि­न­म­कारो विश्वं प्राप­य­ती­त्यु­क्त­म­यु­क्तम् । विश्व­प्रा­प्ते­र्ध्या­न­म­न्त­रेण सिद्धत्वात् ।

अकारस्य चाध्ये­य­स्यो­क्त­फ­ल­प्रा­प­क­त्वा­यो­ग­दि­त्या­श­ङ्क्याऽऽह –
अकारेति ।
तदालम्बनं तत्प्रधानमिति यावत् ।

अका­र­प्र­धा­न­मो­ङ्कारं धायतो यथा वैश्वा­न­र­प्रा­प्ति­स्त­थो­का­र­प्र­धानं तमेव ध्याय­त­स्तै­ज­स­हि­र­ण्य­ग­र्भ­प्रा­प्ति­र्भ­व­ती­त्याह –
यथेति ।

यश्च मका­र­प्र­धा­न­मो­ङ्कारं ध्यायति तस्य प्राज्ञा­व्या­कृ­त­प्रा­प्ति­र्यु­क्ते­त्याह –
मकारश्चेति ।
क्रिया­प­दा­नु­वृ­त्ति­रु­भ­यत्र विवक्षिता ।

चतुर्थपादं व्याचष्टे –
क्षीणे त्विति ।
स्थूलप्रपञ्चो जागरितं विश्व­श्चे­त्ये­त­त्त्रि­त­य­म­का­र­मात्रं, सूक्ष्मप्रपञ्चः स्वप्न­स्तै­ज­स­श्चै­त­त्त्रि­त­य­मु­का­र­मात्रं, प्रप­ञ्च­द्व­य­का­रणं सुषुप्तं प्राज्ञ­श्चे­त्ये­त­त्त्रि­तयं मकारमात्रम् । तत्रापि पूर्वं पूर्व­मु­त्त­रो­त्त­र­भा­व­मा­प­द्यते । तदेतं सर्व­मो­ङ्का­र­मा­त्र­मिति ध्यात्वा स्थितस्य यदेतावन्तं कालमोमितिरूपेण प्रतिपन्नं तत्परिशुद्धं ब्रह्मै­वे­त्या­चा­र्यो­प­दे­श­स­मु­त्थ­स­म्य­ग्ज्ञा­नेन पूर्वो­क्त­स­र्व­वि­भा­ग­नि­मि­त्ता­ज्ञा­नस्य मकारत्वेन गृहीतस्य क्षये ब्रह्मण्येव शुद्धे पर्यवसितस्य न क्वचिद् गतिरुपपद्यते परि­च्छे­दा­भा­वा­दि­त्यर्थः ॥२३॥

प्रत्य­क्चै­त­न्य­मो­ङ्का­र­सं­वे­दनं त्रिमा­त्रे­णो­ङ्का­रे­णा­ध्य­स्तेन तादा­त्म्या­दो­ङ्कारो निरुच्यते । तस्य परेण ब्रह्म­णै­क्य­म­मा­त्रा­दि­श्रुत्या विवक्ष्यते । तमवतार्य व्याकरोति –
अमात्र इत्यादिना ।
केव­ल­त्व­म­द्वि­ती­य­त्वम् ।

विशे­ष­णा­न्त­र­मु­प­पा­द­यति –
अभिधानेति ।
अभिधानं वाक्, अभिधेयं मनः चित्ता­ति­रि­क्ता­र्था­भा­व­स्या­भि­धा­स्य­मा­न­त्वात् तयो­र्मू­ला­ज्ञा­न­क्ष­येण क्षीणत्वादिति हेत्वर्थः ।

अव्य­व­हा­र्य­श्चे­दात्मा नास्त्ये­वे­त्या­शङ्क्य विका­र­जा­त­वि­ना­शा­व­धि­त्वे­नाऽऽ­त्म­नोऽ­व­शे­षा­न्नै­व­मि­त्याह –
प्रपञ्चेति ।

तस्य च सर्वा­न­र्था­भा­वो­प­ल­क्षि­तस्य परमानन्दत्वेन पर्यवसानं सूचयति –
शिव इति ।

तस्यैव सर्व­द्वै­त­क­ल्प­ना­धि­ष्ठा­न­त्वे­ना­व­स्था­न­म­भि­प्रे­त्याऽऽह –
अद्वैत इति ।

ओङ्कारस्तुरीयः सन्नात्मैवेति यदुक्तं तदुपसंहरति –
एवमिति ।

यथोक्तं विज्ञानं पादानां मात्राणां चैकत्वम्, न च पादा मात्राश्च तुरी­या­त्म­न्यो­ङ्कारे सन्ति, पूर्व­पू­र्व­वि­भा­ग­शो­त्त­रो­त्त­रा­न्त­र्भा­वेन क्रमादात्मनि पर्य­व­स्य­ती­त्ये­वं­ल­क्ष­ण­त­द्वता –
?
प्रयुक्तः सन्नोङ्कारो मात्राः पादांश्च स्वस्मि­न्न­न्त­र्भा­व्या­व­स्थि­त­स्याऽऽ­त्मनो भेद­म­स­ह­मा­न­स्त­द्रूपो भवतीत्यर्थः ।

उक्तै­क्य­ज्ञा­नस्य फलमाह –
संविशतीति ।

सुषुप्ते ब्रह्म­प्रा­प्तस्य पुन­रु­त्था­न­व­न्मु­क्त­स्यापि पुनर्जन्म स्यादि­त्या­श­ङ्क्याऽऽह –
परमार्थेति ।
सुषुप्तस्य पुनरुत्थनं बीजभूताज्ञानस्य सत्त्वा­दु­प­प­द्यते । इह तु बीजभूतमज्ञानं तृतीयं सुषुप्ताख्यं दग्ध्वैव तेषामात्मानं तुरीयं प्रविष्टो विद्वानिति नासौ पुन­रु­त्था­न­म­र्हति । कारणमन्तरेण तदयोगादित्यर्थः ।

तुरीयमेव पुन­रु­त्थ­न­बी­ज­भूतं भवि­ष्य­ती­त्या­शङ्क्य कर्य­का­र­ण­वि­नि­र्मु­क्तस्य तस्य तद­यो­गा­न्मै­व­मि­त्याह –
तुरीयस्येति ।

मुक्तस्यापि पूर्व­सं­स्का­रा­त्पु­न­रु­त्था­न­मा­शङ्क्य दृष्टान्तेन निराचष्टे –
न हीति ।
पूर्व­व­दि­त्य­वि­वे­का­व­स्था­या­मि­वे­त्यर्थः । तद्विवेकिनां रज्जु­स­र्प­वि­वे­क­वि­ज्ञा­न­व­ता­मिति यावत् । बुद्धि­सं­स्का­रा­दि­त्यत्र बुद्धिशब्देन सर्प­भ्रा­न्ति­र्गृ­ह्यते । उत्त­मा­धि­का­रि­णा­मो­ङ्का­र­द्वा­रेण परि­शु­द्ध­ब्र­ह्मा­त्मै­क्य­वि­दा­म­पु­न­रा­वृ­त्ति­ल­क्ष­ण­मुक्तं फलम् ।

इदानीं मन्दानां मध्यमानां च कथं ब्रह्म­प्र­ति­पत्त्या फल­प्रा­प्ति­रि­त्या­श­ङ्क्याऽऽह –
मन्देति ।
तेषामपि क्रम­मु­क्ति­र­वि­रु­द्धे­त्यर्थः ।

तत्रैव वाक्य­शे­षा­नु­कूल्यं कथयति –
तथा चेति ॥१२॥

यथा पूर्वमाचार्येण श्रुत्य­र्थ­प्र­का­शकाः श्लोकाः प्रणी­ता­स्त­थो­त्त­रेऽपि श्लोकाः श्रुत्यु­क्तेऽर्थ एव सम्भवन्तीत्याह –
पूर्ववदिति ।

ओङ्कारस्य पादशो विद्या कीदृ­शी­त्या­श­ङ्क्याऽऽह –
पादा इति ।

पादानां मात्राणां चान्यो­न्य­मे­कत्वं कृत्वा तद्वि­भा­ग­वि­धु­र­मो­ङ्कारं ब्रह्मबुद्ध्या ध्यायतो भवति कृतार्थेतेति दर्शयति –
ओङ्कारमिति ।
तस्मात् पादानां मात्राणां चान्यो­न्य­मे­क­त्वा­दि­त्यर्थः ।

तदेकत्वं पुर­स्कृ­त्यो­ङ्का­र­मु­भ­य­वि­भा­ग­शून्यं ब्रह्मबुद्ध्या जानीयादित्याह –
ओङ्कारमिति ।

उत्तरार्धस्य तात्पर्यमाह –
एवमिति ॥२४॥

प्रण­वा­नु­स­न्धा­न­कु­श­लस्य प्रणवज्ञानेनैव सर्व­द्वै­ता­प­वा­द­केन कृतार्थता भवतीत्युक्तम् । इदानीं तदनभिज्ञस्य परो­प­दे­श­मा­त्र­श­र­णस्य ध्यानकर्तव्यतां कथयति –
युञ्जीतेति ।

ननु मनःसमाधानं ब्रह्मणि कर्तव्यम्; किमिति प्रणवे तत्क­र्त­व्य­तो­च्यते, तत्राऽऽह –
प्रणव इति ।

सम्प्रति प्रणवे समाहितचित्तस्य फलं दर्शयति –
प्रणवे नित्येति ।

समाधानविषयमाह –
यथेति ।
तुरीयरूपं यथेत्युच्यते ।

तत्र हेतुमाह –
यस्मादिति ।

तदेव साधयति –
न हीति ।

तत्र तैत्ति­री­य­क­श्रु­त्या­नु­कू­ल्य­माह –
विद्वानिति ॥२५॥

कीदृशस्तर्हि प्रणवो मन्दानां मध्यमानां चाधिकारिणां ध्येयो भव­ती­त्या­श­ङ्क्याऽऽह –
प्रणवो हीति ।

उत्तमाधिकारिणां कीदृशस्तर्हि प्रणवः सम्य­ग्ज्ञा­न­गो­चरो भवति, तत्राऽऽह –
अपूर्व इति ।

परा­प­र­ब्र­ह्मा­त्मना प्रणवो मन्द­म­ध्य­मा­धि­का­रि­णो­र्ध्ये­य­ता­मु­प­ग­च्छ­तीति पूर्वार्धं व्याचष्टे –
परेति ।

उत्त­मा­धि­का­रि­णस्तु सर्व­वि­शे­ष­शू­न्य­मे­क­रसं प्रत्यग्भूतं यद् ब्रह्म तद्रूपेण प्रणवः सम्य­ग्ज्ञा­ना­धि­गम्यो भव­ती­त्यु­त्त­रार्धं विभजते –
परमार्थत इत्यदिना ।

उक्तेऽर्थे प्रमाणं सूचयति –
सबाह्येति ॥२६॥

यदोङ्कारस्य प्रत्य­गा­त्म­त्व­मा­प­न्नस्य तुरी­य­स्या­पू­र्व­त्व­म­न­न्त­र­त्व­मि­त्या­दि­वि­शे­ष­ण­मु­क्तम्, तत्र हेतुमाह –
सर्वस्येति ।

यथोक्तविशेषणं प्रणवं प्रत्यञ्चं प्रतिपद्य कृतकृत्यो भवतीत्याह –
एवं हीति ।

पूर्वार्धं व्याकरोति –
आदीति ।
सर्व­स्यै­वो­त्प­द्य­मा­न­स्यो­त्प­त्ति­स्थि­ति­लया यथो­क्त­प्र­ण­वा­धीना भवन्ति । अतस्तस्योक्तं विशेषणं युक्तमित्यर्थः ।

तत्र परिणामवादं व्यावर्त्य विवर्तवादं द्योत­यि­तु­मु­दा­ह­रति –
मायेति ।
अने­को­दा­ह­र­ण­मु­त्प­द्य­मा­न­स्या­ने­क­वि­धा­त्व­बो­ध­ना­र्थम् ।

प्रणवस्य प्रत्यगात्मत्वं प्राप्त­स्या­वि­कृ­त­स्यैव स्वमा­या­श­क्ति­व­शा­ज्ज­ग­द्धे­तु­त्व­मि­त्यत्र दृष्टान्तमाह –
यथेति ।
यथा मायावी स्वग­त­वि­का­र­म­न्त­रेण माया­ह­स्त्या­दे­रि­न्द्र­जा­लस्य स्वमायावशादेव हेतुः, यथा वा रज्ज्वादयः स्वग­त­वि­का­र­वि­र­हिणः स्वाज्ञानादेव सर्पा­दि­हे­त­व­स्त­थाऽ­य­मात्मा प्रणवभूतो व्यवहारदशायां स्वाविद्यया सर्वस्य हेतुर्भवति । अतो युक्तं तस्य पर­मा­र्था­व­स्थायां पूर्वो­क्त­वि­शे­ष­ण­व­त्त्व­मि­त्यर्थः ।

द्वितीयार्धं विभजते –
एवं हीति ।
पूर्वो­क्त­वि­शे­ष­ण­स­म्प­न्न­मिति यावत् ।

ज्ञानस्य मुक्तिहेतोः सहा­या­न्त­रा­पेक्षा नास्तीति सूचयति –
तत्क्षणादेवेति ।
तदा­त्म­भा­व­मि­त्यत्र तच्छ­ब्दे­ना­पू­र्वा­दि­वि­शे­षणं परमार्थवस्तु परामृश्यते ॥२७॥

ब्रह्मबुद्ध्या प्रणवमभिध्यायतो हृदयाख्यं देशमुपदिशति –
प्रणवमिति ।

पर­मा­र्थ­द­र्शि­नस्तु देशा­द्य­न­व­च्छि­न्न­व­स्तु­द­र्श­ना­दा­र्थिकं शोकाभावं ‘तत्र को मोहः कः शोक’(ई. उ. ७) इत्या­दि­श्रु­ति­सि­द्ध­म­नु­व­दति –
सर्वव्यापिनमिति ।

हृदयदेशे प्रणवभूतस्य ब्रह्मणो ध्येयत्वे हेतुं सूचयति –
स्मृति­प्र­त्य­येति ।
बुद्धिमानिति विवे­कि­त्व­मु­च्यते। मत्वेति साक्षा­त्का­र­स­म्प­त्ति­र्वि­व­क्ष्यते ।

विवेकद्वारा तत्त्व­सा­क्षा­त्कारे सति शोकनिवृत्तौ हेतुमाह –
शोकेति ।
तस्य हि निमि­त्त­मा­त्मा­ज्ञा­नम् ।

तस्याऽऽ­त्म­सा­क्षा­त्का­रतो निवृत्तौ शोका­नु­प­प­त्ति­रि­त्यत्र प्रमाणमाह –
तरतीति ।
आदिशब्देन ‘भिद्यते हृदयग्रन्थिः’(मु. उ. २ । २ । ९) इत्या­दि­श्रु­ति­र्गृ­ह्यते ॥२८॥

ओङ्कारं तुरीयभावमापन्नं यः प्रतिपन्नस्तं स्तौति –
अमात्र इति ।

यथो­क्त­प्र­ण­व­प्र­ति­प­त्ति­वि­ही­नस्तु जननमरणमात्रभागी न पुरुषार्थभाग् भवतीति विद्यारहितं निन्दिति –
नेतर इति ।

पादविभागस्य मात्राविभागस्य चाभा­वा­दो­ङ्का­र­स्तु­रीयः सन्नमात्रो भवतीत्याह –
अमात्र इति ।
ननु कथमनन्ता परि­च्छि­त्ति­रो­ङ्का­रस्य तुरीयस्योच्यते ।

न हि तत्र परि­च्छि­त्ति­रे­वा­स्ती­त्या­श­ङ्क्याऽऽह –
नैतावत्त्वमिति ।

अन­र्था­त्म­क­द्वै­त­सं­स्प­र्शा­भा­वा­द­प्र­ति­ब­न्धेन परमानन्दत्वं तस्मि­न्ना­वि­र्भ­व­ती­त्य­भि­प्रे­त्याऽऽह –
सर्वेति ।
यथाव्याख्यातः पूर्वा­र्धे­नो­क्त­वि­शे­ष­ण­वा­नि­त्यर्थः ।

ननु यथो­क्त­प्र­ण­व­प­रि­ज्ञा­न­र­हि­त­स्यापि शास्त्र­प­रि­ज्ञा­न­व­त्त्वान्न जन्मो­प­ल­क्षि­त­सं­सा­र­भा­क्त्वेन पुरु­षा­र्था­सिद्धिः । मैवम् । शास्त्रविदोऽपि तत्त्व­ज्ञा­ना­भावे मुख्य­पु­रु­षा­र्थ­सि­द्धि[द्धे]रि­त्या­भि­प्रे­त्याऽऽह –
नेतर इति ।
तदेवं प्रणवद्वारेण निरु­पा­धि­क­मा­त्मा­न­म­नु­स­न्द­धा­नस्य पुरु­षा­र्थ­प­रि­स­मा­प्ति­र्ने­त­रेषां बहिर्मुखाणामिति स्थितम् ॥२९॥