अद्वैतशारदा

आनन्दगिरिटीका (माण्डूक्य)

वैतथ्यप्रकरणम्

अाग­म­प्रा­धा­न्ये­ना­द्वैतं प्रतिपादयता तत्प्रत्यनीकस्य द्वैतस्य मिथ्या­त्व­म­र्था­दु­क्तम् । इदानीं तन्मि­था­त्व­मु­प­प­त्ति­प्रा­धा­न्ये­नापि प्रतिपत्तुं सुशकमिति दर्शयितुं प्रक­र­णा­न्त­र­म­व­ता­र­य­न्नादौ दृष्टा­न्त­सि­द्ध्यर्थं तस्मिन् वृद्धसंमतिमाह –
वैतथ्यमिति ।

न केव­ल­मा­ग­मो­क्ति­व­शा­देव स्वप्न­मि­थ्यात्वं, किं तु युक्ति­तोऽ­पी­त्याह –
अन्तःस्थानादिति ।

पूर्वो­त्त­र­प्र­क­र­णयोः सम्ब­न्ध­सि­द्ध्यर्थं पूर्वप्रकरणे वृत्तं संक्षि­प्या­नु­व­दति –
ज्ञात इति ।
आदिशब्देन ‘यत्र हि द्वैतमिव भवति’(बृ. उ. २ । ४ । १४) इत्या­दि­श्रु­ति­र्गृ­ह्यते ।

तर्हि द्वैत­मि­थ्या­त्वस्य प्रागेव सिद्ध­त्वा­दु­त्तरं प्रक­र­ण­म­न­र्थ­क­मि­त्या­श­ङ्क्याऽऽह –
आगमेति ।
यद्द्वै­त­मि­थ्यात्वं पूर्वमुक्तं – तदागममात्रम् आग­म­प्रा­धा­न्ये­ना­धि­ग­तम् । न ह्युक्तितः सिद्धम् । तस्मि­न्ना­ग­म­तोऽ­व­गते युक्ति­प्रा­धा­न्ये­नापि तन्मि­थ्या­त्व­म­व­ग­न्त­व्य­मिति प्रकरणान्तरं प्रार­ब्ध­मि­त्यर्थः । प्रमा­णा­नु­ग्रा­ह­क­त्वा­त्त­र्क­स्या­नु­ग्रा­ह्य­प्र­मा­णस्य प्रधानत्वात् तद­धी­न­वि­चा­रा­न­न्तरं तर्का­धी­न­वि­चा­रस्य सावकाशाद् युक्तं पौर्वापर्यं पूर्वो­त्त­र­प्र­क­र­ण­यो­रि­त्यु­क्तम् ।

संप्रति श्लोकाक्षराणि योजयति –
वित­थ­स्ये­त्या­दिना ।
बाह्यघटादयः; सुखा­द­य­स्त्वा­ध्या­त्मिका भावाः ।

शरी­रा­न्त­र­व­स्थानं स्वाप्नानां भावा­ना­मि­त्य­त्रा­नु­भवं प्रमाणयति –
तत्र हीति ।

तेषा­म­न्त­रु­प­ल­भ्य­मा­न­त्वेऽपि न वैतथ्यं व्यभि­चा­रा­दि­त्या­श­ङ्का­म­नूद्य परिहरति –
नन्वित्यादिना ।

हेत्वा­न्त­र­शङ्कां वारयति –
अन्तरिति ।

यद्यपि देहान्तः सङ्कुचिते देशे स्वाप्ना भावा भवन्ति तथाऽपि कथं तेषां मृषात्वमित्यत आह –
न हीति ।

अन्तरित्युक्तं स्फुटयति –
संवृत इति ।

तमेव सङ्कुचितं देशं विशेषणान्तरेण स्फोरयति –
देहा­न्त­र्ना­डी­ष्विति ।

उक्तमर्थं कैमुतिकन्यायेन स्फुटयति –
न हीति ।
यदा देहेऽपि पर्वतादयो न संभाव्यन्ते तदा तद­न्त­र्व­र्ति­नीषु नाडि­ष्व­ति­सू­क्ष्मासु तेषां सम्भावना नास्तीति किमु वक्त­व्य­मि­त्यर्थः । स्वाप्ना भवाः सत्या न भवन्ति, उचि­त­दे­श­शू­न्य­त्वात्, रज­त­भु­ज­ङ्गा­दि­व­दिति भावः ॥१॥

देहाद् बहिरेव देशान्तरं गत्वा स्वाप्नानां भावा­ना­मु­प­ल­म्भात् तेषां देहान्तः संवृते नाडीप्रदेशे दर्श­न­म­स­म्प्र­ति­प­न्न­मि­त्या­शङ्क्य परिहरति –
अदी­र्घ­त्वा­च्चेति ।

बहिः स्वप्नो­प­ल­ब्धि­पक्षे दोषान्तरमाह –
प्रति­बु­द्ध­श्चेति ।

व्याव­र्त्या­मा­श­ङ्का­म­नु­व­दति –
स्वप्नेति ।

तेषां देहान्तः सङ्कुचिते नाडीदेशे स्थिति­द­र्श­ना­न्मि­थ्या­त्व­मि­त्ये­त­द­प्य­स­म्प्र­ति­प­न्न­मि­त्यत्र हेतुमाह –
यस्मादिति ।

पश्यन्निवेति स्वप्नदर्शनस्य निरूपणे सत्या­भा­स­त्व­मि­व­श­ब्देन द्योत्यते । एतच्छब्देन चोद्यं परामृश्यते । स्वप्नद्रष्टा गत्वा स्वप्नान्न पश्यतीत्यत्र हेतुमाह –
यस्मादिति ।
इवशब्दस्तु पूर्ववत् ।

तथाऽपि कथं बहिः स्वप्नोपलम्भो न भवतीति निर्धा­रि­त­मि­त्या­श­ङ्क्याऽऽह –
न चेति ।

स्वप्नः सत्यो न भवति उचि­त­का­ल­वि­क­ल­त्वात् सम्प्र­ति­प­न्न­वि­दि­त्य­भि­प्रेत्य फलितमाह –
अत इति ।

इतश्च न देहाद् बहिर्देशान्तरे स्वप्न­द­र्श­न­मि­त्याह –
किं चेति ।
सर्वोऽपि स्वप्नद्रष्टा देशान्तरे स्वप्ना­प्न­श्य­न्न­क­स्मा­देव प्रतिबुद्धो न तत्रास्ति किं तु शयनदेशे वर्तते ।

तथाऽपि गत्वा स्वप्नदर्शने काऽनु­प­प­त्ति­रि­त्या­श­ङ्क्याऽऽह –
यदि चेति ।

अन्तरेव स्वप्नदर्शनमिति स्थिते स्वप्न­मि­थ्या­त्व­मु­चि­त­का­ल­शू­न्य­त्वा­दि­युक्तं प्रपञ्चयति –
रात्राविति ।
यद्यपि रात्रौ निद्रा­मु­प­ग­त­स्त­थाऽपि भावानहनि पश्यन्निव तिष्ठति सुप्तः संहृ­त­च­क्षु­रा­दि­क­र­णोऽपि पश्यति । शयानोऽपि पर्यटनं प्रतिपद्यते । यद्यपि सहायविहीनः सुप्तस्तथाऽपि बहुभिः सहायैः स्वप्नानुपलभते । तस्मादुचितस्य कालस्य कारणस्य सह­का­रि­ण­श्चा­भा­वेऽपि स्वप्नदर्शनात् तस्मि­न्मि­थ्यात्वं सिद्धमित्यर्थः ।

स्वप्न­मि­थ्यात्वे हेत्वन्तरमाह –
यैश्चेति ।

सह­द­र्शि­भि­र­र्गृ­ह्य­मा­णत्वं स्वप्न­द्र­ष्टु­र­स­म्प्र­ति­प­न्न­मि­त्या­श­ङ्क्याऽऽह –
गृहीतश्चेदिति ।

पुरु­षा­न्त­र­सं­वा­दा­द­र्श­ना­त्त­द्दे­शा­न्त­र­प्रा­प्ति­द्वारा स्वप्नदर्शनमिति वक्तु­म­श­क्य­त्वा­द­न्त­रेव स्वप्न­द­र्श­न­मि­त्यु­चि­त­दे­श­का­ला­द्य­भा­वा­त्त­न्मि­थ्यात्वं सिद्ध­मि­त्यु­प­सं­ह­रति –
तस्मान्नेति ॥२॥

स्वप्नदृश्यानां भावानां मिथ्यात्वे हेत्वन्तरमाह –
अभावश्चेति ।
‘न तत्र रथा न रथयोगा न पन्थानो भवन्ति’(बृ. उ. ४ । ३ । १०) इत्यादिश्रुत्या स्वप्ने स्वयं­ज्यो­ति­ष्ट्व­मा­त्मनो दर्शयन्त्या तत्र दृश्यानां रथादीनामभावो योग्य­दे­शा­द्य­भा­व­द्यो­त­क­न्या­य­पु­रः­सरं श्रूयते । अतस्तेन न्यायेन प्राप्तमेव स्वप्न­दृ­श्य­भा­वानां मिथ्या­त्व­म­न्य­प­रया श्रुत्या प्रकाशितमिति ब्रह्मविदो वदन्ति । तथा च स्वप्ने भावानां मिथ्यात्वं श्रुति­यु­क्तिभ्यां सिद्धमित्यर्थः ।

हेत्वन्तरपरत्वं श्लोकस्य दर्शयति –
इतश्चेति ।

इतः शब्दार्थमेव स्फुटयति –
यत इति ।
ज्ञेयाभावे ज्ञाना­भा­वा­द­र्था­ज्ज्ञा­न­स्यापि श्रुत­म­स­त्त्व­मिति वक्तुं चशब्दः । श्रूयते ‘ न तत्रे’ त्याद्यायां श्रुताविति सम्बन्धः ।

न्यायपूर्वकमिति व्यचष्टे –
युक्तित इति ।
योग्य­दे­शा­द्य­भावो युक्तिः ।

तर्हि न्याय­सि­द्धेऽर्थे किमन्यपरया श्रुत्या क्रियते, तत्राऽऽह –
तेनेति ।
अन्तः­श­री­र­म­ध्य­स्थानं नाडीलक्षणम् । तत्रातिसूक्ष्मे संवृतत्वेन सङ्कु­चि­त­त्वे­ना­व­स्थानं पर्व­ता­दी­ना­मु­प­ल­भ्यते, तत­श्चो­चि­त­दे­शा­भावो योग्य­का­ला­भा­व­श्चे­त्या­दिना प्रागुक्तेन हेतुना प्राप्तं स्वप्नदृश्यानां भावानां वैतथ्यम्, तदेव तदनुवादिन्या श्रुत्याऽपि प्रका­शि­त­मि­त्या­हु­र्ब्र­ह्म­विदः । जाग्र­द­व­स्था­या­मा­दि­त्या­दि­प्र­का­शानां वागादिज्योतिषां च विद्य­मा­न­त्वा­दा­स­ना­दि­व्य­व­हा­रस्य तन्नि­मि­त्त­त्व­स­म्भ­वा­दा­त्म­चै­त­न्य­नि­ब­न्धनो व्यवहारो न निर्धारयितुं शक्यते । स्वप्ने पुनः सूर्या­द्य­भा­वेऽपि व्यवहारदर्शनात् तस्य च निमि­त्ता­पे­क्ष­त्वा­दा­त्म­चै­त­न्यस्य तन्नि­मि­त्त­त्व­नि­र्ण­यात् तत्राऽऽत्मनः स्वयं­ज्यो­तिष्ट्वं प्रतिपादयितुं ‘न तत्र’(मु. उ. २ । २ । ११) इत्याद्या श्रुतिः । तया तत्परया न्यायसिद्धं स्वप्न­मि­थ्या­त्व­म­नु­व­दन्त्या तदप्रतिपादितमपि प्रकाशितमिष्यते । तथा च श्रुति­यु­क्तिभ्यां प्रतिपन्नं स्वप्न­मि­थ्या­त्व­मिति दृष्टा­न्त­सि­द्धि­रि­त्यर्थः ॥३॥

उक्तन्यायेन दृष्टान्ते सिद्धे फलितमनुमानमाह –
अन्तःस्थानादिति ।

भेदानामित्यत्र सूचि­त­म­नु­मा­न­मा­र­च­यति –
जाग्रदिति ।

तृतीयेन पादेन पक्षधर्मत्वं व्याप्तस्य हेतोरुच्यते, तद् दर्शयति –
यथेति ।

द्वितीयेन पादेन प्रति­कू­ल­प्र­मा­णा­भा­व­सू­चकं प्रति­ज्ञो­प­सं­हा­र­व­चनं निगमनं सूत्रितमित्याह –
तस्मादिति ।

सर्व­द्वै­त­वै­त­थ्य­वा­दिनां केन विशेषेण पक्ष­स­प­क्ष­वि­भा­ग­सि­द्धि­रि­त्या­श­ङ्क्या­न्तः­स्था­नात्तु संवृतत्वेन भिद्यत इत्यत्र विवक्षितमर्थमाह –
अन्तःस्थानादिति ।
स्वप्न­दृ­श्या­ना­म­न्तः­स्थानं संवृतत्त्वं च, न तथा जाग्र­द्दृ­श्या­नाम्, तेनो­चि­त­दे­शा­द्य­भा­वा­त्तेषां तेभ्यो वैषम्यं स्फुटम् । सिद्धं हि योग्य­दे­शा­द्य­भा­वेन स्वप्नस्य मिथ्यात्वमिति सपक्षत्वम् । जागरितस्य पुन­रु­चि­त­दे­शा­दि­स­द्भा­वा­द­स्फुटं मिथ्यात्वमिति पक्ष­त्व­मि­त्यर्थः ।

तर्हि सर्वथा वैषम्याद् दृष्टा­न्त­दा­र्ष्टा­न्ति­क­भा­वा­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह –
दृश्यत्वमिति ॥४॥

स्वप्न­व­ज्जा­ग­रि­तस्य मिथ्यात्वे स्वप्न­नि­द्रा­यु­ता­वि­त्यादौ जागरिते स्वप्न­श­ब्द­प्र­योगो युक्तो भवतीत्याह –
स्वप्नेति ।

उभयत्रैकत्वं विद्व­द­भि­म­त­मि­त्यत्र हेतुमाह –
भेदानामिति ।
भेदा भिद्यमाना भावाः । तेषा­म­व­स्था­द्व­य­व­र्तिनां ग्राह्यत्वं ग्राह­क­त्व­म­वि­शि­ष्टम् ।

तेन दृश्यत्वेन हेतुना प्रसिद्धमेव तेषां मिथ्यात्वेन समत्वं तेन स्थान­यो­रे­क­रू­पत्वं विवे­कि­ना­म­भि­प्रे­त­मिति यत्पू­र्व­म­नु­मा­नाख्यं प्रमाणं सिद्धं तस्यैव फलं साध­न­स्था­न­द्व­या­वि­शे­ष­रू­प­म­नेन श्लोकेनोक्तमिति श्लोकयोजनया दर्शयति –
प्रसिद्धेनैवेति ॥५॥

जाग्र­द्दृ­श्यानां भावानां मिथ्या­त्व­मि­त्य­त्रा­नु­मा­ना­न्त­र­माह –
आदाविति ।

यदि जाग्रद्दृश्या भावा मिथ्यात्वेन प्रसिद्धैः स्वप्नादिभिः समत्वानिथ्या, कथं तर्हि तेषां घटः सन् पटः सन्नि­त्य­मृ­षा­त्वेन प्रती­ति­रि­त्या­श­ङ्क्याऽऽह –
वितथैरिति ।

प्रकृते जाग्र­न्मि­थ्यात्वे हेत्वन्तरपरत्वं श्लोक­स्यो­प­न्य­स्यति –
इतश्चेति ।
विमतं मिथ्याऽऽ­दि­म­त्त्वा­द­न्त­व­त्त्वात् स्वप्ना­दि­व­दि­त्यर्थः ।

उक्ता­नु­मा­न­द्र­ढिम्ने व्याप्तिं कथयति –
यदादाविति ।
यदादिमदन्तवच्च तन्मिथ्या यथा मृग­तृ­ष्णि­का­दी­त्यार्थः ।

व्याप्तिमतः साधनस्य पक्ष­ध­र्म­तो­प­न्या­सेन प्रति­ज्ञो­प­सं­हा­र­व­चनं निगमनं दर्शयति –
तथेति ।

अनुमानस्य घटादिषु सत्त्व­ग्रा­ह­क­प्र­त्य­क्ष­वि­रो­ध­मा­शङ्क्य सद् गन्ध­र्व­न­ग­र­मि­ति­वत् तस्याऽऽ­पा­ति­क­स­त्त्व­वि­ष­य­त्वा­न्मै­व­मि­त्याह –
तथाऽपीति ॥६॥

स्वप्नस्य मिथ्या­त्व­मा­द्य­न्त­व­त्त्वान्न भवति, किं तु फल­प­र्य­न्त­त्वा­भा­वात् । जागरितस्य फल­प­र्य­न्त­त्वान्न मिथ्या­त्व­मि­त्या­श­ङ्क्याह –
सप्रयोजनतेति ।

फल­प­र्य­न्त­ता­रा­हि­त्यो­पाधेः साधनव्यापकत्वे फलितमाह –
तस्मादिति ।
जाग्र­द्दृ­श्या­भावा बहूक्त्या गृह्यन्ते ।

श्लोकस्य व्याव­र्त्या­मु­पा­ध्या­श­ङ्का­मु­त्था­प­यति –
स्वप्नेति ।

जाग्र­द्दृ­श्या­ना­मिव स्वप्न­दृ­श्या­ना­मपि तुल्यं सप्र­यो­ज­न­त्व­मि­त्यु­पा­धे­र­स­म्भ­व­मा­श­ङ्क्याऽऽह –
न त्विति ।

अनुमानस्य सोपा­धि­क­त्वे­ना­सा­ध­कत्वे फलितमाह –
तस्मादिति ।

हेतोः सोपाधिकत्वं दूषयति –
तन्नेति ।

साध­न­व्या­प्त्या­दि­दो­षा­दृते नोपाधिनिरसनं सुशकमित्याह –
कस्मादिति ।

फल­प­र्य­न्त­ता­वि­र­हि­त्वो­पाधेः साधनव्याप्तिमाह –
यस्मादित्यादिना ।

तामेव विप्रतिपत्तिं प्रकटयति –
जागरिते हीति ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति –
यथेत्यादिना ।

उपाधेः साधनव्याप्तिं निगमयति –
तस्मादिति ।

हेतोः सोपाधिकत्वाभावे फलितमाह –
अत इति ।

हेतु­द्व­य­मु­प­सं­ह­रति –
तस्मादिति ॥७॥

दृष्टान्तस्य साध्यविकलत्वं शङ्कित्वा परिहरति –
अपूर्वमिति ।
यथा स्वर्ग­नि­व­स­न­शी­ला­ना­मि­न्द्रा­दीनां सहस्राक्षत्वादि धर्मस्तथा यदि­द­म­पू­र्व­स्व­प्न­द­र्शनं मन्यसे तदपि स्थानिनः स्वप्नस्थानवतो द्रष्टुरेव धर्मः । तेन दृष्टत्वात् तस्य मिथ्या­त्व­सि­द्धि­रि­त्यर्थः।

कथं तेनैव दृष्टत्वं तत्राऽऽह –
तानयमिति ।
यथैवेह व्यवहारभूमौ सुशिक्षितो देशा­न्त­र­प्रा­प्ति­मा­र्ग­स्तेन मार्गेण देशान्तरं गत्वा तत्रत्यान् पदार्थान् वीक्षते तथाऽयं स्वप्नद्रष्टा स्वप्नगतान् पदार्थान् यथोक्तप्रकारान् प्रतिपद्यते । ततश्च स्वप्नस्य स्थानि­ध­र्म­त्वाद् रज्जु­स­र्पा­दि­व­न्मि­थ्या­त्व­मि­त्यर्थः।

श्लोक­व्या­व­र्त्या­मा­श­ङ्का­मु­प­न्य­स्यति –
स्वप्नेति ।
सम­त्व­मा­द्य­न्त­व­त्त्वादि ।

अनु­मा­न­सि­द्ध­स्या­र्थ­स्या­नु­मा­न­दो­षो­क्ति­म­न्त­रे­णा­स­त्त्व­म­यु­क्त­मिति पृच्छति –
कस्मादिति ।

व्याप्तिभूमिं दूषयन् व्याप्तिभङ्गं दोषमाह –
दृष्टान्तस्येति ।

असिद्धत्वं प्रश्नपूर्वकं विशदयति –
कथमित्यादिना ।

अपूर्वदर्शनमेव विवृणोति –
चतुर्दन्तमिति ।
अन्यदपि त्रिनेत्रत्वादि ।

दृष्टान्तस्य साध्यविकलत्वे सिद्धे प्रागु­क्ता­नु­मा­ना­नु­प­प­त्ति­रिति फलितमाह –
तस्मादिति ।

दृष्टा­न्ता­सिद्धिं दूषयन्ननुमानं साधयति –
तन्नेति ।
तत्किं स्वभावतः सिद्धं परतो वा ? नाऽऽद्यः ।

जडस्य तदयोगादित्याह –
न तदिति ।

द्वितीये तन्मि­थ्या­त्व­मि­त्य­भि­प्रेत्य प्रश्न­पू­र्व­क­मा­द्य­पा­द­म­व­ता­र­यति –
किं तर्हीति ।

तद्ग­ता­न्य­क्ष­राणि व्याकरोति –
स्थानिन इति ।

अपू­र्व­स्व­प्न­द­र्श­नस्य स्थानिधर्मत्वं दृष्टान्तेन साधयति –
यथेत्यादिना ।

अपूर्वदर्शनं स्वप्न­द्र­ष्टृ­ध­र्मोऽपि चैतन्यवत् किं न स्यादि­त्या­शङ्क्य बाधो­प­ल­ब्धे­र्मै­व­मि­त्याह –
न स्वत इति ।

उत्तरार्धं विभजते –
तानित्यादिना ।

अपूर्वाणां स्वप्नदृश्यानां स्थानि­ध­र्म­त्वेऽपि किमा­या­त­मि­त्या­श­ङ्क्याऽऽह –
तस्मादिति ।

स्वप्न­दृ­ष्टा­न्तस्य साध्य­वि­क­ल­त्वा­भावं निगमयति –
अतो नेति ।
पूर्व­स्या­पु­र्वस्य वा स्वप्नदर्शनस्य स्वप्न­द्र­ष्टृ­ध­र्मे­त्वेन तद­वि­द्या­वि­ल­सि­त­त्वाद् दृष्टान्ते साध्य­स­म्प्र­ति­प­त्ते­स्त­थैव जाग्रद्भेदानां मिथ्यात्वं युक्तमित्यर्थः ॥८॥

जाग्र­द्दृ­श्यानां मिथ्यात्वं तेषु सद­स­द्वि­भा­ग­प्र­ति­भा­न­वि­रु­द्ध­मि­त्या­शङ्क्य दृष्टान्तेन समाधत्ते –
स्वप्न­वृ­त्ता­विति ।

श्लोकस्य तात्पर्यार्थमाह –
अपूर्वत्वेति ।
स्वप्न­दृ­ष्टा­न्त­स्या­पू­र्व­द­र्श­न­त्व­प्र­त्युक्तां साध्य­वि­क­ल­त्व­शङ्कां परिहृत्येति यावत् । स्वप्नस्थाने सर्वस्य मिथ्या­त्वा­वि­शे­षेऽ­पी­त्यर्थः । असत्त्वं पर­मा­र्थ­स­द्वि­ल­क्ष­ण­त्वेन मिथ्यात्वम् ।

तत्रापि तर्हि विभा­ग­प्र­ति­भा­स­वि­रो­धा­त्कुतो मिथ्या­त्व­मि­त्या­शङ्क्य बाधा­वि­शे­षा­दि­त्याह –
उभयोरिति ॥९॥

दार्ष्टा­न्ति­क­माह –
जाग्रदिति ।

युक्तत्वे हेतुमाह –
अन्तरिति ।

श्लोक­स्था­ना­म­क्ष­राणां व्याख्या­न­म­न­पे­क्षितं व्याख्या­त­प्रा­य­त्वा­दि­त्याह –
व्याख्यातमिति ॥१०॥

सर्वमिथ्यात्वे प्रमा­तृ­प्र­मा­णा­दि­व्य­व­हा­रा­नु­प­पत्त्या विशेषमाशङ्कते –
उभयोरिति ।

कर्तृ­क­र­ण­व्य­व­स्था­नु­प­प­त्त्याऽपि विरो­धोऽ­स्ती­त्याह –
को वा इति ।
विकल्पको निर्मातेति यावत् ।

श्लोकस्य चोद्यपरत्वं प्रतिजानीते –
चोदक इति ।

अक्षरयोजनया प्रथ­मा­र्था­प­त्ति­वि­रोधं स्फोरयति –
स्वप्नेति ।

चतु­र्थ­पा­द­म­व­ता­र्या­र्था­प­त्त्य­न्त­र­वि­रोधं स्फुटयति –
को वै तेषामिति ।
कर्ता हि पूर्वानुभूतं स्मृत्वा तज्जा­ती­या­न्नि­र्मि­मीते तेन स्मृत्य­नु­भ­वा­श्र­या­क्षे­पेण कर्त्राक्षेपो विवक्षितस्तथा च कर्ता­दि­व्य­व­हा­रा­नु­प­पत्तिः सर्वमिथ्यात्वे दुर्वारेत्यर्थः ।

योऽध्यात्मं प्रमाता यश्चाधिदैवं कर्ते­श्व­र­स्ता­व­भा­वपि मिथ्ये­त्य­ङ्गी­का­रा­त्प्र­मा­त्रा­दे­र­स­त्त्व­मि­त्या­श­ङ्क्याऽऽह –
न चेदिति ।
यदि प्रमाता कर्ता वा नेष्यते तर्हि नैरा­त्म्य­मि­ष्ट­मे­वाऽऽ­प­द्यते । न च तदेष्टुं शक्यत आत्मनिराकरणस्य दुष्क­र­त्वा­न्नि­रा­क­र्तु­रे­वाऽऽ­त्म­त्वा­दि­त्यर्थः ॥११॥

कर्तृ­का­र्या­दि­व्य­व­स्था­नु­प­पत्तिं परिहरति –
कल्पयतीति ।

करणान्तरं व्यवच्छिनत्ति –
आत्मनेति ।

कर्मान्तरं व्यावर्तयति –
आत्मानमिति ।

कर्त्रन्तरं निवारयति –
आत्मेति ।

तस्य द्योत­का­न्त­रा­पेक्षां प्रतिक्षिपति –
देव इति ।

विवर्तवादं द्योतयति –
स्वमाययेति ।
सर्वस्य मिथ्यात्वेऽपि मायया विक­ल्पि­त­भे­दा­नु­रो­धेन कर्तृ­त्वा­दि­व्य­वस्था सिद्ध्यतीति भावः ।

प्रमा­तृ­प्र­मा­णा­दि­व्य­व­हा­रा­नु­प­पत्तिं प्रत्याह –
स एवेति ।

एक­स्मि­न्ने­वा­द्वि­तीये प्रतीचि वस्तुनि कल्प­नि­क­भे­द­नि­ब­न्धना सर्वा व्यवस्थेत्यत्र प्रमाणमाह –
इति वेदान्तेति ।

यथा घटस्रष्टा कुलालोऽधिष्ठाता मृदोऽन्यो दृष्टो न तथे­हा­न्योऽ­धि­ष्ठा­ताऽ­स्ती­त्याह –
स्वयमिति ।

तथा तत्र मृदा­ख्य­मु­पा­दा­न­म­धि­ष्ठा­तु­र­न्य­द­धि­गतं न तथाऽ­त्रा­न्य­दु­पा­दा­न­म­स्ती­त्याह –
स्वमात्मानमिति ।

तत्र च घटं कुर्वतो भूभागो भवत्याधारो न तथे­हाऽऽ­धा­रोऽ­न्योऽ­स्ती­त्याह –
आत्मन्येवेति ।

परिणामवादं व्यावर्त्य विवर्तवादं प्रकटयितुं स्वमा­य­ये­त्युक्तं, तत्र दृष्टान्तमाह –
रज्ज्वादाविति ।

मायाद्वारेण चिदात्मनो जग­न्नि­र्मा­तृ­त्व­मुक्त्वा तस्यैव बुद्धि­प्र­ति­बि­म्बि­तस्य प्रमा­तृ­त्व­मि­त्याह –
स्वयमेव चेति ।

न च प्रमातृत्वस्य तात्त्विकत्वं रज्ज्वादौ सर्पा­दि­द­र्श­न­व­देव मिथ्या­त्व­नि­र्धा­र­णा­दि­त्याह –
तद्वदिति ।

कर्त्रादिभेदस्य प्रमा­त्रा­दि­भे­दस्य च मिथ्यात्वे ‘नेह नानाऽस्ति’(बृ. उ. ४ । ४ । १९) इत्यादिश्रुतिं प्रमाणयति –
इत्येवमिति ।

स एवे­त्ये­व­का­रा­र्थ­माह –
नान्योऽस्तीति ।
यो जगत्स्रष्टा यश्च प्रमाता ततोऽन्यो ज्ञानस्य स्मृते­श्चाऽऽ­श्रयो नास्ति । चेतनभेदे माना­भा­वा­द­नु­भ­व­स्मृ­त्यो­श्चै­का­श्र­य­त्वस्य प्रसि­द्ध­त्वा­दि­त्यर्थः ।

ज्ञान­स्मृ­त्यो­रा­श्र­या­पेक्षा विषयापेक्षा वा नास्ती­त्या­श­ङ्क्या­बा­धि­त­प्र­सि­द्धि­वि­रो­धा­न्मै­व­मि­त्याह –
न चेति ॥१२॥

प्रकृतायां कल्पनायां विवक्षितं क्रममुपन्यस्यति –
विकरोतीति ।
नियतांश्चेति चका­रा­द­नि­य­तां­श्चेति विवक्ष्यते ।

प्रति­पि­त्सि­त­क्र­म­प्र­ति­प­त्त्यर्थं पृच्छति –
स कल्पयन्निति ।

श्लोका­क्ष­र­यो­ज­नया बुभुत्सितं क्रमं प्रत्याययति –
उच्यत इत्यादिना ।
अन्यांश्चेति ।
शास्त्रीयानिति यावत् । चित्तमध्ये वासनारूपेण व्यवस्थितान् ।

अन­भि­व्य­क्त­ना­म­रू­प­त्वेन व्यव­हा­रा­यो­ग्य­त्व­माह –
अव्याकृतानिति ।
कल्प­ना­का­ल­न्वि­द्यु­दा­दी­न­स्थि­रा­नि­त्यर्थः । बहिश्चित्तो बहिर्मुखो बाह्यान् व्यवहारयोग्यान् पदार्थान् कल्पयति । अन्तश्चित्तस्तु तेभ्यो व्यावृ­त्त­बु­द्धि­र्म­नो­र­था­दि­ल­क्ष­णा­ना­त्म­न्येव व्यव­हा­र­यो­ग्य­तायै कल्पयतीत्यर्थः । एतदुक्तं भवति । यथा लोके कुलालो वा तन्तुवायो वा घटं पटं वा कार्यं चिकीर्षुरादौ व्यवहारायोग्यां व्यक्तिं बुद्धा­वा­वि­र्भाव्य पश्चात्तामेव बहि­र्ना­म­रू­पाभ्यां सम्पादयति तथै­वा­य­मा­दि­क­र्ताऽपि मायालक्षणे स्वचित्ते नाम­रू­पा­भ्या­म­व्य­क्त­रू­पेण स्थिता­न्स्र­ष्ट­व्य­प­दा­र्थान् प्रथमं सिसृ­क्षि­ता­का­रे­णा­न्त­र्वि­भाव्य पश्चाद्बहिः सर्व­प्र­ति­प­त्तृ­सा­धा­र­ण­रू­पेण सम्पादयतीति कल्पनायां क्रमाधिगतिरिति ॥१३॥

कल्पितानां कल्प­ना­का­ला­द­न्य­स्मिन् काले सत्त्वा­भा­वा­ज्जा­ग्र­द्भा­वानां च कल्प­ना­का­ला­त्का­ला­न्त­रेऽपि प्रत्यभिज्ञया सत्त्वा­व­ग­मा­द­नु­प­पन्नं तेषां मिथ्या­त्व­मि­त्य­श­ङ्क्याऽऽह –
चित्तेति ।
ये कल्पनाकालभाविनो भावा मन­स्य­न्त­र्व­र्तन्ते ये च प्रत्य­भि­ज्ञा­य­मा­न­त्वेन पूर्वा­प­र­का­ल­भा­विनो बहिरेव व्यवहारयोग्या दृश्यन्ते ते सर्वे कल्पिताः सन्तो मिथ्यैव भवितुमर्हन्ति। प्रत्य­भि­ज्ञा­य­मा­न­त्व­ल­क्षणो विशेषस्तु नाक­ल्पि­त­त्व­प्र­युक्तः, कल्पितेऽपि तद्द­र्श­ना­दि­त्यर्थः ।

श्लोक­व्या­व­र्त्या­मा­शङ्कां दर्शयति –
स्वप्नवदिति ।

यथा स्वप्ने दृश्यमानं सर्वं कल्पितं मिथ्यैवेष्यते तथा जागरितेऽपि दृष्टं सर्वं चित्तस्पन्दितं तेन कल्पितं मिथ्यै­वे­त्ये­त­न्ना­द्यापि निर्धा­रि­त­मि­त्यत्र हेतुमाह –
यस्मादिति ।
आत्मा­वि­द्या­वि­व­र्तेन चित्तेन ताव­द­न्त­र्वि­नि­र्मिता मनोरथरूपा मन­स्य­न्त­र्व­र्त­माना बहि रज्जुसर्पादयश्च ते चित्तेनैव परिच्छिद्यन्ते । ते हि कल्प­न­का­ल­मा­त्र­भा­विनो न प्रमीयन्ते । तैः सह वैलक्षण्यं मनसो बहि­र्जा­ग्र­द्दृ­श्य­मा­नानां भावा­ना­म­न्यो­न्य­प­रि­च्छे­द्यत्वं काल­द्व­या­व­च्छि­न्न­त्वेन प्रत्य­भि­ज्ञा­गो­च­र­त्व­मिति यस्मादुपलभ्यते तस्मादयुक्तं जागरितस्य स्वप्न­व­न्मि­थ्या­त्व­मि­त्यर्थः ।

श्लोका­क्ष­रै­रु­त्त­र­माह –
सा नेति ।

ये मन­स्य­न्त­र्म­नो­र­थ­रूपा भावास्ते चित्तकाला भवन्तीत्यत्र चित्तकालत्वं विशदयति –
चित्तेत्यादिना ।

वाच्या­र्थ­मुक्त्वा विवक्षितार्थमाह –
कल्पनेति ।

द्विती­य­पा­द­म­व­तार्य व्याकरोति –
द्वयेति ।
ये मनसो बहिरुपलभ्यन्ते ते भेदकालाः कालस्य भेदो भेदकालः स येषां ते तथेति व्युत्पत्तेः । ततश्चान्येन पूर्वेणान्येन चापरेण परिच्छेद्या भिन्न­का­ला­व­च्छि­न्न­त्वेन प्रत्य­भि­ज्ञा­य­माना इत्यर्थः ।

प्रत्य­भि­ज्ञा­य­मा­न­त्व­मु­दा­ह­र­ण­नि­ष्ठ­तया स्फुटयति –
यथेति ।
आगोदोहनं गोदो­ह­न­प­र्य­न्त­मास्ते देव­द­त्त­स्ति­ष्ठ­तीति प्रत्य­भि­ज्ञा­शे­ष­त्वे­ना­भि­ज्ञो­दा­ह­र­णीया ।

यावता कालेनावच्छिन्नो वर्तते तावता कालेनावच्छिन्नो गोदोहनं निर्व­र्त­य­ती­त्य­ने­क­का­ला­व­स्था­यि­त्वेन प्रत्य­भि­ज्ञा­वि­ष­यत्वं तस्य दर्शयति –
यावदिति ।

यावता कालेनायां घटोऽर्थक्रियां निर्वर्तयितुं शक्नोति तावता कालेनावच्छिन्नः सन्नेष तिष्ठ­ती­त्यु­दा­ह­र­णा­न्त­र­माह –
तावानिति ।

परोक्षतया स्थितो यावता कालेनावच्छिन्नः स्वकार्यं निर्वर्त्य निर्वृ­णो­त्ये­ता­वता कालेनावच्छिन्नः स तिष्ठ­ती­त्य­प­र­मु­दा­ह­र­ण­माह –
एतावानिति ।
उक्तेन न्यायेन ते सर्वे भावा बहिर्दृश्यमाना द्वयकालेन कालद्वयेन परिच्छेद्या भवन्तीत्यर्थः ।

तृतीयपादं व्याचष्टे –
अन्तरिति ।

चतु­र्थ­पा­दा­र्थ­माह –
नेत्यादिना ।
बाह्यो जाग्रद्दृश्येषु बाह्यपदार्थेषु व्यवस्थितो द्वयकालत्वेन काल­द्व­या­व­च्छे­देन कृतः प्रत्य­भि­ज्ञा­य­मा­न­त्व­रूपो विशे­षोऽ­न्य­हे­तुको न भवति ।

कल्पितेऽपि तथा­वि­ध­वि­शे­ष­स­म्भ­वा­दि­त्यत्र दृष्टान्तमाह –
अत्रापि हीति ।
यद्यपि सर्वं जाग्रद्भेदजातं कल्पितं तथाऽपि तत्र यथोक्तो विशेषः स्फुटः सिध्यति स्वप्ने सर्वस्य भेदजातस्य कल्पितत्वेऽपि प्रत्य­भि­ज्ञा­य­मा­न­त्वा­ज्जा­ग­रि­तेऽपि तदु­प­प­त्ते­रि­त्यर्थः ॥१४॥

स्वप्न­जा­ग­रि­त­यो­रु­भ­यो­रपि मिथ्यात्वे स्फुट­स्फु­टा­व­भा­स­वि­भा­गा­नु­प­प­त्ते­र्ना­वि­शे­षेण मिथ्या­त्व­मि­त्या­श­ङ्क्याऽऽह –
अव्यक्ता इति ।
ये मन­स्य­न्त­र्भा­व­ना­रू­प­त्वा­द­स्फुटा ये च मनसो बहिरुपलभ्यमानाः स्फुटा भवन्ति ते सर्वे मनः­स्प­न्द­न­मा­त्र­त्वेन कल्पिताः । मिथ्यै­वा­न्त­र्ब­हि­रि­न्द्रि­य­भे­द­नि­मित्तः स्फुट­त्वा­स्फु­ट­त्व­वि­शेषः । न मिथ्या­त्व­म­मि­थ्यात्वं वा तत्रोपयुज्यते । मिथ्याभूतेष्वपि तद्द­र्श­ना­दि­त्यर्थः ।

श्लोकाक्षराणि व्याकरोति –
यदपीत्यादिना ।
मन­स्य­न्त­र्म­नो­र­थ­रू­पाणां भावा­ना­म­व्य­क्त­त्व­म­स्फु­ट­त्वम् ।

तत्र हेतुमाह –
मन इति ।

चक्षु­रा­दि­ग्रा­ह्य­त्वेन मनसो बहिर्भावानां स्फुटत्वं दृष्टं तदे­षा­म­मि­थ्या­त्व­कृ­त­मिति शङ्कां वारयति –
नासाविति ।

सर्व­स­म्प्र­ति­प­न्न­मि­थ्या­त्वेऽपि स्वप्ने स्फुट­त्वा­स्फु­ट­त्व­वि­शे­ष­प्र­ति­भा­ना­न्नासौ विशेषो मिथ्या­त्व­म­मि­थ्यात्वं वा प्रयोजयितुं प्रभवतीत्याह –
स्वप्नेऽपीति ।

अयं विशेषस्तर्हि केन सिध्य­ती­त्या­शङ्क्य चतु­र्थ­पा­दा­र्थ­माह –
किं तर्हीति ।
मनो­मा­त्र­स­म्ब­न्धा­द­न्त­र्भा­वानां वास­ना­मा­त्र­रू­पा­णा­म­स्फु­ट­त्वम्। बहिर्भावानां तु चक्षु­रा­दि­ब­हि­रि­न्द्रि­य­स­म्ब­न्धा­द्युक्तं स्फुटत्वं तदेष विशेषो मिथ्या­त्वा­वि­शे­षेऽपि सिध्यतीत्यर्थः ।

स्फुट­त्वा­स्फु­ट­त्व­प्र­ति­भा­स­भे­दस्य मिथ्यात्वेऽपि सम्भवात् प्रगु­क्त­म­नु­मा­न­म­वि­रु­द्ध­मि­त्यु­प­सं­ह­रति –
अत इति ॥१५॥

भवतु सर्वस्य कल्पितत्वम् । सा पुनः सर्वकल्पना केन द्वारे­ण­था­श­ङ्क्याऽऽह –
जीवमिति ।
आत्मा हि सर्वं मायावशेन कल्पयन्नादौ विशिष्टरूपेण जीवं कल्पयति ।

तत इति ।
‘तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत्’(तै. उ. २ । ६ । १) इति श्रुतेः स्वयमेव जीवभावमापद्यते । तद्द्वारेण पुनर्नानाविधान् भावन्निर्मिमीते । ज्ञान­स्मृ­ति­वै­ष­म्या­त्त­त्क­ल्पेषु भावेषु वैष­म्यो­प­प­ति­रि­त्यर्थः ।

श्लोक­व्या­वर्त्यं प्रश्न­मु­त्था­प­यति –
बाह्येति ।
पदार्थाः साध्यसाधनतया स्थिता बाह्याः, सुखं दुःखं ज्ञानं राग­श्चे­त्ये­व­मा­द­य­स्त्वा­ध्या­त्मि­का­स्तेषां परस्परं निमि­त्त­नै­मि­त्ति­क­ताऽस्ति । बाह्या­न्नि­मि­त्ती­कृ­त्याऽऽ­ध्या­त्मिका भवन्ति । तानपि निमि­त्ती­कृ­त्ये­तरे जायन्ते । तदे­व­मि­त­रे­त­र­नि­मि­त्त­तया नैमित्तिकतया च कल्पनायां मूलं वक्तव्यम् । निर्मू­ल­क­ल्प­ना­या­म­ति­प्र­स­ङ्गा­दि­त्यर्थः ।

श्लोका­क्ष­र­यो­ज­नया परिहरति –
उच्यत इति ।

हेतु­फ­ला­त्म­क­मि­त्यु­क्त­मेव व्यनक्ति –
अहमिति ।

हेतुफलभावविकलं परि­शु­द्ध­मा­त्म­रूपं जीव­क­ल्प­ना­धि­ष्ठानं दर्शयति –
अनेवमिति ।

आरो­प­स्या­धि­ष्ठा­ना­पे­क्षाऽऽ­स्ती­त्यत्र दृष्टान्तमाह –
रज्ज्वामिवेति ।

द्विती­य­तृ­ती­य­पादौ विभजते –
तत इति ।
तादर्थ्येन प्रथमं कल्पितस्य भोक्तुर्जीवस्य शेष­त्वे­ने­त्यर्थः ।

यद्यपि जीवः सर्वकल्पनायां मूलभूतो हेतुस्तथाऽपि तस्य तत्र कल्पनाविशेषो विशे­ष­हे­तु­व्य­ति­रे­केण न सम्भवतीति शङ्कते –
तत्रेति ।

चतु­र्थ­पा­दे­नो­त्त­र­माह –
उच्यत इति ।
कल्पितो विशिष्टरूपेणेति शेषः। अधिकृतः स्वामित्वेन सम्बद्धः इत्यर्थः। इतिशब्दः श्लोका­क्ष­र­यो­ज­ना­स­मा­प्ति­द्यो­त­नार्थः।

प्रकृतकल्पनामेव प्रपञ्चयति –
अत इत्यादिना ।
सत्य­न्न­पा­ना­द्यु­प­योगे तृप्त्यादि भवति, असति न भव­ती­त्य­न्व­य­व्य­ति­रे­क­रू­पा­न्न्या­या­द्भो­ज­ना­दिकं हेतुरिति कल्प­ना­वि­ज्ञा­न­मु­त्प­द्यते। तत­स्तृ­प्त्या­दिकं फलमिति कल्पनाविज्ञानं जायते। ततोऽ­प­रे­द्यु­रु­क्त­यो­रु­भ­यो­रपि हेतुफलयोः स्मृतिरुद्भवति। ततश्च फल­सा­ध­न­स­मा­न­जा­तीये कर्त­व्य­ता­वि­ज्ञा­नम् । तत­श्चा­भि­ल­षि­त­तृ­प्त्या­दि­फ­ला­र्थ­त्वेन पाकादिक्रिया तत्कारकं तण्डुलादि तत्फ­ला­न्य­न्न­नि­ष्प­त्त्या­दीनि विशे­ष­वि­ज्ञा­ना­दीनि भवन्ति। ततो हेत्वा­दि­स्मृतिः। तत­स्त­द­नु­ष्ठा­नम्। ततश्च फलम्। इत्यानेन क्रमेण मिथो हेतुहेतुमत्तया कल्पना भवतीत्यर्थः।

प्रकृतां कल्पनामुपसंहरति –
एवमिति ॥ १६॥

इदानीं जीव­क­ल्प­ना­नि­मित्तं निरूपयति –
अनिश्चितेति ।

श्लोकस्य तत्पर्यं दर्शयितुं वृत्तं कीर्तयति –
तत्रेति ।
पूर्वश्लोकः सप्तम्यर्थः।

जीवकल्पनाया नित्यत्वायोगात् सनिमित्तत्वस्य वक्त­व्य­त्वा­त्तस्य च वस्तुत्वे निवृ­त्त्य­नु­प­पत्तेः अवस्तुत्वे च निमि­त्त­त्वा­सि­द्धे­र्जी­व­क­ल्प­नाया दुर्घ­ट­त्वा­त्त­त्का­र्य­भू­ताऽपि कल्पना नावकल्पत इत्याशङ्कते –
सैवेति ।

उत्तरत्वेन श्लोका­क्ष­रा­ण्य­व­तार्य व्याचष्टे –
दृष्टान्तेनेति ।
स्वम् असाधारणं रूपं रज्जुत्वं तेनेति यावत् ।

अनवधारितत्वमेव स्फोरयति –
एवमेवेति ।
रज्जु­रे­वे­य­मि­त्य­नेन प्रका­रे­णे­त्यर्थः।

उक्ता­व­धा­र­णा­रा­हित्ये कारणं सूचयति –
मन्देति ।
पूर्वं रज्जु­स्व­रू­प­नि­श्च­या­त्प्रा­ग­व­स्था­या­मि­त्यर्थः।

सर्पा­दि­क­ल्प­ना­या­म­न्व­य­व्य­ति­रे­क­सि­द्ध­मु­पा­दा­न­मु­प­न्य­स्यति –
स्वरूपेति ।

एतदेव व्यतिरेकद्वारा विवृणोति –
यदि हीति ।
देवदत्तस्य हस्ताद्यवयवेषु तद्रूपेणैव निश्चितेषु सर्पादिविकल्पो यथा नोपलभ्यते तथा पुरोवर्तिन्यपि रज्जुस्वरूपेण निश्चिते नासौ युक्तस्तथा च रज्ज्वज्ञानादेव स भवतीत्यर्थः।

उपपादितं दृष्टान्तमनूद्य दार्ष्टा­न्ति­क­म­भि­द­धा­न­श्च­तु­र्थ­पा­दा­र्थ­माह –
एष इति ।
हेतु­फ­ला­दी­त्या­दि­श­ब्देन कर्तृ­त्व­भो­क्तृ­त्व­रा­ग­द्वे­षादि गृह्यते।

विलक्षणत्वमेव स्फुटयति –
स्वेनेति ।
अनारोपितेनेति यावत्। विज्ञ­प्ते­र्वि­शु­द्धत्वं जन्मा­दि­रा­हि­त्य­मा­का­रा­न्त­र­शू­न्यत्वं तन्मात्रत्वं चेत्यर्थः।

तन्मा­त्र­त्व­म­युक्तं साम­न्य­वि­शे­ष­भा­वा­दि­त्या­श­ङ्क्याऽऽह –
सत्तेति ।

न च तत्रान्यदस्ति सुखमिति मत्वा विशिनष्टि –
अद्वयेति ।

सच्चि­दा­न­न्दा­द्व­या­त्मा­वि­द्या­वि­ल­सितं द्वैतमित्यत्र प्रमाणं सूचयति –
इत्येष इति ।
अद्वै­त­श्रु­त­य­स्ता­व­त्त­त्रो­प­ल­भ्यन्ते ‘यत्र हि द्वैतमिव भवति’(बृ. उ. २ । ४ । १४) इत्याद्याश्च द्वैत­त­त्प्र­ति­भा­स­यो­र्मृ­षा­त्व­मा­वे­द­यन्त्यः श्रुतयः श्रूयन्ते तेनाद्वैतं तत्त्वं द्वैत­म­वि­द्या­वि­जृ­म्भि­त­मिति प्रमा­ण­सि­द्ध­मि­त्यर्थः॥१७॥

अविद्याकृता जीव­क­ल्प­ने­त्य­न्व­य­मु­खे­नोक्तं तदेवेदानीं व्यतिरेकमुखेन दर्शयति –
निश्चितायामिति ।
रज्जुरेवेति रज्ज्वां निश्चितायां तद­ज्ञा­न­नि­वृ­त्ते­स्त­दु­त्थ­स­र्पा­दि­वि­कल्पः सर्वथा निवर्तते रज्जुमात्रं चाविश्ष्यते तद्वदात्मनि श्रौतो निश्चयो यदा सम्पद्यते तदा सर्व­स्याऽऽ­त्मा­वि­द्या­क­ल्पि­तस्य जीवादिविकल्पस्य व्यावृ­त्ते­र­द्वै­त­मे­वाऽऽ­त्म­तत्त्वं परिशिष्यते तस्मा­दा­त्मा­वि­द्या­वि­जृ­म्भिता जीव­क­ल्प­ने­त्यर्थः।

दृष्टान्तभागं व्याचष्टे –
रज्जुरिति ।

तद्वदित्यादि व्याकरोति –
तथेति ।
सर्वस्यापि संसारात्मनो धर्म­स्याऽऽ­त्म­न्या­रो­पि­त­स्या­स­त्त्वा­वे­दकं यन्नि­षे­ध­शास्त्रं तेन जनितं विज्ञानमेव सूर्या­लो­क­स्त­त्कृतो योऽय­मा­त्म­वि­नि­श्चयः स एवाद्वितीयः शिष्यते। द्वैतं पुनः सर्वमेव व्यावृत्तं भवतीत्यर्थः।

आत्मविनिश्चयमेव विशिनष्टि –
आत्मैवेति ।

सर्व­मि­द­मा­त्मै­वे­त्युक्तेः पूर्णत्वं तस्योच्यते पूर्वभाविना कारणेन संस्प­र्श­शू­न्योऽ­पूर्वः पश्चाद्भाविना कार्येण सम्ब­न्ध­वि­धु­रोऽ­न­परः अन्तरं छिद्रं तच्छू­न्योऽ­न­न्त­र­श्चि­दे­क­र­स­स्त­स्यैव प्रत्य­क्त्व­म­बा­ह्यत्वं कार्य­का­र­णा­स्पृ­ष्ट­मु­भ­य­क­ल्प­ना­धि­ष्ठा­न­त्वेन ततोऽ­र्था­न्त­र­त्वा­दि­त्याह –
सबाह्येति।
विशेषणत्रयं कौट­स्थ्य­व्य­व­स्था­प­ना­र्थम्।

जन्मा­दि­स­म्ब­न्धा­भावे कार­ण­म­वि­द्या­स­म्ब­न्ध­रा­हित्यं दर्शयति –
अभय इति ।
न खल्वविद्या तत्र कारणत्वेन सम्बन्धमनुभवति।

तस्य पूर्णत्वेन कार­णा­न­प­क्ष­त्वा­दि­त्याह –
एक इति ।
द्वैता­द्वै­त­व्या­वृ­त्त्य­र्थ­म­व­धा­र­णम्। नन्वविद्यायाः निरा­श्र­य­त्वो­प­पत्तेः आश्रयान्तरस्य चासत्त्वात् तत्रैव सा प्रविशतीति चेत् सत्यम्।

अवि­द्व­द्दृष्ट्या तस्यास्तत्र प्रवेशेऽपि वस्तुदृष्ट्या नासौ तस्मिन् प्रवेष्टुं प्रभवतीत्याह –
अद्वय इति ॥१८॥

आत्म­नोऽ­द्वि­ती­यत्वे कथ­म­ने­कै­र्भा­वै­स्तस्य विक­ल्पि­त­त्व­मि­त्य­भि­प्रा­या­प्र­ति­पत्त्या प्रत्यवतिष्ठते –
प्राणादिभिरिति ।

सिद्धान्ती स्वाभि­स­न्धि­मु­द्घा­ट­य­न्नु­त्त­र­माह –
मायेति ।

चोद्यभागं विभजते –
यदीति ।

उत्त­रा­र्ध­मु­त्त­रत्वे व्याकरोति –
उच्यत इति ।

मायामेव दृष्टान्तेन स्पष्टयति –
यथेति ।

तामेव मायां कार्यद्वारा स्फोरयति –
ययेति ।
यथा लौकिको मोहितो मोहपरवशो दृश्यते तथाऽयमात्मा स्वयमेव माया­स­म्ब­न्धा­न्मो­हितो भवति। अतो मोह­द्वा­राऽऽ­त्म­न्येव माया­धि­ग­ति­रि­त्यर्थः।

मायाया मोहहेतुत्वं भगवताऽपि सूचितमित्याह –
ममेति ॥१९॥

के ते प्राणा­द­योऽ­नान्ता भावा यैरात्मा विकल्प्यते माय­ये­त्य­पे­क्षायां प्राणा­दि­वि­क­ल्प­ना­मु­दा­ह­रति –
प्राण इति ।
प्राणो हिर­ण्य­ग­र्भ­स्त­ट­स्थे­श्वरो वा स जगतो हेतुरिति प्राणविदो हैरण्यगर्भाद्या वैशेषिकादयश्च कल्पयन्ति। तदिदं कल्पनामात्रम्। स्वप्नतन्त्रस्य हिरण्यगर्भस्य सर्व­ज­ग­द्धे­तुत्वे मानाभावात्। पौरु­षे­या­ग­म­स्या­पौ­रु­षे­य­श्रु­ति­वि­रोधे स्वार्थे मानत्वायोगात्, तट­स्थे­श्व­र­वा­दस्य च प्रमा­ण­यु­क्ति­वि­ही­नस्य प्रति­प­त्तु­म­श­क्य­त्वा­दि­त्यर्थः।

कल्पनान्तरं दर्शयति –
भूतानीति चेति ।
पृथि­व्य­प्ते­जो­वा­य­व­स्त­त्त्वानि, तानि च चत्वारि भूतानि जगत्कारणानीति – लोकायतिकाः । तदपि कल्पनामात्रम्। न हि भूतानि स्वतः सिद्धानि, जडत्वविरोधात्। नापि परतः सिद्धानि, स्वगुणस्य चैतन्यस्य स्वग्रा­ह­क­त्वा­यो­गाद् वह्नि­ग­तौ­ष्ण्यस्य वह्नि­वि­ष­य­त्वा­द­र्श­नात्। अतो भूतानि जगत्कर्तॄणीति कल्प­नै­वे­त्यर्थः। सत्त्व­र­ज­स्त­मांसि त्रयो गुणाः साम्येनावस्थिता जगतो महदादिलक्षणस्य कारणमिति – साङ्ख्याः तदपि कल्पनामात्रम्। साम्येन स्थितानां कारणत्वे प्रल­या­भा­व­प्र­स­ङ्गात्। वैषम्यभजनस्य च निर्हेतुकत्वे सदा तदापातात्।

सहेतुकत्वे हेतोर्नित्यत्वे प्राची­न­दो­षा­नु­ष­ङ्गा­द­नि­त्यत्वे हेत्व­न्त­रा­पे­क्षा­या­म­न­व­स्था­ना­दि­त्याह –
गुणा इतीति ।

कल्पनान्तरमाह –
तत्त्वानीति चेति ।
आत्माऽविद्या शिव इति संक्षे­प­त­स्त्रीणि तत्त्वानि सर्व­ज­ग­त्प्र­व­र्त­का­नीति – शैवा मन्यन्ते। तदपि कल्पनामात्रम्। आत्मनो भिन्नत्वे शिवस्य घटा­दि­तु­ल्य­त्व­प्र­स­ङ्गा­द­भि­न्नत्वे तत्त्वानां त्रित्व­व्या­घा­ता­दि­त्यर्थः॥२०॥

एकस्याऽऽत्मनो विश्वादयः पादाः सर्व­व्य­व­हा­र­हे­तवो भवन्तीत्यपि कल्पनामात्रम्। निरं­श­स्याऽऽ­त्म­नोंऽ­श­भे­दा­नु­प­प­त्ते­रि­त्याह –
पादा इतीति ।

वात्स्यायन प्रभृतीनां कल्पनां कथयति –
विषया इतीति ।
शब्दादयो विषया भूयो भूयो भुज्य­मा­ना­स्त­त्त्व­मिति विभ्रममात्रम्। “विषस्य विषयाणां च दूर­म­त्य­न्त­म­न्त­रम् । उपभुक्तं विषं हन्ति विषयाः स्मरणादपि” इति विष­या­नु­स­न्धा­नस्य निन्दि­त­त्वा­त्तेषां पार­मा­र्थि­क­त­त्त्व­भा­वा­नु­प­प­त्ते­रि­त्यर्थः।

भूर्भुवः स्वरिति त्रयो लोका वस्तुभूताः सन्तीति –
पौराणिकाः ।
तदपि कल्पनामात्रम्।

स्थानभेदेन त्रित्वे तदानन्त्यस्य दुरुत्तरत्वात् स्वातन्त्र्यस्य चासि­द्ध­त्वा­दि­त्याह –
लोका इतीति ।
अग्नीन्द्रादयो देवा­स्त­त्त­त्फ­ल­दा­तारो नेश्वरस्तथेति – देवताकाण्डीयाः । तदपि कल्पनामात्रम्। अस्म­दा­दि­प्र­य­त्न­म­पेक्ष्य फलदातृत्वे तेषां भृत्येभ्यो विशे­षा­भा­व­प्र­स­ङ्गात्। स्वात­न्त्र्ये­णो­प­का­र­कत्वे तदा­रा­ध­न­वै­य­र्थ्यात्।

तद्भक्तानामपि विपत्तिदर्शनात् तत्प्र­सा­द­स्या­कि­ञ्चि­त्क­र­त्वा­दि­त्याह –
देवा इति चेति ॥२१॥

ऋग्वेदादयो वेदा­श्च­त्वा­र­स्त­त्त्वा­नीति – पाठका वदन्ति। तदपि कल्पनामात्रम्। न हि वेदा लौकि­क­व­र्ण­व्य­ति­रिक्ता दृश्यन्ते। क्रमवतामेव वर्णानां वेद­श­ब्द­वा­च्य­त्वा­ङ्गी­का­रात्। क्रम­श्चो­च्चा­र­णो­प­ल­ब्ध्यो­र­न्य­त­र­गतो वर्णे­ष्वा­रो­प्यते। तथा च तथाविधक्रमवतां वर्णा­ना­मा­रो­पि­त­रू­पेण वेद­श­ब्द­वा­च्य­त्वात् कुतो वेदानां परमार्थतेथाह –
वेदा इति ।

ज्योतिष्टोमादयो यज्ञा वस्तुभूता भवन्तीति बोधायन प्रभृतयो – याज्ञिका मन्यन्ते। तदपि भ्रान्ति­मा­त्रम्। ‘यज्ञं व्याख्यास्यामो द्रव्यं देवता त्याग’ इत्य­त्रै­कै­क­स्मिन् यज्ञ­वि­ज्ञा­ना­भा­वात् समु­दा­य­स्या­व­स्तु­त्वा­दि­त्याह –
यज्ञा इति चेति ।

भोक्तैवाऽऽत्मा न कर्तेति –
साङ्ख्याः ।

तत्र भोगो यदि विक्रिया स्वीक्रियते, तर्हि कथं नानि­त्य­त्वा­दि­प्र­सङ्गः ? स्वभावत्वे सदा स्यादिति विषयसन्निधौ भोक्तृत्वं भ्रान्ति­रे­वे­त्याह –
भोक्तेति चेति ।

सूपकारास्तु भोज्यं वस्त्विति प्रतिजानते तदपि न। मधु­रा­दि­र­स­व्य­ञ्ज­ना­दे­स्त­दै­वा­न्य­था­त्व­द­र्श­ना­दै­क­रू­प्या­स­म्भ­वा­दि­त्याह –
भोज्यमिति चेति ॥२२॥

आत्मा सूक्ष्मोऽ­णु­प­रि­माणः स्यादिति केचित्। तन्न। युग­प­द­शे­ष­श­री­र­व्या­पि­वे­द­ना­नु­स­न्धा­ना­सि­द्धे­रि­त्याह –
सूक्ष्म इतीति ।

स्थूलो देहोऽ­हं­प्र­त्य­या­दा­त्मेति –
लोकायतभेदः ।
तच्च न । मृतसुषुप्तयोरपि सङ्घा­ता­वि­शे­षा­च्चै­त­न्य­प्र­स­ङ्गात् ।

एकैकस्य च भूतस्य चैतन्यादर्शनात् सङ्घातस्य चाव­स्तु­त्वा­दि­त्याह –
स्थूल इति चेति ।
मूर्त­स्त्रि­शू­ला­दि­धारी महे­श्व­र­श्च­क्र­धारी वा परमार्थो भवतीत्यागमिकाः । तदपि भ्रान्ति­मा­त्रम्। अस्मदादिशरीरवत् तस्यापि शरीरस्य पाञ्च­भौ­ति­क­त्वात्।

लीला­वि­ग्र­ह­क­ल्पनं च विग्रहाभावे लीला­भा­वा­द­यु­क्त­मि­त्याह –
मूर्त इति ।

अमूर्तः सर्वाकारशून्यो निःस्वभावः परामर्थ इति – शून्य­वा­दि­न­स्त­दपि कल्पनामात्रम्। परमार्थो निःस्व­भा­वा­श्चेति व्याघातादित्याह –
अमूर्त इति चेति ॥२३॥

कालः परमार्थ इति – ज्योतिर्विदः । तच्च न। कालैक्ये मुहू­र्ता­दि­व्य­व­हा­रा­यो­गात्। तन्नानात्वेऽपि न स्वातन्त्र्यम्। अन्यविषयत्वेन प्रतीतेः। उदयकालः इत्यादिना क्रियाधर्मत्वेन प्रतीतेः स्फुटत्वात्। न च क्रियाधर्मत्वं कालेऽपि तदु­त्प­त्ति­द­र्श­ना­द­न्यथा काला­न­व­च्छि­न्न­त्वेन क्रिया­नि­त्य­त्वा­पा­ता­दि­त्याह –
काल इतीति ।

स्वारोदयविदस्तु दिशः परमार्था इत्याहुः। तदपि भ्रान्ति­मा­त्रम्। तद्विदामति परा­ज­य­द­र्श­ना­दि­त्याह –
दिश इति चेति ।
धातुवादो मन्त्र­वा­द­श्चे­त्या­दयो वाद वस्तुभूता भवन्तीति केचित्। तदपि कल्पनामात्रम्। ताम्रादिस्वभावे स्थिते नष्टे च कन­का­दि­स्व­भा­वा­स­म्भ­वात्।

मन्त्रवादेऽपि कालदष्टो न जीवति अकालदष्टः स्वय­मे­वो­त्था­स्य­ती­त्य­भ्यु­प­ग­मा­द्व्या­मोह मात्रमित्याह –
वादा इतीति ।

भुवनानि चतुर्दश वस्तूनीति – भुवनकोशविदः । तदपि कल्पनामात्रम्। तेषा­म­दृ­ष्ट­त्वात्। न च तेभ्य­स्त­द्द­र्श­नम्। तेषां मिथो विप्र­ति­प­त्ति­द­र्श­ना­दि­त्याह –
भुवनानीति ॥२४॥

मन एवाऽऽत्मेति –
लोकायतभेदः ।
तदपि भ्रान्ति­मा­त्रम्। तस्य स्वातन्त्र्ये क्लेश­प्रा­प्त्य­नु­प­पत्तेः।

अस्वातन्त्र्ये च घटवदनात्मत्वात् करणत्वाच्च दीप­व­दा­त्म­त्वा­यो­गा­दि­त्याह –
मन इति ।
बुद्धि­रे­वाऽऽ­त्मेति बौद्धाः।

तेषामपि भ्रान्ति­मा­त्र­मेव तत् सुषुप्ते व्यभिचाराद् वेद्यस्य च घट­व­द­ति­रि­क्त­वे­द्य­त्वा­दि­त्याह –
बुद्धिरिति ।
चित्तमेव बाह्याकारशून्यं विज्ञानम्। तदे­वाऽऽ­त्मे­त्य­परे।

तत्रापि प्रागु­क्त­न्या­या­वि­शे­षा­त्तुल्यं भ्रान्ति­त्व­मि­त्याह –
चित्तमिति ।

धर्माधर्मौ विधि­नि­षे­ध­चो­द­ना­गम्यौ परमार्थाविति –
मीमांसकाः ।
तदपि कल्पनामात्रम्।

देशकालादिषु धर्मा­ध­र्म­यो­र्वि­प्र­ति­प­त्ति­द­र्श­ना­दि­त्याह –
धर्मेति ॥२५॥

प्रधानं मूलप्रकृतिः। मह­द­ह­ङ्का­र­त­न्मा­त्रा­णीति सप्त प्रकृतिविकृतयः। पञ्च­ज्ञा­ने­न्द्रि­याणि, पञ्च कर्मे­न्द्रि­याणि, पञ्च विषयाः, मनश्चैकमिति षोडश विकाराः। पुरुषस्तु दृशिस्वभाव इति पञ्च­विं­श­ति­सं­ख्याकः प्रपञ्चो वस्त्विति –
साङ्ख्याः ।
तच्च कल्पनामात्रम्।

पञ्च­विं­श­ति­वि­शे­ष­ण­स्या­व्या­व­र्त­कत्वे वैयर्थ्याद् व्यावर्तकत्वे च व्याव­र्त्य­प्र­मि­त्य­प्र­मि­त्यो­र­नु­प­प­त्ते­रि­त्याह –
पञ्चविंशक इति ।
पातञ्जलाः पुनरीश्वरमधिकं पश्यन्तः षड्विंशतिः पदार्था इति कल्पयन्ति। तदयुक्तम्। ईश्वरस्य पुरु­षा­न्त­र्भा­वा­द­धि­क­त्वा­नु­प­पत्तेः।

अनन्तर्भावे च घट­व­द­नी­श्व­र­त्व­प्र­स­ङ्गा­दि­त्याह –
षड्विंश इति चेति ।
पाशुपतास्तु रागा­वि­द्या­नि­य­ति­का­ल­क­ला­मा­या­धि­कास्त एवै­क­त्रि­शं­त्प­दार्था इति ब्रुवते। तन्न। क्लेशत्वेऽपि रागा­वि­द्य­यो­र­वा­न्त­र­भे­द­व­द­स्मि­ता­दे­रपि तद्भिन्नत्वेन संख्यातिरेकात् तस्य रागोपलक्षितत्वे तस्या­प्य­वि­द्यो­प­ल­क्षि­त­त्वेन न्यून­ता­पा­ता­द­वि­द्या­मा­य­यो­श्चै­क­त्वा­द­वा­न्त­र­भेदे च नियतावपि तदुपपत्तेः संख्या­ति­रे­क­ता­द­व­स्थ्यम्।

कालकलासु च तत्प्र­सि­द्धे­रि­त्याह –
एकत्रिंशक इति ।
अनन्तः पदार्थभेदो न नियतोऽस्तीति केचित्। तदपि न। वादिनां विवाददर्शनात्।

विवादस्य चाज्ञा­न­मू­ल­क­त्वा­दि­त्याह –
अनन्त इतीति ॥२६॥

लोकानुरञ्जनमेव तत्त्वमिति –
लौकिकाः ।
तदपि विभ्रममात्रम्।

लोकस्य भिन्नरुचित्वात् तद­नु­र­ञ्ज­न­स्ये­श्व­रे­णापि कर्तु­म­श­क्य­त्वा­दि­त्याह –
लोकानिति ।

दक्ष­प्र­भृ­त­य­स्त्वा­श्रमाः परमार्था इति समर्थयन्ते। तदसत्। वेष­स्याऽऽ­श्र­म­श­ब्दा­र्थत्वे शूद्रादेरपि प्रस­ङ्गा­ज्जा­तेश्च दुर्वि­वे­च­त्वा­त्त­न्मू­ल­स्याऽऽ­श्र­मस्य दर्श­यि­तु­म­श­क्य­त्वात् संस्कारस्य च देहसमवायित्वे पार­लौ­कि­क­त्वा­यो­गा­द­सङ्गे चाऽऽत्मनि तदसमवायादित्याह –
आश्रमा इतीति ।
वैयाकरणास्तु स्त्री पुंनपुंसकं शब्दजातं तत्त्वमिति वर्णयन्ति। तदप्ययुक्तम्।

स्त्र्यादेः शब्दस्वभावत्वे सर्वादीनां त्रिलि­ङ्ग­त्वा­यो­गा­दे­क­स्या­ने­क­स्व­भा­व­त्वा­स­म्भ­वा­दौ­पा­धि­क­ध­र्मत्वे च तस्या­व­स्तु­त्व­प्र­स­ङ्गा­दि­त्याह –
स्त्रीपुं­न­पुं­स­क­मिति ।
द्वे ब्रह्मणी वेदितव्ये परं चापरं चेति केचित्। तच्च न।

परिच्छेदे क्वचिदपि ब्रह्म­त्वा­यो­गाद् वस्तु­तोऽ­प­रि­च्छि­न्नस्य तद्भावादित्याह –
परापरमिति ॥२७॥

सृष्टिर्वा लयो वा स्थितिर्वा तत्त्वमिति –
पौराणिकाः ।
तदपि कल्पनामात्रम्।

सतोऽ­स­त­श्चो­त्प­त्त्या­द्य­भा­वस्य वक्ष्य­मा­ण­त्वा­दिति मत्वाऽऽह –
सृष्टि­रि­त्या­दिना ।

यथो­क्त­क­ल्प­ना­ना­म­धि­ष्ठानं सूचयति –
सर्वे चेति ।
उदा­हृ­ता­श्चा­नु­दा­हृ­ताश्च कल्पनाभेदा यावन्तो विद्यन्ते ते सर्वेऽपि प्रकृतात्मन्येव कल्पनावस्थायां कल्प्यन्ते, नाऽऽत्मनः कल्पितत्वम्। सर्वस्य कल्पि­त­त्वे­ना­धि­ष्ठा­न­त्वा­यो­गा­दि­त्यर्थः।

प्राणा­दि­श्लो­केषु प्राण­श­ब्दा­र्थ­माह –
प्राण इति ।

तस्यैव बीजात्मनो विका­र­वि­शे­ष­त्वा­दि­त­रेषां न ततोऽ­त्य­न्त­भि­न्न­ते­त्याह –
तत्कार्येति ।

अन्तिमपदार्थं स्फुटयति –
अन्य इति ।
कुलधर्मो ग्रामधर्मो देश­ध­र्म­श्चे­त्येते सर्वशब्देन गृह्यन्ते।

तेषामात्मनि तदज्ञानादेव कल्पितत्वं सदृष्टान्तं स्पष्टयति –
रज्ज्वामिति ।

आत्म­नोऽ­धि­ष्ठा­न­यो­ग्य­तार्थं कल्प­ना­शू­न्य­त्व­माह –
तच्छून्य इति ।

किमिति समुदायार्थः श्लोकानामुच्यते श्लोका­न्त­रे­ष्विव प्रत्येकं पदा­र्थ­व्या­ख्या­न­मे­तेषु किं न स्यादि­त्या­श­ङ्क्याऽऽह –
प्रत्येकमिति ॥२८॥

लौकिकानां परीक्षकाणां च कति­प­य­क­ल्प­ना­भे­दा­नु­दा­हृ­त्या­न­न्त­त्वा­द­शे­ष­त­स्ते­षा­मु­दा­ह­र्तु­म­श­क्यत्वं दृष्ट्वा संक्षे­प­मा­त्र­मा­चष्टे –
यं भावमिति ।

पादत्रयं विभजते –
किं बहुनेत्यादिना ।

तमेव भावं विशिनष्टि –
यो दर्शित इति ।

स कथं द्रष्टारं रक्ष­ती­त्य­पे­क्षा­या­माह –
असाविति ।
साध­क­पु­रु­ष­ता­दा­त्म्य­मा­प­द्ये­त्यर्थः।

रक्षणप्रकारं प्रकटयति –
स्वेनेति ।
साक्षा­द­सा­धा­र­ण­रू­प­त्वेन तत्रैव निष्ठामापाद्य ततोऽन्यत्र प्रवृ­त्ति­मु­पा­स­कस्य निवा­र­य­ती­त्यर्थः।

चतुर्थपादं व्याचष्टे –
तस्मिन्निति ॥२९॥

एतेनान्यत्र प्रवृत्तिनिरोधे हेतुरुक्तः। तर्हि प्राणा­दी­ना­मा­त्म­व­देव तात्त्विकत्वं प्राप्त­मि­त्या­शङ्क्य कल्पि­ता­ना­म­धि­ष्ठा­ना­ति­रे­के­णा­व­स्तु­त्वा­न्नै­व­मि­त्याह –
एतैरिति ।

उक्त­ज्ञा­न­स्तु­त्य­र्थ­माह –
एवमिति ।

पूर्वार्धं व्याकरोति –
एतैरिति ।

कल्पि­ता­ना­म­धि­ष्ठा­ना­ति­रे­केण सत्ता­स्फु­र­ण­यो­र­भा­वात् तद्द्वा­रे­णाऽऽ­त्मनि भेद­द­र्श­न­म­वि­वे­कि­ना­मस्तु तदन्येषां कथ­मु­प­ल­ब्धि­रि­त्या­श­ङ्क्याऽऽह –
विवेकिनां त्विति ।

प्राणा­दी­ना­मा­त्मा­ति­रे­के­णा­सत्त्वे प्रमाणमाह –
इदमिति ।

उत्तरार्धं योजयति –
एवमिति ।

तत्त्वे­नाऽऽ­त्म­वे­द­नो­पायं सूचयति –
तत्त्वेनेति ।
स्वप्न­दृ­श्य­व­ज्जा­ग्र­द्दृ­श्यानां मिथ्यात्वसाधको दृश्य­त्वा­दि­हे­तु­रत्र युक्ति­रि­त्यु­च्यते। तथो­क्त­वि­ज्ञा­न­वान् वेदकिङ्करो न भवति, किं तु स यं वेदार्थं ब्रूते स एव वेदार्थो भवतीत्यर्थः।

विभागतो वेदा­र्थ­व्या­ख्या­न­म­भि­न­यति –
इदमिति ।
ज्ञानकाण्डं साक्षा­द­द्वै­त­व­स्तु­प­रम्। कर्मकाण्डं तु साध्य­सा­ध­न­स­म्ब­न्ध­बो­ध­न­द्वारा परम्परया तस्मिन् पर्यवसितम्। ‘सर्वे वेदा यत्पदमामनन्ति’(क. उ. १ । २ । १५) इति श्रुते­रि­त्यर्थः।

आत्मविदो वेदा­र्थ­वि­त्त­मुक्तं व्यनक्ति –
न हीति ।
तदेव हि वेदार्थतत्त्वं यत्प्र­त्य­गा­त्म­स्व­रू­पम्, अत­श्चा­ध्या­त्म­वि­देव याथात्म्येन तत्त्वज्ञाने प्रभवतीत्यर्थः।

उक्तेऽर्थे स्मृतिमुदाहरति –
न हीति ।
क्रियाशब्देन प्रमाणमुच्यते। तत्फलं तत्त्वज्ञानम्, अग्नि­हो­त्रा­दि­क्रि­या­याश्च शुद्धिद्वारा तस्मिन् पर्य­व­सा­ना­दि­त्यर्थः॥३०॥

याभि­र्यु­क्ति­भि­र­स्मिन् प्रकरणे द्वैतस्य मिथ्यात्वं कथ्यते तासां प्रमा­णा­नु­ग्र­ह­क­त्वा­द­ना­भा­स­त्व­म­व­से­य­मि­त्याह –
स्वप्नेति ।

श्लोकस्य तात्पर्यार्थमाह –
यदेतद् द्वैतस्येति ।

असत्त्वे सत्त्ववत् प्रतिभानं कथमित्याशङ्क्य श्लोकाक्षराणि व्याचष्टे –
स्वप्नश्चेति ।
प्रसारितानि तत्र तत्र प्रकटतां प्रापितानि पण्यानि क्रय­वि­क्र­य­द्र­व्याणि येषामापणेषु हट्टेषु ते प्रसा­रि­त­प­ण्या­प­णास्ते च गृहाश्च प्रासादाश्च स्त्रीपु­ञ्ज­न­प­दा­श्चै­तेषां व्यव­हा­रा­स्तै­रा­की­र्ण­मिति योजना।

दृष्टा­न्त­त्र­य­म­नूद्य दार्ष्टा­न्ति­क­माह –
यथा चेति ।
गन्धर्वनगराकारः चकारार्थः। ‘नेह नानाऽस्ति किञ्जन’(बृ. उ. ४ । ४ । १९) इत्यादयो वेदान्ताः।

द्वैतस्य वस्तुतोऽसत्त्वे स्मृतिमपि दर्शयति –
तम इति ।
तमसि मन्दान्धकारे रज्ज्वा­म­धि­ष्ठाने भूच्छिद्रमिति यद् भ्रान्त्या भाति तन्निभं तत्तुल्यं विवे­कि­भि­र्विश्वं दृष्टं, तच्चातीव चञ्चलमालक्षितं नाशप्रायं वर्तमानकालेऽपि तद्यो­ग्य­ता­स­त्त्वात्। न च द्वैतं कदाचिदपि सुखकरमुपलभ्यते, दुःखाक्रान्तं तु दृश्यते। तच्च नाशग्रस्तम्। नाशा­दू­र्ध्व­म­स­त्त्व­मे­वो­प­ग­च्छति न तर्हि तस्य परमार्थत्वं प्रमा­णा­भा­वा­दि­त्यर्थः॥३१॥

प्रमा­ण­यु­क्तिभ्यां द्वैत­मि­थ्या­त्व­प्र­सा­ध­ने­ना­द्वै­त­मेव पारमार्थिकमिति स्थिते निर्धारितमर्थं संगृह्णाति –
नेत्यादिता ।

श्लोकस्य तात्पर्यार्थमाह –
प्रकरणेति ।

कोऽसौ प्रक­र­णा­र्थ­स्तस्य वा संग्रहे किं सिध्यति, तदाह –
यदेति ।

व्यव­हा­र­मा­त्र­स्या­वि­द्या­वि­ष­य­त्वेऽपि किं स्यादिति चेत् तदाह –
तदेति ।

चतु­र्थ­पा­दा­र्थ­माह –
उत्पत्तीति ।

उक्तमेवार्थं प्रश्न­प्र­ति­व­च­नाभ्यां प्रपञ्चयति –
कथमित्यादिना ।

द्वैतासत्त्वं श्रुत्य­व­ष्ट­म्भेन स्पष्टयति –
यत्र हीति ।

द्वैत­स्या­सत्त्वे कथ­मु­त्प­त्ति­प्र­लयौ न स्याता­मि­त्या­शङ्क्य किं द्वैतस्य तौ किं वाऽद्वै­त­स्ये­त्याद्यं विकल्पं दूषयति –
सतो हीति ।

द्वितीयं प्रत्याह –
नापीति ।

व्याव­हा­रि­क­द्वै­ता­ङ्गी­का­रात् तस्यै­वो­त्प­त्ति­प्र­ल­या­वि­त्या­श­ङ्क्याऽऽह –
यस्त्विति ।

विमतस्तत्त्वतो नोत्प­त्ति­प्र­ल­य­वान् कल्पि­त­त्वा­द्र­ज्जु­स­र्प­वि­दि­त्यत्र दृष्टा­न्ता­सि­द्धि­मा­शङ्क्य रज्जुसर्पस्य रज्ज्वा­मु­त्प­त्ति­प्र­लयौ मनसि वा द्वयोर्वेति विकल्प्य प्रथमं प्रत्याह –
न हीति ।
रज्जुं पश्यतां सर्वे­षा­मु­प­ल­ब्धि­प्र­स­ङ्गा­दि­त्यर्थः।

द्वितीयं दूषयति –
न चेति ।
बहि­रु­प­ल­ब्धि­वि­रो­धा­दि­त्यर्थः।

तृतीयं निरस्यति –
न चेति ।
उभयतो मनोरज्जुलक्षणे न रज्जु­स­र्प­स्यो­त्प­त्ति­प्र­लयौ युक्तौ द्वया­धा­र­त्वा­नु­प­ल­म्भा­दि­त्यर्थः।

रज्जुसर्पवद् द्वैतस्य मान­स­त्वा­वि­शे­षान्न तत्त्वतो जन्मविनाशौ दर्शयितुं शक्त्याविति दार्ष्टा­न्ति­क­माह –
तथेति ।
द्वैतस्य न कुतश्चित् तात्त्विकौ जन्मविनाशाविति शेषः।

मान­स­त्वा­सि­द्धि­मा­श­ङ्क्याऽऽह –
न हीति ।

अन्व­य­व्य­ति­रे­काभ्यां द्वैतं मनो­वि­क­ल्प­ना­मा­त्र­मिति निगमयति –
अत इति ।
न च मनो द्वैतस्य दर्शनमात्रे निमित्तमिति युक्तम्।

भ्रम­सि­द्ध­स्या­ज्ञा­त­स­त्तायां प्रमा­णा­भा­वा­दि­त्य­भि­प्रेत्य प्रकृतमुपसंहरति –
तस्मादिति ।

निरोधाद्यभावस्य परमार्थत्वे तत्रैव शास्त्र­व्या­पा­रा­द­द्वैते तद­व्या­पा­रा­द­भा­व­बो­धने व्यापृतस्य भावबोधने व्यापा­र­वि­रो­धा­द­द्वै­त­म­प्रा­मा­णिकं प्राप्तमिति शङ्कते –
यद्येवमिति ।

अद्वैतस्य प्रामा­णि­क­त्वा­भावे किं स्यादि­त्या­श­ङ्क्याऽऽह –
तथा चेति ।

अद्वै­त­स्या­प्रा­मा­णि­क­त्वेऽपि कुतः शून्यवादो द्वैतस्य सत्त्वा­दि­त्या­श­ङ्क्याऽऽह –
द्वैतस्येति ।

नाप्रा­मा­णि­क­शू­न्य­वादो युक्तः, यथा रज्ज्वा­मा­रो­पि­त­स­र्पादे रज्जु­र­धि­ष्ठा­नम्; न हि निरधिष्ठानो भ्रमोऽस्ति; तथा द्वैत कल्पनाया निर­धि­ष्ठा­न­त्वा­यो­गा­त्त­द­धि­ष्ठा­न­त्वे­ना­द्वै­त­मा­स्थे­य­मि­त्यो­ङ्का­र­प्र­क­रणे परि­हृ­त­मे­त­च्चो­द्यम् कथमुद्भावयसीति सिद्धा­न्त­वा­द्याह –
नेत्यादिना ।

तत्र शून्यवादी स्वमतानुसारेण दृष्टा­न्ता­स­म्प्र­ति­पत्त्या चोदयति –
आहेति ।

स्वमतसम्मतस्यैव दृष्टा­न्त­ते­त्य­नि­य­मात् प्रसि­द्धि­मा­त्रेण पर­प्र­ति­बो­ध­न­स­म्भ­वाद् भ्रमबाधे परि­शि­ष्य­मा­ण­स्या­वधेः सत्यताया रज्ज्वादौ दृष्टत्वाद् द्वैत­भ्र­म­बा­ध­सा­क्षि­तया स्फुर­त­श्चै­त­न्य­स्या­क­ल्पि­त­त्वा­देव सत्त्वान्न शून्य­ता­प्र­स­क्ति­रि­त्यु­त्त­र­माह –
नेत्यादिना ।

अद्वै­त­म­स­द­प्रा­मा­णि­क­त्वा­द्र­ज्जु­स­र्प­व­दिति तद­क­ल्पि­त­त्वा­सिद्धिं शङ्कते –
रज्ज्विति ।

रज्जु­स­र्प­स्या­सत्त्वे भ्रान्ति­वि­ष­यत्वं प्रयो­ज­क­मा­त्म­नस्तु भ्रम­सा­क्षि­त्वा­न्नि­य­मेन भ्रम­वि­ष­य­त्वा­न्ना­स­त्त्व­मि­त्यु­त्त­र­माह –
नैकान्तेनेति ।

अप्रा­मा­णि­क­त्व­हे­तो­र­नै­का­न्ति­कत्वं दोषान्तरमाह –
अविकल्पितेति ।
नायं सर्पो रज्जुरेवेति सर्पा­भा­व­ज्ञा­न­पू­र्व­क­पु­रो­व­र्ति­र­ज्जु­त्व­नि­श्च­या­त्प्रा­ग­व­स्थायां प्रामा­णि­क­त्वा­भा­वेऽपि सन्नेवाज्ञातो रज्ज्वं­शोऽ­भ्यु­प­ग­म्यते। तथा सदैव प्रामा­णि­क­त्वा­भा­वेऽपि सन्नेवाऽऽत्मा भवि­ष्य­ती­त्यर्थः।

आत्म­नोऽ­स­त्त्वा­भावे हेत्वन्तरमाह –
विक­ल्प­यि­तु­श्चेति ।
आत्मनो द्वैत­भ्र­मा­धि­ष्ठा­न­त्वेन सम्भावितत्वाद् बाधसाक्षित्वेन परिशिष्टत्वात् पूर्वं भ्रमोत्पत्तेः स्वतः सिद्धत्वाच्च प्रमा­णा­वि­ष­य­त्वेऽपि नास्ति शून्य­ते­त्यु­क्तम्।

इदानीं प्रमिते धर्मिणि प्रति­षे­ध­द­र्श­ना­दा­त्म­नोऽ­प्र­मि­तत्वे तत्र द्वैता­भा­व­प्र­मा­पकं शास्त्र­म­यु­क्त­मिति शङ्कते –
कथमिति ।

प्रतिपन्ने धर्मिणि प्रतिषेधात् प्रमिते प्रतिषेधस्य विशे­ष­ण­वै­फ­ल्या­दे­वा­न­भ्यु­प­ग­मा­दा­त्म­नश्च सर्व­क­ल्प­ना­स्व­धि­ष्ठा­ना­का­रेण स्फुर­णा­ङ्गी­क­र­णात् तस्मिन् प्रतिपन्ने द्वैतप्रतिषेधः सम्भवतीति परिहरति –
नैष दोष इति ।

भ्रमा­वि­ष­य­स्याऽऽ­त्म­नोऽ­ध्या­सा­नु­ग­त­तया स्फुर­ण­म­घ­ट­मा­न­मि­त्या­क्षि­पति –
कथमिति ।

स्वप्रकाशत्वेन स्वतो निर्वि­क­ल्प­क­स्फु­र­णेऽपि सवि­क­ल्प­क­व्य­व­हारे समा­रो­पि­त­सं­सृ­ष्टा­का­रेण भ्रम­वि­ष­य­त्व­म­वि­रू­द्ध­मि­त्याह –
सुख्य­ह­मि­त्या­दिना ।

उक्त­न्या­ये­नाऽऽ­त्म­प्र­तीतेः सिद्धत्वात् प्रतिपन्ने तस्मिन् द्वैत­प्र­ति­षे­धस्य सुकरतेति फलितमाह –
यदा चेति।

न केव­ल­मा­रो­पि­त­वि­शे­ष­णै­र्वि­शे­ष्य­स्याऽऽ­त्मनः स्वरूपस्फुरणस्य सिद्धत्वादेव न शास्त्रेण कर्त­व्य­त्व­म­नु­वा­द­त्वे­ना­प्रा­मा­ण्य­प्र­स­ङ्गा­च्चै­व­मि­त्याह –
अकृतेति ।

स्फुरत्यात्मनि द्वैत­नि­षे­ध­क­त्वेऽपि शास्त्रस्य फला­भा­वा­द­प्रा­माण्यं तद­व­स्थ­मि­त्या­श­ङ्क्याऽऽह –
अविद्येति ।
प्रति­षे­ध­शा­स्त्रा­द­प­नीते प्रतिबन्धे स्वरूपावस्थानं फलतीत्यर्थः।

निःशे­ष­दुः­ख­नि­वृ­त्ति­र्नि­र­ति­श­या­न­न्दा­वा­प्तिश्च परं श्रेयो, न स्वरू­पा­व­स्था­न­मि­त्या­श­ङ्क्याऽऽह –
स्वरूपेति ।
इति प्रसिद्धं मोक्ष­शा­स्त्रे­ष्विति शेषः।

द्वैत­नि­व­र्त­कत्वे शास्त्रस्य कारकत्वं स्यादि­त्या­श­ङ्क्याऽऽह –
सुखित्वादीति ।

असुखित्वादेः स्वाभा­वि­क­त्वा­दा­त्मनि स्फुर­त्य­स्फु­र­ण­म­नु­प­प­न्न­मि­त्या­शङ्क्य भ्रम­वि­ष­य­शि­क्ती­द­मं­शा­देश्च स्वाभाविकोऽपि रजतादिभेदो दोषमाहत्म्याद् यथा न प्रतिभाति तथाऽ­चि­न्त्य­श­क्त्य­वि­द्या­प्र­भा­वा­दा­त्मनि स्फुरत्यपि सुखि­त्वा­द्य­ध्या­स­वि­रो­ध्य­सु­खि­त्वादि रूपे­णा­स्फु­र­ण­म­वि­रु­द्ध­मि­त्याह –
आत्मेति ।

विपक्षे भ्रमा­नु­प­प­त्ति­रि­त्याह –
यदीति ।

उक्तमर्थं संक्षिप्य निगमयति –
तस्मादिति ।

असु­खि­त्वा­दे­र­क­ल्पि­त­त्व­म­सि­द्ध­मा­शङ्क्य निरस्यति –
यत्त्विति ।
अस्थूलं शोका­न्त­र­मि­त्या­दि­वाक्यं शास्त्रशब्देन गृह्यते।

उक्तेऽर्थे – द्रविडाचार्य सम्मतिमाह –
सिद्धं त्विति ।
ब्रह्मणि पदानां व्युत्प­त्त्य­भा­वेऽपि सिद्धमेव शास्त्र­प्रा­मा­ण्य­म­भा­व­बो­ध­न­व्यु­त्प­न्न­न­ञ्प­द­सं­सृष्टैः स्थूला­दि­व्यु­त्प­न्न­पदैः स्वाभा­वि­क­द्वै­ता­भा­व­बो­ध­ने­ना­ध्य­स्त­नि­व­र्त­क­त्वा­दिति सूत्रार्थः ॥३२॥

यदुक्तं निरोधाद्यभावस्य परमार्थतेति, तदयुक्तम् । सामा­न्य­वि­शे­षा­त्मकं वस्तु नानारसमिति मते निरोधादेः सुसा­ध्य­त्वा­दि­त्या­श­ङ्क्याऽऽह –
भावैरिति ।
भावा व्यावृत्ता विशेषाः। ते च व्यभि­चा­रि­त्वा­द­सन्तो रज्जुसर्पवत्। अद्वयमनुवृत्तं सामान्यं विशे­षा­का­रै­र­व­स्तु­भूतैः सामान्याकारेण च तादृ­शे­ना­य­म­व्या­वृ­त्ता­न­नु­ग­त­पू­र्ण­स­त्ता­चि­दे­क­तानः सन्नात्मैव मूढै­र्मो­ह­मा­हा­त्म्यात् कल्प्यते। न वस्तुतः सामा­न्य­वि­शे­ष­भा­वोऽस्ति, पर­स्प­रा­श्र­य­त्वा­दि­त्यर्थः।

विशे­षा­णा­म­सत्त्वे कथं सत्त्वेन व्यवहारः स्यादि­त्या­शङ्क्य सत्तातदात्म्येन कल्पितत्वात् तेषां सत्वेन व्यव­हा­रो­प­प­त्ति­रि­त्याह –
भावा इति ।
अनुगतसत्ताकारेण कल्पिताः सत्त्वव्यवहारा भवन्तीति शेषः।

सामा­न्य­वि­शे­ष­भा­वस्य कल्पि­त­त्वा­द­ख­ण्डै­क­र­सत्वे वस्तुनः सिद्धे निरो­धा­दे­र्दुः­सा­ध­न­त्व­मु­चि­त­मिति फलितमाह –
तस्मादिति ।

श्लोकतात्पर्यं दर्शयति –
पूर्वेति ।
निरो­धा­दि­स­र्व­वि­शे­षा­भा­वो­प­ल­क्षितं वस्तु वस्तुभूतमिति पूर्व­श्लो­का­र्थ­स्तस्य सामा­न्य­वि­शे­षा­त्मके वस्तुनि विशेषानाश्रित्य निरोधादेः सुसा­ध­न­त्वा­द­स­त्त्व­मा­श­ङ्क्यते, तेन तस्य साधनापेक्षायां तत्प्र­द­र्श­न­प­रोऽयं श्लोक इत्यर्थः।

तत्र पूर्वा­र्ध­ग­ता­न्य­क्ष­राणि दृष्टा­न्ता­व­ष्ट­म्भेन व्याचष्टे –
यथेत्यादिना ।
संसृष्टरूपेण कल्पितत्वेऽपि स्वरू­पे­णा­ना­रो­पि­त­त्वा­द्र­ज्जु­द्र­व्यस्य व्याव­हा­रि­क­स­त्य­त्व­मु­न्ने­यम्। अवि­द्य­मा­नै­र­य­मात्मा कल्प्यते, न परमार्थतस्तेषां सत्त्वमिति शेषः।

कथं प्राणादीनां पर­मा­र्थ­तोऽ­स­त्त्व­मि­त्या­श­ङ्क्या­न्व­य­व्य­ति­रे­काभ्यां तेषां मनः स्पन्दि­त­मा­त्र­त्व­प्र­ती­ते­र्मृ­षात्वं स्वप्नविदित्याह –
न हीति ।

आत्म­प­रि­णा­म­त्वा­न्म­न­श्च­ल­न­म­न्त­रे­णापि प्राणादिभावानां परमार्थतः सत्त्व­मि­त्या­श­ङ्क्याऽऽह –
न चेति ।
न हि विभोरात्मनो नभोवच्चलनं वास्तवमवकल्पते। न च तदभावे निरवयवस्य परि­णा­म­स­म्भा­व­ने­त्यर्थः।

प्राणा­दी­ना­मा­त्म­प­रि­णा­म­त्वा­स­म्भवे फलितमाह –
प्रजलितस्येति ।
प्रगतं चलितं यस्य स तथा । कूट­स्थ­स्यै­वाऽऽ­त्मनो भासमाना भावा न परमार्थतः सन्तो भवि­तु­मु­त्स­हन्ते। दृश्य­त्व­ज­ड­त्वा­दिना स्वप्न­वि­न्मि­थ्या­त्व­सि­द्धे­रि­त्यर्थः।

एवं प्राणादिभावानां मिथ्यात्वं प्रसाध्य फलितं दर्शयन् पूर्वा­र्धा­क्ष­राणां व्याख्या­न­मु­प­सं­ह­रति –
अत इति ।

अद्वयस्य परमार्थत्वात् तदात्मना कथमात्मा कल्पितः स्यादि­त्या­शङ्क्य स्वरू­पे­णा­क­ल्पि­तस्य संसृष्टरूपेण कल्पि­त­त्व­मि­ष्ट­मि­त्याह –
परमार्थसतेति ।

अवि­द्या­व­शा­दिष्टा कल्पना न स्वभा­व­व­शा­दि­त्याह –
सदेति ।

प्राणा­दी­ना­म­सत्त्वे सत्त्वेन कथं व्यव­हा­र­गो­च­र­त्व­मि­त्या­शङ्क्य तृतीयपादार्थमाह –
ते चेति ।
कल्पितानां प्राणा­दि­भा­वा­ना­म­धि­ष्ठा­न­स­त्तया सत्त्वेन न सत्ताऽ­व­क­ल्प्यते।

तेषा­म­धि­ष्ठा­ना­पे­क्षा­नि­य­मा­भा­वा­दि­त्या­श­ङ्क्याऽऽह –
न हीति ।
सर्वा विकल्पना साधिष्ठानैव दृश्यते। न चास­तोऽ­धि­ष्ठा­न­त्व­मा­रो­पि­ता­नु­वे­धा­भा­वात् तदनुवेधात्तु सतोऽ­धि­ष्ठा­न­त्व­मे­ष्ट­व्यम्। तथा च प्राणादिभावानां वस्तु­तोऽ­स­त्त्वेऽपि सति कल्पितानां सत्वेन व्यव­हा­र­सि­द्धि­रि­त्यर्थः।

चतु­र्थ­पा­दा­र्थ­माह –
अत इति ।
स्वेनेति विशेषणं संसृष्टरूपेण व्यभि­चा­रा­ङ्गी­का­रा­र्थम्।

कल्प­ना­रा­हि­त्य­द­शा­या­मे­वा­द्व­यता शिवेत्याशङ्क्य कल्प­ना­मा­त्र­स्या­शि­व­त्वा­न्मै­व­मि­त्याह –
कल्पनेति ।
त्रासा­दी­त्या­दि­श­ब्देन हर्षशोकादयो गृह्यन्ते।

यदुक्तमद्वयता शिवेति तदुपपादयति –
अद्वयतेति ॥३३॥

किं च किमिदं नानाभूतं द्वैत­मा­त्म­ता­दा­त्म्येन वा सिद्ध्यति, स्वातन्त्र्येण वेति विवेक्तव्यम्। नाऽऽद्य इत्याह –
नाऽऽत्मभावेनेति ।
इदं हि नानाभूतं द्वैतं नाऽऽत्म­ता­दा­त्म्येन सेद्धुमर्हति। जडा­ज­ड­यो­र्वि­रु­द्ध­स्व­भा­व­यो­स्ता­दा­त्म्या­यो­गात्। भेदा­दि­शू­न्या­त्म­ता­दात्म्ये च द्वैतस्य नाना­त्वा­सि­द्धे­रि­त्यर्थः।

द्वितीयं दूषयति –
न स्वेनेति ।
स्वेन सत्ता­प्र­ति­त्यो­र­न्या­न­पे­क्ष­ता­ल­क्ष­ण­स्वा­त­न्त्र्ये­णापि नेदं द्वैतं सेद्धुं पारयति। तथा स्वातन्त्र्ये सत्या­त्म­त्व­प्र­स­ङ्गा­द­ना­त्म­नोऽ­द्वै­त­त्वा­पा­ता­दि­त्यर्थः। किं च किमिदं द्वैतमन्योन्यं पृथगपृथग्वेति विवेक्तव्यम्।

नाऽऽद्य इत्याह –
न पृथगिति ।
न हि किञ्चिदपि द्वैतं परस्परं पृथगेव सिध्यति पृथक्त्वस्य धर्मि­प्र­ति­यो­गि­रू­पा­व­च्छि­न्न­त्वे­ना­न्यो­न्या­श्र­य­त्वा­द्ध­र्म­त्व­स्व­रू­प­त्व­यो­र्दु­र्व­च­न­त्वा­दि­त्यर्थः । नापि किञ्चि­द­न्यो­न्य­म­पृ­थ­ग्भूत्वा सिध्यति।

घटपटादिशब्दानां पर्या­य­त्व­प्र­स­ङ्गाद् व्यव­हा­र­लो­पा­पा­ता­दि­त्याह –
नापृथगिति ।

अतो वास्तवाकारेण सर्वथा निरूपणासहमेव द्वैतमिति फलितमाह –
इति तत्त्वेति ।

यदुक्तमद्वयता शिवेति; तत्र हेत्व­न्त­रो­प­न्या­स­प­रत्वं श्लोकस्य दर्शयति –
कुतश्चेति ।

तदेव स्फुटयति –
नाना­भू­त­मि­त्या­दिना ।
नानाभूतमित्यस्य पर्यायोपदानं पृथक्त्वमिति।

तस्य भयकारणत्वं प्रकटयति –
अन्यस्येति ।
तत्र व्याघ्र­चो­रा­दा­विति यावत्।

तद्भयकारणं भेददर्शनद्वये वस्तुनि नास्तीत्याह –
न हीति ।

अध्य­स्त­म­धि­ष्ठा­न­रू­पेण तत्त्वतो निरूप्यमाणमसदेव भवतीत्यत्र दृष्टान्तमाह –
यथेति ।
प्रदी­प­प्र­का­शे­ना­धि­ष्ठा­न­मा­त्र­तया समारोपितः सर्पो यदा निरूप्यते तदा नासौ तद्व्यतिरेकेण सिध्यति। तथा जगदपीदं तदात्मस्वरूपेण निरूप्यमाणं नान्यत्वेन सिध्ये­दि­त्यर्थः।

एवं प्रथमपादं व्याख्याय द्वितीयपादं व्याचष्टे –
नापीति ।
कदाचिदपीति ।
कल्पनावास्थायाः प्रागूर्ध्वं चेत्यर्थः।

न पृथ­गि­त्य­स्या­र्थ­माह –
तथेति ।
पृथ­क्त्व­स्या­न्यो­न्या­श्र­य­त्वेन दुर्वचनत्वात्। वैधर्म्योदाहरणं तु प्रातीतिकं पृथ­क्त्व­म­धि­कृ­त्या­वि­रु­द्धम्।

नापृथगित्यादि व्याकरोति –
अत इति ।
द्वैतस्य प्रागु­क्त­न्या­ये­ना­स­त्त्वान्न तदन्योन्यं वा परेणाऽऽत्मना वा सहापृथग्भूत्वा सेद्धुमर्हति। अतो दुर्नि­रू­प­त्वान्न किञ्चिद् द्वैतं नामास्तीति ब्रह्मविदां मतमित्यर्थः।

दृष्टं हि द्वैतं भय­हे­तु­स्त­द­स्पृष्टं पुन­र­द्वै­त­म­भ­य­मे­वे­त्यु­प­सं­ह­रति –
अत इति ॥३४॥

किमिति यथोक्तमद्वैतं सर्वेषां न प्रती­ति­गो­च­र­ता­मा­च­र­ती­त्य­श­ङ्क्याऽऽह –
वीतेति ।
रागा­दि­प्र­ति­ब­न्ध­वि­धु­रा­णा­मेव यथो­क्त­म­द्वै­त­द­र्शनं न सर्वे­षा­मि­त्यर्थः।

श्लोकस्य तात्पर्यमाह –
तदेतदिति ।
स्तुतिश्च तदु­पा­य­प्र­वृ­त्ता­व­प­क­रो­तीति शेषः। आदिपदेन सम्य­ग्द­र्श­न­प्र­ति­ब­न्धकाः सर्वे दोषाः संगृह्यन्ते।

रागादिविमोको यदा कदा­चि­द­न­धि­का­रि­णा­मपि सम्भवत्यतो विशिनष्टि –
सर्वदेति ।

सदा रागदिव्यावृत्तौ विवेकम् हेतुं प्रपञ्चयति –
मुनिभिरिति ।

विवेके च पद­श­क्ते­र्वा­क्य­ता­त्प­र्यस्य च परिञ्ञानं कारणमित्याह –
वेदेति ।

एवं सम्य­ग्ज्ञा­ना­धि­का­रिणं साध­न­च­तु­ष्ट­य­स­म्प­न्न­मुक्त्वा तद्विषयं निरूपयति –
निर्विकल्प इति ।

आत्म­न­श्चा­क्षु­ष­त्व­शङ्कां वारयति –
उपलब्ध इति ।

हिश­ब्द­द्यो­त्य­म­र्थ­माह –
वेदान्तेति ।
सर्व­वि­क­ल्प­शू­न्य­त्व­मा­त्मनः स्फुटयितुं प्रप­ञ्चो­प­श­म­वि­शे­ष­णम्। आत्मनोऽभावत्वं ब्रहुव्रीहिणा प्रत्युदस्यते।

हेतु­हे­तु­म­द्भा­वेन पुनरुक्तिं विशे­ष­यो­र्व्यो­से­धति –
अत एवेति ।

सम्य­ग्द­र्श­ना­धि­का­रिणो दर्शि­ता­नु­प­सं­ह­रति –
विगतेति ।

अनधिकारिणो दर्शयन् वैशे­षि­क­वै­ना­शि­क­दि­शा­स्त्रा­भि­ज्ञा­ना­मपि तदन्तर्भावं सूचयति –
नान्यैरिति ॥३५॥

मिथ्या­ज्ञा­न­प्र­च­य­सं­स्का­रा­द्वे­दा­न्ता­र्थ­ता­त्प­र्य­वतां पण्डितानामपि नाद्वैते प्रत्ययदार्ढ्यं सिध्यतीत्याह –
तस्मादिति ।

शास्त्रा­द­द्वै­त­म­व­गम्य स्मृतिसन्ततिं कुर्वतो लोकानुवर्तने विधिनियममाह –
अद्वैतमिति ।

तस्मा­दि­त्य­स्या­र्थ­माह –
यस्मादिति ।
एवमिति निर्वि­क­ल्प­त्वा­दि­प­रा­मर्शः। विदित्वा शास्त्र­तोऽ­व­ग­म्ये­त्यर्थः।

अद्वै­ता­व­ग­ति­दा­र्ढ्यार्थं स्मृति­स­न्त­ति­क­र्त­व्य­तायां निय­म­वि­धि­म­भ्य­नु­जा­नाति –
अद्वैत इति ।

अद्वै­त­मि­त्या­द्यु­त्त­रार्धं विभजते –
तच्चेति ।

जडसदृशस्य कथं लोका­च­र­ण­म­बु­द्धि­पू­र्व­का­रि­त्या­दि­त्या­श­ङ्क्याऽऽह –
सर्वलोकेति ।

लौकि­क­व्य­व­हा­रा­न­तीत्य विदुषो जडवदाचरणं किदृ­श­मि­त्य­पे­क्षायां चतुर्थं पादमनूद्य तात्पर्यमाह –
जडवदिति ।
एवं विधोऽ­ह­मि­त्या­त्मानं विद्या­भि­ज­ना­दि­भि­र­प्र­ख्या­प­य­ञ्ज­ड­व­देव विद्वा­ल्लो­क­मा­च­रे­दिति योजना ॥३६॥

ननु परापरदेवयोः स्तुति­पू­र्व­क­प्र­णा­मस्य श्राद्धा­दि­क्रि­या­याश्च कर्तव्यतया प्रतिबन्धात् कथं विदुषो जडवदाचरणमिति, तत्राऽऽह –
निस्स्तुतिरिति ।

तथाऽपि जीवता क्वापि स्थात­व्य­त्वा­दा­श्र­य­मु­द्दिश्य प्रवृ­त्ते­र­व­श्य­क­त्वात् कुतो जड­सा­दृ­श्य­मि­त्या­श­ङ्क्याऽऽह –
चलेति ।
चलं चाचलं च चलाचले ते निकेतो यस्याऽऽशयः स तथेति यावत्।

तथाऽपि कौपी­ना­च्छा­द­ना­श­न­पा­ना­दि­दे­ह­स्थि­ति­प्र­यो­ज­का­पे­क्षया प्रवृ­त्ति­ध्रौ­व्यान्न विदुषो जड­तु­ल्य­ते­त्या­श­ङ्क्याऽऽह –
यतिरिति ।

आका­ङ्क्षा­पू­र्वकं पूर्वा­र्धा­क्ष­राणि व्याचष्टे –
कयेत्यादिना ।

वर्णा­श्र­मा­भि­मा­न­व­त­स्त­त्त­त्क­र्मसु वर्त्तमानस्य कथमिदं विशे­ष­ण­मि­त्या­श­ङ्क्याऽऽह –
त्यक्तेति ।

पार­म­हं­स­पा­रि­व्राज्यं प्रति­प­त्तु­म­श­क्य­म­प्रा­मा­णि­क­त्वा­दिति चेन्मैवं श्रुति­स्मृ­ति­सि­द्ध­त्वा­दि­त्याह –
एतमिति ।
विदि­त्वे­त्या­पा­तिकं वेदनं व्युत्था­न­हे­तु­त्वे­नो­च्यते। तस्मिन्नेव परस्मिन् वस्तुनि विषयान्तरेभ्यो व्यावृत्ता बुद्धि­र्ये­षा­मिति तथा। तदेव परं वस्त्वात्मा निरुपचरितं स्वरूपं येषां ते तथोच्यन्ते।

तस्मिन्नेव परस्मिन्नात्मनि निष्ठा निश्चयेन स्थितिर्येषां ते तथेत्याह –
तन्निष्ठा इति ।

तदेवाऽऽत्मभूतं परं वस्तु परमयनं परा गतिर्येषां ते तथेत्याह –
तत्परायणा इति ।
आदिशब्देन ‘सर्वकर्माणि मनसा’(भ. गी. ५ । १३) इत्या­दि­वा­क्यं­गृ­ह्यते।

कदा पुनश्चलो देहो विदुषो निकेतो भवति, तत्राऽऽह –
यदेति ।
अविवक्षिते हि कालविशेषे विवक्षितं व्यवहारं निमि­त्ती­कृ­त्याऽऽ­त्म­स्थि­ति­मु­क्त­वि­शे­ष­ण­वतीं विस्मृ­त्या­ह­ङ्का­र­म­म­का­र­प­र­वशो यदा विद्वानवतिष्ठते तदेति योजना ।

स्वभा­व­त­स्त्व­च­ल­मा­त्म­स्व­रू­प­मे­वास्य निकेतनं, चलं पुनः शरी­र­मु­प­द­र्शि­त­वि­स्म­र­ण­द्वा­रे­णेति निगमयति –
सोऽयमिति ।

अविदुषो विशेषार्थं व्यावर्त्यं कीर्तयति –
न पुनरिति ।

चतु­र्थ­पा­दा­र्थ­माह –
स चेति ॥३७॥

अहमेव परं ब्रह्म न मत्तोऽन्यदस्ति किञ्चिदिति स्मृति­स­न्त­ति­क­र­ण­मपि न कालविशेषनियतं किं तु नैरन्तर्येण कर्तव्यमित्याह –
तत्त्वमिति ।
आध्यात्मिकं शरीरादि कल्पितं तत्त्व­म­धि­ष्ठा­न­मात्रं दृष्ट्वा बाह्यतो देहाद् बहिरवस्थितं पृथिव्यादि च कल्पि­त­त्वे­ना­व­स्तु­त्वा­द­धि­ष्ठा­न­मा­त्र­मे­वे­त्य­नु­भूय स्वयमपि द्रष्टा पर­मा­र्थ­व­स्तु­स्व­भा­व­मा­प­न्न­स्त­त्रै­वाऽऽ­स­क्त­चेता बाह्येभ्यो विषयेभ्यो व्यावृ­त्त­बु­द्धि­स्त­स्मि­न्नेव तत्त्वे परमार्थभूते प्रति­ष्ठि­त­स्त­द्द­र्श­न­निष्ठः स्यादित्यर्थः।

पृथिव्यादेश्च प्रत्येकं पर­मा­र्थ­त्व­स­म्भवे कथमद्वैतनिष्ठा सिद्ध्ये­दि­त्या­शङ्क्य व्याचष्टे –
बाह्यमित्यादिना ।

किं तदुभयोस्तत्त्वं तदाह –
रज्जुसर्पवदिति ।

उक्तस्य विका­र­जा­त­स्या­सत्त्वे प्रमाणमाह –
वाचारम्भणमिति ।

द्रष्टु­रा­त्म­नोऽपि दृश्य­प्र­ति­यो­गि­त्वा­त्तुल्यं वाचा­र­म्भ­ण­त्व­मि­त्या­श­ङ्क्याऽऽह –
आत्मा चेति ।

भवतु पर­स्याऽऽ­त्म­न­स्त­त्त­दा­ग­म­व­च­न­नि­र्दे­शा­दु­क्त­ल­क्ष­णत्वं तथाऽपि द्रष्टुरात्मनो न यथो­क्त­रू­प­त्व­मि­त्या­श­ङ्क्याऽऽह –
तत्सत्यमिति ।
विशेषणानि तु प्राचीनानि तत्त­दा­ग­मो­पा­त्ता­न्य­पु­न­रु­क्तानि।

द्वितीयार्धं व्याचष्टे –
इत्येवमिति ।

आत्मारामत्वं कथमित्याशङ्क्य बाह्य­वि­ष­या­सक्तिं त्यक्त्वा प्रत्य­गा­त्म­न्येव परि­तृ­प्त­त्वा­दि­त्याह –
न बाह्येति ।

तत्त्वा­द­प्र­च्युतो भव­ती­त्ये­त­द्व्य­ति­रे­क­मु­खेन व्याकरोति –
यथेत्यादिना ।
अतत्त्वदर्शीति च्छेदः।

आत्मविदो नाव्य­व­स्थि­त­मा­त्म­द­र्श­न­मि­त्यत्र हेतुमाह –
आत्मन इति ।

सति स्वरूपे स्वरू­पा­त्प्र­च्यु­ते­र­प्र­स­क्त­त्वा­त्त­त्प्र­ति­षेधो युक्तो न भव­ती­त्या­श­ङ्क्याऽऽह –
सदेति ।

वस्तुनः सदैकरूपत्वे स्मृतिमुदाहरति –
शुनि चेति ।
समदर्शिनः सदै­क­रू­प­व­स्तु­द­र्शिन एव पण्डिता नान्ये तथेत्यर्थः।

स्वरू­पा­प्र­च्य­वने च स्मृतिं दर्शयति –
सममिति ।
तत्र हि विन­श्य­त्स्व­वि­न­श्य­न्त­मिति स्वरू­पा­प्र­च्य­व­न­मु­त्तम् ॥३८॥