अद्वैतशारदा

आनन्दगिरिटीका (माण्डूक्य)

अद्वैतप्रकरणम् (१)

तर्कावष्टम्भेन द्वैत­वै­त­थ्य­नि­रू­पणं परि­स­मा­प्या­द्वैतं पारमार्थिकमपि तर्कतः सम्भावयितुं प्रकरणान्तरं प्रारि­प्सु­रु­पा­स्यो­पा­स­क­भे­द­दृष्टिं तावदपवदति –
उपासनेति ।
देहस्य धारणाद्धर्मो जीवो भूतसङ्घाताकारेण जाते ब्रह्मणि तदभिमानित्वेन वर्तते। स प्रागु­त्प­त्ते­रजं सर्वमित्येवं कालावच्छिन्नं वस्तु मन्यते। स पुनरुपासनां पुरु­षा­र्थ­सा­ध­न­त्वे­नाऽऽ­श्रि­त­स्त­देव ब्रह्म प्रतिपत्स्ये शरी­र­पा­ता­दू­र्ध्व­मि­त्येवं यतो मिथ्या­ज्ञा­न­वा­न­व­ति­ष्ठते तेनासौ कृपणोऽल्पको ब्रह्मविद्भिः स्मृतश्चिन्तित इत्यर्थः।

प्रक­र­णा­न्त­र­म­व­ता­र­यन् वृत्तमनुद्रवति –
ओङ्कारेति ।
तस्य हि निर्णये प्रथमे प्रकरणे प्रपञ्चोपशमः शिवोऽद्वैत इति विशेषणैरात्मा प्रति­ज्ञा­मा­त्रे­णा­द्वि­तीयो व्याख्यात इत्यर्थः।

द्विती­य­प्र­क­र­णार्थं संक्षि­प्या­नु­व­दति –
ज्ञात इति ।
तत्रैवाऽऽद्ये प्रकरणे ‘ज्ञाते द्वैतं न विद्यत’(मा. का. १ । १८) इत्यत्र प्रति­ज्ञा­मा­त्रेण द्वैताभाव उक्तः। स तु द्वितीयेन प्रकरणेन हेतु­दृ­ष्टा­न्ता­त्म­केन तर्केण च प्रतिपादितो, नात्र प्रति­पा­द­यि­त­व्य­म­व­शि­ष्ट­म­स्ती­त्यर्थः।

तृतीयं प्रक­र­ण­मा­का­ङ्क्ष्या­पू­र्व­क­म­व­ता­र­यति –
अद्वैतमिति ।

“नैषा तर्केण मतिरापनेया”(क. उ. १ । २ । ९) इति श्रुतेरद्वैतं कथं तर्केण ज्ञातुं शक्य­मि­त्या­क्षि­पति –
तत्कथमिति ।

स्वत­न्त्र­त­र्का­प्र­वे­शेऽपि तस्मि­न्ना­ग­मि­क­त­र्कस्य सहकारितया सम्भा­व­ना­हे­तु­त्वात् तर्केणापि ज्ञातुं शक्यमिति व्यव­हा­रो­प­प­त्ति­रिति मत्वाऽऽह –
अद्वैतेति ।

यदि तर्केणाद्वैतं सम्भावयितुं प्रकरणमारभ्यते तर्हि किमि­त्यु­पा­स­क­निन्दा प्रथमं प्रस्तूयते, तत्राऽऽह –
उपास्येति ।
उक्त­व­क्ष्य­मा­ण­वि­रो­धि­त्वा­दु­पा­स­कस्य तन्निन्दा प्रकृ­तो­प­यो­गि­नी­त्यर्थः।

कथं तर्हि तत्र तत्रा­ज­त्व­मा­त्मनो दर्शयन्ती श्रुति­र्घ­टि­ष्यते, तत्राऽऽह –
प्रागिति ।
प्रागवस्थायां सर्वमिदमजमहं च तथेत्युपासको यतो मन्यतेऽतश्च प्राग­व­स्थ­ब्र­ह्म­वि­षया भवि­ष्य­त्य­ज­त्व­श्रु­ति­रि­त्यर्थः।

कार्य­स्थि­त्य­व­स्थायां यदि ब्रह्म तन्मात्रमिष्टं तर्हि किमुपासनया प्राप्त­व्य­मि­त्या­श­ङ्क्याऽऽह –
यदात्मक इति ।
इदा­नी­मु­त्प­त्त्य­व­स्थायां जातो जाते ब्रह्मणि स्थित्यवस्थायां वर्तमानोऽहं प्रागु­त्प­त्ते­र्य­दा­त्मकः सन्नासं तदेव पुनः प्रल­या­व­स्था­या­मु­पा­स­नया प्रतिपत्स्ये, तत्क्र­तु­न्या­या­दिति सम्बन्धः।

तलवकाराणां शाखा­या­मु­पा­स्यस्य ब्रह्म­त्व­नि­षे­ध­द­र्श­ना­च्चो­पा­स­क­निन्दा युक्तेत्याह –
यद्वाचेति ।
अन­भ्यु­दि­त­म­न­भि­प्र­का­शि­तम्, अभ्यु­द्य­तेऽ­भि­प्रा­का­श्यते, उपासते वाचा विष­यी­कु­र्व­न्ती­त्यर्थः। आदिशब्देन ‘यन्मनसा’(के. उ. १ । ६) इत्यादि गृह्यते॥१॥

भेद­द­र्शि­न­मु­पा­स­क­म­द्वै­त­वि­रो­धिनं निन्दित्वा सम्प्र­त्य­द्वै­त­प्र­तिज्ञां करोति –
अत इति ।
जातिर्जन्म, तद्रहितमजाति।

तत्र हेतुमाह –
समतामिति ।

जन्मराहित्यं साधयति –
यथेति ।

अतः शब्दार्थमाह –
सबाह्येति ।

प्रतिज्ञाभागं विभजते –
अकृपणेति ।

तदेव व्यतिरेकमुखेण स्फोरयति –
तद्धीति ।
दर्श­ना­दि­वि­शे­ष­व्य­व­हा­र­गो­च­री­भूतं कार्यजातं परिच्छिन्नं नाशि चोच्यते। तदेव कृप­ण­त्वा­ल­म्ब­न­मि­त्यर्थः।

तच्च मिथ्या­भू­त­मि­त्यत्र प्रमाणमाह –
वाचारम्भणमिति ।

कार्प­ण्य­मुक्त्वा तद­भा­व­रू­प­म­का­र्पण्यं प्रकटयति –
तद्विपरीतमिति ।
प्राप्य ज्ञात्वेति यावत्।

द्वितीयपादं व्याचष्टे –
तदजातीत्यादिना ।

सर्वात्मना साम्यं निर्विशेषत्वं गतमित्यत्र हेतुं पृच्छति –
कस्मादिति ।

निर्विशेषत्वे हेतुमाह –
अवयवेति ।

हेतुमेव प्रकटयन् व्यति­रे­क­मु­खे­णा­जत्वं प्रपञ्चयति –
यद्धीत्यादिना ।
समन्तत इति पूर्ण­त्व­स­ङ्की­र्त­नम्।

द्वितीयार्धं व्याचष्टे –
यथेत्यादिना ।
यथा रज्ज्वां सर्पो भ्रान्त्या जायते तथा सर्वं भ्रान्ति­दृष्ट्या जायमानत्वेन भासमानमपि यथा येन प्रकारेण वस्तुतो न जायते किं तु सर्वतो देशतः कालतो वस्तुतश्च पूर्णं कूटस्थमेव वस्तु भवति तथा तं प्रकारमिति सम्बन्धः॥२॥

प्रतिज्ञावाक्ये ब्रह्मशब्देन परमात्मा प्रकृतः, स कीदृ­गि­त्य­पे­क्षा­या­माह –
आत्मा हीति ।

जीव­भे­द­प्र­ती­ति­स्तर्हि कथ­मि­त्या­श­ङ्क्याऽऽह –
जीवैरिति ।
यथाऽऽकाशो विभुत्वादिधर्मः स्वग­त­ता­त्त्वि­क­भे­द­वान्न भवति तथा परमात्मा विशेषाभावात्। यथा च महाकाशो घटाकाशाकारेण प्रतीयते तथा परमात्मा नाना­वि­ध­जी­वा­का­रेण प्रतीतिगोचरो भवतीत्यर्थः।

कथं सङ्घातानां पर­स्मा­दु­त्प­त्ति­रि­त्या­श­ङ्क्याह –
घटादिवदिति ।
यथा मृदः सकाशाद्घटादयो जायन्ते तथा परमात्मैव पृथि­व्या­दि­स­ङ्घा­ता­का­रेण जायत इत्यर्थः।

यदाऽऽत्मनो जीवा­दी­ना­मु­त्प­त्ति­रिष्टा तदा तस्यामुत्पत्तौ दृष्टा­न्त­व­च­न­मे­त­दि­त्याह –
जाताविति ।

श्लोकस्य वृत्ता­नु­वा­द­पू­र्वकं तात्पर्यमाह –
अजातीत्यादिना ।

प्रथ­म­पा­द­स्या­क्ष­रा­र्थ­माह –
आत्मेत्यादिना ।
विमतः स्वग­त­ता­त्त्वि­क­भे­द­शून्यः सूक्ष्म­त्वा­न्नि­र­व­य­व­त्वा­द्वि­भु­त्वा­दा­का­श­वत्। न च परमाण्वादौ सूक्ष्म­त्वा­दे­र्व्य­भि­चारः। तस्यै­वा­स­म्म­त­त्वात्। क्वचिदपि तात्त्वि­क­भे­दा­स­म्प्र­ति­प­त्ते­श्चे­त्यर्थः।

जीवैरित्यादि व्यचष्टे –
जीवैरिति ।
जीवाकारेण परमात्मैवोक्तः। “क्षेत्रज्ञं चापि मां विद्धि”(भ. गी. १३ । २) इति स्मृते­रि­त्यर्थः।

उदि­त­श­ब्द­श्चे­दु­क्ता­र्थ­स्तर्हि परस्यैवाऽऽत्मनः सङ्घा­त­रू­पे­णो­क्तत्वे सप्रपञ्चत्वं प्रस­ज्ये­ते­त्या­शङ्क्या‌ह –
अथ वेति ।

तर्हि नात्माऽ­श्रु­ते­रिति न्यायविरोधः स्यादि­त्या­श­ङ्क्याऽऽह –
जीवात्मनामिति ।

तृतीयपादं व्याचष्टे –
तस्मादेवेति ।

उक्तेऽर्थे वाक्यमवतारयति –
अत इति ।
आका­श­स्या­व­का­श­प्र­दा­नेन घटाद्युत्पत्तौ कारणत्वं निर्विकारस्यैव दृष्टमिति द्रष्टव्यम्।

जाता­वि­त्या­दे­र­र्थ­माह –
यदेति ॥३॥

अद्वैतस्य जीव­सृ­ष्टि­श्रु­ति­वि­रोधं परिहृत्य तस्यैव जीव­प्र­ल­य­श्रुत्या विरोधमाशङ्क्य परिहरति –
घटादिष्विति ।
औपाधिकौ जीवा­ना­मु­त्प­त्ति­प्र­लयौ, न स्वाभाविकौ।

तथा चोत्प­त्ति­श्रुत्या विरो­धा­भा­व­व­द­द्वै­तस्य प्रल­य­श्रु­त्याऽपि न विरोधोऽस्तीति श्लोका­क्ष­र­व्या­ख्या­नेन प्रकटयति –
यथेत्यादिना ॥४॥

इदानीमद्वैतस्य व्यव­स्था­नु­प­पत्त्या विरोधमाशङ्क्य परिहतति –
यथैकस्मिन्निति ।

उक्त­दृ­ष्टा­न्त­व­शा­दे­क­स्मि­ञ्जीवे सुखादिसंयुक्ते सत्यपरे जीवास्तैरेव सुखादिभिर्न संयुज्यन्त औपा­धि­क­भे­दा­दि­त्याह –
तldत्वदिति ।

श्लोक­व्या­व­र्त्या­मा­शङ्कां दर्शयति –
सर्वदेहेष्विति ।

ऐकात्म्ये कर्तर्येकस्मिन् कर्तारः सर्वे, भोक्तरि चैकस्मिन् भोक्तारः सर्वे भवे­यु­रि­त्य­व्य­व­स्था­न्त­र­माह –
क्रियेति ।

व्यव­स्था­नु­प­पत्त्या द्वैत­मे­ष्ट­व्य­मिति वदन्तं प्रत्यु­त्त­र­त्वेन श्लोकमवतारयति –
तान् प्रतीति ।

किमिदमैकात्म्ये साङ्कर्यम् ? किमेकस्मिञ्जीवे व्यवस्थितेन सुखादिना जीवान्तराणां तद्वत्त्वं स्यादित्युच्यते किं वा सर्वो­पा­धि­ष्वा­त्मै­क्या­त्तस्य स्वरूपेण सर्व­सु­खा­दि­मत्त्वं स्यादि­त्या­पा­द्यते, तत्राऽऽद्यं प्रत्याह –
तद्वदिति ।

आत्मनः सर्व­त्रै­क­त्वा­त्तस्य स्वरूपेण सर्व­सु­खा­दि­म­त्त्व­मिति द्वितीयं पक्षं विव­क्ष­न्ना­श­ङ्कते –
नन्विति ।

सर्व­त्राऽऽ­त्मै­क­त्व­मु­क्त­म­ङ्गी­क­रोति –
बाढमिति ।

तदे­क­त्व­मु­प­प­त्ति­शून्यं कथ­म­ङ्गी­कृ­त­मि­त्या­श­ङ्क्याऽऽह –
ननु नेति ।

यदि सर्वत्रैकत्वं नियतमिष्यते तर्हि तत्र तत्र सुखित्वं दुःखित्वम् च तस्यैवैकस्य प्रप्तमिति न व्यव­स्था­सि­द्धि­रिति चोदयति –
यद्येक एवेति ।

आत्मस्वरूपस्य सर्व­त्रै­क­त्वेऽपि कल्पितभेदाद् व्यव­स्था­सि­द्धि­रि­त्य­भि­प्रेत्य किमिदं साङ्ख्यस्य चोद्यं किं वा वैशेषिकादेरिति विकल्प्याऽऽद्यं प्रत्याह –
न चेदमिति ।
किं चैकात्म्यं दूषयता साङ्ख्येन तद्भे­दोऽ­भ्यु­प­ग­म्यते।

स च नाभ्युपगन्तुं शक्यते तन्मा­ना­भा­वा­दि­त्याह –
न चेति ।
प्रधानं हि कस्या­चि­द्भो­ग­म­प­वर्गं च कस्यचिदादधत् पुरु­ष­शे­ष­मि­ष्यते।

तच्च पुरुषभेदाभावे नोपपद्यते तेनार्थापत्त्या पुरुषभेदः सिध्यतीति शङ्कते –
भेदेति ।

अर्था­प­त्ते­र­नु­दयं वदन्नुत्तरमाह –
नेत्यादिना ।

संक्षि­प्त­मे­वोक्तं विवृणोति –
यदि हीति ।

प्रधानस्य पारा­र्थ्य­सा­म­र्थ्या­देव पुरुषेषु कश्चिदतिशयो भवि­ष्य­ती­त्या­श­ङ्क्या­प­सि­द्धा­न्त­प्र­स­ङ्गा­न्मै­व­मि­त्याह –
निर्विशेषा इति ।
किं च प्रधानस्य पारार्थ्यं परं शेषिणमपेक्षते, न तस्मिन् भेदमपि काङ्क्षते।

अतोऽ­न्य­थाऽ­प्यु­प­प­त्ति­रि­त्याह –
अत इति ।

जन्म­म­र­णा­दि­व्य­व­स्था­नु­प­पत्त्या पुरु­ष­भे­द­क­ल्प­न­मपि न युक्तं व्यधि­क­र­ण­त्वा­दिति मत्वाऽऽह –
न चेति ।

न केवलं प्रमाणशून्या पुरुषभेदकल्पना, किं तु प्रयोजनशून्या चेत्याह –
परेति ।
ननु न पुरु­ष­स­त्ता­मात्रं निमित्तीकृत्य प्रधानं प्रवर्तते।

किं त्वीश्व­रा­धि­ष्ठै­त­मिति सेश्व­र­वा­दि­म­त­मा­शङ्क्य तस्यापि पुरु­ष­त्वा­वि­शे­षा­दु­प­ल­ब्धि­मा­त्र­त्व­म­भ्यु­पे­त्याऽऽह –
परश्चेति ।
वेदार्थो वेद­प्र­ति­पा­द्य­म­द्वै­तम्।

द्विती­य­मु­त्था­प­यति –
ये त्विति ।
बुद्धि­सु­ख­दुः­खे­च्छा­द्वे­ष­प्र­य­त्न­ध­र्मा­ध­र्म­सं­स्कारा नव विशेषगुणाः। ते च प्रत्येकमात्मसु व्यवस्थया समवेताः स्वीक्रियन्ते। तेषां व्यव­स्था­नु­प­पत्त्या प्रति­दे­ह­मा­त्म­भे­द­सि­द्धि­रि­त्यर्थः। किं बुद्ध्यादयो रूपा­दि­व­दा­त्म­व्या­पिनः, किं वा संयो­गा­दि­व­दे­क­दे­श­वृ­त्तयः। नाऽऽद्यः।

ज्ञाना­दि­गु­णा­ना­मा­श्र­य­व्या­पि­ना­मा­श्र­य­सं­युक्ते सर्व­स्मि­न्न­प­र्या­येण ज्ञात­ता­दि­व्य­व­हा­र­ज­न­क­त्व­प्र­स­ङ्गा­दि­त्याह –
तदप्यसदिति ।
द्वितीये त्वेकदेशः सत्योऽसत्यो वा। प्रथमे घटादिवदात्मनः सत्यैकदेशत्वात् कार्य­त्वा­दि­प्र­सङ्गः।

द्वितीये कल्पि­तै­क­दे­शा­ना­मेव ज्ञाना­दि­गु­ण­व­त्त्व­मा­त्म­नस्तु न तद्वत्त्वं सिध्यतीत्याह –
स्मृतीति ।
स्मृतिहेतवः संस्कारा भावानाख्याः तेषां ग्रह­ण­मि­त­रे­षा­मु­प­ल­क्ष­णा­र्थम्। तेषामात्मनि समवायाभावात् सिद्धा­न्ता­सि­द्धि­रिति शेषः। किं चाऽऽत्ममनः संयो­गा­द­स­म­वा­यि­का­र­णा­ज्ज्ञा­ना­ना­मु­त्प­त्ति­रिष्टा।

तथा च सति ग्रहणसमये स्मृतिर्न सम्भवत्येवेति नियमो नोपपद्यते, ग्रह­ण­का­र­ण­सं­यो­गे­नैव स्मृत्यु­त्प­त्ति­स­म्भ­वा­दि­त्याह –
आत्मेति ।
किं चाऽऽत्ममनसोः संयो­गा­दे­क­स्मा­दे­कस्याः स्मृतेः समुत्पत्तिसमये स्मृत्य­न्त­रा­ण्यपि समुत्पद्येरन्। असमवायिकारणस्य तुल्यत्वात्। न च समु­द­बु­द्ध­सं­स्का­रा­यौ­ग­प­द्या­द्यु­ग­प­द­नु­त्पत्तिः।

तेषां तदुद्धोधस्य चाऽऽत्मनि विप्र­ति­प­न्न­त्वेन स्मृति­सा­म­ग्र्य­न्त­र्भा­वा­स­म्भ­वा­दि­त्य­भि­प्रे­त्याह –
युगपद्वेति ।
किं च समानजातीयानां स्पर्शादिमतां च परस्परं सम्बन्धो दृष्टः। यथा मल्लानां मेषाणां रज्जुघटादीनां च।

तदु­भ­या­भा­वा­दा­त्मनां मनाअदिभिः सम्ब­न्धा­सि­द्धे­र्नो­क्ता­द­स­म­वा­यि­का­र­णा­दु­बु­द्ध्या­दि­गु­णो­त्पत्तिः सिध्यतीत्याह –
न चेति ।

गुणादीनां साजात्यस्य स्पर्शा­दि­म­त्त्वस्य चाभावेऽपि द्रव्येण सम्बन्धवदात्मनो मनआदिभिः सम्बन्धः सिध्येदिति चेन्नेत्याह –
न चेति ।
स्वतन्त्रं सन्मात्रं द्रव्य­श­ब्दे­नात्र विवक्षितम्। न ततो भेदेन गुणादयो वेदान्तिमते विद्यन्ते। शुक्लः पटः खण्डो गौरि­त्या­दि­सा­मा­ना­धि­क­र­ण्य­द­र्श­नात्। द्रव्यमेव तु कल्पनया तत्तदाकारेण भाती­त्य­भ्यु­प­ग­मात्। अतो दृष्टा­न्ता­स­म्प्र­ति­प­त्ति­रि­त्यर्थः।

विपक्षे दोषमाह –
यदि हीति ।
गुणादयो द्रव्या­द­त्य­न्त­भिन्ना हिम­व­द्वि­न्ध्य­यो­रिव यदि स्युर्यदि चाऽऽत्मनः सका­शा­दि­च्छा­द­योऽ­त्यन्तं भिन्ना भवेयुस्तदा गुणादीनां द्रव्येण तद्वदेव सम्ब­न्धा­नु­प­पत्तेः, इच्छादीनां चाऽऽमना तदयोगात् पार­त­न्त्र्या­सि­द्धि­रि­त्यर्थः।

अत्य­न्त­भि­न्ना­ना­मपि समवायसम्बन्धात् पार­त­न्त्र्यो­प­प­त्ति­रिति शङ्कते –
अयुतेति ।
किमि­द­म­यु­त­सि­द्ध­त्व­म­पृ­थ­क्का­लत्वं किं वाऽपृ­थ­ग्दे­श­त्व­मु­ता­पृ­थ­क्स्व­भा­व­त्व­म­हो­स्वित् संयो­ग­वि­भा­गा­यो­ग्य­त्वम् ? नाऽऽद्यः। विक­ल्पा­स­ह­त्वात्।

किमि­च्छा­द्य­पे­क्ष­याऽऽ­त्म­नोऽ­पृ­थ­क्का­ल­त्वम् किं वाऽऽत्मा­पे­क्ष­ये­च्छा­दी­ना­मिति विकल्प्याऽऽद्यं दूषयति –
नेत्यादिना ।

यद्यात्मना सहा­पृ­थ­क्का­ल­त्व­मि­च्छा­दीनां तदाऽऽ­त्म­नोऽ­ना­दि­त्वात् तद् गत­म­ह­त्त्व­व­न्नि­त्यत्वं तेषामापततीत्याह –
आत्मनेति ।

प्रस­ङ्ग­स्ये­ष्ट­त्व­मा­शङ्क्य निराचष्टे –
स चेति ।
न चापृ­थ­ग्दे­श­त्व­म­यु­त­सि­द्ध­त्वम्। तन्तुपटादीनां पृथ­ग्दे­शा­ना­म­यु­त­सि­द्ध्य­भा­व­प्र­स­ङ्गात्। न चापृ­थ­क्स्व­भा­व­त्व­म­यु­त­सि­द्ध­त्वम्। भेद­प­क्ष­प­रि­क्ष­यात्। न च संयो­ग­वि­भा­गा­यो­ग्य­त्व­म­यु­त­सि­द्ध­त्वम्।

देवदत्तस्य हस्तादीनां चायु­त­सि­द्ध्य­भा­वा­पा­ता­दि­त्य­भि­प्रेत्य समवायस्य द्रव्या­द­न­न्यत्वे तावन्मात्रत्वेन तत्स­म्ब­न्ध­त्व­व्या­घा­तात्; ततोऽन्यत्वे तेन सम्ब­न्धा­न्त­र­मस्ति न वेति विकल्प्याऽऽद्ये स्यादनवस्थेति मत्वाऽऽह –
समवायस्येति ।

द्वितीयं शङ्कते –
समवाय इति ।
न वाच्यं सम्ब­न्धा­न्त­र­मिति शेषः।

समवायस्य नित्य­स­म्ब­न्धत्वे समवायवतां द्रव्य­गु­णा­दी­ना­मपि तद्व­त्त्वा­द्भे­दस्य कदा­चि­द­प्य­नु­प­ल­म्भात् पृथ­क्त्व­प्र­था­नु­प­प­त्ति­रिति दूषयति –
तथा चेति ।
संयोगस्यापि समवायसाम्यं चकारेण सूच्यते।

समवायस्य सम­वा­यि­भि­र्गु­णा­दीनां च द्रव्ये­णा­त्य­न्त­भेदे हिम­व­द्वि­न्ध्य­यो­रिव सम्ब­न्धा­नु­प­प­त्ते­स्तेषु पर­त­न्त्र­ता­व्य­व­हा­रा­सि­द्धि­रि­त्याह –
अत्यन्तेति ।
किं चेच्छादयो नाऽऽत्मगुणा उप­ज­ना­पा­य­व­त्त्वा­द्रू­पा­दि­वत्।

यद्वाऽऽत्मा नानि­त्य­गु­ण­वा­न्नि­त्य­त्वाद् व्यतिरेकेण देहादिवदित्याह –
इच्छादीति ।
न केव­ल­मा­त्म­नोऽ­नि­त्य­गु­ण­त्वेऽ­नि­त्य­त्व­प्र­स­क्ति­रेव दोषः।

किं त्वन्यदपि दोषद्वयं दुष्परिहरमिति बाधकान्तरमाह –
सावयवत्वमिति ।

यद्यात्मनो नेच्छा­दि­गु­ण­वत्त्वं तदा तस्य बन्धा­भा­वा­न्मोक्षो न स्यादतो बन्ध­मो­क्ष­व्य­व­स्था­नु­प­पत्त्या प्रतिदेहं सुख­दुः­खा­दि­वि­शि­ष्टा­त्म­भे­द­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह –
यथा त्विति ।

अव­स्तु­त्वा­द­वि­द्या­या­स्त­त्कृ­त­व्य­व­हा­रा­यो­गा­द्व्या­व­हा­रि­क­ब­न्धा­द्य­भ्यु­प­ग­मा­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह –
सर्ववादिभिरिति ।
अवि­द्या­कृ­त­म­नु­ष्य­त्वा­ध्या­रो­पेण लौकि­क­वै­दि­क­व्य­व­हारः सर्व­वा­दि­भि­रि­ष्यते, तत्कृता च व्यव­स्थाऽऽ­स्थी­यते। तस्मादस्माकमपि तथैव सर्व­म­वि­रु­द्ध­मि­त्यर्थः। परमार्थे च मोक्षे केनापि वादिना व्यवहारो नाभ्युपगम्यते।

तथा च मोक्षे परेषां व्यव­हा­र­स्यै­वा­भा­वा­त्त­न्नि­र्वा­ह­क­पा­र­मा­र्थि­क­भे­दा­भ्यु­प­गमो वृथेत्याह –
परमार्थेति ।

कल्पितभेदवशादपि पुर्वो­क्त­स­र्व­व्य­व­स्था­सौ­स्थ्यात् पार­मा­र्थि­का­त्म­भे­द­क­ल्पना प्रमा­ण­प्र­यो­ज­न­शू­न्ये­त्यु­प­सं­ह­रति –
तस्मादिति ॥५॥

अद्वैतस्य श्रुत्या­दि­वि­रो­धा­भा­वेऽ­प्य­नु­मा­न­वि­रो­ध­मा­श­ङ्क्या­नै­का­न्ति­क­त्वे­ना­नु­मानं दूषयति –
रूपेति ।

श्लोक­व्या­व­र्त्या­म­श­ङ्का­माह –
कथमिति ।
यथाऽऽत्मभेदवादे तद्भेदनिमित्तो रूपा­दि­व्य­व­हा­र­स्त­थै­क­स्मि­न्ने­वा­त्म­न्या­त्मै­क्य­पक्षे रूपादिव्यवहारो नोपपद्यते। तथा च विमता जीवास्तत्त्वतो भिद्यन्ते भिन्न­ना­म­क­त्वा­द्भि­न्न­का­र्य­क­र­त्वात् भिन्नरूपत्वाद् घट­प­टा­दि­व­दि­त्य­नु­मा­न­वि­रु­द्ध­म­द्वै­त­मि­त्यर्थः।

घटा­का­श­दि­ष्व­नै­का­न्ति­कत्वं विवक्षित्वा श्लोकाक्षराणि व्युत्पादयति –
उच्यत इत्यादिना ।
शयनादिकार्यं समाख्याश्च भिद्यन्त इति सम्बन्धः। तत्कृ­ता­श्चे­त्यत्र तच्छब्देन विकल्पितो घटाकाशभेदो गृह्यते। चका­रोऽ­व­धा­र­णार्थः।

घटा­का­शा­दी­ना­मु­क्त­हे­तु­म­त्त्वेऽपि विपक्षत्वाभावे कथ­म­नै­का­न्ति­क­त्व­मि­त्या­श­ङ्क्याऽऽह –
सर्वोऽयमिति ।

उक्तेऽर्थे तृतीयं पादं विभजते –
न चेति ।
परोपाधिशब्देन घट­क­र­का­दि­रु­च्यते।

दृष्टान्तमनूद्य दार्ष्टान्तिकं व्याचष्टे –
यथैतदित्यादिना ॥६॥

घटाकाशादीनां विप­क्ष­त्वा­भा­व­मा­शङ्क्य परिहरति –
नेत्यादिना ।

घटा­का­शा­दि­रा­का­शस्य विकारोऽवयवो वेत्यङ्गीकारात् तत्रापि भेदस्य तात्त्वि­क­त्वान्न विपक्षतेति श्लोकस्य व्यावर्त्यं चोद्यमुत्थापयति –
नन्विति ।

आकाशस्य निर्विकारत्वं निरवयवत्वं च लोकसिद्धं गृहीत्वा परिहरति –
नैतदस्तीति ।

तत्र वैध­र्म्यो­दा­ह­र­ण­द्व­य­माह –
यथेति ।

घटा­का­शा­दि­रा­का­शा­ख्यस्य महाकाशस्यावयवो न भवतीत्यत्र व्यति­रे­क­दृ­ष्टा­न्त­माह –
यथा वृक्षस्येति ।

उक्त­दृ­ष्टा­न्तानां दार्ष्टा­न्ति­क­माह –
न तथेति ।

घटाकाशस्य महाकाशं प्रति विका­र­त्व­म­व­य­वत्वं च नास्तीत्युक्तं दृष्टा­न्त­त्वे­ना­नूद्य दार्ष्टान्तिकं दर्श­य­न्नु­त्त­रार्धं व्याकरोति –
यथेत्यादिना ।

अनै­का­न्ति­क­त्वे­ना­नु­मा­न­स्या­मा­नत्वे स्थिते फलितमाह –
अत इति ॥७॥

जीवो ब्रह्मणो नांशो न विकारोऽपि तु ब्रह्मै­वो­पा­ध्य­नु­प्र­विष्टं जीव­श­ब्दि­त­मि­त्युक्तं, तदयुक्तं, ब्रह्मणः शुद्ध­त्वा­ज्जी­वस्य रागा­दि­म­ल­व­त्त्वा­दे­क­त्वा­यो­गा­दि­त्या­शङ्क्य परमार्थतो जीवस्यापि नास्ति मलवत्त्वमित्याह –
यथेति ।

श्लोकस्य तात्पर्यमाह –
यस्मादिति ।
घटाकाशो मठाकाशः सूची­पा­शा­का­श­श्चे­त्यु­पा­धि­नि­मित्तो भेदस्तद्विषया बुद्धि­स्त­त्प्र­युक्तो रूप­भे­दोऽ­र्थ­क्रि­या­भेदो नामभेदश्चेति व्यवहारो नभसि यथोपलभ्यते तथा देहा­द्यु­पा­धि­भे­द­प्र­युक्तो जीवभेदस्तत्कृतो जन­न­म­र­ण­सु­ख­दुः­खा­दि­व्य­व­हारो व्यवस्थितो यस्मादास्थीयते तस्मात् तेना­वि­द्या­वि­द्य­मा­नेन कृतमेवाऽऽत्मनो रागादिमलवत्त्वं न वस्तु­तोऽ­स्ती­त्ये­त­मर्थं दृष्टान्तद्वारा प्रति­पि­पा­द­यि­ष­न्नादौ दृष्टान्तमाहेति योजना।

दृष्टा­न्त­भा­ग­नि­वि­ष्टा­न्य­क्ष­राणि व्याचष्टे –
यथेत्यादिना ।

दार्ष्टा­न्ति­क­भा­ग­ग­ता­ना­म­क्ष­रा­णा­म­र्थ­माह –
तथेति ।
यो हि प्रत्यगात्मा विज्ञाता सोऽप्यबुद्धानां मलिनो भवतीति सम्बन्धः।

अबु­द्धा­ना­मि­त्ये­तद् व्याचष्टे –
प्रत्यगात्मेति ।

अवि­वे­कि­भि­र­ध्या­रो­पि­तेऽपि प्रत्यगात्मनो मलवत्त्वे मलप्रयुक्तं फलं तत्र वास्तवं भवि­ष्य­ती­त्या­श­ङ्क्याऽऽह –
न हीति ॥८॥

ननु जीवो मरणानन्तरं धर्मानुरोधेन स्वर्गं गच्छति। अधर्मवशाच्च नरकं प्रतिपद्यते। धर्माधर्मयोश्च भोगेन क्षये पुनरागत्य योनिविशेषे सम्भवति। तत्र यावद्भोगं स्थित्वा पुनरपि परलोकाय प्रतिष्ठते। एव­मि­ह­लो­क­प­र­लो­क­स­ञ्च­र­ण­व्य­व­हा­र­वि­रु­द्ध­म­द्वै­त­मिति, तत्राऽऽह –
मरण इति ।

श्लोकस्य तात्पर्यमाह –
पुनरपीति ।
आत्मनि सर्वो व्यव­हा­रोऽ­वि­द्या­कृतो वास्तवो नेत्यु­क्तोऽर्थः। आत्मनो हि गगनोपमस्य गत्या­दे­र्व­स्तु­तोऽ­स­म्भ­वा­द­वि­द्या­कृ­त­स्त­स्मिन् गत्या­दि­रि­त्यर्थः॥९॥

ननु सङ्घा­त­श­ब्दि­ता­ना­मु­पा­धीनां सत्यत्वात् तत्प्र­त्यु­क्त­भे­द­स्यापि तथा­त्वा­द­द्वै­ता­नु­प­प­त्ति­ता­द­व­स्थ्य­मिति चेत्तत्त्राऽऽह –
सङ्घाता इति ।

देवादिदेहानां पूज्य­त­म­त्वे­नाऽऽ­धि­क्या­भ्यु­प­ग­मा­न्ना­स­त्य­त्व­सि­द्धि­रि­त्या­शङ्क्य देहभेदेषु केषुचिदाधिक्ये मूढदृष्ट्या कल्पितेऽपि विवेकिदृष्ट्या सर्वदेहानां पञ्च­भू­ता­त्म­क­त्वा­वि­शे­षा­द­शे­ष­साम्ये वा स्वीकृते नास्ति सङ्घातेषु सत्यत्वे काचि­दु­प­प­त्ति­रि­त्याह –
आधिक्य इति ।

पूर्वा­र्धा­क्ष­राणि योजयति –
घटादीति ।

मणि­म­न्त्रा­दि­रू­पाम् माया­मि­न्द्र­जा­ल­प्र­यो­ज­क­भूतां व्यावर्तयति –
अविद्येति ।
विमता देहा न सत्या देहत्वात् सम्प्र­ति­प­न्न­वि­दि­त्यर्थः।

ब्रह्म­दि­दे­हा­ना­मु­त्कृ­ष्ट­त्वा­न्ना­वि­द्या­कृ­त­त्व­मि­त्या­शङ्क्य द्वितीयार्धं व्याचष्टे –
यदीत्यादिना ॥१०॥

जीव­स्या­द्वि­ती­य­ब्र­ह्म­त्व­मु­प­प­त्त्य­व­ष्ट­म्भे­नो­प­पा­दि­तम्। इदानीं तत्रैव तैत्ति­री­य­श्रु­ते­स्ता­त्प­र्य­माह –
रसादयो हीति ।

श्लोकस्य तात्पर्यमाह –
उत्पत्त्यादीति ।

अक्षारार्थं कथयति –
रसादय इति ।
आदिशब्देन मनो­म­य­वि­ज्ञा­न­म­या­न­न्द­मया गृह्यन्ते। खड्गादेर्यथा कोशास्तदपेक्षया बहिर्भवन्ति तद्वदेति पञ्च कोशा व्यपदिश्यन्ते।

तत्र हेतुमाह –
उत्त­रो­त्त­र­स्येति ।
पूर्व­पू­र्व­स्या­न्न­म­या­दे­रु­त्त­रो­त्त­र­प्रा­ण­म­या­द्य­पक्ष्य बहिर्भावाद् ब्रह्म सर्वान्तरं प्रति­ष्ठा­भू­त­म­पे­क्ष्याऽऽ­न­न्द­म­य­स्यापि बहि­र्भा­वा­वि­शे­षा­दि­वि­शिष्टं पञ्चानामपि कोश­त्व­मि­त्यर्थः।

अव­शि­ष्टा­न्य­क्ष­राणि व्याचष्टे –
व्याख्याता इत्यादिना ।

तत्र जीव­श­ब्द­प्र­वृत्तिं व्युत्पादयति –
स हीति ।

विशिष्टं जीव­श­ब्दा­र्थ­मा­का­ङ्क्षा­द्वारा व्यावर्त्तयति –
कोऽसावित्यादिना ।

प्रक­र­णा­वि­च्छे­दार्थं प्रक­र­ण­म­नु­स­न्धत्ते –
यस्मादिति ।

प्रकृतस्य परस्याऽऽत्मनः श्रौतत्वे फलितमाह –
नेत्यादिना ॥११॥

मनुष्योऽहं प्राण्यहं प्रमाताऽहं कर्ताऽहं भोक्ताऽहमिति पञ्चानां विशिष्टानां यदेकं स्वरूपमनुगतं प्रत्यक्चैतन्यं तद् ब्रह्मैवेति जीवपरयोरैक्ये तैत्ति­री­य­श्रु­ते­स्ता­त्प­र्य­मुक्त्वा तत्रैव बृह­दा­र­ण्य­क­श्रु­ते­रपि तात्पर्यमाह –
द्वयोरिति ।
मधुब्राह्मणे बहुषु पर्या­ये­ष्व­धि­दै­वा­ध्या­त्म­वि­भ­क्तयोः स्थानयोरयमेव स इति परं ब्रह्म प्रत्य­क्प्र­का­शि­तम्। अतोऽस्मिन् बृह­दा­र­ण्य­क­श्रु­ते­रपि ब्रह्मात्मैक्ये तात्प­र्य­मि­त्यर्थः।

तत्र दृष्टान्तमाह –
पृथिव्यामिति ।

न केवलमैक्ये तैत्ति­री­य­श्रु­ते­रेव तात्पर्यं, किं तु बृह­दा­र­ण्य­क­श्रु­ते­र­पी­त्याह –
किं चेति ।
अधिदैवं पृथि­व्या­दा­व­ध्यात्मं च शरीरे तेजोमयो ज्योति­र्म­य­श्चै­त­न्य­प्र­धा­नोऽ­मृ­त­म­योऽ­म­र­ण­धर्मा पुरुषः पूर्णः पृथिव्यादौ शरीरे चान्तर्गतो यो विज्ञाता स पर एवाऽऽत्मा। तेन स विज्ञाता सर्वं पूर्ण­म­प­रि­च्छिन्नं ब्रह्मैवेति परं ब्रह्म प्रकाशितमिति सम्बन्धः।

अप­वा­दा­व­स्था­या­म­ध्या­रो­पा­स­म्भ­वाद् द्वयो­र्द्व­यो­रिति कथमुच्यते तत्राऽऽह –
आ द्वैतक्षयादिति ।
द्वैत­क्ष­य­प­र्यन्तं ब्रह्म प्रकाशितम्। द्वओर्द्वयोरिति पुन­र­नु­वा­द­मा­त्र­मि­त्यर्थः।

मधुज्ञाने मध्वेव प्रकाशितं न ब्रह्मे­त्या­शङ्क्य मधु­ज्ञा­न­श­ब्दार्थं व्युत्पादयति –
क्वेत्यादिना ।
शब्दस्य क्वचि­दा­श्रि­तत्वं रूपवदनुमीयते। तच्च शब्दाधिकरणं सामान्यतः सिद्धं पारि­शे­ष्या­दा­का­श­मिति सिद्धमिति। तच्च कल्प­ना­ला­घ­वा­दे­क­मे­वेति गम्यते। तथा च बहि­र­न्त­श्चै­क­मे­वाऽऽ­का­श­म­नु­मा­न­प्रा­मा­ण्या­द­धि­ग­तम्।

तथाऽ­धि­दै­व­म­ध्यात्मं च ब्रह्म प्रत्यग्भूतं सिद्ध­मि­त्यु­त्त­रार्धं व्याचष्टे –
किमिवेत्यादिना ॥१२॥

इतश्चैकत्वे श्रुतीनां तात्पर्यमित्याह –
जीवात्मनोरिति ।
अभेदेन “ब्रह्म वेद ब्रह्मैव भवति”(मु. उ. ३ । २ । ९) इत्यादिना ब्रह्म­भा­व­फ­ल­वा­दे­ने­त्यर्थः। यत्प्रशस्यते तद्वि­धे­य­मि­त्या­दि­न्या­या­दे­क­त्व­द­र्शने फल­वा­दो­प­प­त्त्यु­प­ल­म्भा­दे­कत्वं प्रशस्तत्वाद् विवक्षितमिति भावः। यच्चानेकत्वं सर्व­प्रा­णि­सा­धा­रणं तन्निन्द्यमानं दृश्यते।

यन्निन्द्यते तन्निषिध्यत इति न्याया­न्ना­नात्वं शास्त्रार्थो न भवतीत्याह –
नानात्वमिति ।

तदु­भ­य­मे­क­त्व­प्र­शं­सनं नानात्वनिन्दनं चैकत्वमेव शास्त्री­य­मि­त्य­भ्यु­प­गमे सति युक्तमिति फलितमाह –
तदेवं हीति ।

श्लोकाक्षराणि व्याचष्टे –
यदिति ।

अन­न्य­त्वा­भा­व­शङ्कां व्याव­र्त्यै­क­र­सत्वं दर्शयति –
अभेदेनेति ।
तत्प्रशस्यते शास्त्रेणेति तत्पदमादाय व्याख्येयम्। शास्त्रे­णा­भे­द­वे­द­नेन फल­वा­दे­ने­त्यर्थः।

व्यास­प­रा­श­रा­दि­भिश्च वेदार्थं व्याच­क्षा­णै­रे­कत्वं स्तूयते “वासुदेवः सर्वमिति स महात्मा सुदुर्लभः”(भ. गी. ७ । १९) , “अहं हरिः सर्वमिदं जनार्दनो नान्यत्ततः कारणकार्यजातम्”(विष्णुपुराणम् १।२२।८७) इत्या­दि­वा­क्यै­रि­त्याह –
व्यासादिभिश्चेति ।

द्वितीयार्धं विभजते –
यच्चेति ।

तन्निन्द्यत इति यच्छ­ब्दे­नो­प­क्र­माद् द्रष्टव्यम्। “अवि­द्या­मो­हि­ता­त्मानः पुरुषा भिन्नदर्शिनः”(विष्णुपुराणम् ५।३३।४९) , “किं तेन न कृतं पापं चोरे­णाऽऽ­त्मा­प­हा­रिणा” इत्या­दि­वा­क्यै­र्व्या­सा­द­योऽपि द्वैतदर्शनं निन्दन्तीत्याह –
अन्यैश्चेति ।

एव­म­ने­क­त्व­द­र्श­नस्य निन्दितत्वेन निषि­द्ध­त्वा­न्ना­ने­कत्वं शास्त्री­य­मि­त्युक्त्वा चतु­र्थ­पा­दा­र्थ­माह –
यच्चैतदिति ।
विषयभेदेन प्रशंसनं निन्दनं चेत्यर्थः।

एवं हीति ।
द्वैत­स्या­शा­स्त्री­य­त्व­म­द्वै­त­स्यैव तत्ता­त्प­र्य­ग­म्य­त्व­मि­त्य­ङ्गी­कारे सतीत्यर्थः।

भेददृष्टीनामपि न्याय्य­त्वा­वि­शे­षा­द्भे­द­द­र्श­न­नि­न्द­नस्य कुतो न्याय्य­त्व­मि­त्या­श­ङ्क्याऽऽह –
यास्त्विति ।
या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः। सर्वास्ता निष्फलाः प्रेत्य तमोमूला हि ताः स्मृताः॥ इति मनु­व­च­ना­दि­त्यर्थः ।

न्यायविरोधादपि भेद­वा­दा­ना­म­स­म­ञ्ज­स­त्व­मि­त्याह –
निरूप्यमाणा इति ।
वैशे­षि­क­वै­ना­शि­का­दि­क­ल्पना भेदानुसारिण्यो, भेदश्च पर­स्प­रा­श्र­य­ता­दि­दो­ष­दू­षितो न प्रमीयते। तेन भेद­वा­दा­ना­मु­त्प्रे­क्षा­मू­ला­ना­म­स­म­ञ्ज­स­ते­त्यर्थः॥१३॥

न भेद­वा­दा­ना­मु­त्प्रे­क्षा­मा­त्र­मू­लत्वं श्रुति­मू­ल­त्वा­दि­त्या­शङ्क्य परिहरति –
जीवात्मनोरिति ।
उत्प­त्ति­र्व्यु­त्पत्तिः सम्यग्ज्ञानम्, तदर्थोपनिषदां प्रवृ­त्त्य­पे­क्षया प्राक्प्र­वृ­त्त­क­र्म­का­ण्डेन यत्प­रा­प­र­यो­र्ना­ना­त्व­मुक्तं तदोदनं पचतीति भवि­ष्य­त्प्र­वृत्त्या तण्डु­ले­ष्वो­द­न­त्व­वद् गौणमेव, न मुख्य­भे­दा­र्थत्वं श्रुते­र्यु­ज्यते, भेद­स्या­पू­र्व­त्व­पु­रु­षा­र्थ­त्व­यो­र­भा­वा­दि­त्यर्थः।

श्लोक­व्या­व­र्त्या­मा­श­ङ्का­माह –
नन्विति ।
न केव­ल­म­स्मा­भि­रु­त्प्रे­क्षि­त­मिदं, किं तु श्रुत्याऽपि दर्शि­त­मि­त्य­पे­रर्थः।

भेदं वदन्त्याः श्रुते­स्ता­त्प­र्य­लि­ङ्ग­म­भ्यासं सूचयति –
अनेकश इति ।

कर्मकाण्डे तत्त­त्का­म­ना­भे­देन नियो­ज्य­भे­द­सि­द्धा­वपि कथं जीवपरयोर्भेदः सिध्यति, परस्य तत्रा­नु­क्त­त्वा­दि­त्या­श­ङ्क्याऽऽह –
परश्चेति ।
‘हिरण्यगर्भः समवर्तताग्र’(ऋ. सं. १० । १२१ । १) इति मन्त्रे प्रकृतो हिरण्यगर्भः सर्वनाम्ना परामृश्यते। स इमां पृथिवीं द्यामपि धृतवान्। अन्यथा गुरु­त्वा­त्त­यो­र­व­स्था­ना­यो­गात्। न च हिर­ण्य­ग­र्भा­ति­रि­क्त­मी­श्वरं परे बुध्यन्ते मन्त्रवर्णैः। परश्च प्रकीर्तित इति सम्बन्धः।

कर्मकाण्डार्थं ज्ञान­का­ण्डे­ना­प­बाध्य ज्ञान­का­ण्डा­र्थ­स्यै­वै­क­त्वस्य साम­ञ्ज­स्य­म­व­धा­र्य­ता­मि­त्या­शङ्क्य बाध्य­बा­ध­क­भा­व­नि­र्धा­रणे कार­णा­न­व­धा­र­णा­न्मै­व­मि­त्याह –
तत्रेति ।

श्लोका­क्ष­रै­रु­त्त­र­माह –
अत्रेत्यादिना ।

पृथक्त्वस्य गौणत्वे प्रागुक्तमेव दृष्टन्तमाह –
महाकाशेति ।

तत्रैव श्लोक­सू­चि­त­मु­दा­ह­र­ण­माह –
यथेति ।

मुख्यत्वं हीत्यादि व्याचष्टे –
न हीति ।
भेद­स्या­पू­र्व­त्वा­द्य­भा­वान्न वाक्यानां तत्परत्वम्; तत्प­रा­त­त्प­र­योश्च तत्परं वाक्यं बलवदिति न्याया­द­ख­ण्ड­वा­क्या­र्थ­स्यैव साम­ञ्ज­स्य­मि­त्यर्थः।

अद्वै­त­वा­क्या­ना­मपि कथमद्वैते तात्प­र्य­मि­त्या­श­ङ्क्या­पू­र्वा­र्थ­त्वा­दु­प­प­त्ति­म­त्त्वा­च्चे­त्याह –
इह चेति ।
अद्वैतं ताव­न्मा­ना­न्त­रा­गो­च­र­त्वा­द­पू­र्व­मे­क­मे­वा­द्वि­ती­य­मिति प्रागवस्थायां ब्रह्माद्वितीयं श्रुतम्। तदेवेदं सृष्ट्वा ‘तत्सृट्वा तदे­वा­नु­प्रा­वि­शत्’(तै. उ. २ । ६ । १) इति श्रुते­र­नु­प्र­विष्टं जीवोऽभिलप्यते। तेन जीवस्य ब्रह्मता सम्भ­व­ती­त्यु­प­प­त्त्याऽपि श्रुते­र­द्वै­ता­र्थत्वं गम्यते। सृष्ट्या­दि­श्रु­ती­ना­म­द्वैते तात्पर्यं न सृष्ट्या­दा­वि­त्य­न­न्त­र­मेव वक्ष्यते। तस्मादद्वैते श्रुते­स्ता­त्प­र्या­त्त­द­र्थ­स्यैव तात्त्वि­क­ते­त्यर्थः।

न केल­ल­मु­प­प­त्ते­रे­वा­द्वैते श्रुते­स्ता­त्पर्यं किं तु नव­कृ­त्वोऽ­भ्या­सा­द­पी­त्याह –
तत्त्वमिति ।

भेद­दृ­ष्टे­र­प­वा­दाच्च श्रुतेरद्वैते तात्पर्यं प्रतिभातीत्याह –
अन्योऽसाविति ।
आदि­श­ब्दे­ना­द्वै­त­वा­दीनि द्वैतनिषेधीनि च वचनान्तराणि गृह्यन्ते। एकत्वमेव प्रति­पि­पा­दि­षि­त­मिति पूर्वेण सम्बन्धः ।

एकत्वे श्रुते­स्ता­त्पर्ये सिद्धे तृती­य­पा­दा­व­ष्ट­म्भेन फलितमाह –
अत इति ।

श्लोकस्य साध्याहारं व्याख्या­ना­न्त­र­माह –
अथवेत्यादिना ॥१४॥

सृष्ट्या­दि­श्रु­तिषु शब्दशक्तिवशादेव सृष्ट्या­दि­भे­द­दृ­ष्टे­र­द्वै­ता­नु­प­प­त्ति­रि­त्या­श­ङ्क्याऽऽह –
मृल्लोहेति ।

उत्पत्त्यादि श्रुतीनां स्वार्थ­नि­ष्ठ­त्व­मु­पेत्य व्यावर्त्यं चोद्यमुत्थापयति –
नन्विति ।

तासां स्वार्थ­नि­ष्ठ­त्वा­भा­वा­न्नि­र­व­काशं चोद्यमिति परिहरति –
मैवमिति ।

परिहृतत्वाच्च नेदं चोद्यं सावकाशमित्याह –
पूर्वमपीति ।

यदि प्रकृ­तो­त्प­त्त्या­दि­श्रु­तिभ्यः सका­शा­दु­प­क्र­मो­प­सं­हा­रै­क­रूप्यं तात्प­र्य­लि­ङ्ग­मा­कृ­ष्यो­द्भाव्य सृष्ट्या­दि­श्रुतेः स्वार्थपरत्वं परिहृतं तर्हि पुनरुपन्यासो वृथा स्यादि­त्या­श­ङ्कते –
इत एवेति ।
उत्प­त्त्या­दि­श्रु­तीनां मिथ्या­सृ­ष्टि­प­रत्वं पूर्वमुक्तम् ।

इह तु तासां ब्रह्मात्मैक्ये तात्प­र्य­प्र­ति­पा­द­ने­च्छया पुनरुपन्यासः सिध्य­ती­त्यु­त्त­र­माह –
इह पुनरिति ।

पाद­त्र­य­ग­ता­न्य­क्ष­राणि योजयति –
मृदित्यादिना ।

यः शब्दशक्त्या प्रतीयते न स श्रुत्यर्थो भवति, किं तु तात्प­र्य­ग­म्य­स्यैव श्रुत्य­र्थ­ते­त्यत्र दृष्टान्तमाह –
यथेति ।
वागादीनां प्राणानामहं श्रेयानहं श्रेयानिति मिथः संघर्षः संवादस्तत्र याऽऽख्यायिका श्रूयते नासौ श्रुत्यर्थो भवति वागा­दी­ना­म­चे­त­न­त्वात्। तथा सृष्ट्या­दि­श्रु­ति­रपि न स्वार्थे तत्प­र्य­व­ती­त्यर्थः।

उदाहरणान्तरं सूचयति –
वागादीति ।
देवा­सु­र­स­ङ्ग्रामे देवा­स्ता­व­द­सु­रा­न­भि­भ­वितुं यज्ञ­मु­प­च­क्र­मिरे। वागा­दीं­श्चो­द्गा­तृ­त्वेन वव्रिरे। तांश्च वागादीन् कल्याणासङ्गजेन पाप्मनाऽसुरा विवि­धु­रि­त्या­द्या­ख्या­यिका च न यथाश्रुतार्था । वागादीनां वाग­भा­वे­नो­द्गा­ना­सा­म­र्थ्यात् । किं त्वसु­रै­र­ध­र्षि­त­त्वा­त्प्रा­णो­त्क्रान्तौ देह­पा­त­प्र­सि­द्धेश्च प्राणः श्रेष्ठो भवतीति प्राण­वै­शि­ष्ट्य­नि­श्चये बुद्ध्य­व­ता­र­शे­ष­त्वेन सा कल्पिता। तथैव प्रकृतेऽपि सृष्ट्या­दि­श्रुतेः स्वार्थे तात्प­र्या­भा­वा­त्त­त्का­र्यस्य तद्व्य­ति­रे­के­णा­भा­वात् तदे­वा­स्ती­त्य­द्वै­त­बु­द्ध्य­व­ता­रो­पा­य­त्वेन सृष्ट्या­दि­प्र­क्रिया कल्पितेत्यर्थः।

देव­ता­श­ब्द­प्र­यो­गा­च्चे­त­नत्वं वागादीनामिति मुख्यार्थत्वम् संवा­दा­दि­श्र­व­णस्य, अतोऽ­सि­द्ध­मु­दा­ह­र­ण­मिति शङ्कते –
तदपीति ।
संवा­द­वि­सं­वा­द­यो­र­सतोः श्रुतेऽर्थे प्रामा­ण्य­म­र्थ­वा­दा­ना­मि­त्य­ङ्गी­का­रा­द­वि­रो­धा­पे­क्ष­मे­वा­र्थ­वा­द­प्रा­मा­ण्यम्।

इह तु पर­स्प­र­व्या­ह­ति­द­र्श­नान्न प्रामाण्यमिति परिहरति –
न, शाखाभेदेष्विति ।
प्राणा­दी­त्या­दि­श­ब्देन मुख्य­प्रा­णा­ति­रिक्ता वागादयो गृह्यन्ते।

उक्तमेव समाधानं व्यतिरेकमुखेण विवृणोति –
यदि हीति ।
क्वचि­द्वि­व­द­मा­नानां प्राणानां स्वयमेव निर्णे­तु­म­श­क्तानां प्रजा­प­ति­मु­प­ग­तानां ‘यस्मि­न्नु­त्क्रान्ते शरीरमिदं पापिष्ठतरमिव तिष्ठति स वः श्रेष्ठो भवति’ इति तेनोक्तानां प्रवासः श्रूयते। क्वचित्तु स्वातन्त्र्येण यस्मि­न्नु­त्क्रान्ते शरीरमिदं पतति स नः श्रेया­नि­त्या­लोच्य प्रवासो व्यपदिश्यते। क्वचि­त्पु­न­र्वा­क्च­क्षुः­श्रो­त्र­म­नां­सीति मुख्य­प्रा­णा­ति­रि­क्ता­श्च­त्वारः श्रूयन्ते।

क्वचि­त्त्व­गा­द­योऽ­पी­त्येवं विरु­द्धा­ने­क­प्र­का­रेण संवा­द­श्र­व­ण­म­स्ती­त्याह –
श्रूयते त्विति ।

प्राण­सं­वा­द­श्रु­तीनां मिथो विरोधान्नास्ति स्वार्थे प्रामा­ण्य­मि­त्यु­प­सं­ह­रति –
तस्मादिति ।
उक्त­दृ­ष्टा­न्ता­नु­रो­धा­दु­त्प­त्ति­वा­क्या­न्यपि न विव­क्षि­ता­र्थानि।

क्वचि­दा­का­शा­दि­क्र­मेण सृष्टिः क्वचि­द­ग्न्या­दि­क्र­मेण क्वचि­त्प्रा­णा­दि­क्र­मेण क्वचि­द­क्र­मे­णे­त्येवं पर­स्प­र­प­रा­ह­ति­द­र्श­ना­दि­त्याह –
तथेति ।

प्रतिकल्पं सृष्टि­भे­द­स्ये­ष्ट­त्वा­दु­क्त­श्रु­ती­ना­मपि प्रति­स­र्ग­म­न्य­था­त्वाद् व्यव­स्था­याऽ­र्थ­वत्त्वं स्यादिति शङ्कते –
कल्पेति ।
सिद्धे प्रामाण्ये व्यवस्था कल्प्यते।

तदेव नाद्यापि सिद्ध­मि­त्यु­त्त­र­माह –
नेत्यादिना ।

तासां प्रयोजनवत्त्वं त्वयाऽपि स्वीकृ­त­मि­त्या­श­ङ्क्याऽऽह –
यथोक्तेति ।

प्रयो­ज­ना­न्त­रा­भावं प्रकटयति –
न हीति ।

प्राणा­दि­भा­व­प्रा­प्तये ध्यानार्थं प्राणा­दि­स­ङ्की­र्त­न­मिति शङ्कते –
तथात्वेति ।

‘तं यथा यथोपासते तदेव भवति’(शत. १० । ५ । २ । २०) इति श्रुतेः न्यायसाम्यात् कल­हा­दि­ध्या­ना­त्त­त्प्रप्तिः फलं स्यात्, तच्चानिष्टमिति परिहरति –
नेत्यादिना ।

प्राण­सं­वा­द­श्रु­तीनां प्राण­वै­शि­ष्ट्या­व­बो­धा­व­ता­रा­र्थ­त्व­मु­प­पाद्य दार्ष्टा­न्ति­क­मु­प­सं­ह­रति –
तस्मादिति ।

उत्प­त्त्या­दि­श्रु­ती­ना­मु­त्प­त्त्या­दि­प­र­त्वा­भावे फलितं चतु­र्थ­पा­दा­व­ष्ट­म्भेन स्पष्टयति –
अत इति ॥१५॥

उत्प­त्या­दि­श्रु­ति­वि­रो­ध­म­द्वैते परि­हृ­त्यो­पा­स­न­वि­ध्य­नु­प­प­त्ति­वि­रोधं परिहरति –
आश्रमा इति ।
आश्रमिणो वर्णिनश्च कार्य­ब्र­ह्मो­पा­सका हीनदृष्टयः। कार­ण­ब्र­ह्मो­पा­सका मध्यमदृष्टयः । अद्वि­ती­य­ब्र­ह्म­द­र्श­न­शी­ला­स्तू­त्त­म­दृ­ष्टयः। एवमेतेषु त्रिविधेषु मध्ये मन्दानां मध्यमानां चोत्त­म­दृ­ष्टि­प्र­वे­शार्थं दयालुना वेदे­नो­पा­स­नो­प­दिष्टा। तथा चोपा­स­ना­नु­ष्ठा­न­द्वा­रे­णो­त्त­मा­मे­क­त्व­दृष्टिं क्रमेण प्राप्ता उत्त­मे­ष्वे­वा­न्त­र्भ­वि­ष्य­ती­त्यर्थः।

श्लोक­व्या­व­र्त्या­मा­श­ङ्का­माह –
यदीति ।

तस्यैव परमार्थतः सत्त्वे प्रमाणमाह –
एकमेवेति ।

द्वैत­प्र­ती­ते­र्मि­थ्या­द्वै­त­वि­ष­य­त्वे­ना­वि­रो­ध­माह –
असदिति ।

अद्वैतस्यैव वस्तुत्वे ध्यान­वि­धि­वि­रो­ध­माह –
किमर्थेति ।

उपासनोपदेशमेव विशदयति –
आत्मेति ।
तत्र हि निदिध्यासितव्य इत्यु­पा­स­नो­प­दि­श्यते। ‘य आत्मे’ त्यादौ तु ‘स विजिज्ञासितव्य’ इति ध्यानविधिः। ‘स क्रतु’ मित्यत्र सशब्देन शमादिमानधिकारी परामृश्यते।

अद्वैतस्यैव वस्तुत्वे कर्म­वि­धि­वि­रो­धोऽपि प्रसरतीत्याह –
कर्माणि चेति ।
किम­र्था­न्यु­प­दि­ष्ठा­नीति सम्बन्धः।

अद्वै­ता­धि­का­रि­णोऽ­धि­का­र्य­न्तरं प्रति विधिद्वयं सावकाशमिति परिहरति –
श्रुण्विति ।
तत्रे­त्यु­प्रा­स­नो­प­देशः कर्मोपदेशश्च गृह्यते।

तदेव कारणमक्षरयोजनया प्रकटयति –
आश्रमा इति ।

आश्र­म­श­ब्दे­नाऽऽ­श्र­मिणो गृह्यन्तां, वर्णिनस्तु कथं गृहो­र­न्नि­त्या­अ­श­ङ्क्याऽऽह –
आश्रमेति ।
शूद्रान् व्यावर्त्य त्रैव­र्णि­का­ना­मेव ग्रहणार्थं मार्गगा इति विशेषणम्।

त्रैवि­ध्य­मे­वाऽऽ­का­ङ्क्ष्या­द्वारा स्फोरयति –
कथमित्यादिना ।
कार्य­ब्र­ह्म­वि­ष­य­त्वा­न्नि­कृ­ष्ट­त्वम्। मध्यमत्वं कार­ण­ब्र­ह्म­वि­ष­य­त्वात्। उत्कृ­ष्ट­त्व­म­द्वै­त­वि­ष­य­त्वा­दिति द्रष्टव्यम्।

एवं पूर्वार्धं व्याख्या­यो­त्त­रार्धं व्याकरोति –
उपासनेति ।

कर्मोपदेशस्यापि तदर्थत्वमाह –
कर्माणि चेति ।

व्यावर्त्यां शङ्कां दर्शयति –
न चेति ।

वेदे­नो­पा­स­ना­द्यु­प­देशे मन्दानां मध्यमानां च कथमनुग्रहः सिध्य­ती­त्या­श­ङ्क्याऽऽह –
सन्मार्गगा इति ।
प्राप्नु­यु­रि­त्यु­पा­स­नो­प­दिष्टा कर्माणि चेति पूर्वेण सम्बन्धः।

उपास्यं ब्रह्मैव न भवतीति प्रति­षे­धा­न्म­न्द­म­ध्य­म­दृ­ष्टि­वि­ष­य­त्व­मु­पा­स­नस्य प्रतिभातीत्याह –
यन्मनसेति ।

अद्वैतदृष्टीनां तु वर्णा­श्र­म­भे­दा­भि­मा­ना­भा­वा­देव नोपासनं कर्म वा सम्भवतीत्याह –
तत्त्वमसीति ॥१६॥

अद्वै­त­द­र्श­न­स्यो­पा­स­ना­दि­वि­धि­वि­रो­धा­भा­वेऽपि मता­न्त­रै­र्वि­रो­धोऽ­स्ती­त्या­शङ्क्य तेषां भ्रान्ति­मू­ल­त्वा­न्मै­व­मि­त्याह –
स्वसिद्धान्तेति ।

श्लोकस्य तात्पर्यं वक्तुं भूमिकां करोति –
शास्त्रेति ।
तद्वा­ह्य­त्वा­दि­त्यत्र तच्छब्देन शास्त्रोपपत्ती गृह्येते।

द्वैतदर्शनस्य मिथ्यादर्शनत्वे हेत्व­न्त­र­प­र­त्व­म­व­ता­रि­तस्य श्लोकस्य दर्शयति –
इतश्चेति ।

इतः शब्दार्थमेव दर्शयति –
द्वैतिनामिति ।
आदिशब्देन मदमानादयो गृहीताः।

स्वीयं स्वीयं सिद्धान्तं व्यवस्थापयितुं तत्त्व­ज्ञा­न­म­धि­कृत्य प्रवृत्तानां वादिनां कुतो दोषा­स्प­द­त्व­मि­त्या­क्षि­पति –
कथमिति ।

श्लोका­क्ष­र­यो­ज­नया परिहरति –
स्वसि­द्धा­न्ते­त्या­दिना ।

निश्चयमेव स्फोरयति –
एवमेवेति ।

रागास्पदत्वेऽपि तेषां द्वेषास्पदत्वं कथ­मि­त्या­श­ङ्क्याऽऽह –
प्रतिपक्षमिति ।

उत्तरार्द्धं विभजते –
स्वसिद्धान्तेति ।
यद्धि वादिनां प्रत्येकं स्वसि­द्धा­न्त­त्वे­नो­प­सं­गृ­हीतं दर्शनं तन्नि­र्धा­र­णा­र्थ­म­न्योन्यं वादिनो विरोधमाचरन्तो दृश्यन्ते। न च तैरद्वैतदर्शनं विरु­ध्य­मा­न­म­ध्य­व­सी­यते। यथा स्वकी­य­क­र­च­र­णा­दि­भि­रा­घाते कदाचिदाचरितेऽपि द्वेषो न जायते, पर­बु­द्ध्य­भा­वात्। तथा द्वैता­भि­मा­नि­भि­रु­प­द्रवे क्षुद्रे कृतेऽपि नाद्वै­त­द­र्शि­न­स्तेषु द्वेषो जायते। सर्वानन्यत्वात् पर­बु­द्ध्य­भा­वा­दि­त्यर्थः।

अद्वैतदर्शनस्य सम्यग्दर्शनत्वं प्रतिज्ञातं कथं प्रदर्शितया प्रक्रियया प्रति­प­न्न­मि­त्या­श­ङ्क्याऽऽह –
एवमिति ॥१७॥

द्वैत­प­क्षै­र­द्वै­त­प­क्षस्य विषयद्वारके विरो­धेऽ­धि­ग­म्य­माने कथ­म­वि­रो­ध­वा­चो­यु­क्ति­रि­त्या­शङ्क्य स्वम­त­प­र्या­लो­च­नया तावदविरोधमाह –
अद्वैतमिति ।

मिथ्याभूतेन द्वैते­ना­द्वै­त­स्या­वि­रो­धेऽपि परमार्थभूतेन तेन विरोधः स्यादि­त्या­शङ्क्य तथाविधं द्वैतमेव नास्तीति मत्वाऽऽह –
तेषामिति ।
द्वैतिनां पर­मा­र्थ­त्वे­ना­प­र­मा­र्थ­त्वेन च द्वैतमेव व्यव­हा­र­गो­च­री­भू­तम्। तच्च सम्प्र­ति­प­न्न­द्वै­त­व­न्मि­थ्ये­त्येवं स्थिते न द्वैते­ना­द्वै­तस्य विरोधः शक्यशङ्को भवतीत्यर्थः।

श्लोक­प्र­ति­षेध्यं प्रश्नं करोति –
केनेति ।

श्लोका­क्ष­रा­णा­म­र्थ­मा­च­क्षाणो हेतुमाह –
उच्यत ति ।

द्वैत­स्या­द्वै­त­का­र्यत्वे प्रमाणमाह –
एकमेवेति ।
श्रुति­प्रा­मा­ण्याद् द्वैत­स्या­द्वै­त­का­र्य­त्वा­व­ग­मात् कार्यस्य च कारणाद्भेदेन सत्त्वनिषेधात् तत्स­त्य­मि­त्य­व­धा­र­णा­न्ना­द्वै­त­द­र्शनं द्वैतदर्शनेन विरु­द्ध­मि­त्यर्थः।

अद्वैतदर्शनं द्वैत­द­र्श­नै­र­वि­रु­द्ध­मि­त्य­त्रैव युक्तिमाह –
उपपत्तेश्चेति ।

तामेवोपपत्तिं संक्षिप्य दर्शयति –
स्वचित्तेति ।
सुषु­प्त्या­द्य­व­स्थायां स्वकी­य­चि­त्त­स्प­न्द­ना­भावे मिथ्या­ज्ञा­नो­प­रमे सति द्वैत­द­र्श­ना­भा­वा­द­द्वैतं सिद्धम्। ततश्च स्वप्न­व­ज्जा­ग्र­द्भे­दा­ना­मु­त्प­त्ति­द­र्श­ना­दि­त्यु­प­प­त्ते­र्द्वै­त­म­द्वै­त­कार्यं, न च कारणं तत्का­र्य­प्र­ति­भा­सै­र्वि­रु­ध्यते कार्यस्य वाचा­र­म्भ­ण­मा­त्र­त्वात् कार­णा­ति­रे­के­णा­भा­वा­दि­त्यर्थः।

तेषा­मि­त्या­दि­भागं विभजते –
द्वैतिनां त्विति ।

पर­मा­र्थ­द्वै­तां­शे­ना­द्वै­त­वि­रो­ध­मा­शङ्क्य द्विधा व्यवहारेऽपि विमतस्य द्वैतस्य द्वैतत्वादेव सम्प्र­ति­प­न्न­व­न्मि­थ्या­त्व­सि­द्धेर्न तेन विरो­धोऽ­द्वै­त­स्येति मन्वानः सन्नाह –
यदि चेति ।

भ्रान्ति­मू­ल­द्वै­त­द­र्श­नै­र­द्वै­त­द­र्शनं प्रमा­ण­मू­ल­म­वि­रु­द्ध­मि­त्ये­तद् दृष्टा­न्ते­नो­प­पा­द­यति –
यथेत्यादिना ।

कार्य­का­र­ण­भू­त­यो­र्द्वै­ता­द्वै­त­यो­र­वि­रोधे सिद्धे फलितमाह –
तत इति ।

अद्वैतिनां द्वैतिनां च प्राति­स्वि­क­प­क्ष­प­र्या­लो­च­नातो द्वैत­प­क्षै­र­द्वै­त­पक्षो विरुद्धो न भवतीति फलितमुपसंहरति –
तेनेति ॥१८॥

अद्वैतमेव द्वैतात्मना परिणमते चेद् द्वैतमपि तात्विकं स्यादि­त्या­श­ङ्क्याऽऽह –
माययेति ।

विव­र्त­वा­दा­न­ङ्गी­कारे दोषमाह –
तत्त्वत इति ।

पूर्वा­र्ध­व्या­व­र्त्या­मा­श­ङ्का­मा­द­र्श­यति –
द्वैतमिति ।

तत्र पूर्वा­र्धा­क्ष­र­ण्य­व­तार्य व्याकरोति –
अत आहेति ।
विमतो भेदो मिथ्या भेद­त्वा­च्च­न्द्रा­दि­भे­द­व­दि­त्यर्थः।

विमतं तत्त्वतो भेदरहितम्, निर­व­य­त्वा­न्नि­त्य­त्वा­द­ज­त्वाच्च व्यतिरेकेण मृदादिवदित्याह –
नेत्यदिना ।

निरवयवत्वेऽपि वस्तुनः स्फुट­न­ध­र्म­त्व­मा­श­ङ्क्याऽऽह –
सावयवं हीति ।

उक्तमनुमानं निगमयति –
तस्मादिति ।
अन्यथा पर­मा­र्थ­त्वे­ने­त्यर्थः। पुन­र्न­ञ­नु­क­र्ष­ण­म­न्व­यार्थं, कार्य­त्व­ध­र्म­त्वां­श­त्वा­दि­रत्र प्रका­रोऽ­भि­प्रेतः।

विपक्षे दोषं वदन् द्वितीयार्धं विवृणोति –
तत्त्वत इति ।

प्रस­ङ्ग­स्ये­ष्ट­त्व­मा­शङ्क्य निराचष्टे –
तच्चेति ।

विव­र्त­वा­द­मु­प­सं­ह­रति –
अजमिति ।

स्थिते विवर्तवादे फलितमाह –
तस्मादिति ॥१९॥

स्वपक्षमुक्त्वा स्वयू­थ्य­प­क्ष­म­नु­भाष्य दुषयति –
अजातस्येति ।

अनुवादभागं विभजते –
ये त्विति ।

स्वाभावत एवाजातस्य स्वभावत एवामृतस्य चाऽऽत्म­त­त्त्वस्य परमार्थत एव जातिमुत्पत्तिं ये स्वयूथ्याः स्वीकु­र्व­न्ती­त्यर्थः। “जातस्य हि ध्रुवो मृत्युः”(भ. गी. २। २७) इति न्यायेन दूषयति –
तेषामिति ।

अजातो हीत्या­द्य­क्ष­रा­ण्यु­क्तेऽर्थे योजयति –
स चेति ॥२०॥

पदार्थानां स्वभा­व­वै­प­री­त्य­ग­म­न­म­नु­प­प­न्न­मि­त्युक्तं प्रपञ्चयति –
न भवतीति ।

तत्र पूर्वार्धं हेतुत्वेन व्याचष्टे –
यस्मादिति ।

उत्तरार्धं हेतुमत्त्वेन योजयति –
तत इति ।
यथाऽग्नेः स्वभा­व­भू­त­स्यो­ष्ण­त्व­स्या­न्य­थात्वं शैत्यगमनमयुक्तं तथाऽन्यत्रापि स्वभा­व­स्या­न्य­था­त्व­म­नु­चितं स्वरू­प­ना­श­प्र­स­ङ्गा­दि­त्यर्थः॥२१॥

ननु ब्रह्म कारणरूपेण प्रागु­त्प­त्ते­र­मृ­त­मपि कार्या­का­रे­णो­त्प­त्त्यु­त्त­र­कालं मर्त्यतां गमिष्यति। ततो रूप­भे­दा­दु­भ­य­म­वि­रु­द्ध­मिति, तत्राऽऽह –
स्वभावेनेति ।

पूर्वार्धं साध्याहारं योजयति –
यस्येति ।
प्रागवस्थायामपि कारणस्यैव कार्याकारेण जन्मयोग्यतया मर्त्य­त्वा­व­ग­मा­न्मृ­षैव प्रतिज्ञा स्यादित्यर्थः।

कथं तर्हि तस्य प्रतिज्ञा युक्ते­त्या­शङ्क्य कृतकेन मर्त्य­वि­ल­ये­ना­मृ­त­स्तस्य वादिनः स कारणाख्यो भावो [न] भवतीति प्रतिज्ञा युक्तेत्याह –
कथमित्यादिना ।

भवतु प्रल­या­व­स्था­या­म­मृ­ता­व­स्था­प­रि­णा­मे­ना­मृ­तत्वं ततो [नित्यो] वा किं [न] स्यादि­त्या­श­ङ्क्याऽऽह –
कृतकेनेति ।
कृतकत्वस्य यत्कृतकं तदनित्यमिति विनाशित्वेन व्याप्त­त्वा­दि­त्यर्थः।

किं चास्यामवस्थायां कार्यमात्रं वस्त्वित्यजं ब्रह्मास्मीति ज्ञाना­भा­वा­न्मोक्षो न स्यादित्याह –
आत्मेति ॥२२॥

परिणामवादस्य सृष्टि­श्रु­त्य­नु­सा­रेण स्वीका­र्य­त्व­मा­शङ्क्य निरस्यति –
भूतत इति ।
परिणामवादे विवर्तवादे च सृष्टि­श्रु­ते­र­वि­शे­षा­द­द्वै­ता­नु­रो­धि­श्रु­ति­यु­क्ति­व­शाद् विवर्तवादस्यैव स्वीकर्तव्यतेति भावः।

सृष्टि­श्रु­ते­र­द्वै­ता­नु­गुण्ये प्रमा­ण­यु­क्त्य­नु­गृ­ही­त­म­द्वै­त­मे­वा­भ्यु­प­ग­न्त­व्य­मिति फलितमाह –
निश्चितमिति ।

श्लोक­व्या­वर्त्यां शङ्कां दर्शयति –
नन्विति ।
यद्यात्मा कार्याकारेण न जायते तर्हि सृष्टि­श्रु­ति­र­श्लिष्टा स्यादित्यर्थः।

सृष्ट्यनुवादिनी श्रुति­र­स्ती­त्य­ङ्गी­क­रोति –
बाढमिति ।

तस्या मिथ्या­सृ­ष्ट्य­नु­वा­दि­त्वेन कथ­मु­प­प­त्ति­रि­त्या­श­ङ्क्याऽऽह –
सात्विति ।

कथमद्वैतपरत्वेन सृष्टि­श्रु­ते­रु­प­प­त्ति­रि­त्या­श­ङ्क्याऽऽह –
उपाय इति ।

यदि सृष्टि­श्रु­ते­र­द्वै­त­प­र­त्वेन तद्विरोधसमाधी अधस्तादेवोक्तौ तर्हि पुनश्चोद्यं तत्प­रि­हा­र­श्चा­युक्तौ पुन­रु­क्ते­रि­त्या­श­ङ्क्याऽऽह –
इदानीमिति ।
मिथ्या­सृ­ष्टि­वादे श्रुति­प­दा­ना­म­सृ­ज­ता­भ­व­दि­त्या­दि­ना­म­सा­म­ञ्ज­स्य­वि­रो­धा­श­ङ्कायां तावन्मात्रम् परिहर्तुं पुन­श्चो­द्य­प­रि­हा­रा­वि­त्यर्थः।

श्लोकस्य तात्प­र्य­मुक्त्वा पूर्वा­र्धा­क्ष­राणि व्याकरोति –
भूतत इति ।
माया ह्येषा माया सृष्टेत्यादिवत् ’ तत्तेजोऽसृजते’ ति श्रुतिः। ’ सच्च त्यच्चाभावदि’ ति श्रुतिस्तु देवदत्तो व्याघ्रोऽ­भ­व­दि­ति­वत्। न च सत्यत्वं विशे­ष­ण­म­त्रो­प­ल­भ्यते।

तेन मायामय्यां सृष्टा­वि­ष्टा­या­मपि सृष्टिश्रुतिः श्लिष्टे­त्यर्थः। ‘गौण­मु­ख्य­यो­र्मुख्ये सम्प्रत्यय’ इति न्यायमाश्रित्य शङ्कते –
नन्विति ।
अग्निर्माणवक इत्यत्र माण­व­केऽ­ग्नि­श­ब्द­प्र­यो­गेऽ­प्य­ग्नि­मा­न­ये­त्या­दि­प्र­योगे प्रथमं वह्नि­प्र­ती­ते­र्मु­ख्य­मेव प्रथमं प्रतिभातीति मुख्ये पद­व्यु­प्त­त्ते­र्मु­ख्या­र्थ­तया सत्या सृष्टि­रे­ष्ट­व्ये­त्यर्थः। मुख्य­सृ­ष्ट्य­ङ्गी­का­रेऽपि सत्या सृष्टिर्न सिध्यति।