आनन्दगिरिटीका (माण्डूक्य)
वैतथ्यप्रकरणम्
अागमप्राधान्येनाद्वैतं प्रतिपादयता तत्प्रत्यनीकस्य द्वैतस्य मिथ्यात्वमर्थादुक्तम् । इदानीं तन्मिथात्वमुपपत्तिप्राधान्येनापि प्रतिपत्तुं सुशकमिति दर्शयितुं प्रकरणान्तरमवतारयन्नादौ दृष्टान्तसिद्ध्यर्थं तस्मिन् वृद्धसंमतिमाह –
वैतथ्यमिति ।
न केवलमागमोक्तिवशादेव स्वप्नमिथ्यात्वं, किं तु युक्तितोऽपीत्याह –
अन्तःस्थानादिति ।
पूर्वोत्तरप्रकरणयोः सम्बन्धसिद्ध्यर्थं पूर्वप्रकरणे वृत्तं संक्षिप्यानुवदति –
ज्ञात इति ।
आदिशब्देन ‘यत्र हि द्वैतमिव भवति’(बृ. उ. २ । ४ । १४) इत्यादिश्रुतिर्गृह्यते ।
तर्हि द्वैतमिथ्यात्वस्य प्रागेव सिद्धत्वादुत्तरं प्रकरणमनर्थकमित्याशङ्क्याऽऽह –
आगमेति ।
यद्द्वैतमिथ्यात्वं पूर्वमुक्तं – तदागममात्रम् आगमप्राधान्येनाधिगतम् । न ह्युक्तितः सिद्धम् । तस्मिन्नागमतोऽवगते युक्तिप्राधान्येनापि तन्मिथ्यात्वमवगन्तव्यमिति प्रकरणान्तरं प्रारब्धमित्यर्थः । प्रमाणानुग्राहकत्वात्तर्कस्यानुग्राह्यप्रमाणस्य प्रधानत्वात् तदधीनविचारानन्तरं तर्काधीनविचारस्य सावकाशाद् युक्तं पौर्वापर्यं पूर्वोत्तरप्रकरणयोरित्युक्तम् ।
संप्रति श्लोकाक्षराणि योजयति –
वितथस्येत्यादिना ।
बाह्यघटादयः; सुखादयस्त्वाध्यात्मिका भावाः ।
शरीरान्तरवस्थानं स्वाप्नानां भावानामित्यत्रानुभवं प्रमाणयति –
तत्र हीति ।
तेषामन्तरुपलभ्यमानत्वेऽपि न वैतथ्यं व्यभिचारादित्याशङ्कामनूद्य परिहरति –
नन्वित्यादिना ।
हेत्वान्तरशङ्कां वारयति –
अन्तरिति ।
यद्यपि देहान्तः सङ्कुचिते देशे स्वाप्ना भावा भवन्ति तथाऽपि कथं तेषां मृषात्वमित्यत आह –
न हीति ।
अन्तरित्युक्तं स्फुटयति –
संवृत इति ।
तमेव सङ्कुचितं देशं विशेषणान्तरेण स्फोरयति –
देहान्तर्नाडीष्विति ।
उक्तमर्थं कैमुतिकन्यायेन स्फुटयति –
न हीति ।
यदा देहेऽपि पर्वतादयो न संभाव्यन्ते तदा तदन्तर्वर्तिनीषु नाडिष्वतिसूक्ष्मासु तेषां सम्भावना नास्तीति किमु वक्तव्यमित्यर्थः । स्वाप्ना भवाः सत्या न भवन्ति, उचितदेशशून्यत्वात्, रजतभुजङ्गादिवदिति भावः ॥१॥
देहाद् बहिरेव देशान्तरं गत्वा स्वाप्नानां भावानामुपलम्भात् तेषां देहान्तः संवृते नाडीप्रदेशे दर्शनमसम्प्रतिपन्नमित्याशङ्क्य परिहरति –
अदीर्घत्वाच्चेति ।
बहिः स्वप्नोपलब्धिपक्षे दोषान्तरमाह –
प्रतिबुद्धश्चेति ।
व्यावर्त्यामाशङ्कामनुवदति –
स्वप्नेति ।
तेषां देहान्तः सङ्कुचिते नाडीदेशे स्थितिदर्शनान्मिथ्यात्वमित्येतदप्यसम्प्रतिपन्नमित्यत्र हेतुमाह –
यस्मादिति ।
पश्यन्निवेति स्वप्नदर्शनस्य निरूपणे सत्याभासत्वमिवशब्देन द्योत्यते । एतच्छब्देन चोद्यं परामृश्यते । स्वप्नद्रष्टा गत्वा स्वप्नान्न पश्यतीत्यत्र हेतुमाह –
यस्मादिति ।
इवशब्दस्तु पूर्ववत् ।
तथाऽपि कथं बहिः स्वप्नोपलम्भो न भवतीति निर्धारितमित्याशङ्क्याऽऽह –
न चेति ।
स्वप्नः सत्यो न भवति उचितकालविकलत्वात् सम्प्रतिपन्नविदित्यभिप्रेत्य फलितमाह –
अत इति ।
इतश्च न देहाद् बहिर्देशान्तरे स्वप्नदर्शनमित्याह –
किं चेति ।
सर्वोऽपि स्वप्नद्रष्टा देशान्तरे स्वप्नाप्नश्यन्नकस्मादेव प्रतिबुद्धो न तत्रास्ति किं तु शयनदेशे वर्तते ।
तथाऽपि गत्वा स्वप्नदर्शने काऽनुपपत्तिरित्याशङ्क्याऽऽह –
यदि चेति ।
अन्तरेव स्वप्नदर्शनमिति स्थिते स्वप्नमिथ्यात्वमुचितकालशून्यत्वादियुक्तं प्रपञ्चयति –
रात्राविति ।
यद्यपि रात्रौ निद्रामुपगतस्तथाऽपि भावानहनि पश्यन्निव तिष्ठति सुप्तः संहृतचक्षुरादिकरणोऽपि पश्यति । शयानोऽपि पर्यटनं प्रतिपद्यते । यद्यपि सहायविहीनः सुप्तस्तथाऽपि बहुभिः सहायैः स्वप्नानुपलभते । तस्मादुचितस्य कालस्य कारणस्य सहकारिणश्चाभावेऽपि स्वप्नदर्शनात् तस्मिन्मिथ्यात्वं सिद्धमित्यर्थः ।
स्वप्नमिथ्यात्वे हेत्वन्तरमाह –
यैश्चेति ।
सहदर्शिभिरर्गृह्यमाणत्वं स्वप्नद्रष्टुरसम्प्रतिपन्नमित्याशङ्क्याऽऽह –
गृहीतश्चेदिति ।
पुरुषान्तरसंवादादर्शनात्तद्देशान्तरप्राप्तिद्वारा स्वप्नदर्शनमिति वक्तुमशक्यत्वादन्तरेव स्वप्नदर्शनमित्युचितदेशकालाद्यभावात्तन्मिथ्यात्वं सिद्धमित्युपसंहरति –
तस्मान्नेति ॥२॥
स्वप्नदृश्यानां भावानां मिथ्यात्वे हेत्वन्तरमाह –
अभावश्चेति ।
‘न तत्र रथा न रथयोगा न पन्थानो भवन्ति’(बृ. उ. ४ । ३ । १०) इत्यादिश्रुत्या स्वप्ने स्वयंज्योतिष्ट्वमात्मनो दर्शयन्त्या तत्र दृश्यानां रथादीनामभावो योग्यदेशाद्यभावद्योतकन्यायपुरःसरं श्रूयते । अतस्तेन न्यायेन प्राप्तमेव स्वप्नदृश्यभावानां मिथ्यात्वमन्यपरया श्रुत्या प्रकाशितमिति ब्रह्मविदो वदन्ति । तथा च स्वप्ने भावानां मिथ्यात्वं श्रुतियुक्तिभ्यां सिद्धमित्यर्थः ।
हेत्वन्तरपरत्वं श्लोकस्य दर्शयति –
इतश्चेति ।
इतः शब्दार्थमेव स्फुटयति –
यत इति ।
ज्ञेयाभावे ज्ञानाभावादर्थाज्ज्ञानस्यापि श्रुतमसत्त्वमिति वक्तुं चशब्दः । श्रूयते ‘ न तत्रे’ त्याद्यायां श्रुताविति सम्बन्धः ।
न्यायपूर्वकमिति व्यचष्टे –
युक्तित इति ।
योग्यदेशाद्यभावो युक्तिः ।
तर्हि न्यायसिद्धेऽर्थे किमन्यपरया श्रुत्या क्रियते, तत्राऽऽह –
तेनेति ।
अन्तःशरीरमध्यस्थानं नाडीलक्षणम् । तत्रातिसूक्ष्मे संवृतत्वेन सङ्कुचितत्वेनावस्थानं पर्वतादीनामुपलभ्यते, ततश्चोचितदेशाभावो योग्यकालाभावश्चेत्यादिना प्रागुक्तेन हेतुना प्राप्तं स्वप्नदृश्यानां भावानां वैतथ्यम्, तदेव तदनुवादिन्या श्रुत्याऽपि प्रकाशितमित्याहुर्ब्रह्मविदः । जाग्रदवस्थायामादित्यादिप्रकाशानां वागादिज्योतिषां च विद्यमानत्वादासनादिव्यवहारस्य तन्निमित्तत्वसम्भवादात्मचैतन्यनिबन्धनो व्यवहारो न निर्धारयितुं शक्यते । स्वप्ने पुनः सूर्याद्यभावेऽपि व्यवहारदर्शनात् तस्य च निमित्तापेक्षत्वादात्मचैतन्यस्य तन्निमित्तत्वनिर्णयात् तत्राऽऽत्मनः स्वयंज्योतिष्ट्वं प्रतिपादयितुं ‘न तत्र’(मु. उ. २ । २ । ११) इत्याद्या श्रुतिः । तया तत्परया न्यायसिद्धं स्वप्नमिथ्यात्वमनुवदन्त्या तदप्रतिपादितमपि प्रकाशितमिष्यते । तथा च श्रुतियुक्तिभ्यां प्रतिपन्नं स्वप्नमिथ्यात्वमिति दृष्टान्तसिद्धिरित्यर्थः ॥३॥
उक्तन्यायेन दृष्टान्ते सिद्धे फलितमनुमानमाह –
अन्तःस्थानादिति ।
भेदानामित्यत्र सूचितमनुमानमारचयति –
जाग्रदिति ।
तृतीयेन पादेन पक्षधर्मत्वं व्याप्तस्य हेतोरुच्यते, तद् दर्शयति –
यथेति ।
द्वितीयेन पादेन प्रतिकूलप्रमाणाभावसूचकं प्रतिज्ञोपसंहारवचनं निगमनं सूत्रितमित्याह –
तस्मादिति ।
सर्वद्वैतवैतथ्यवादिनां केन विशेषेण पक्षसपक्षविभागसिद्धिरित्याशङ्क्यान्तःस्थानात्तु संवृतत्वेन भिद्यत इत्यत्र विवक्षितमर्थमाह –
अन्तःस्थानादिति ।
स्वप्नदृश्यानामन्तःस्थानं संवृतत्त्वं च, न तथा जाग्रद्दृश्यानाम्, तेनोचितदेशाद्यभावात्तेषां तेभ्यो वैषम्यं स्फुटम् । सिद्धं हि योग्यदेशाद्यभावेन स्वप्नस्य मिथ्यात्वमिति सपक्षत्वम् । जागरितस्य पुनरुचितदेशादिसद्भावादस्फुटं मिथ्यात्वमिति पक्षत्वमित्यर्थः ।
तर्हि सर्वथा वैषम्याद् दृष्टान्तदार्ष्टान्तिकभावासिद्धिरित्याशङ्क्याऽऽह –
दृश्यत्वमिति ॥४॥
स्वप्नवज्जागरितस्य मिथ्यात्वे स्वप्ननिद्रायुतावित्यादौ जागरिते स्वप्नशब्दप्रयोगो युक्तो भवतीत्याह –
स्वप्नेति ।
उभयत्रैकत्वं विद्वदभिमतमित्यत्र हेतुमाह –
भेदानामिति ।
भेदा भिद्यमाना भावाः । तेषामवस्थाद्वयवर्तिनां ग्राह्यत्वं ग्राहकत्वमविशिष्टम् ।
तेन दृश्यत्वेन हेतुना प्रसिद्धमेव तेषां मिथ्यात्वेन समत्वं तेन स्थानयोरेकरूपत्वं विवेकिनामभिप्रेतमिति यत्पूर्वमनुमानाख्यं प्रमाणं सिद्धं तस्यैव फलं साधनस्थानद्वयाविशेषरूपमनेन श्लोकेनोक्तमिति श्लोकयोजनया दर्शयति –
प्रसिद्धेनैवेति ॥५॥
जाग्रद्दृश्यानां भावानां मिथ्यात्वमित्यत्रानुमानान्तरमाह –
आदाविति ।
यदि जाग्रद्दृश्या भावा मिथ्यात्वेन प्रसिद्धैः स्वप्नादिभिः समत्वानिथ्या, कथं तर्हि तेषां घटः सन् पटः सन्नित्यमृषात्वेन प्रतीतिरित्याशङ्क्याऽऽह –
वितथैरिति ।
प्रकृते जाग्रन्मिथ्यात्वे हेत्वन्तरपरत्वं श्लोकस्योपन्यस्यति –
इतश्चेति ।
विमतं मिथ्याऽऽदिमत्त्वादन्तवत्त्वात् स्वप्नादिवदित्यर्थः ।
उक्तानुमानद्रढिम्ने व्याप्तिं कथयति –
यदादाविति ।
यदादिमदन्तवच्च तन्मिथ्या यथा मृगतृष्णिकादीत्यार्थः ।
व्याप्तिमतः साधनस्य पक्षधर्मतोपन्यासेन प्रतिज्ञोपसंहारवचनं निगमनं दर्शयति –
तथेति ।
अनुमानस्य घटादिषु सत्त्वग्राहकप्रत्यक्षविरोधमाशङ्क्य सद् गन्धर्वनगरमितिवत् तस्याऽऽपातिकसत्त्वविषयत्वान्मैवमित्याह –
तथाऽपीति ॥६॥
स्वप्नस्य मिथ्यात्वमाद्यन्तवत्त्वान्न भवति, किं तु फलपर्यन्तत्वाभावात् । जागरितस्य फलपर्यन्तत्वान्न मिथ्यात्वमित्याशङ्क्याह –
सप्रयोजनतेति ।
फलपर्यन्तताराहित्योपाधेः साधनव्यापकत्वे फलितमाह –
तस्मादिति ।
जाग्रद्दृश्याभावा बहूक्त्या गृह्यन्ते ।
श्लोकस्य व्यावर्त्यामुपाध्याशङ्कामुत्थापयति –
स्वप्नेति ।
जाग्रद्दृश्यानामिव स्वप्नदृश्यानामपि तुल्यं सप्रयोजनत्वमित्युपाधेरसम्भवमाशङ्क्याऽऽह –
न त्विति ।
अनुमानस्य सोपाधिकत्वेनासाधकत्वे फलितमाह –
तस्मादिति ।
हेतोः सोपाधिकत्वं दूषयति –
तन्नेति ।
साधनव्याप्त्यादिदोषादृते नोपाधिनिरसनं सुशकमित्याह –
कस्मादिति ।
फलपर्यन्तताविरहित्वोपाधेः साधनव्याप्तिमाह –
यस्मादित्यादिना ।
तामेव विप्रतिपत्तिं प्रकटयति –
जागरिते हीति ।
उक्तमर्थं दृष्टान्तेन स्पष्टयति –
यथेत्यादिना ।
उपाधेः साधनव्याप्तिं निगमयति –
तस्मादिति ।
हेतोः सोपाधिकत्वाभावे फलितमाह –
अत इति ।
हेतुद्वयमुपसंहरति –
तस्मादिति ॥७॥
दृष्टान्तस्य साध्यविकलत्वं शङ्कित्वा परिहरति –
अपूर्वमिति ।
यथा स्वर्गनिवसनशीलानामिन्द्रादीनां सहस्राक्षत्वादि धर्मस्तथा यदिदमपूर्वस्वप्नदर्शनं मन्यसे तदपि स्थानिनः स्वप्नस्थानवतो द्रष्टुरेव धर्मः । तेन दृष्टत्वात् तस्य मिथ्यात्वसिद्धिरित्यर्थः।
कथं तेनैव दृष्टत्वं तत्राऽऽह –
तानयमिति ।
यथैवेह व्यवहारभूमौ सुशिक्षितो देशान्तरप्राप्तिमार्गस्तेन मार्गेण देशान्तरं गत्वा तत्रत्यान् पदार्थान् वीक्षते तथाऽयं स्वप्नद्रष्टा स्वप्नगतान् पदार्थान् यथोक्तप्रकारान् प्रतिपद्यते । ततश्च स्वप्नस्य स्थानिधर्मत्वाद् रज्जुसर्पादिवन्मिथ्यात्वमित्यर्थः।
श्लोकव्यावर्त्यामाशङ्कामुपन्यस्यति –
स्वप्नेति ।
समत्वमाद्यन्तवत्त्वादि ।
अनुमानसिद्धस्यार्थस्यानुमानदोषोक्तिमन्तरेणासत्त्वमयुक्तमिति पृच्छति –
कस्मादिति ।
व्याप्तिभूमिं दूषयन् व्याप्तिभङ्गं दोषमाह –
दृष्टान्तस्येति ।
असिद्धत्वं प्रश्नपूर्वकं विशदयति –
कथमित्यादिना ।
अपूर्वदर्शनमेव विवृणोति –
चतुर्दन्तमिति ।
अन्यदपि त्रिनेत्रत्वादि ।
दृष्टान्तस्य साध्यविकलत्वे सिद्धे प्रागुक्तानुमानानुपपत्तिरिति फलितमाह –
तस्मादिति ।
दृष्टान्तासिद्धिं दूषयन्ननुमानं साधयति –
तन्नेति ।
तत्किं स्वभावतः सिद्धं परतो वा ? नाऽऽद्यः ।
जडस्य तदयोगादित्याह –
न तदिति ।
द्वितीये तन्मिथ्यात्वमित्यभिप्रेत्य प्रश्नपूर्वकमाद्यपादमवतारयति –
किं तर्हीति ।
तद्गतान्यक्षराणि व्याकरोति –
स्थानिन इति ।
अपूर्वस्वप्नदर्शनस्य स्थानिधर्मत्वं दृष्टान्तेन साधयति –
यथेत्यादिना ।
अपूर्वदर्शनं स्वप्नद्रष्टृधर्मोऽपि चैतन्यवत् किं न स्यादित्याशङ्क्य बाधोपलब्धेर्मैवमित्याह –
न स्वत इति ।
उत्तरार्धं विभजते –
तानित्यादिना ।
अपूर्वाणां स्वप्नदृश्यानां स्थानिधर्मत्वेऽपि किमायातमित्याशङ्क्याऽऽह –
तस्मादिति ।
स्वप्नदृष्टान्तस्य साध्यविकलत्वाभावं निगमयति –
अतो नेति ।
पूर्वस्यापुर्वस्य वा स्वप्नदर्शनस्य स्वप्नद्रष्टृधर्मेत्वेन तदविद्याविलसितत्वाद् दृष्टान्ते साध्यसम्प्रतिपत्तेस्तथैव जाग्रद्भेदानां मिथ्यात्वं युक्तमित्यर्थः ॥८॥
जाग्रद्दृश्यानां मिथ्यात्वं तेषु सदसद्विभागप्रतिभानविरुद्धमित्याशङ्क्य दृष्टान्तेन समाधत्ते –
स्वप्नवृत्ताविति ।
श्लोकस्य तात्पर्यार्थमाह –
अपूर्वत्वेति ।
स्वप्नदृष्टान्तस्यापूर्वदर्शनत्वप्रत्युक्तां साध्यविकलत्वशङ्कां परिहृत्येति यावत् । स्वप्नस्थाने सर्वस्य मिथ्यात्वाविशेषेऽपीत्यर्थः । असत्त्वं परमार्थसद्विलक्षणत्वेन मिथ्यात्वम् ।
तत्रापि तर्हि विभागप्रतिभासविरोधात्कुतो मिथ्यात्वमित्याशङ्क्य बाधाविशेषादित्याह –
उभयोरिति ॥९॥
दार्ष्टान्तिकमाह –
जाग्रदिति ।
युक्तत्वे हेतुमाह –
अन्तरिति ।
श्लोकस्थानामक्षराणां व्याख्यानमनपेक्षितं व्याख्यातप्रायत्वादित्याह –
व्याख्यातमिति ॥१०॥
सर्वमिथ्यात्वे प्रमातृप्रमाणादिव्यवहारानुपपत्त्या विशेषमाशङ्कते –
उभयोरिति ।
कर्तृकरणव्यवस्थानुपपत्त्याऽपि विरोधोऽस्तीत्याह –
को वा इति ।
विकल्पको निर्मातेति यावत् ।
श्लोकस्य चोद्यपरत्वं प्रतिजानीते –
चोदक इति ।
अक्षरयोजनया प्रथमार्थापत्तिविरोधं स्फोरयति –
स्वप्नेति ।
चतुर्थपादमवतार्यार्थापत्त्यन्तरविरोधं स्फुटयति –
को वै तेषामिति ।
कर्ता हि पूर्वानुभूतं स्मृत्वा तज्जातीयान्निर्मिमीते तेन स्मृत्यनुभवाश्रयाक्षेपेण कर्त्राक्षेपो विवक्षितस्तथा च कर्तादिव्यवहारानुपपत्तिः सर्वमिथ्यात्वे दुर्वारेत्यर्थः ।
योऽध्यात्मं प्रमाता यश्चाधिदैवं कर्तेश्वरस्तावभावपि मिथ्येत्यङ्गीकारात्प्रमात्रादेरसत्त्वमित्याशङ्क्याऽऽह –
न चेदिति ।
यदि प्रमाता कर्ता वा नेष्यते तर्हि नैरात्म्यमिष्टमेवाऽऽपद्यते । न च तदेष्टुं शक्यत आत्मनिराकरणस्य दुष्करत्वान्निराकर्तुरेवाऽऽत्मत्वादित्यर्थः ॥११॥
कर्तृकार्यादिव्यवस्थानुपपत्तिं परिहरति –
कल्पयतीति ।
करणान्तरं व्यवच्छिनत्ति –
आत्मनेति ।
कर्मान्तरं व्यावर्तयति –
आत्मानमिति ।
कर्त्रन्तरं निवारयति –
आत्मेति ।
तस्य द्योतकान्तरापेक्षां प्रतिक्षिपति –
देव इति ।
विवर्तवादं द्योतयति –
स्वमाययेति ।
सर्वस्य मिथ्यात्वेऽपि मायया विकल्पितभेदानुरोधेन कर्तृत्वादिव्यवस्था सिद्ध्यतीति भावः ।
प्रमातृप्रमाणादिव्यवहारानुपपत्तिं प्रत्याह –
स एवेति ।
एकस्मिन्नेवाद्वितीये प्रतीचि वस्तुनि कल्पनिकभेदनिबन्धना सर्वा व्यवस्थेत्यत्र प्रमाणमाह –
इति वेदान्तेति ।
यथा घटस्रष्टा कुलालोऽधिष्ठाता मृदोऽन्यो दृष्टो न तथेहान्योऽधिष्ठाताऽस्तीत्याह –
स्वयमिति ।
तथा तत्र मृदाख्यमुपादानमधिष्ठातुरन्यदधिगतं न तथाऽत्रान्यदुपादानमस्तीत्याह –
स्वमात्मानमिति ।
तत्र च घटं कुर्वतो भूभागो भवत्याधारो न तथेहाऽऽधारोऽन्योऽस्तीत्याह –
आत्मन्येवेति ।
परिणामवादं व्यावर्त्य विवर्तवादं प्रकटयितुं स्वमाययेत्युक्तं, तत्र दृष्टान्तमाह –
रज्ज्वादाविति ।
मायाद्वारेण चिदात्मनो जगन्निर्मातृत्वमुक्त्वा तस्यैव बुद्धिप्रतिबिम्बितस्य प्रमातृत्वमित्याह –
स्वयमेव चेति ।
न च प्रमातृत्वस्य तात्त्विकत्वं रज्ज्वादौ सर्पादिदर्शनवदेव मिथ्यात्वनिर्धारणादित्याह –
तद्वदिति ।
कर्त्रादिभेदस्य प्रमात्रादिभेदस्य च मिथ्यात्वे ‘नेह नानाऽस्ति’(बृ. उ. ४ । ४ । १९) इत्यादिश्रुतिं प्रमाणयति –
इत्येवमिति ।
स एवेत्येवकारार्थमाह –
नान्योऽस्तीति ।
यो जगत्स्रष्टा यश्च प्रमाता ततोऽन्यो ज्ञानस्य स्मृतेश्चाऽऽश्रयो नास्ति । चेतनभेदे मानाभावादनुभवस्मृत्योश्चैकाश्रयत्वस्य प्रसिद्धत्वादित्यर्थः ।
ज्ञानस्मृत्योराश्रयापेक्षा विषयापेक्षा वा नास्तीत्याशङ्क्याबाधितप्रसिद्धिविरोधान्मैवमित्याह –
न चेति ॥१२॥
प्रकृतायां कल्पनायां विवक्षितं क्रममुपन्यस्यति –
विकरोतीति ।
नियतांश्चेति चकारादनियतांश्चेति विवक्ष्यते ।
प्रतिपित्सितक्रमप्रतिपत्त्यर्थं पृच्छति –
स कल्पयन्निति ।
श्लोकाक्षरयोजनया बुभुत्सितं क्रमं प्रत्याययति –
उच्यत इत्यादिना ।
अन्यांश्चेति ।
शास्त्रीयानिति यावत् । चित्तमध्ये वासनारूपेण व्यवस्थितान् ।
अनभिव्यक्तनामरूपत्वेन व्यवहारायोग्यत्वमाह –
अव्याकृतानिति ।
कल्पनाकालन्विद्युदादीनस्थिरानित्यर्थः । बहिश्चित्तो बहिर्मुखो बाह्यान् व्यवहारयोग्यान् पदार्थान् कल्पयति । अन्तश्चित्तस्तु तेभ्यो व्यावृत्तबुद्धिर्मनोरथादिलक्षणानात्मन्येव व्यवहारयोग्यतायै कल्पयतीत्यर्थः । एतदुक्तं भवति । यथा लोके कुलालो वा तन्तुवायो वा घटं पटं वा कार्यं चिकीर्षुरादौ व्यवहारायोग्यां व्यक्तिं बुद्धावाविर्भाव्य पश्चात्तामेव बहिर्नामरूपाभ्यां सम्पादयति तथैवायमादिकर्ताऽपि मायालक्षणे स्वचित्ते नामरूपाभ्यामव्यक्तरूपेण स्थितान्स्रष्टव्यपदार्थान् प्रथमं सिसृक्षिताकारेणान्तर्विभाव्य पश्चाद्बहिः सर्वप्रतिपत्तृसाधारणरूपेण सम्पादयतीति कल्पनायां क्रमाधिगतिरिति ॥१३॥
कल्पितानां कल्पनाकालादन्यस्मिन् काले सत्त्वाभावाज्जाग्रद्भावानां च कल्पनाकालात्कालान्तरेऽपि प्रत्यभिज्ञया सत्त्वावगमादनुपपन्नं तेषां मिथ्यात्वमित्यशङ्क्याऽऽह –
चित्तेति ।
ये कल्पनाकालभाविनो भावा मनस्यन्तर्वर्तन्ते ये च प्रत्यभिज्ञायमानत्वेन पूर्वापरकालभाविनो बहिरेव व्यवहारयोग्या दृश्यन्ते ते सर्वे कल्पिताः सन्तो मिथ्यैव भवितुमर्हन्ति। प्रत्यभिज्ञायमानत्वलक्षणो विशेषस्तु नाकल्पितत्वप्रयुक्तः, कल्पितेऽपि तद्दर्शनादित्यर्थः ।
श्लोकव्यावर्त्यामाशङ्कां दर्शयति –
स्वप्नवदिति ।
यथा स्वप्ने दृश्यमानं सर्वं कल्पितं मिथ्यैवेष्यते तथा जागरितेऽपि दृष्टं सर्वं चित्तस्पन्दितं तेन कल्पितं मिथ्यैवेत्येतन्नाद्यापि निर्धारितमित्यत्र हेतुमाह –
यस्मादिति ।
आत्माविद्याविवर्तेन चित्तेन तावदन्तर्विनिर्मिता मनोरथरूपा मनस्यन्तर्वर्तमाना बहि रज्जुसर्पादयश्च ते चित्तेनैव परिच्छिद्यन्ते । ते हि कल्पनकालमात्रभाविनो न प्रमीयन्ते । तैः सह वैलक्षण्यं मनसो बहिर्जाग्रद्दृश्यमानानां भावानामन्योन्यपरिच्छेद्यत्वं कालद्वयावच्छिन्नत्वेन प्रत्यभिज्ञागोचरत्वमिति यस्मादुपलभ्यते तस्मादयुक्तं जागरितस्य स्वप्नवन्मिथ्यात्वमित्यर्थः ।
श्लोकाक्षरैरुत्तरमाह –
सा नेति ।
ये मनस्यन्तर्मनोरथरूपा भावास्ते चित्तकाला भवन्तीत्यत्र चित्तकालत्वं विशदयति –
चित्तेत्यादिना ।
वाच्यार्थमुक्त्वा विवक्षितार्थमाह –
कल्पनेति ।
द्वितीयपादमवतार्य व्याकरोति –
द्वयेति ।
ये मनसो बहिरुपलभ्यन्ते ते भेदकालाः कालस्य भेदो भेदकालः स येषां ते तथेति व्युत्पत्तेः । ततश्चान्येन पूर्वेणान्येन चापरेण परिच्छेद्या भिन्नकालावच्छिन्नत्वेन प्रत्यभिज्ञायमाना इत्यर्थः ।
प्रत्यभिज्ञायमानत्वमुदाहरणनिष्ठतया स्फुटयति –
यथेति ।
आगोदोहनं गोदोहनपर्यन्तमास्ते देवदत्तस्तिष्ठतीति प्रत्यभिज्ञाशेषत्वेनाभिज्ञोदाहरणीया ।
यावता कालेनावच्छिन्नो वर्तते तावता कालेनावच्छिन्नो गोदोहनं निर्वर्तयतीत्यनेककालावस्थायित्वेन प्रत्यभिज्ञाविषयत्वं तस्य दर्शयति –
यावदिति ।
यावता कालेनायां घटोऽर्थक्रियां निर्वर्तयितुं शक्नोति तावता कालेनावच्छिन्नः सन्नेष तिष्ठतीत्युदाहरणान्तरमाह –
तावानिति ।
परोक्षतया स्थितो यावता कालेनावच्छिन्नः स्वकार्यं निर्वर्त्य निर्वृणोत्येतावता कालेनावच्छिन्नः स तिष्ठतीत्यपरमुदाहरणमाह –
एतावानिति ।
उक्तेन न्यायेन ते सर्वे भावा बहिर्दृश्यमाना द्वयकालेन कालद्वयेन परिच्छेद्या भवन्तीत्यर्थः ।
तृतीयपादं व्याचष्टे –
अन्तरिति ।
चतुर्थपादार्थमाह –
नेत्यादिना ।
बाह्यो जाग्रद्दृश्येषु बाह्यपदार्थेषु व्यवस्थितो द्वयकालत्वेन कालद्वयावच्छेदेन कृतः प्रत्यभिज्ञायमानत्वरूपो विशेषोऽन्यहेतुको न भवति ।
कल्पितेऽपि तथाविधविशेषसम्भवादित्यत्र दृष्टान्तमाह –
अत्रापि हीति ।
यद्यपि सर्वं जाग्रद्भेदजातं कल्पितं तथाऽपि तत्र यथोक्तो विशेषः स्फुटः सिध्यति स्वप्ने सर्वस्य भेदजातस्य कल्पितत्वेऽपि प्रत्यभिज्ञायमानत्वाज्जागरितेऽपि तदुपपत्तेरित्यर्थः ॥१४॥
स्वप्नजागरितयोरुभयोरपि मिथ्यात्वे स्फुटस्फुटावभासविभागानुपपत्तेर्नाविशेषेण मिथ्यात्वमित्याशङ्क्याऽऽह –
अव्यक्ता इति ।
ये मनस्यन्तर्भावनारूपत्वादस्फुटा ये च मनसो बहिरुपलभ्यमानाः स्फुटा भवन्ति ते सर्वे मनःस्पन्दनमात्रत्वेन कल्पिताः । मिथ्यैवान्तर्बहिरिन्द्रियभेदनिमित्तः स्फुटत्वास्फुटत्वविशेषः । न मिथ्यात्वममिथ्यात्वं वा तत्रोपयुज्यते । मिथ्याभूतेष्वपि तद्दर्शनादित्यर्थः ।
श्लोकाक्षराणि व्याकरोति –
यदपीत्यादिना ।
मनस्यन्तर्मनोरथरूपाणां भावानामव्यक्तत्वमस्फुटत्वम् ।
तत्र हेतुमाह –
मन इति ।
चक्षुरादिग्राह्यत्वेन मनसो बहिर्भावानां स्फुटत्वं दृष्टं तदेषाममिथ्यात्वकृतमिति शङ्कां वारयति –
नासाविति ।
सर्वसम्प्रतिपन्नमिथ्यात्वेऽपि स्वप्ने स्फुटत्वास्फुटत्वविशेषप्रतिभानान्नासौ विशेषो मिथ्यात्वममिथ्यात्वं वा प्रयोजयितुं प्रभवतीत्याह –
स्वप्नेऽपीति ।
अयं विशेषस्तर्हि केन सिध्यतीत्याशङ्क्य चतुर्थपादार्थमाह –
किं तर्हीति ।
मनोमात्रसम्बन्धादन्तर्भावानां वासनामात्ररूपाणामस्फुटत्वम्। बहिर्भावानां तु चक्षुरादिबहिरिन्द्रियसम्बन्धाद्युक्तं स्फुटत्वं तदेष विशेषो मिथ्यात्वाविशेषेऽपि सिध्यतीत्यर्थः ।
स्फुटत्वास्फुटत्वप्रतिभासभेदस्य मिथ्यात्वेऽपि सम्भवात् प्रगुक्तमनुमानमविरुद्धमित्युपसंहरति –
अत इति ॥१५॥
भवतु सर्वस्य कल्पितत्वम् । सा पुनः सर्वकल्पना केन द्वारेणथाशङ्क्याऽऽह –
जीवमिति ।
आत्मा हि सर्वं मायावशेन कल्पयन्नादौ विशिष्टरूपेण जीवं कल्पयति ।
तत इति ।
‘तत्सृष्ट्वा तदेवानुप्राविशत्’(तै. उ. २ । ६ । १) इति श्रुतेः स्वयमेव जीवभावमापद्यते । तद्द्वारेण पुनर्नानाविधान् भावन्निर्मिमीते । ज्ञानस्मृतिवैषम्यात्तत्कल्पेषु भावेषु वैषम्योपपतिरित्यर्थः ।
श्लोकव्यावर्त्यं प्रश्नमुत्थापयति –
बाह्येति ।
पदार्थाः साध्यसाधनतया स्थिता बाह्याः, सुखं दुःखं ज्ञानं रागश्चेत्येवमादयस्त्वाध्यात्मिकास्तेषां परस्परं निमित्तनैमित्तिकताऽस्ति । बाह्यान्निमित्तीकृत्याऽऽध्यात्मिका भवन्ति । तानपि निमित्तीकृत्येतरे जायन्ते । तदेवमितरेतरनिमित्ततया नैमित्तिकतया च कल्पनायां मूलं वक्तव्यम् । निर्मूलकल्पनायामतिप्रसङ्गादित्यर्थः ।
श्लोकाक्षरयोजनया परिहरति –
उच्यत इति ।
हेतुफलात्मकमित्युक्तमेव व्यनक्ति –
अहमिति ।
हेतुफलभावविकलं परिशुद्धमात्मरूपं जीवकल्पनाधिष्ठानं दर्शयति –
अनेवमिति ।
आरोपस्याधिष्ठानापेक्षाऽऽस्तीत्यत्र दृष्टान्तमाह –
रज्ज्वामिवेति ।
द्वितीयतृतीयपादौ विभजते –
तत इति ।
तादर्थ्येन प्रथमं कल्पितस्य भोक्तुर्जीवस्य शेषत्वेनेत्यर्थः ।
यद्यपि जीवः सर्वकल्पनायां मूलभूतो हेतुस्तथाऽपि तस्य तत्र कल्पनाविशेषो विशेषहेतुव्यतिरेकेण न सम्भवतीति शङ्कते –
तत्रेति ।
चतुर्थपादेनोत्तरमाह –
उच्यत इति ।
कल्पितो विशिष्टरूपेणेति शेषः। अधिकृतः स्वामित्वेन सम्बद्धः इत्यर्थः। इतिशब्दः श्लोकाक्षरयोजनासमाप्तिद्योतनार्थः।
प्रकृतकल्पनामेव प्रपञ्चयति –
अत इत्यादिना ।
सत्यन्नपानाद्युपयोगे तृप्त्यादि भवति, असति न भवतीत्यन्वयव्यतिरेकरूपान्न्यायाद्भोजनादिकं हेतुरिति कल्पनाविज्ञानमुत्पद्यते। ततस्तृप्त्यादिकं फलमिति कल्पनाविज्ञानं जायते। ततोऽपरेद्युरुक्तयोरुभयोरपि हेतुफलयोः स्मृतिरुद्भवति। ततश्च फलसाधनसमानजातीये कर्तव्यताविज्ञानम् । ततश्चाभिलषिततृप्त्यादिफलार्थत्वेन पाकादिक्रिया तत्कारकं तण्डुलादि तत्फलान्यन्ननिष्पत्त्यादीनि विशेषविज्ञानादीनि भवन्ति। ततो हेत्वादिस्मृतिः। ततस्तदनुष्ठानम्। ततश्च फलम्। इत्यानेन क्रमेण मिथो हेतुहेतुमत्तया कल्पना भवतीत्यर्थः।
प्रकृतां कल्पनामुपसंहरति –
एवमिति ॥ १६॥
इदानीं जीवकल्पनानिमित्तं निरूपयति –
अनिश्चितेति ।
श्लोकस्य तत्पर्यं दर्शयितुं वृत्तं कीर्तयति –
तत्रेति ।
पूर्वश्लोकः सप्तम्यर्थः।
जीवकल्पनाया नित्यत्वायोगात् सनिमित्तत्वस्य वक्तव्यत्वात्तस्य च वस्तुत्वे निवृत्त्यनुपपत्तेः अवस्तुत्वे च निमित्तत्वासिद्धेर्जीवकल्पनाया दुर्घटत्वात्तत्कार्यभूताऽपि कल्पना नावकल्पत इत्याशङ्कते –
सैवेति ।
उत्तरत्वेन श्लोकाक्षराण्यवतार्य व्याचष्टे –
दृष्टान्तेनेति ।
स्वम् असाधारणं रूपं रज्जुत्वं तेनेति यावत् ।
अनवधारितत्वमेव स्फोरयति –
एवमेवेति ।
रज्जुरेवेयमित्यनेन प्रकारेणेत्यर्थः।
उक्तावधारणाराहित्ये कारणं सूचयति –
मन्देति ।
पूर्वं रज्जुस्वरूपनिश्चयात्प्रागवस्थायामित्यर्थः।
सर्पादिकल्पनायामन्वयव्यतिरेकसिद्धमुपादानमुपन्यस्यति –
स्वरूपेति ।
एतदेव व्यतिरेकद्वारा विवृणोति –
यदि हीति ।
देवदत्तस्य हस्ताद्यवयवेषु तद्रूपेणैव निश्चितेषु सर्पादिविकल्पो यथा नोपलभ्यते तथा पुरोवर्तिन्यपि रज्जुस्वरूपेण निश्चिते नासौ युक्तस्तथा च रज्ज्वज्ञानादेव स भवतीत्यर्थः।
उपपादितं दृष्टान्तमनूद्य दार्ष्टान्तिकमभिदधानश्चतुर्थपादार्थमाह –
एष इति ।
हेतुफलादीत्यादिशब्देन कर्तृत्वभोक्तृत्वरागद्वेषादि गृह्यते।
विलक्षणत्वमेव स्फुटयति –
स्वेनेति ।
अनारोपितेनेति यावत्। विज्ञप्तेर्विशुद्धत्वं जन्मादिराहित्यमाकारान्तरशून्यत्वं तन्मात्रत्वं चेत्यर्थः।
तन्मात्रत्वमयुक्तं सामन्यविशेषभावादित्याशङ्क्याऽऽह –
सत्तेति ।
न च तत्रान्यदस्ति सुखमिति मत्वा विशिनष्टि –
अद्वयेति ।
सच्चिदानन्दाद्वयात्माविद्याविलसितं द्वैतमित्यत्र प्रमाणं सूचयति –
इत्येष इति ।
अद्वैतश्रुतयस्तावत्तत्रोपलभ्यन्ते ‘यत्र हि द्वैतमिव भवति’(बृ. उ. २ । ४ । १४) इत्याद्याश्च द्वैततत्प्रतिभासयोर्मृषात्वमावेदयन्त्यः श्रुतयः श्रूयन्ते तेनाद्वैतं तत्त्वं द्वैतमविद्याविजृम्भितमिति प्रमाणसिद्धमित्यर्थः॥१७॥
अविद्याकृता जीवकल्पनेत्यन्वयमुखेनोक्तं तदेवेदानीं व्यतिरेकमुखेन दर्शयति –
निश्चितायामिति ।
रज्जुरेवेति रज्ज्वां निश्चितायां तदज्ञाननिवृत्तेस्तदुत्थसर्पादिविकल्पः सर्वथा निवर्तते रज्जुमात्रं चाविश्ष्यते तद्वदात्मनि श्रौतो निश्चयो यदा सम्पद्यते तदा सर्वस्याऽऽत्माविद्याकल्पितस्य जीवादिविकल्पस्य व्यावृत्तेरद्वैतमेवाऽऽत्मतत्त्वं परिशिष्यते तस्मादात्माविद्याविजृम्भिता जीवकल्पनेत्यर्थः।
दृष्टान्तभागं व्याचष्टे –
रज्जुरिति ।
तद्वदित्यादि व्याकरोति –
तथेति ।
सर्वस्यापि संसारात्मनो धर्मस्याऽऽत्मन्यारोपितस्यासत्त्वावेदकं यन्निषेधशास्त्रं तेन जनितं विज्ञानमेव सूर्यालोकस्तत्कृतो योऽयमात्मविनिश्चयः स एवाद्वितीयः शिष्यते। द्वैतं पुनः सर्वमेव व्यावृत्तं भवतीत्यर्थः।
आत्मविनिश्चयमेव विशिनष्टि –
आत्मैवेति ।
सर्वमिदमात्मैवेत्युक्तेः पूर्णत्वं तस्योच्यते पूर्वभाविना कारणेन संस्पर्शशून्योऽपूर्वः पश्चाद्भाविना कार्येण सम्बन्धविधुरोऽनपरः अन्तरं छिद्रं तच्छून्योऽनन्तरश्चिदेकरसस्तस्यैव प्रत्यक्त्वमबाह्यत्वं कार्यकारणास्पृष्टमुभयकल्पनाधिष्ठानत्वेन ततोऽर्थान्तरत्वादित्याह –
सबाह्येति।
विशेषणत्रयं कौटस्थ्यव्यवस्थापनार्थम्।
जन्मादिसम्बन्धाभावे कारणमविद्यासम्बन्धराहित्यं दर्शयति –
अभय इति ।
न खल्वविद्या तत्र कारणत्वेन सम्बन्धमनुभवति।
तस्य पूर्णत्वेन कारणानपक्षत्वादित्याह –
एक इति ।
द्वैताद्वैतव्यावृत्त्यर्थमवधारणम्। नन्वविद्यायाः निराश्रयत्वोपपत्तेः आश्रयान्तरस्य चासत्त्वात् तत्रैव सा प्रविशतीति चेत् सत्यम्।
अविद्वद्दृष्ट्या तस्यास्तत्र प्रवेशेऽपि वस्तुदृष्ट्या नासौ तस्मिन् प्रवेष्टुं प्रभवतीत्याह –
अद्वय इति ॥१८॥
आत्मनोऽद्वितीयत्वे कथमनेकैर्भावैस्तस्य विकल्पितत्वमित्यभिप्रायाप्रतिपत्त्या प्रत्यवतिष्ठते –
प्राणादिभिरिति ।
सिद्धान्ती स्वाभिसन्धिमुद्घाटयन्नुत्तरमाह –
मायेति ।
चोद्यभागं विभजते –
यदीति ।
उत्तरार्धमुत्तरत्वे व्याकरोति –
उच्यत इति ।
मायामेव दृष्टान्तेन स्पष्टयति –
यथेति ।
तामेव मायां कार्यद्वारा स्फोरयति –
ययेति ।
यथा लौकिको मोहितो मोहपरवशो दृश्यते तथाऽयमात्मा स्वयमेव मायासम्बन्धान्मोहितो भवति। अतो मोहद्वाराऽऽत्मन्येव मायाधिगतिरित्यर्थः।
मायाया मोहहेतुत्वं भगवताऽपि सूचितमित्याह –
ममेति ॥१९॥
के ते प्राणादयोऽनान्ता भावा यैरात्मा विकल्प्यते माययेत्यपेक्षायां प्राणादिविकल्पनामुदाहरति –
प्राण इति ।
प्राणो हिरण्यगर्भस्तटस्थेश्वरो वा स जगतो हेतुरिति प्राणविदो हैरण्यगर्भाद्या वैशेषिकादयश्च कल्पयन्ति। तदिदं कल्पनामात्रम्। स्वप्नतन्त्रस्य हिरण्यगर्भस्य सर्वजगद्धेतुत्वे मानाभावात्। पौरुषेयागमस्यापौरुषेयश्रुतिविरोधे स्वार्थे मानत्वायोगात्, तटस्थेश्वरवादस्य च प्रमाणयुक्तिविहीनस्य प्रतिपत्तुमशक्यत्वादित्यर्थः।
कल्पनान्तरं दर्शयति –
भूतानीति चेति ।
पृथिव्यप्तेजोवायवस्तत्त्वानि, तानि च चत्वारि भूतानि जगत्कारणानीति – लोकायतिकाः । तदपि कल्पनामात्रम्। न हि भूतानि स्वतः सिद्धानि, जडत्वविरोधात्। नापि परतः सिद्धानि, स्वगुणस्य चैतन्यस्य स्वग्राहकत्वायोगाद् वह्निगतौष्ण्यस्य वह्निविषयत्वादर्शनात्। अतो भूतानि जगत्कर्तॄणीति कल्पनैवेत्यर्थः। सत्त्वरजस्तमांसि त्रयो गुणाः साम्येनावस्थिता जगतो महदादिलक्षणस्य कारणमिति – साङ्ख्याः तदपि कल्पनामात्रम्। साम्येन स्थितानां कारणत्वे प्रलयाभावप्रसङ्गात्। वैषम्यभजनस्य च निर्हेतुकत्वे सदा तदापातात्।
सहेतुकत्वे हेतोर्नित्यत्वे प्राचीनदोषानुषङ्गादनित्यत्वे हेत्वन्तरापेक्षायामनवस्थानादित्याह –
गुणा इतीति ।
कल्पनान्तरमाह –
तत्त्वानीति चेति ।
आत्माऽविद्या शिव इति संक्षेपतस्त्रीणि तत्त्वानि सर्वजगत्प्रवर्तकानीति – शैवा मन्यन्ते। तदपि कल्पनामात्रम्। आत्मनो भिन्नत्वे शिवस्य घटादितुल्यत्वप्रसङ्गादभिन्नत्वे तत्त्वानां त्रित्वव्याघातादित्यर्थः॥२०॥
एकस्याऽऽत्मनो विश्वादयः पादाः सर्वव्यवहारहेतवो भवन्तीत्यपि कल्पनामात्रम्। निरंशस्याऽऽत्मनोंऽशभेदानुपपत्तेरित्याह –
पादा इतीति ।
वात्स्यायन प्रभृतीनां कल्पनां कथयति –
विषया इतीति ।
शब्दादयो विषया भूयो भूयो भुज्यमानास्तत्त्वमिति विभ्रममात्रम्। “विषस्य विषयाणां च दूरमत्यन्तमन्तरम् । उपभुक्तं विषं हन्ति विषयाः स्मरणादपि” इति विषयानुसन्धानस्य निन्दितत्वात्तेषां पारमार्थिकतत्त्वभावानुपपत्तेरित्यर्थः।
भूर्भुवः स्वरिति त्रयो लोका वस्तुभूताः सन्तीति –
पौराणिकाः ।
तदपि कल्पनामात्रम्।
स्थानभेदेन त्रित्वे तदानन्त्यस्य दुरुत्तरत्वात् स्वातन्त्र्यस्य चासिद्धत्वादित्याह –
लोका इतीति ।
अग्नीन्द्रादयो देवास्तत्तत्फलदातारो नेश्वरस्तथेति – देवताकाण्डीयाः । तदपि कल्पनामात्रम्। अस्मदादिप्रयत्नमपेक्ष्य फलदातृत्वे तेषां भृत्येभ्यो विशेषाभावप्रसङ्गात्। स्वातन्त्र्येणोपकारकत्वे तदाराधनवैयर्थ्यात्।
तद्भक्तानामपि विपत्तिदर्शनात् तत्प्रसादस्याकिञ्चित्करत्वादित्याह –
देवा इति चेति ॥२१॥
ऋग्वेदादयो वेदाश्चत्वारस्तत्त्वानीति – पाठका वदन्ति। तदपि कल्पनामात्रम्। न हि वेदा लौकिकवर्णव्यतिरिक्ता दृश्यन्ते। क्रमवतामेव वर्णानां वेदशब्दवाच्यत्वाङ्गीकारात्। क्रमश्चोच्चारणोपलब्ध्योरन्यतरगतो वर्णेष्वारोप्यते। तथा च तथाविधक्रमवतां वर्णानामारोपितरूपेण वेदशब्दवाच्यत्वात् कुतो वेदानां परमार्थतेथाह –
वेदा इति ।
ज्योतिष्टोमादयो यज्ञा वस्तुभूता भवन्तीति बोधायन प्रभृतयो – याज्ञिका मन्यन्ते। तदपि भ्रान्तिमात्रम्। ‘यज्ञं व्याख्यास्यामो द्रव्यं देवता त्याग’ इत्यत्रैकैकस्मिन् यज्ञविज्ञानाभावात् समुदायस्यावस्तुत्वादित्याह –
यज्ञा इति चेति ।
भोक्तैवाऽऽत्मा न कर्तेति –
साङ्ख्याः ।
तत्र भोगो यदि विक्रिया स्वीक्रियते, तर्हि कथं नानित्यत्वादिप्रसङ्गः ? स्वभावत्वे सदा स्यादिति विषयसन्निधौ भोक्तृत्वं भ्रान्तिरेवेत्याह –
भोक्तेति चेति ।
सूपकारास्तु भोज्यं वस्त्विति प्रतिजानते तदपि न। मधुरादिरसव्यञ्जनादेस्तदैवान्यथात्वदर्शनादैकरूप्यासम्भवादित्याह –
भोज्यमिति चेति ॥२२॥
आत्मा सूक्ष्मोऽणुपरिमाणः स्यादिति केचित्। तन्न। युगपदशेषशरीरव्यापिवेदनानुसन्धानासिद्धेरित्याह –
सूक्ष्म इतीति ।
स्थूलो देहोऽहंप्रत्ययादात्मेति –
लोकायतभेदः ।
तच्च न । मृतसुषुप्तयोरपि सङ्घाताविशेषाच्चैतन्यप्रसङ्गात् ।
एकैकस्य च भूतस्य चैतन्यादर्शनात् सङ्घातस्य चावस्तुत्वादित्याह –
स्थूल इति चेति ।
मूर्तस्त्रिशूलादिधारी महेश्वरश्चक्रधारी वा परमार्थो भवतीत्यागमिकाः । तदपि भ्रान्तिमात्रम्। अस्मदादिशरीरवत् तस्यापि शरीरस्य पाञ्चभौतिकत्वात्।
लीलाविग्रहकल्पनं च विग्रहाभावे लीलाभावादयुक्तमित्याह –
मूर्त इति ।
अमूर्तः सर्वाकारशून्यो निःस्वभावः परामर्थ इति – शून्यवादिनस्तदपि कल्पनामात्रम्। परमार्थो निःस्वभावाश्चेति व्याघातादित्याह –
अमूर्त इति चेति ॥२३॥
कालः परमार्थ इति – ज्योतिर्विदः । तच्च न। कालैक्ये मुहूर्तादिव्यवहारायोगात्। तन्नानात्वेऽपि न स्वातन्त्र्यम्। अन्यविषयत्वेन प्रतीतेः। उदयकालः इत्यादिना क्रियाधर्मत्वेन प्रतीतेः स्फुटत्वात्। न च क्रियाधर्मत्वं कालेऽपि तदुत्पत्तिदर्शनादन्यथा कालानवच्छिन्नत्वेन क्रियानित्यत्वापातादित्याह –
काल इतीति ।
स्वारोदयविदस्तु दिशः परमार्था इत्याहुः। तदपि भ्रान्तिमात्रम्। तद्विदामति पराजयदर्शनादित्याह –
दिश इति चेति ।
धातुवादो मन्त्रवादश्चेत्यादयो वाद वस्तुभूता भवन्तीति केचित्। तदपि कल्पनामात्रम्। ताम्रादिस्वभावे स्थिते नष्टे च कनकादिस्वभावासम्भवात्।
मन्त्रवादेऽपि कालदष्टो न जीवति अकालदष्टः स्वयमेवोत्थास्यतीत्यभ्युपगमाद्व्यामोह मात्रमित्याह –
वादा इतीति ।
भुवनानि चतुर्दश वस्तूनीति – भुवनकोशविदः । तदपि कल्पनामात्रम्। तेषामदृष्टत्वात्। न च तेभ्यस्तद्दर्शनम्। तेषां मिथो विप्रतिपत्तिदर्शनादित्याह –
भुवनानीति ॥२४॥
मन एवाऽऽत्मेति –
लोकायतभेदः ।
तदपि भ्रान्तिमात्रम्। तस्य स्वातन्त्र्ये क्लेशप्राप्त्यनुपपत्तेः।
अस्वातन्त्र्ये च घटवदनात्मत्वात् करणत्वाच्च दीपवदात्मत्वायोगादित्याह –
मन इति ।
बुद्धिरेवाऽऽत्मेति बौद्धाः।
तेषामपि भ्रान्तिमात्रमेव तत् सुषुप्ते व्यभिचाराद् वेद्यस्य च घटवदतिरिक्तवेद्यत्वादित्याह –
बुद्धिरिति ।
चित्तमेव बाह्याकारशून्यं विज्ञानम्। तदेवाऽऽत्मेत्यपरे।
तत्रापि प्रागुक्तन्यायाविशेषात्तुल्यं भ्रान्तित्वमित्याह –
चित्तमिति ।
धर्माधर्मौ विधिनिषेधचोदनागम्यौ परमार्थाविति –
मीमांसकाः ।
तदपि कल्पनामात्रम्।
देशकालादिषु धर्माधर्मयोर्विप्रतिपत्तिदर्शनादित्याह –
धर्मेति ॥२५॥
प्रधानं मूलप्रकृतिः। महदहङ्कारतन्मात्राणीति सप्त प्रकृतिविकृतयः। पञ्चज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, पञ्च विषयाः, मनश्चैकमिति षोडश विकाराः। पुरुषस्तु दृशिस्वभाव इति पञ्चविंशतिसंख्याकः प्रपञ्चो वस्त्विति –
साङ्ख्याः ।
तच्च कल्पनामात्रम्।
पञ्चविंशतिविशेषणस्याव्यावर्तकत्वे वैयर्थ्याद् व्यावर्तकत्वे च व्यावर्त्यप्रमित्यप्रमित्योरनुपपत्तेरित्याह –
पञ्चविंशक इति ।
पातञ्जलाः पुनरीश्वरमधिकं पश्यन्तः षड्विंशतिः पदार्था इति कल्पयन्ति। तदयुक्तम्। ईश्वरस्य पुरुषान्तर्भावादधिकत्वानुपपत्तेः।
अनन्तर्भावे च घटवदनीश्वरत्वप्रसङ्गादित्याह –
षड्विंश इति चेति ।
पाशुपतास्तु रागाविद्यानियतिकालकलामायाधिकास्त एवैकत्रिशंत्पदार्था इति ब्रुवते। तन्न। क्लेशत्वेऽपि रागाविद्ययोरवान्तरभेदवदस्मितादेरपि तद्भिन्नत्वेन संख्यातिरेकात् तस्य रागोपलक्षितत्वे तस्याप्यविद्योपलक्षितत्वेन न्यूनतापातादविद्यामाययोश्चैकत्वादवान्तरभेदे च नियतावपि तदुपपत्तेः संख्यातिरेकतादवस्थ्यम्।
कालकलासु च तत्प्रसिद्धेरित्याह –
एकत्रिंशक इति ।
अनन्तः पदार्थभेदो न नियतोऽस्तीति केचित्। तदपि न। वादिनां विवाददर्शनात्।
विवादस्य चाज्ञानमूलकत्वादित्याह –
अनन्त इतीति ॥२६॥
लोकानुरञ्जनमेव तत्त्वमिति –
लौकिकाः ।
तदपि विभ्रममात्रम्।
लोकस्य भिन्नरुचित्वात् तदनुरञ्जनस्येश्वरेणापि कर्तुमशक्यत्वादित्याह –
लोकानिति ।
दक्षप्रभृतयस्त्वाश्रमाः परमार्था इति समर्थयन्ते। तदसत्। वेषस्याऽऽश्रमशब्दार्थत्वे शूद्रादेरपि प्रसङ्गाज्जातेश्च दुर्विवेचत्वात्तन्मूलस्याऽऽश्रमस्य दर्शयितुमशक्यत्वात् संस्कारस्य च देहसमवायित्वे पारलौकिकत्वायोगादसङ्गे चाऽऽत्मनि तदसमवायादित्याह –
आश्रमा इतीति ।
वैयाकरणास्तु स्त्री पुंनपुंसकं शब्दजातं तत्त्वमिति वर्णयन्ति। तदप्ययुक्तम्।
स्त्र्यादेः शब्दस्वभावत्वे सर्वादीनां त्रिलिङ्गत्वायोगादेकस्यानेकस्वभावत्वासम्भवादौपाधिकधर्मत्वे च तस्यावस्तुत्वप्रसङ्गादित्याह –
स्त्रीपुंनपुंसकमिति ।
द्वे ब्रह्मणी वेदितव्ये परं चापरं चेति केचित्। तच्च न।
परिच्छेदे क्वचिदपि ब्रह्मत्वायोगाद् वस्तुतोऽपरिच्छिन्नस्य तद्भावादित्याह –
परापरमिति ॥२७॥
सृष्टिर्वा लयो वा स्थितिर्वा तत्त्वमिति –
पौराणिकाः ।
तदपि कल्पनामात्रम्।
सतोऽसतश्चोत्पत्त्याद्यभावस्य वक्ष्यमाणत्वादिति मत्वाऽऽह –
सृष्टिरित्यादिना ।
यथोक्तकल्पनानामधिष्ठानं सूचयति –
सर्वे चेति ।
उदाहृताश्चानुदाहृताश्च कल्पनाभेदा यावन्तो विद्यन्ते ते सर्वेऽपि प्रकृतात्मन्येव कल्पनावस्थायां कल्प्यन्ते, नाऽऽत्मनः कल्पितत्वम्। सर्वस्य कल्पितत्वेनाधिष्ठानत्वायोगादित्यर्थः।
प्राणादिश्लोकेषु प्राणशब्दार्थमाह –
प्राण इति ।
तस्यैव बीजात्मनो विकारविशेषत्वादितरेषां न ततोऽत्यन्तभिन्नतेत्याह –
तत्कार्येति ।
अन्तिमपदार्थं स्फुटयति –
अन्य इति ।
कुलधर्मो ग्रामधर्मो देशधर्मश्चेत्येते सर्वशब्देन गृह्यन्ते।
तेषामात्मनि तदज्ञानादेव कल्पितत्वं सदृष्टान्तं स्पष्टयति –
रज्ज्वामिति ।
आत्मनोऽधिष्ठानयोग्यतार्थं कल्पनाशून्यत्वमाह –
तच्छून्य इति ।
किमिति समुदायार्थः श्लोकानामुच्यते श्लोकान्तरेष्विव प्रत्येकं पदार्थव्याख्यानमेतेषु किं न स्यादित्याशङ्क्याऽऽह –
प्रत्येकमिति ॥२८॥
लौकिकानां परीक्षकाणां च कतिपयकल्पनाभेदानुदाहृत्यानन्तत्वादशेषतस्तेषामुदाहर्तुमशक्यत्वं दृष्ट्वा संक्षेपमात्रमाचष्टे –
यं भावमिति ।
पादत्रयं विभजते –
किं बहुनेत्यादिना ।
तमेव भावं विशिनष्टि –
यो दर्शित इति ।
स कथं द्रष्टारं रक्षतीत्यपेक्षायामाह –
असाविति ।
साधकपुरुषतादात्म्यमापद्येत्यर्थः।
रक्षणप्रकारं प्रकटयति –
स्वेनेति ।
साक्षादसाधारणरूपत्वेन तत्रैव निष्ठामापाद्य ततोऽन्यत्र प्रवृत्तिमुपासकस्य निवारयतीत्यर्थः।
चतुर्थपादं व्याचष्टे –
तस्मिन्निति ॥२९॥
एतेनान्यत्र प्रवृत्तिनिरोधे हेतुरुक्तः। तर्हि प्राणादीनामात्मवदेव तात्त्विकत्वं प्राप्तमित्याशङ्क्य कल्पितानामधिष्ठानातिरेकेणावस्तुत्वान्नैवमित्याह –
एतैरिति ।
उक्तज्ञानस्तुत्यर्थमाह –
एवमिति ।
पूर्वार्धं व्याकरोति –
एतैरिति ।
कल्पितानामधिष्ठानातिरेकेण सत्तास्फुरणयोरभावात् तद्द्वारेणाऽऽत्मनि भेददर्शनमविवेकिनामस्तु तदन्येषां कथमुपलब्धिरित्याशङ्क्याऽऽह –
विवेकिनां त्विति ।
प्राणादीनामात्मातिरेकेणासत्त्वे प्रमाणमाह –
इदमिति ।
उत्तरार्धं योजयति –
एवमिति ।
तत्त्वेनाऽऽत्मवेदनोपायं सूचयति –
तत्त्वेनेति ।
स्वप्नदृश्यवज्जाग्रद्दृश्यानां मिथ्यात्वसाधको दृश्यत्वादिहेतुरत्र युक्तिरित्युच्यते। तथोक्तविज्ञानवान् वेदकिङ्करो न भवति, किं तु स यं वेदार्थं ब्रूते स एव वेदार्थो भवतीत्यर्थः।
विभागतो वेदार्थव्याख्यानमभिनयति –
इदमिति ।
ज्ञानकाण्डं साक्षादद्वैतवस्तुपरम्। कर्मकाण्डं तु साध्यसाधनसम्बन्धबोधनद्वारा परम्परया तस्मिन् पर्यवसितम्। ‘सर्वे वेदा यत्पदमामनन्ति’(क. उ. १ । २ । १५) इति श्रुतेरित्यर्थः।
आत्मविदो वेदार्थवित्तमुक्तं व्यनक्ति –
न हीति ।
तदेव हि वेदार्थतत्त्वं यत्प्रत्यगात्मस्वरूपम्, अतश्चाध्यात्मविदेव याथात्म्येन तत्त्वज्ञाने प्रभवतीत्यर्थः।
उक्तेऽर्थे स्मृतिमुदाहरति –
न हीति ।
क्रियाशब्देन प्रमाणमुच्यते। तत्फलं तत्त्वज्ञानम्, अग्निहोत्रादिक्रियायाश्च शुद्धिद्वारा तस्मिन् पर्यवसानादित्यर्थः॥३०॥
याभिर्युक्तिभिरस्मिन् प्रकरणे द्वैतस्य मिथ्यात्वं कथ्यते तासां प्रमाणानुग्रहकत्वादनाभासत्वमवसेयमित्याह –
स्वप्नेति ।
श्लोकस्य तात्पर्यार्थमाह –
यदेतद् द्वैतस्येति ।
असत्त्वे सत्त्ववत् प्रतिभानं कथमित्याशङ्क्य श्लोकाक्षराणि व्याचष्टे –
स्वप्नश्चेति ।
प्रसारितानि तत्र तत्र प्रकटतां प्रापितानि पण्यानि क्रयविक्रयद्रव्याणि येषामापणेषु हट्टेषु ते प्रसारितपण्यापणास्ते च गृहाश्च प्रासादाश्च स्त्रीपुञ्जनपदाश्चैतेषां व्यवहारास्तैराकीर्णमिति योजना।
दृष्टान्तत्रयमनूद्य दार्ष्टान्तिकमाह –
यथा चेति ।
गन्धर्वनगराकारः चकारार्थः। ‘नेह नानाऽस्ति किञ्जन’(बृ. उ. ४ । ४ । १९) इत्यादयो वेदान्ताः।
द्वैतस्य वस्तुतोऽसत्त्वे स्मृतिमपि दर्शयति –
तम इति ।
तमसि मन्दान्धकारे रज्ज्वामधिष्ठाने भूच्छिद्रमिति यद् भ्रान्त्या भाति तन्निभं तत्तुल्यं विवेकिभिर्विश्वं दृष्टं, तच्चातीव चञ्चलमालक्षितं नाशप्रायं वर्तमानकालेऽपि तद्योग्यतासत्त्वात्। न च द्वैतं कदाचिदपि सुखकरमुपलभ्यते, दुःखाक्रान्तं तु दृश्यते। तच्च नाशग्रस्तम्। नाशादूर्ध्वमसत्त्वमेवोपगच्छति न तर्हि तस्य परमार्थत्वं प्रमाणाभावादित्यर्थः॥३१॥
प्रमाणयुक्तिभ्यां द्वैतमिथ्यात्वप्रसाधनेनाद्वैतमेव पारमार्थिकमिति स्थिते निर्धारितमर्थं संगृह्णाति –
नेत्यादिता ।
श्लोकस्य तात्पर्यार्थमाह –
प्रकरणेति ।
कोऽसौ प्रकरणार्थस्तस्य वा संग्रहे किं सिध्यति, तदाह –
यदेति ।
व्यवहारमात्रस्याविद्याविषयत्वेऽपि किं स्यादिति चेत् तदाह –
तदेति ।
चतुर्थपादार्थमाह –
उत्पत्तीति ।
उक्तमेवार्थं प्रश्नप्रतिवचनाभ्यां प्रपञ्चयति –
कथमित्यादिना ।
द्वैतासत्त्वं श्रुत्यवष्टम्भेन स्पष्टयति –
यत्र हीति ।
द्वैतस्यासत्त्वे कथमुत्पत्तिप्रलयौ न स्यातामित्याशङ्क्य किं द्वैतस्य तौ किं वाऽद्वैतस्येत्याद्यं विकल्पं दूषयति –
सतो हीति ।
द्वितीयं प्रत्याह –
नापीति ।
व्यावहारिकद्वैताङ्गीकारात् तस्यैवोत्पत्तिप्रलयावित्याशङ्क्याऽऽह –
यस्त्विति ।
विमतस्तत्त्वतो नोत्पत्तिप्रलयवान् कल्पितत्वाद्रज्जुसर्पविदित्यत्र दृष्टान्तासिद्धिमाशङ्क्य रज्जुसर्पस्य रज्ज्वामुत्पत्तिप्रलयौ मनसि वा द्वयोर्वेति विकल्प्य प्रथमं प्रत्याह –
न हीति ।
रज्जुं पश्यतां सर्वेषामुपलब्धिप्रसङ्गादित्यर्थः।
द्वितीयं दूषयति –
न चेति ।
बहिरुपलब्धिविरोधादित्यर्थः।
तृतीयं निरस्यति –
न चेति ।
उभयतो मनोरज्जुलक्षणे न रज्जुसर्पस्योत्पत्तिप्रलयौ युक्तौ द्वयाधारत्वानुपलम्भादित्यर्थः।
रज्जुसर्पवद् द्वैतस्य मानसत्वाविशेषान्न तत्त्वतो जन्मविनाशौ दर्शयितुं शक्त्याविति दार्ष्टान्तिकमाह –
तथेति ।
द्वैतस्य न कुतश्चित् तात्त्विकौ जन्मविनाशाविति शेषः।
मानसत्वासिद्धिमाशङ्क्याऽऽह –
न हीति ।
अन्वयव्यतिरेकाभ्यां द्वैतं मनोविकल्पनामात्रमिति निगमयति –
अत इति ।
न च मनो द्वैतस्य दर्शनमात्रे निमित्तमिति युक्तम्।
भ्रमसिद्धस्याज्ञातसत्तायां प्रमाणाभावादित्यभिप्रेत्य प्रकृतमुपसंहरति –
तस्मादिति ।
निरोधाद्यभावस्य परमार्थत्वे तत्रैव शास्त्रव्यापारादद्वैते तदव्यापारादभावबोधने व्यापृतस्य भावबोधने व्यापारविरोधादद्वैतमप्रामाणिकं प्राप्तमिति शङ्कते –
यद्येवमिति ।
अद्वैतस्य प्रामाणिकत्वाभावे किं स्यादित्याशङ्क्याऽऽह –
तथा चेति ।
अद्वैतस्याप्रामाणिकत्वेऽपि कुतः शून्यवादो द्वैतस्य सत्त्वादित्याशङ्क्याऽऽह –
द्वैतस्येति ।
नाप्रामाणिकशून्यवादो युक्तः, यथा रज्ज्वामारोपितसर्पादे रज्जुरधिष्ठानम्; न हि निरधिष्ठानो भ्रमोऽस्ति; तथा द्वैत कल्पनाया निरधिष्ठानत्वायोगात्तदधिष्ठानत्वेनाद्वैतमास्थेयमित्योङ्कारप्रकरणे परिहृतमेतच्चोद्यम् कथमुद्भावयसीति सिद्धान्तवाद्याह –
नेत्यादिना ।
तत्र शून्यवादी स्वमतानुसारेण दृष्टान्तासम्प्रतिपत्त्या चोदयति –
आहेति ।
स्वमतसम्मतस्यैव दृष्टान्ततेत्यनियमात् प्रसिद्धिमात्रेण परप्रतिबोधनसम्भवाद् भ्रमबाधे परिशिष्यमाणस्यावधेः सत्यताया रज्ज्वादौ दृष्टत्वाद् द्वैतभ्रमबाधसाक्षितया स्फुरतश्चैतन्यस्याकल्पितत्वादेव सत्त्वान्न शून्यताप्रसक्तिरित्युत्तरमाह –
नेत्यादिना ।
अद्वैतमसदप्रामाणिकत्वाद्रज्जुसर्पवदिति तदकल्पितत्वासिद्धिं शङ्कते –
रज्ज्विति ।
रज्जुसर्पस्यासत्त्वे भ्रान्तिविषयत्वं प्रयोजकमात्मनस्तु भ्रमसाक्षित्वान्नियमेन भ्रमविषयत्वान्नासत्त्वमित्युत्तरमाह –
नैकान्तेनेति ।
अप्रामाणिकत्वहेतोरनैकान्तिकत्वं दोषान्तरमाह –
अविकल्पितेति ।
नायं सर्पो रज्जुरेवेति सर्पाभावज्ञानपूर्वकपुरोवर्तिरज्जुत्वनिश्चयात्प्रागवस्थायां प्रामाणिकत्वाभावेऽपि सन्नेवाज्ञातो रज्ज्वंशोऽभ्युपगम्यते। तथा सदैव प्रामाणिकत्वाभावेऽपि सन्नेवाऽऽत्मा भविष्यतीत्यर्थः।
आत्मनोऽसत्त्वाभावे हेत्वन्तरमाह –
विकल्पयितुश्चेति ।
आत्मनो द्वैतभ्रमाधिष्ठानत्वेन सम्भावितत्वाद् बाधसाक्षित्वेन परिशिष्टत्वात् पूर्वं भ्रमोत्पत्तेः स्वतः सिद्धत्वाच्च प्रमाणाविषयत्वेऽपि नास्ति शून्यतेत्युक्तम्।
इदानीं प्रमिते धर्मिणि प्रतिषेधदर्शनादात्मनोऽप्रमितत्वे तत्र द्वैताभावप्रमापकं शास्त्रमयुक्तमिति शङ्कते –
कथमिति ।
प्रतिपन्ने धर्मिणि प्रतिषेधात् प्रमिते प्रतिषेधस्य विशेषणवैफल्यादेवानभ्युपगमादात्मनश्च सर्वकल्पनास्वधिष्ठानाकारेण स्फुरणाङ्गीकरणात् तस्मिन् प्रतिपन्ने द्वैतप्रतिषेधः सम्भवतीति परिहरति –
नैष दोष इति ।
भ्रमाविषयस्याऽऽत्मनोऽध्यासानुगततया स्फुरणमघटमानमित्याक्षिपति –
कथमिति ।
स्वप्रकाशत्वेन स्वतो निर्विकल्पकस्फुरणेऽपि सविकल्पकव्यवहारे समारोपितसंसृष्टाकारेण भ्रमविषयत्वमविरूद्धमित्याह –
सुख्यहमित्यादिना ।
उक्तन्यायेनाऽऽत्मप्रतीतेः सिद्धत्वात् प्रतिपन्ने तस्मिन् द्वैतप्रतिषेधस्य सुकरतेति फलितमाह –
यदा चेति।
न केवलमारोपितविशेषणैर्विशेष्यस्याऽऽत्मनः स्वरूपस्फुरणस्य सिद्धत्वादेव न शास्त्रेण कर्तव्यत्वमनुवादत्वेनाप्रामाण्यप्रसङ्गाच्चैवमित्याह –
अकृतेति ।
स्फुरत्यात्मनि द्वैतनिषेधकत्वेऽपि शास्त्रस्य फलाभावादप्रामाण्यं तदवस्थमित्याशङ्क्याऽऽह –
अविद्येति ।
प्रतिषेधशास्त्रादपनीते प्रतिबन्धे स्वरूपावस्थानं फलतीत्यर्थः।
निःशेषदुःखनिवृत्तिर्निरतिशयानन्दावाप्तिश्च परं श्रेयो, न स्वरूपावस्थानमित्याशङ्क्याऽऽह –
स्वरूपेति ।
इति प्रसिद्धं मोक्षशास्त्रेष्विति शेषः।
द्वैतनिवर्तकत्वे शास्त्रस्य कारकत्वं स्यादित्याशङ्क्याऽऽह –
सुखित्वादीति ।
असुखित्वादेः स्वाभाविकत्वादात्मनि स्फुरत्यस्फुरणमनुपपन्नमित्याशङ्क्य भ्रमविषयशिक्तीदमंशादेश्च स्वाभाविकोऽपि रजतादिभेदो दोषमाहत्म्याद् यथा न प्रतिभाति तथाऽचिन्त्यशक्त्यविद्याप्रभावादात्मनि स्फुरत्यपि सुखित्वाद्यध्यासविरोध्यसुखित्वादि रूपेणास्फुरणमविरुद्धमित्याह –
आत्मेति ।
विपक्षे भ्रमानुपपत्तिरित्याह –
यदीति ।
उक्तमर्थं संक्षिप्य निगमयति –
तस्मादिति ।
असुखित्वादेरकल्पितत्वमसिद्धमाशङ्क्य निरस्यति –
यत्त्विति ।
अस्थूलं शोकान्तरमित्यादिवाक्यं शास्त्रशब्देन गृह्यते।
उक्तेऽर्थे – द्रविडाचार्य सम्मतिमाह –
सिद्धं त्विति ।
ब्रह्मणि पदानां व्युत्पत्त्यभावेऽपि सिद्धमेव शास्त्रप्रामाण्यमभावबोधनव्युत्पन्ननञ्पदसंसृष्टैः स्थूलादिव्युत्पन्नपदैः स्वाभाविकद्वैताभावबोधनेनाध्यस्तनिवर्तकत्वादिति सूत्रार्थः ॥३२॥
यदुक्तं निरोधाद्यभावस्य परमार्थतेति, तदयुक्तम् । सामान्यविशेषात्मकं वस्तु नानारसमिति मते निरोधादेः सुसाध्यत्वादित्याशङ्क्याऽऽह –
भावैरिति ।
भावा व्यावृत्ता विशेषाः। ते च व्यभिचारित्वादसन्तो रज्जुसर्पवत्। अद्वयमनुवृत्तं सामान्यं विशेषाकारैरवस्तुभूतैः सामान्याकारेण च तादृशेनायमव्यावृत्ताननुगतपूर्णसत्ताचिदेकतानः सन्नात्मैव मूढैर्मोहमाहात्म्यात् कल्प्यते। न वस्तुतः सामान्यविशेषभावोऽस्ति, परस्पराश्रयत्वादित्यर्थः।
विशेषाणामसत्त्वे कथं सत्त्वेन व्यवहारः स्यादित्याशङ्क्य सत्तातदात्म्येन कल्पितत्वात् तेषां सत्वेन व्यवहारोपपत्तिरित्याह –
भावा इति ।
अनुगतसत्ताकारेण कल्पिताः सत्त्वव्यवहारा भवन्तीति शेषः।
सामान्यविशेषभावस्य कल्पितत्वादखण्डैकरसत्वे वस्तुनः सिद्धे निरोधादेर्दुःसाधनत्वमुचितमिति फलितमाह –
तस्मादिति ।
श्लोकतात्पर्यं दर्शयति –
पूर्वेति ।
निरोधादिसर्वविशेषाभावोपलक्षितं वस्तु वस्तुभूतमिति पूर्वश्लोकार्थस्तस्य सामान्यविशेषात्मके वस्तुनि विशेषानाश्रित्य निरोधादेः सुसाधनत्वादसत्त्वमाशङ्क्यते, तेन तस्य साधनापेक्षायां तत्प्रदर्शनपरोऽयं श्लोक इत्यर्थः।
तत्र पूर्वार्धगतान्यक्षराणि दृष्टान्तावष्टम्भेन व्याचष्टे –
यथेत्यादिना ।
संसृष्टरूपेण कल्पितत्वेऽपि स्वरूपेणानारोपितत्वाद्रज्जुद्रव्यस्य व्यावहारिकसत्यत्वमुन्नेयम्। अविद्यमानैरयमात्मा कल्प्यते, न परमार्थतस्तेषां सत्त्वमिति शेषः।
कथं प्राणादीनां परमार्थतोऽसत्त्वमित्याशङ्क्यान्वयव्यतिरेकाभ्यां तेषां मनः स्पन्दितमात्रत्वप्रतीतेर्मृषात्वं स्वप्नविदित्याह –
न हीति ।
आत्मपरिणामत्वान्मनश्चलनमन्तरेणापि प्राणादिभावानां परमार्थतः सत्त्वमित्याशङ्क्याऽऽह –
न चेति ।
न हि विभोरात्मनो नभोवच्चलनं वास्तवमवकल्पते। न च तदभावे निरवयवस्य परिणामसम्भावनेत्यर्थः।
प्राणादीनामात्मपरिणामत्वासम्भवे फलितमाह –
प्रजलितस्येति ।
प्रगतं चलितं यस्य स तथा । कूटस्थस्यैवाऽऽत्मनो भासमाना भावा न परमार्थतः सन्तो भवितुमुत्सहन्ते। दृश्यत्वजडत्वादिना स्वप्नविन्मिथ्यात्वसिद्धेरित्यर्थः।
एवं प्राणादिभावानां मिथ्यात्वं प्रसाध्य फलितं दर्शयन् पूर्वार्धाक्षराणां व्याख्यानमुपसंहरति –
अत इति ।
अद्वयस्य परमार्थत्वात् तदात्मना कथमात्मा कल्पितः स्यादित्याशङ्क्य स्वरूपेणाकल्पितस्य संसृष्टरूपेण कल्पितत्वमिष्टमित्याह –
परमार्थसतेति ।
अविद्यावशादिष्टा कल्पना न स्वभाववशादित्याह –
सदेति ।
प्राणादीनामसत्त्वे सत्त्वेन कथं व्यवहारगोचरत्वमित्याशङ्क्य तृतीयपादार्थमाह –
ते चेति ।
कल्पितानां प्राणादिभावानामधिष्ठानसत्तया सत्त्वेन न सत्ताऽवकल्प्यते।
तेषामधिष्ठानापेक्षानियमाभावादित्याशङ्क्याऽऽह –
न हीति ।
सर्वा विकल्पना साधिष्ठानैव दृश्यते। न चासतोऽधिष्ठानत्वमारोपितानुवेधाभावात् तदनुवेधात्तु सतोऽधिष्ठानत्वमेष्टव्यम्। तथा च प्राणादिभावानां वस्तुतोऽसत्त्वेऽपि सति कल्पितानां सत्वेन व्यवहारसिद्धिरित्यर्थः।
चतुर्थपादार्थमाह –
अत इति ।
स्वेनेति विशेषणं संसृष्टरूपेण व्यभिचाराङ्गीकारार्थम्।
कल्पनाराहित्यदशायामेवाद्वयता शिवेत्याशङ्क्य कल्पनामात्रस्याशिवत्वान्मैवमित्याह –
कल्पनेति ।
त्रासादीत्यादिशब्देन हर्षशोकादयो गृह्यन्ते।
यदुक्तमद्वयता शिवेति तदुपपादयति –
अद्वयतेति ॥३३॥
किं च किमिदं नानाभूतं द्वैतमात्मतादात्म्येन वा सिद्ध्यति, स्वातन्त्र्येण वेति विवेक्तव्यम्। नाऽऽद्य इत्याह –
नाऽऽत्मभावेनेति ।
इदं हि नानाभूतं द्वैतं नाऽऽत्मतादात्म्येन सेद्धुमर्हति। जडाजडयोर्विरुद्धस्वभावयोस्तादात्म्यायोगात्। भेदादिशून्यात्मतादात्म्ये च द्वैतस्य नानात्वासिद्धेरित्यर्थः।
द्वितीयं दूषयति –
न स्वेनेति ।
स्वेन सत्ताप्रतित्योरन्यानपेक्षतालक्षणस्वातन्त्र्येणापि नेदं द्वैतं सेद्धुं पारयति। तथा स्वातन्त्र्ये सत्यात्मत्वप्रसङ्गादनात्मनोऽद्वैतत्वापातादित्यर्थः। किं च किमिदं द्वैतमन्योन्यं पृथगपृथग्वेति विवेक्तव्यम्।
नाऽऽद्य इत्याह –
न पृथगिति ।
न हि किञ्चिदपि द्वैतं परस्परं पृथगेव सिध्यति पृथक्त्वस्य धर्मिप्रतियोगिरूपावच्छिन्नत्वेनान्योन्याश्रयत्वाद्धर्मत्वस्वरूपत्वयोर्दुर्वचनत्वादित्यर्थः । नापि किञ्चिदन्योन्यमपृथग्भूत्वा सिध्यति।
घटपटादिशब्दानां पर्यायत्वप्रसङ्गाद् व्यवहारलोपापातादित्याह –
नापृथगिति ।
अतो वास्तवाकारेण सर्वथा निरूपणासहमेव द्वैतमिति फलितमाह –
इति तत्त्वेति ।
यदुक्तमद्वयता शिवेति; तत्र हेत्वन्तरोपन्यासपरत्वं श्लोकस्य दर्शयति –
कुतश्चेति ।
तदेव स्फुटयति –
नानाभूतमित्यादिना ।
नानाभूतमित्यस्य पर्यायोपदानं पृथक्त्वमिति।
तस्य भयकारणत्वं प्रकटयति –
अन्यस्येति ।
तत्र व्याघ्रचोरादाविति यावत्।
तद्भयकारणं भेददर्शनद्वये वस्तुनि नास्तीत्याह –
न हीति ।
अध्यस्तमधिष्ठानरूपेण तत्त्वतो निरूप्यमाणमसदेव भवतीत्यत्र दृष्टान्तमाह –
यथेति ।
प्रदीपप्रकाशेनाधिष्ठानमात्रतया समारोपितः सर्पो यदा निरूप्यते तदा नासौ तद्व्यतिरेकेण सिध्यति। तथा जगदपीदं तदात्मस्वरूपेण निरूप्यमाणं नान्यत्वेन सिध्येदित्यर्थः।
एवं प्रथमपादं व्याख्याय द्वितीयपादं व्याचष्टे –
नापीति ।
कदाचिदपीति ।
कल्पनावास्थायाः प्रागूर्ध्वं चेत्यर्थः।
न पृथगित्यस्यार्थमाह –
तथेति ।
पृथक्त्वस्यान्योन्याश्रयत्वेन दुर्वचनत्वात्। वैधर्म्योदाहरणं तु प्रातीतिकं पृथक्त्वमधिकृत्याविरुद्धम्।
नापृथगित्यादि व्याकरोति –
अत इति ।
द्वैतस्य प्रागुक्तन्यायेनासत्त्वान्न तदन्योन्यं वा परेणाऽऽत्मना वा सहापृथग्भूत्वा सेद्धुमर्हति। अतो दुर्निरूपत्वान्न किञ्चिद् द्वैतं नामास्तीति ब्रह्मविदां मतमित्यर्थः।
दृष्टं हि द्वैतं भयहेतुस्तदस्पृष्टं पुनरद्वैतमभयमेवेत्युपसंहरति –
अत इति ॥३४॥
किमिति यथोक्तमद्वैतं सर्वेषां न प्रतीतिगोचरतामाचरतीत्यशङ्क्याऽऽह –
वीतेति ।
रागादिप्रतिबन्धविधुराणामेव यथोक्तमद्वैतदर्शनं न सर्वेषामित्यर्थः।
श्लोकस्य तात्पर्यमाह –
तदेतदिति ।
स्तुतिश्च तदुपायप्रवृत्तावपकरोतीति शेषः। आदिपदेन सम्यग्दर्शनप्रतिबन्धकाः सर्वे दोषाः संगृह्यन्ते।
रागादिविमोको यदा कदाचिदनधिकारिणामपि सम्भवत्यतो विशिनष्टि –
सर्वदेति ।
सदा रागदिव्यावृत्तौ विवेकम् हेतुं प्रपञ्चयति –
मुनिभिरिति ।
विवेके च पदशक्तेर्वाक्यतात्पर्यस्य च परिञ्ञानं कारणमित्याह –
वेदेति ।
एवं सम्यग्ज्ञानाधिकारिणं साधनचतुष्टयसम्पन्नमुक्त्वा तद्विषयं निरूपयति –
निर्विकल्प इति ।
आत्मनश्चाक्षुषत्वशङ्कां वारयति –
उपलब्ध इति ।
हिशब्दद्योत्यमर्थमाह –
वेदान्तेति ।
सर्वविकल्पशून्यत्वमात्मनः स्फुटयितुं प्रपञ्चोपशमविशेषणम्। आत्मनोऽभावत्वं ब्रहुव्रीहिणा प्रत्युदस्यते।
हेतुहेतुमद्भावेन पुनरुक्तिं विशेषयोर्व्योसेधति –
अत एवेति ।
सम्यग्दर्शनाधिकारिणो दर्शितानुपसंहरति –
विगतेति ।
अनधिकारिणो दर्शयन् वैशेषिकवैनाशिकदिशास्त्राभिज्ञानामपि तदन्तर्भावं सूचयति –
नान्यैरिति ॥३५॥
मिथ्याज्ञानप्रचयसंस्काराद्वेदान्तार्थतात्पर्यवतां पण्डितानामपि नाद्वैते प्रत्ययदार्ढ्यं सिध्यतीत्याह –
तस्मादिति ।
शास्त्रादद्वैतमवगम्य स्मृतिसन्ततिं कुर्वतो लोकानुवर्तने विधिनियममाह –
अद्वैतमिति ।
तस्मादित्यस्यार्थमाह –
यस्मादिति ।
एवमिति निर्विकल्पत्वादिपरामर्शः। विदित्वा शास्त्रतोऽवगम्येत्यर्थः।
अद्वैतावगतिदार्ढ्यार्थं स्मृतिसन्ततिकर्तव्यतायां नियमविधिमभ्यनुजानाति –
अद्वैत इति ।
अद्वैतमित्याद्युत्तरार्धं विभजते –
तच्चेति ।
जडसदृशस्य कथं लोकाचरणमबुद्धिपूर्वकारित्यादित्याशङ्क्याऽऽह –
सर्वलोकेति ।
लौकिकव्यवहारानतीत्य विदुषो जडवदाचरणं किदृशमित्यपेक्षायां चतुर्थं पादमनूद्य तात्पर्यमाह –
जडवदिति ।
एवं विधोऽहमित्यात्मानं विद्याभिजनादिभिरप्रख्यापयञ्जडवदेव विद्वाल्लोकमाचरेदिति योजना ॥३६॥
ननु परापरदेवयोः स्तुतिपूर्वकप्रणामस्य श्राद्धादिक्रियायाश्च कर्तव्यतया प्रतिबन्धात् कथं विदुषो जडवदाचरणमिति, तत्राऽऽह –
निस्स्तुतिरिति ।
तथाऽपि जीवता क्वापि स्थातव्यत्वादाश्रयमुद्दिश्य प्रवृत्तेरवश्यकत्वात् कुतो जडसादृश्यमित्याशङ्क्याऽऽह –
चलेति ।
चलं चाचलं च चलाचले ते निकेतो यस्याऽऽशयः स तथेति यावत्।
तथाऽपि कौपीनाच्छादनाशनपानादिदेहस्थितिप्रयोजकापेक्षया प्रवृत्तिध्रौव्यान्न विदुषो जडतुल्यतेत्याशङ्क्याऽऽह –
यतिरिति ।
आकाङ्क्षापूर्वकं पूर्वार्धाक्षराणि व्याचष्टे –
कयेत्यादिना ।
वर्णाश्रमाभिमानवतस्तत्तत्कर्मसु वर्त्तमानस्य कथमिदं विशेषणमित्याशङ्क्याऽऽह –
त्यक्तेति ।
पारमहंसपारिव्राज्यं प्रतिपत्तुमशक्यमप्रामाणिकत्वादिति चेन्मैवं श्रुतिस्मृतिसिद्धत्वादित्याह –
एतमिति ।
विदित्वेत्यापातिकं वेदनं व्युत्थानहेतुत्वेनोच्यते। तस्मिन्नेव परस्मिन् वस्तुनि विषयान्तरेभ्यो व्यावृत्ता बुद्धिर्येषामिति तथा। तदेव परं वस्त्वात्मा निरुपचरितं स्वरूपं येषां ते तथोच्यन्ते।
तस्मिन्नेव परस्मिन्नात्मनि निष्ठा निश्चयेन स्थितिर्येषां ते तथेत्याह –
तन्निष्ठा इति ।
तदेवाऽऽत्मभूतं परं वस्तु परमयनं परा गतिर्येषां ते तथेत्याह –
तत्परायणा इति ।
आदिशब्देन ‘सर्वकर्माणि मनसा’(भ. गी. ५ । १३) इत्यादिवाक्यंगृह्यते।
कदा पुनश्चलो देहो विदुषो निकेतो भवति, तत्राऽऽह –
यदेति ।
अविवक्षिते हि कालविशेषे विवक्षितं व्यवहारं निमित्तीकृत्याऽऽत्मस्थितिमुक्तविशेषणवतीं विस्मृत्याहङ्कारममकारपरवशो यदा विद्वानवतिष्ठते तदेति योजना ।
स्वभावतस्त्वचलमात्मस्वरूपमेवास्य निकेतनं, चलं पुनः शरीरमुपदर्शितविस्मरणद्वारेणेति निगमयति –
सोऽयमिति ।
अविदुषो विशेषार्थं व्यावर्त्यं कीर्तयति –
न पुनरिति ।
चतुर्थपादार्थमाह –
स चेति ॥३७॥
अहमेव परं ब्रह्म न मत्तोऽन्यदस्ति किञ्चिदिति स्मृतिसन्ततिकरणमपि न कालविशेषनियतं किं तु नैरन्तर्येण कर्तव्यमित्याह –
तत्त्वमिति ।
आध्यात्मिकं शरीरादि कल्पितं तत्त्वमधिष्ठानमात्रं दृष्ट्वा बाह्यतो देहाद् बहिरवस्थितं पृथिव्यादि च कल्पितत्वेनावस्तुत्वादधिष्ठानमात्रमेवेत्यनुभूय स्वयमपि द्रष्टा परमार्थवस्तुस्वभावमापन्नस्तत्रैवाऽऽसक्तचेता बाह्येभ्यो विषयेभ्यो व्यावृत्तबुद्धिस्तस्मिन्नेव तत्त्वे परमार्थभूते प्रतिष्ठितस्तद्दर्शननिष्ठः स्यादित्यर्थः।
पृथिव्यादेश्च प्रत्येकं परमार्थत्वसम्भवे कथमद्वैतनिष्ठा सिद्ध्येदित्याशङ्क्य व्याचष्टे –
बाह्यमित्यादिना ।
किं तदुभयोस्तत्त्वं तदाह –
रज्जुसर्पवदिति ।
उक्तस्य विकारजातस्यासत्त्वे प्रमाणमाह –
वाचारम्भणमिति ।
द्रष्टुरात्मनोऽपि दृश्यप्रतियोगित्वात्तुल्यं वाचारम्भणत्वमित्याशङ्क्याऽऽह –
आत्मा चेति ।
भवतु परस्याऽऽत्मनस्तत्तदागमवचननिर्देशादुक्तलक्षणत्वं तथाऽपि द्रष्टुरात्मनो न यथोक्तरूपत्वमित्याशङ्क्याऽऽह –
तत्सत्यमिति ।
विशेषणानि तु प्राचीनानि तत्तदागमोपात्तान्यपुनरुक्तानि।
द्वितीयार्धं व्याचष्टे –
इत्येवमिति ।
आत्मारामत्वं कथमित्याशङ्क्य बाह्यविषयासक्तिं त्यक्त्वा प्रत्यगात्मन्येव परितृप्तत्वादित्याह –
न बाह्येति ।
तत्त्वादप्रच्युतो भवतीत्येतद्व्यतिरेकमुखेन व्याकरोति –
यथेत्यादिना ।
अतत्त्वदर्शीति च्छेदः।
आत्मविदो नाव्यवस्थितमात्मदर्शनमित्यत्र हेतुमाह –
आत्मन इति ।
सति स्वरूपे स्वरूपात्प्रच्युतेरप्रसक्तत्वात्तत्प्रतिषेधो युक्तो न भवतीत्याशङ्क्याऽऽह –
सदेति ।
वस्तुनः सदैकरूपत्वे स्मृतिमुदाहरति –
शुनि चेति ।
समदर्शिनः सदैकरूपवस्तुदर्शिन एव पण्डिता नान्ये तथेत्यर्थः।
स्वरूपाप्रच्यवने च स्मृतिं दर्शयति –
सममिति ।
तत्र हि विनश्यत्स्वविनश्यन्तमिति स्वरूपाप्रच्यवनमुत्तम् ॥३८॥