आनन्दगिरिटीका (माण्डूक्य)
अद्वैतप्रकरणम् (१)
तर्कावष्टम्भेन द्वैतवैतथ्यनिरूपणं परिसमाप्याद्वैतं पारमार्थिकमपि तर्कतः सम्भावयितुं प्रकरणान्तरं प्रारिप्सुरुपास्योपासकभेददृष्टिं तावदपवदति –
उपासनेति ।
देहस्य धारणाद्धर्मो जीवो भूतसङ्घाताकारेण जाते ब्रह्मणि तदभिमानित्वेन वर्तते। स प्रागुत्पत्तेरजं सर्वमित्येवं कालावच्छिन्नं वस्तु मन्यते। स पुनरुपासनां पुरुषार्थसाधनत्वेनाऽऽश्रितस्तदेव ब्रह्म प्रतिपत्स्ये शरीरपातादूर्ध्वमित्येवं यतो मिथ्याज्ञानवानवतिष्ठते तेनासौ कृपणोऽल्पको ब्रह्मविद्भिः स्मृतश्चिन्तित इत्यर्थः।
प्रकरणान्तरमवतारयन् वृत्तमनुद्रवति –
ओङ्कारेति ।
तस्य हि निर्णये प्रथमे प्रकरणे प्रपञ्चोपशमः शिवोऽद्वैत इति विशेषणैरात्मा प्रतिज्ञामात्रेणाद्वितीयो व्याख्यात इत्यर्थः।
द्वितीयप्रकरणार्थं संक्षिप्यानुवदति –
ज्ञात इति ।
तत्रैवाऽऽद्ये प्रकरणे ‘ज्ञाते द्वैतं न विद्यत’(मा. का. १ । १८) इत्यत्र प्रतिज्ञामात्रेण द्वैताभाव उक्तः। स तु द्वितीयेन प्रकरणेन हेतुदृष्टान्तात्मकेन तर्केण च प्रतिपादितो, नात्र प्रतिपादयितव्यमवशिष्टमस्तीत्यर्थः।
तृतीयं प्रकरणमाकाङ्क्ष्यापूर्वकमवतारयति –
अद्वैतमिति ।
“नैषा तर्केण मतिरापनेया”(क. उ. १ । २ । ९) इति श्रुतेरद्वैतं कथं तर्केण ज्ञातुं शक्यमित्याक्षिपति –
तत्कथमिति ।
स्वतन्त्रतर्काप्रवेशेऽपि तस्मिन्नागमिकतर्कस्य सहकारितया सम्भावनाहेतुत्वात् तर्केणापि ज्ञातुं शक्यमिति व्यवहारोपपत्तिरिति मत्वाऽऽह –
अद्वैतेति ।
यदि तर्केणाद्वैतं सम्भावयितुं प्रकरणमारभ्यते तर्हि किमित्युपासकनिन्दा प्रथमं प्रस्तूयते, तत्राऽऽह –
उपास्येति ।
उक्तवक्ष्यमाणविरोधित्वादुपासकस्य तन्निन्दा प्रकृतोपयोगिनीत्यर्थः।
कथं तर्हि तत्र तत्राजत्वमात्मनो दर्शयन्ती श्रुतिर्घटिष्यते, तत्राऽऽह –
प्रागिति ।
प्रागवस्थायां सर्वमिदमजमहं च तथेत्युपासको यतो मन्यतेऽतश्च प्रागवस्थब्रह्मविषया भविष्यत्यजत्वश्रुतिरित्यर्थः।
कार्यस्थित्यवस्थायां यदि ब्रह्म तन्मात्रमिष्टं तर्हि किमुपासनया प्राप्तव्यमित्याशङ्क्याऽऽह –
यदात्मक इति ।
इदानीमुत्पत्त्यवस्थायां जातो जाते ब्रह्मणि स्थित्यवस्थायां वर्तमानोऽहं प्रागुत्पत्तेर्यदात्मकः सन्नासं तदेव पुनः प्रलयावस्थायामुपासनया प्रतिपत्स्ये, तत्क्रतुन्यायादिति सम्बन्धः।
तलवकाराणां शाखायामुपास्यस्य ब्रह्मत्वनिषेधदर्शनाच्चोपासकनिन्दा युक्तेत्याह –
यद्वाचेति ।
अनभ्युदितमनभिप्रकाशितम्, अभ्युद्यतेऽभिप्राकाश्यते, उपासते वाचा विषयीकुर्वन्तीत्यर्थः। आदिशब्देन ‘यन्मनसा’(के. उ. १ । ६) इत्यादि गृह्यते॥१॥
भेददर्शिनमुपासकमद्वैतविरोधिनं निन्दित्वा सम्प्रत्यद्वैतप्रतिज्ञां करोति –
अत इति ।
जातिर्जन्म, तद्रहितमजाति।
तत्र हेतुमाह –
समतामिति ।
जन्मराहित्यं साधयति –
यथेति ।
अतः शब्दार्थमाह –
सबाह्येति ।
प्रतिज्ञाभागं विभजते –
अकृपणेति ।
तदेव व्यतिरेकमुखेण स्फोरयति –
तद्धीति ।
दर्शनादिविशेषव्यवहारगोचरीभूतं कार्यजातं परिच्छिन्नं नाशि चोच्यते। तदेव कृपणत्वालम्बनमित्यर्थः।
तच्च मिथ्याभूतमित्यत्र प्रमाणमाह –
वाचारम्भणमिति ।
कार्पण्यमुक्त्वा तदभावरूपमकार्पण्यं प्रकटयति –
तद्विपरीतमिति ।
प्राप्य ज्ञात्वेति यावत्।
द्वितीयपादं व्याचष्टे –
तदजातीत्यादिना ।
सर्वात्मना साम्यं निर्विशेषत्वं गतमित्यत्र हेतुं पृच्छति –
कस्मादिति ।
निर्विशेषत्वे हेतुमाह –
अवयवेति ।
हेतुमेव प्रकटयन् व्यतिरेकमुखेणाजत्वं प्रपञ्चयति –
यद्धीत्यादिना ।
समन्तत इति पूर्णत्वसङ्कीर्तनम्।
द्वितीयार्धं व्याचष्टे –
यथेत्यादिना ।
यथा रज्ज्वां सर्पो भ्रान्त्या जायते तथा सर्वं भ्रान्तिदृष्ट्या जायमानत्वेन भासमानमपि यथा येन प्रकारेण वस्तुतो न जायते किं तु सर्वतो देशतः कालतो वस्तुतश्च पूर्णं कूटस्थमेव वस्तु भवति तथा तं प्रकारमिति सम्बन्धः॥२॥
प्रतिज्ञावाक्ये ब्रह्मशब्देन परमात्मा प्रकृतः, स कीदृगित्यपेक्षायामाह –
आत्मा हीति ।
जीवभेदप्रतीतिस्तर्हि कथमित्याशङ्क्याऽऽह –
जीवैरिति ।
यथाऽऽकाशो विभुत्वादिधर्मः स्वगततात्त्विकभेदवान्न भवति तथा परमात्मा विशेषाभावात्। यथा च महाकाशो घटाकाशाकारेण प्रतीयते तथा परमात्मा नानाविधजीवाकारेण प्रतीतिगोचरो भवतीत्यर्थः।
कथं सङ्घातानां परस्मादुत्पत्तिरित्याशङ्क्याह –
घटादिवदिति ।
यथा मृदः सकाशाद्घटादयो जायन्ते तथा परमात्मैव पृथिव्यादिसङ्घाताकारेण जायत इत्यर्थः।
यदाऽऽत्मनो जीवादीनामुत्पत्तिरिष्टा तदा तस्यामुत्पत्तौ दृष्टान्तवचनमेतदित्याह –
जाताविति ।
श्लोकस्य वृत्तानुवादपूर्वकं तात्पर्यमाह –
अजातीत्यादिना ।
प्रथमपादस्याक्षरार्थमाह –
आत्मेत्यादिना ।
विमतः स्वगततात्त्विकभेदशून्यः सूक्ष्मत्वान्निरवयवत्वाद्विभुत्वादाकाशवत्। न च परमाण्वादौ सूक्ष्मत्वादेर्व्यभिचारः। तस्यैवासम्मतत्वात्। क्वचिदपि तात्त्विकभेदासम्प्रतिपत्तेश्चेत्यर्थः।
जीवैरित्यादि व्यचष्टे –
जीवैरिति ।
जीवाकारेण परमात्मैवोक्तः। “क्षेत्रज्ञं चापि मां विद्धि”(भ. गी. १३ । २) इति स्मृतेरित्यर्थः।
उदितशब्दश्चेदुक्तार्थस्तर्हि परस्यैवाऽऽत्मनः सङ्घातरूपेणोक्तत्वे सप्रपञ्चत्वं प्रसज्येतेत्याशङ्क्याह –
अथ वेति ।
तर्हि नात्माऽश्रुतेरिति न्यायविरोधः स्यादित्याशङ्क्याऽऽह –
जीवात्मनामिति ।
तृतीयपादं व्याचष्टे –
तस्मादेवेति ।
उक्तेऽर्थे वाक्यमवतारयति –
अत इति ।
आकाशस्यावकाशप्रदानेन घटाद्युत्पत्तौ कारणत्वं निर्विकारस्यैव दृष्टमिति द्रष्टव्यम्।
जातावित्यादेरर्थमाह –
यदेति ॥३॥
अद्वैतस्य जीवसृष्टिश्रुतिविरोधं परिहृत्य तस्यैव जीवप्रलयश्रुत्या विरोधमाशङ्क्य परिहरति –
घटादिष्विति ।
औपाधिकौ जीवानामुत्पत्तिप्रलयौ, न स्वाभाविकौ।
तथा चोत्पत्तिश्रुत्या विरोधाभाववदद्वैतस्य प्रलयश्रुत्याऽपि न विरोधोऽस्तीति श्लोकाक्षरव्याख्यानेन प्रकटयति –
यथेत्यादिना ॥४॥
इदानीमद्वैतस्य व्यवस्थानुपपत्त्या विरोधमाशङ्क्य परिहतति –
यथैकस्मिन्निति ।
उक्तदृष्टान्तवशादेकस्मिञ्जीवे सुखादिसंयुक्ते सत्यपरे जीवास्तैरेव सुखादिभिर्न संयुज्यन्त औपाधिकभेदादित्याह –
तldत्वदिति ।
श्लोकव्यावर्त्यामाशङ्कां दर्शयति –
सर्वदेहेष्विति ।
ऐकात्म्ये कर्तर्येकस्मिन् कर्तारः सर्वे, भोक्तरि चैकस्मिन् भोक्तारः सर्वे भवेयुरित्यव्यवस्थान्तरमाह –
क्रियेति ।
व्यवस्थानुपपत्त्या द्वैतमेष्टव्यमिति वदन्तं प्रत्युत्तरत्वेन श्लोकमवतारयति –
तान् प्रतीति ।
किमिदमैकात्म्ये साङ्कर्यम् ? किमेकस्मिञ्जीवे व्यवस्थितेन सुखादिना जीवान्तराणां तद्वत्त्वं स्यादित्युच्यते किं वा सर्वोपाधिष्वात्मैक्यात्तस्य स्वरूपेण सर्वसुखादिमत्त्वं स्यादित्यापाद्यते, तत्राऽऽद्यं प्रत्याह –
तद्वदिति ।
आत्मनः सर्वत्रैकत्वात्तस्य स्वरूपेण सर्वसुखादिमत्त्वमिति द्वितीयं पक्षं विवक्षन्नाशङ्कते –
नन्विति ।
सर्वत्राऽऽत्मैकत्वमुक्तमङ्गीकरोति –
बाढमिति ।
तदेकत्वमुपपत्तिशून्यं कथमङ्गीकृतमित्याशङ्क्याऽऽह –
ननु नेति ।
यदि सर्वत्रैकत्वं नियतमिष्यते तर्हि तत्र तत्र सुखित्वं दुःखित्वम् च तस्यैवैकस्य प्रप्तमिति न व्यवस्थासिद्धिरिति चोदयति –
यद्येक एवेति ।
आत्मस्वरूपस्य सर्वत्रैकत्वेऽपि कल्पितभेदाद् व्यवस्थासिद्धिरित्यभिप्रेत्य किमिदं साङ्ख्यस्य चोद्यं किं वा वैशेषिकादेरिति विकल्प्याऽऽद्यं प्रत्याह –
न चेदमिति ।
किं चैकात्म्यं दूषयता साङ्ख्येन तद्भेदोऽभ्युपगम्यते।
स च नाभ्युपगन्तुं शक्यते तन्मानाभावादित्याह –
न चेति ।
प्रधानं हि कस्याचिद्भोगमपवर्गं च कस्यचिदादधत् पुरुषशेषमिष्यते।
तच्च पुरुषभेदाभावे नोपपद्यते तेनार्थापत्त्या पुरुषभेदः सिध्यतीति शङ्कते –
भेदेति ।
अर्थापत्तेरनुदयं वदन्नुत्तरमाह –
नेत्यादिना ।
संक्षिप्तमेवोक्तं विवृणोति –
यदि हीति ।
प्रधानस्य पारार्थ्यसामर्थ्यादेव पुरुषेषु कश्चिदतिशयो भविष्यतीत्याशङ्क्यापसिद्धान्तप्रसङ्गान्मैवमित्याह –
निर्विशेषा इति ।
किं च प्रधानस्य पारार्थ्यं परं शेषिणमपेक्षते, न तस्मिन् भेदमपि काङ्क्षते।
अतोऽन्यथाऽप्युपपत्तिरित्याह –
अत इति ।
जन्ममरणादिव्यवस्थानुपपत्त्या पुरुषभेदकल्पनमपि न युक्तं व्यधिकरणत्वादिति मत्वाऽऽह –
न चेति ।
न केवलं प्रमाणशून्या पुरुषभेदकल्पना, किं तु प्रयोजनशून्या चेत्याह –
परेति ।
ननु न पुरुषसत्तामात्रं निमित्तीकृत्य प्रधानं प्रवर्तते।
किं त्वीश्वराधिष्ठैतमिति सेश्वरवादिमतमाशङ्क्य तस्यापि पुरुषत्वाविशेषादुपलब्धिमात्रत्वमभ्युपेत्याऽऽह –
परश्चेति ।
वेदार्थो वेदप्रतिपाद्यमद्वैतम्।
द्वितीयमुत्थापयति –
ये त्विति ।
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा नव विशेषगुणाः। ते च प्रत्येकमात्मसु व्यवस्थया समवेताः स्वीक्रियन्ते। तेषां व्यवस्थानुपपत्त्या प्रतिदेहमात्मभेदसिद्धिरित्यर्थः। किं बुद्ध्यादयो रूपादिवदात्मव्यापिनः, किं वा संयोगादिवदेकदेशवृत्तयः। नाऽऽद्यः।
ज्ञानादिगुणानामाश्रयव्यापिनामाश्रयसंयुक्ते सर्वस्मिन्नपर्यायेण ज्ञाततादिव्यवहारजनकत्वप्रसङ्गादित्याह –
तदप्यसदिति ।
द्वितीये त्वेकदेशः सत्योऽसत्यो वा। प्रथमे घटादिवदात्मनः सत्यैकदेशत्वात् कार्यत्वादिप्रसङ्गः।
द्वितीये कल्पितैकदेशानामेव ज्ञानादिगुणवत्त्वमात्मनस्तु न तद्वत्त्वं सिध्यतीत्याह –
स्मृतीति ।
स्मृतिहेतवः संस्कारा भावानाख्याः तेषां ग्रहणमितरेषामुपलक्षणार्थम्। तेषामात्मनि समवायाभावात् सिद्धान्तासिद्धिरिति शेषः। किं चाऽऽत्ममनः संयोगादसमवायिकारणाज्ज्ञानानामुत्पत्तिरिष्टा।
तथा च सति ग्रहणसमये स्मृतिर्न सम्भवत्येवेति नियमो नोपपद्यते, ग्रहणकारणसंयोगेनैव स्मृत्युत्पत्तिसम्भवादित्याह –
आत्मेति ।
किं चाऽऽत्ममनसोः संयोगादेकस्मादेकस्याः स्मृतेः समुत्पत्तिसमये स्मृत्यन्तराण्यपि समुत्पद्येरन्। असमवायिकारणस्य तुल्यत्वात्। न च समुदबुद्धसंस्कारायौगपद्याद्युगपदनुत्पत्तिः।
तेषां तदुद्धोधस्य चाऽऽत्मनि विप्रतिपन्नत्वेन स्मृतिसामग्र्यन्तर्भावासम्भवादित्यभिप्रेत्याह –
युगपद्वेति ।
किं च समानजातीयानां स्पर्शादिमतां च परस्परं सम्बन्धो दृष्टः। यथा मल्लानां मेषाणां रज्जुघटादीनां च।
तदुभयाभावादात्मनां मनाअदिभिः सम्बन्धासिद्धेर्नोक्तादसमवायिकारणादुबुद्ध्यादिगुणोत्पत्तिः सिध्यतीत्याह –
न चेति ।
गुणादीनां साजात्यस्य स्पर्शादिमत्त्वस्य चाभावेऽपि द्रव्येण सम्बन्धवदात्मनो मनआदिभिः सम्बन्धः सिध्येदिति चेन्नेत्याह –
न चेति ।
स्वतन्त्रं सन्मात्रं द्रव्यशब्देनात्र विवक्षितम्। न ततो भेदेन गुणादयो वेदान्तिमते विद्यन्ते। शुक्लः पटः खण्डो गौरित्यादिसामानाधिकरण्यदर्शनात्। द्रव्यमेव तु कल्पनया तत्तदाकारेण भातीत्यभ्युपगमात्। अतो दृष्टान्तासम्प्रतिपत्तिरित्यर्थः।
विपक्षे दोषमाह –
यदि हीति ।
गुणादयो द्रव्यादत्यन्तभिन्ना हिमवद्विन्ध्ययोरिव यदि स्युर्यदि चाऽऽत्मनः सकाशादिच्छादयोऽत्यन्तं भिन्ना भवेयुस्तदा गुणादीनां द्रव्येण तद्वदेव सम्बन्धानुपपत्तेः, इच्छादीनां चाऽऽमना तदयोगात् पारतन्त्र्यासिद्धिरित्यर्थः।
अत्यन्तभिन्नानामपि समवायसम्बन्धात् पारतन्त्र्योपपत्तिरिति शङ्कते –
अयुतेति ।
किमिदमयुतसिद्धत्वमपृथक्कालत्वं किं वाऽपृथग्देशत्वमुतापृथक्स्वभावत्वमहोस्वित् संयोगविभागायोग्यत्वम् ? नाऽऽद्यः। विकल्पासहत्वात्।
किमिच्छाद्यपेक्षयाऽऽत्मनोऽपृथक्कालत्वम् किं वाऽऽत्मापेक्षयेच्छादीनामिति विकल्प्याऽऽद्यं दूषयति –
नेत्यादिना ।
यद्यात्मना सहापृथक्कालत्वमिच्छादीनां तदाऽऽत्मनोऽनादित्वात् तद् गतमहत्त्ववन्नित्यत्वं तेषामापततीत्याह –
आत्मनेति ।
प्रसङ्गस्येष्टत्वमाशङ्क्य निराचष्टे –
स चेति ।
न चापृथग्देशत्वमयुतसिद्धत्वम्। तन्तुपटादीनां पृथग्देशानामयुतसिद्ध्यभावप्रसङ्गात्। न चापृथक्स्वभावत्वमयुतसिद्धत्वम्। भेदपक्षपरिक्षयात्। न च संयोगविभागायोग्यत्वमयुतसिद्धत्वम्।
देवदत्तस्य हस्तादीनां चायुतसिद्ध्यभावापातादित्यभिप्रेत्य समवायस्य द्रव्यादनन्यत्वे तावन्मात्रत्वेन तत्सम्बन्धत्वव्याघातात्; ततोऽन्यत्वे तेन सम्बन्धान्तरमस्ति न वेति विकल्प्याऽऽद्ये स्यादनवस्थेति मत्वाऽऽह –
समवायस्येति ।
द्वितीयं शङ्कते –
समवाय इति ।
न वाच्यं सम्बन्धान्तरमिति शेषः।
समवायस्य नित्यसम्बन्धत्वे समवायवतां द्रव्यगुणादीनामपि तद्वत्त्वाद्भेदस्य कदाचिदप्यनुपलम्भात् पृथक्त्वप्रथानुपपत्तिरिति दूषयति –
तथा चेति ।
संयोगस्यापि समवायसाम्यं चकारेण सूच्यते।
समवायस्य समवायिभिर्गुणादीनां च द्रव्येणात्यन्तभेदे हिमवद्विन्ध्ययोरिव सम्बन्धानुपपत्तेस्तेषु परतन्त्रताव्यवहारासिद्धिरित्याह –
अत्यन्तेति ।
किं चेच्छादयो नाऽऽत्मगुणा उपजनापायवत्त्वाद्रूपादिवत्।
यद्वाऽऽत्मा नानित्यगुणवान्नित्यत्वाद् व्यतिरेकेण देहादिवदित्याह –
इच्छादीति ।
न केवलमात्मनोऽनित्यगुणत्वेऽनित्यत्वप्रसक्तिरेव दोषः।
किं त्वन्यदपि दोषद्वयं दुष्परिहरमिति बाधकान्तरमाह –
सावयवत्वमिति ।
यद्यात्मनो नेच्छादिगुणवत्त्वं तदा तस्य बन्धाभावान्मोक्षो न स्यादतो बन्धमोक्षव्यवस्थानुपपत्त्या प्रतिदेहं सुखदुःखादिविशिष्टात्मभेदसिद्धिरित्याशङ्क्याऽऽह –
यथा त्विति ।
अवस्तुत्वादविद्यायास्तत्कृतव्यवहारायोगाद्व्यावहारिकबन्धाद्यभ्युपगमासिद्धिरित्याशङ्क्याऽऽह –
सर्ववादिभिरिति ।
अविद्याकृतमनुष्यत्वाध्यारोपेण लौकिकवैदिकव्यवहारः सर्ववादिभिरिष्यते, तत्कृता च व्यवस्थाऽऽस्थीयते। तस्मादस्माकमपि तथैव सर्वमविरुद्धमित्यर्थः। परमार्थे च मोक्षे केनापि वादिना व्यवहारो नाभ्युपगम्यते।
तथा च मोक्षे परेषां व्यवहारस्यैवाभावात्तन्निर्वाहकपारमार्थिकभेदाभ्युपगमो वृथेत्याह –
परमार्थेति ।
कल्पितभेदवशादपि पुर्वोक्तसर्वव्यवस्थासौस्थ्यात् पारमार्थिकात्मभेदकल्पना प्रमाणप्रयोजनशून्येत्युपसंहरति –
तस्मादिति ॥५॥
अद्वैतस्य श्रुत्यादिविरोधाभावेऽप्यनुमानविरोधमाशङ्क्यानैकान्तिकत्वेनानुमानं दूषयति –
रूपेति ।
श्लोकव्यावर्त्यामशङ्कामाह –
कथमिति ।
यथाऽऽत्मभेदवादे तद्भेदनिमित्तो रूपादिव्यवहारस्तथैकस्मिन्नेवात्मन्यात्मैक्यपक्षे रूपादिव्यवहारो नोपपद्यते। तथा च विमता जीवास्तत्त्वतो भिद्यन्ते भिन्ननामकत्वाद्भिन्नकार्यकरत्वात् भिन्नरूपत्वाद् घटपटादिवदित्यनुमानविरुद्धमद्वैतमित्यर्थः।
घटाकाशदिष्वनैकान्तिकत्वं विवक्षित्वा श्लोकाक्षराणि व्युत्पादयति –
उच्यत इत्यादिना ।
शयनादिकार्यं समाख्याश्च भिद्यन्त इति सम्बन्धः। तत्कृताश्चेत्यत्र तच्छब्देन विकल्पितो घटाकाशभेदो गृह्यते। चकारोऽवधारणार्थः।
घटाकाशादीनामुक्तहेतुमत्त्वेऽपि विपक्षत्वाभावे कथमनैकान्तिकत्वमित्याशङ्क्याऽऽह –
सर्वोऽयमिति ।
उक्तेऽर्थे तृतीयं पादं विभजते –
न चेति ।
परोपाधिशब्देन घटकरकादिरुच्यते।
दृष्टान्तमनूद्य दार्ष्टान्तिकं व्याचष्टे –
यथैतदित्यादिना ॥६॥
घटाकाशादीनां विपक्षत्वाभावमाशङ्क्य परिहरति –
नेत्यादिना ।
घटाकाशादिराकाशस्य विकारोऽवयवो वेत्यङ्गीकारात् तत्रापि भेदस्य तात्त्विकत्वान्न विपक्षतेति श्लोकस्य व्यावर्त्यं चोद्यमुत्थापयति –
नन्विति ।
आकाशस्य निर्विकारत्वं निरवयवत्वं च लोकसिद्धं गृहीत्वा परिहरति –
नैतदस्तीति ।
तत्र वैधर्म्योदाहरणद्वयमाह –
यथेति ।
घटाकाशादिराकाशाख्यस्य महाकाशस्यावयवो न भवतीत्यत्र व्यतिरेकदृष्टान्तमाह –
यथा वृक्षस्येति ।
उक्तदृष्टान्तानां दार्ष्टान्तिकमाह –
न तथेति ।
घटाकाशस्य महाकाशं प्रति विकारत्वमवयवत्वं च नास्तीत्युक्तं दृष्टान्तत्वेनानूद्य दार्ष्टान्तिकं दर्शयन्नुत्तरार्धं व्याकरोति –
यथेत्यादिना ।
अनैकान्तिकत्वेनानुमानस्यामानत्वे स्थिते फलितमाह –
अत इति ॥७॥
जीवो ब्रह्मणो नांशो न विकारोऽपि तु ब्रह्मैवोपाध्यनुप्रविष्टं जीवशब्दितमित्युक्तं, तदयुक्तं, ब्रह्मणः शुद्धत्वाज्जीवस्य रागादिमलवत्त्वादेकत्वायोगादित्याशङ्क्य परमार्थतो जीवस्यापि नास्ति मलवत्त्वमित्याह –
यथेति ।
श्लोकस्य तात्पर्यमाह –
यस्मादिति ।
घटाकाशो मठाकाशः सूचीपाशाकाशश्चेत्युपाधिनिमित्तो भेदस्तद्विषया बुद्धिस्तत्प्रयुक्तो रूपभेदोऽर्थक्रियाभेदो नामभेदश्चेति व्यवहारो नभसि यथोपलभ्यते तथा देहाद्युपाधिभेदप्रयुक्तो जीवभेदस्तत्कृतो जननमरणसुखदुःखादिव्यवहारो व्यवस्थितो यस्मादास्थीयते तस्मात् तेनाविद्याविद्यमानेन कृतमेवाऽऽत्मनो रागादिमलवत्त्वं न वस्तुतोऽस्तीत्येतमर्थं दृष्टान्तद्वारा प्रतिपिपादयिषन्नादौ दृष्टान्तमाहेति योजना।
दृष्टान्तभागनिविष्टान्यक्षराणि व्याचष्टे –
यथेत्यादिना ।
दार्ष्टान्तिकभागगतानामक्षराणामर्थमाह –
तथेति ।
यो हि प्रत्यगात्मा विज्ञाता सोऽप्यबुद्धानां मलिनो भवतीति सम्बन्धः।
अबुद्धानामित्येतद् व्याचष्टे –
प्रत्यगात्मेति ।
अविवेकिभिरध्यारोपितेऽपि प्रत्यगात्मनो मलवत्त्वे मलप्रयुक्तं फलं तत्र वास्तवं भविष्यतीत्याशङ्क्याऽऽह –
न हीति ॥८॥
ननु जीवो मरणानन्तरं धर्मानुरोधेन स्वर्गं गच्छति। अधर्मवशाच्च नरकं प्रतिपद्यते। धर्माधर्मयोश्च भोगेन क्षये पुनरागत्य योनिविशेषे सम्भवति। तत्र यावद्भोगं स्थित्वा पुनरपि परलोकाय प्रतिष्ठते। एवमिहलोकपरलोकसञ्चरणव्यवहारविरुद्धमद्वैतमिति, तत्राऽऽह –
मरण इति ।
श्लोकस्य तात्पर्यमाह –
पुनरपीति ।
आत्मनि सर्वो व्यवहारोऽविद्याकृतो वास्तवो नेत्युक्तोऽर्थः। आत्मनो हि गगनोपमस्य गत्यादेर्वस्तुतोऽसम्भवादविद्याकृतस्तस्मिन् गत्यादिरित्यर्थः॥९॥
ननु सङ्घातशब्दितानामुपाधीनां सत्यत्वात् तत्प्रत्युक्तभेदस्यापि तथात्वादद्वैतानुपपत्तितादवस्थ्यमिति चेत्तत्त्राऽऽह –
सङ्घाता इति ।
देवादिदेहानां पूज्यतमत्वेनाऽऽधिक्याभ्युपगमान्नासत्यत्वसिद्धिरित्याशङ्क्य देहभेदेषु केषुचिदाधिक्ये मूढदृष्ट्या कल्पितेऽपि विवेकिदृष्ट्या सर्वदेहानां पञ्चभूतात्मकत्वाविशेषादशेषसाम्ये वा स्वीकृते नास्ति सङ्घातेषु सत्यत्वे काचिदुपपत्तिरित्याह –
आधिक्य इति ।
पूर्वार्धाक्षराणि योजयति –
घटादीति ।
मणिमन्त्रादिरूपाम् मायामिन्द्रजालप्रयोजकभूतां व्यावर्तयति –
अविद्येति ।
विमता देहा न सत्या देहत्वात् सम्प्रतिपन्नविदित्यर्थः।
ब्रह्मदिदेहानामुत्कृष्टत्वान्नाविद्याकृतत्वमित्याशङ्क्य द्वितीयार्धं व्याचष्टे –
यदीत्यादिना ॥१०॥
जीवस्याद्वितीयब्रह्मत्वमुपपत्त्यवष्टम्भेनोपपादितम्। इदानीं तत्रैव तैत्तिरीयश्रुतेस्तात्पर्यमाह –
रसादयो हीति ।
श्लोकस्य तात्पर्यमाह –
उत्पत्त्यादीति ।
अक्षारार्थं कथयति –
रसादय इति ।
आदिशब्देन मनोमयविज्ञानमयानन्दमया गृह्यन्ते। खड्गादेर्यथा कोशास्तदपेक्षया बहिर्भवन्ति तद्वदेति पञ्च कोशा व्यपदिश्यन्ते।
तत्र हेतुमाह –
उत्तरोत्तरस्येति ।
पूर्वपूर्वस्यान्नमयादेरुत्तरोत्तरप्राणमयाद्यपक्ष्य बहिर्भावाद् ब्रह्म सर्वान्तरं प्रतिष्ठाभूतमपेक्ष्याऽऽनन्दमयस्यापि बहिर्भावाविशेषादिविशिष्टं पञ्चानामपि कोशत्वमित्यर्थः।
अवशिष्टान्यक्षराणि व्याचष्टे –
व्याख्याता इत्यादिना ।
तत्र जीवशब्दप्रवृत्तिं व्युत्पादयति –
स हीति ।
विशिष्टं जीवशब्दार्थमाकाङ्क्षाद्वारा व्यावर्त्तयति –
कोऽसावित्यादिना ।
प्रकरणाविच्छेदार्थं प्रकरणमनुसन्धत्ते –
यस्मादिति ।
प्रकृतस्य परस्याऽऽत्मनः श्रौतत्वे फलितमाह –
नेत्यादिना ॥११॥
मनुष्योऽहं प्राण्यहं प्रमाताऽहं कर्ताऽहं भोक्ताऽहमिति पञ्चानां विशिष्टानां यदेकं स्वरूपमनुगतं प्रत्यक्चैतन्यं तद् ब्रह्मैवेति जीवपरयोरैक्ये तैत्तिरीयश्रुतेस्तात्पर्यमुक्त्वा तत्रैव बृहदारण्यकश्रुतेरपि तात्पर्यमाह –
द्वयोरिति ।
मधुब्राह्मणे बहुषु पर्यायेष्वधिदैवाध्यात्मविभक्तयोः स्थानयोरयमेव स इति परं ब्रह्म प्रत्यक्प्रकाशितम्। अतोऽस्मिन् बृहदारण्यकश्रुतेरपि ब्रह्मात्मैक्ये तात्पर्यमित्यर्थः।
तत्र दृष्टान्तमाह –
पृथिव्यामिति ।
न केवलमैक्ये तैत्तिरीयश्रुतेरेव तात्पर्यं, किं तु बृहदारण्यकश्रुतेरपीत्याह –
किं चेति ।
अधिदैवं पृथिव्यादावध्यात्मं च शरीरे तेजोमयो ज्योतिर्मयश्चैतन्यप्रधानोऽमृतमयोऽमरणधर्मा पुरुषः पूर्णः पृथिव्यादौ शरीरे चान्तर्गतो यो विज्ञाता स पर एवाऽऽत्मा। तेन स विज्ञाता सर्वं पूर्णमपरिच्छिन्नं ब्रह्मैवेति परं ब्रह्म प्रकाशितमिति सम्बन्धः।
अपवादावस्थायामध्यारोपासम्भवाद् द्वयोर्द्वयोरिति कथमुच्यते तत्राऽऽह –
आ द्वैतक्षयादिति ।
द्वैतक्षयपर्यन्तं ब्रह्म प्रकाशितम्। द्वओर्द्वयोरिति पुनरनुवादमात्रमित्यर्थः।
मधुज्ञाने मध्वेव प्रकाशितं न ब्रह्मेत्याशङ्क्य मधुज्ञानशब्दार्थं व्युत्पादयति –
क्वेत्यादिना ।
शब्दस्य क्वचिदाश्रितत्वं रूपवदनुमीयते। तच्च शब्दाधिकरणं सामान्यतः सिद्धं पारिशेष्यादाकाशमिति सिद्धमिति। तच्च कल्पनालाघवादेकमेवेति गम्यते। तथा च बहिरन्तश्चैकमेवाऽऽकाशमनुमानप्रामाण्यादधिगतम्।
तथाऽधिदैवमध्यात्मं च ब्रह्म प्रत्यग्भूतं सिद्धमित्युत्तरार्धं व्याचष्टे –
किमिवेत्यादिना ॥१२॥
इतश्चैकत्वे श्रुतीनां तात्पर्यमित्याह –
जीवात्मनोरिति ।
अभेदेन “ब्रह्म वेद ब्रह्मैव भवति”(मु. उ. ३ । २ । ९) इत्यादिना ब्रह्मभावफलवादेनेत्यर्थः। यत्प्रशस्यते तद्विधेयमित्यादिन्यायादेकत्वदर्शने फलवादोपपत्त्युपलम्भादेकत्वं प्रशस्तत्वाद् विवक्षितमिति भावः। यच्चानेकत्वं सर्वप्राणिसाधारणं तन्निन्द्यमानं दृश्यते।
यन्निन्द्यते तन्निषिध्यत इति न्यायान्नानात्वं शास्त्रार्थो न भवतीत्याह –
नानात्वमिति ।
तदुभयमेकत्वप्रशंसनं नानात्वनिन्दनं चैकत्वमेव शास्त्रीयमित्यभ्युपगमे सति युक्तमिति फलितमाह –
तदेवं हीति ।
श्लोकाक्षराणि व्याचष्टे –
यदिति ।
अनन्यत्वाभावशङ्कां व्यावर्त्यैकरसत्वं दर्शयति –
अभेदेनेति ।
तत्प्रशस्यते शास्त्रेणेति तत्पदमादाय व्याख्येयम्। शास्त्रेणाभेदवेदनेन फलवादेनेत्यर्थः।
व्यासपराशरादिभिश्च वेदार्थं व्याचक्षाणैरेकत्वं स्तूयते “वासुदेवः सर्वमिति स महात्मा सुदुर्लभः”(भ. गी. ७ । १९) , “अहं हरिः सर्वमिदं जनार्दनो नान्यत्ततः कारणकार्यजातम्”(विष्णुपुराणम् १।२२।८७) इत्यादिवाक्यैरित्याह –
व्यासादिभिश्चेति ।
द्वितीयार्धं विभजते –
यच्चेति ।
तन्निन्द्यत इति यच्छब्देनोपक्रमाद् द्रष्टव्यम्। “अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनः”(विष्णुपुराणम् ५।३३।४९) , “किं तेन न कृतं पापं चोरेणाऽऽत्मापहारिणा” इत्यादिवाक्यैर्व्यासादयोऽपि द्वैतदर्शनं निन्दन्तीत्याह –
अन्यैश्चेति ।
एवमनेकत्वदर्शनस्य निन्दितत्वेन निषिद्धत्वान्नानेकत्वं शास्त्रीयमित्युक्त्वा चतुर्थपादार्थमाह –
यच्चैतदिति ।
विषयभेदेन प्रशंसनं निन्दनं चेत्यर्थः।
एवं हीति ।
द्वैतस्याशास्त्रीयत्वमद्वैतस्यैव तत्तात्पर्यगम्यत्वमित्यङ्गीकारे सतीत्यर्थः।
भेददृष्टीनामपि न्याय्यत्वाविशेषाद्भेददर्शननिन्दनस्य कुतो न्याय्यत्वमित्याशङ्क्याऽऽह –
यास्त्विति ।
या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः। सर्वास्ता निष्फलाः प्रेत्य तमोमूला हि ताः स्मृताः॥ इति मनुवचनादित्यर्थः ।
न्यायविरोधादपि भेदवादानामसमञ्जसत्वमित्याह –
निरूप्यमाणा इति ।
वैशेषिकवैनाशिकादिकल्पना भेदानुसारिण्यो, भेदश्च परस्पराश्रयतादिदोषदूषितो न प्रमीयते। तेन भेदवादानामुत्प्रेक्षामूलानामसमञ्जसतेत्यर्थः॥१३॥
न भेदवादानामुत्प्रेक्षामात्रमूलत्वं श्रुतिमूलत्वादित्याशङ्क्य परिहरति –
जीवात्मनोरिति ।
उत्पत्तिर्व्युत्पत्तिः सम्यग्ज्ञानम्, तदर्थोपनिषदां प्रवृत्त्यपेक्षया प्राक्प्रवृत्तकर्मकाण्डेन यत्परापरयोर्नानात्वमुक्तं तदोदनं पचतीति भविष्यत्प्रवृत्त्या तण्डुलेष्वोदनत्ववद् गौणमेव, न मुख्यभेदार्थत्वं श्रुतेर्युज्यते, भेदस्यापूर्वत्वपुरुषार्थत्वयोरभावादित्यर्थः।
श्लोकव्यावर्त्यामाशङ्कामाह –
नन्विति ।
न केवलमस्माभिरुत्प्रेक्षितमिदं, किं तु श्रुत्याऽपि दर्शितमित्यपेरर्थः।
भेदं वदन्त्याः श्रुतेस्तात्पर्यलिङ्गमभ्यासं सूचयति –
अनेकश इति ।
कर्मकाण्डे तत्तत्कामनाभेदेन नियोज्यभेदसिद्धावपि कथं जीवपरयोर्भेदः सिध्यति, परस्य तत्रानुक्तत्वादित्याशङ्क्याऽऽह –
परश्चेति ।
‘हिरण्यगर्भः समवर्तताग्र’(ऋ. सं. १० । १२१ । १) इति मन्त्रे प्रकृतो हिरण्यगर्भः सर्वनाम्ना परामृश्यते। स इमां पृथिवीं द्यामपि धृतवान्। अन्यथा गुरुत्वात्तयोरवस्थानायोगात्। न च हिरण्यगर्भातिरिक्तमीश्वरं परे बुध्यन्ते मन्त्रवर्णैः। परश्च प्रकीर्तित इति सम्बन्धः।
कर्मकाण्डार्थं ज्ञानकाण्डेनापबाध्य ज्ञानकाण्डार्थस्यैवैकत्वस्य सामञ्जस्यमवधार्यतामित्याशङ्क्य बाध्यबाधकभावनिर्धारणे कारणानवधारणान्मैवमित्याह –
तत्रेति ।
श्लोकाक्षरैरुत्तरमाह –
अत्रेत्यादिना ।
पृथक्त्वस्य गौणत्वे प्रागुक्तमेव दृष्टन्तमाह –
महाकाशेति ।
तत्रैव श्लोकसूचितमुदाहरणमाह –
यथेति ।
मुख्यत्वं हीत्यादि व्याचष्टे –
न हीति ।
भेदस्यापूर्वत्वाद्यभावान्न वाक्यानां तत्परत्वम्; तत्परातत्परयोश्च तत्परं वाक्यं बलवदिति न्यायादखण्डवाक्यार्थस्यैव सामञ्जस्यमित्यर्थः।
अद्वैतवाक्यानामपि कथमद्वैते तात्पर्यमित्याशङ्क्यापूर्वार्थत्वादुपपत्तिमत्त्वाच्चेत्याह –
इह चेति ।
अद्वैतं तावन्मानान्तरागोचरत्वादपूर्वमेकमेवाद्वितीयमिति प्रागवस्थायां ब्रह्माद्वितीयं श्रुतम्। तदेवेदं सृष्ट्वा ‘तत्सृट्वा तदेवानुप्राविशत्’(तै. उ. २ । ६ । १) इति श्रुतेरनुप्रविष्टं जीवोऽभिलप्यते। तेन जीवस्य ब्रह्मता सम्भवतीत्युपपत्त्याऽपि श्रुतेरद्वैतार्थत्वं गम्यते। सृष्ट्यादिश्रुतीनामद्वैते तात्पर्यं न सृष्ट्यादावित्यनन्तरमेव वक्ष्यते। तस्मादद्वैते श्रुतेस्तात्पर्यात्तदर्थस्यैव तात्त्विकतेत्यर्थः।
न केललमुपपत्तेरेवाद्वैते श्रुतेस्तात्पर्यं किं तु नवकृत्वोऽभ्यासादपीत्याह –
तत्त्वमिति ।
भेददृष्टेरपवादाच्च श्रुतेरद्वैते तात्पर्यं प्रतिभातीत्याह –
अन्योऽसाविति ।
आदिशब्देनाद्वैतवादीनि द्वैतनिषेधीनि च वचनान्तराणि गृह्यन्ते। एकत्वमेव प्रतिपिपादिषितमिति पूर्वेण सम्बन्धः ।
एकत्वे श्रुतेस्तात्पर्ये सिद्धे तृतीयपादावष्टम्भेन फलितमाह –
अत इति ।
श्लोकस्य साध्याहारं व्याख्यानान्तरमाह –
अथवेत्यादिना ॥१४॥
सृष्ट्यादिश्रुतिषु शब्दशक्तिवशादेव सृष्ट्यादिभेददृष्टेरद्वैतानुपपत्तिरित्याशङ्क्याऽऽह –
मृल्लोहेति ।
उत्पत्त्यादि श्रुतीनां स्वार्थनिष्ठत्वमुपेत्य व्यावर्त्यं चोद्यमुत्थापयति –
नन्विति ।
तासां स्वार्थनिष्ठत्वाभावान्निरवकाशं चोद्यमिति परिहरति –
मैवमिति ।
परिहृतत्वाच्च नेदं चोद्यं सावकाशमित्याह –
पूर्वमपीति ।
यदि प्रकृतोत्पत्त्यादिश्रुतिभ्यः सकाशादुपक्रमोपसंहारैकरूप्यं तात्पर्यलिङ्गमाकृष्योद्भाव्य सृष्ट्यादिश्रुतेः स्वार्थपरत्वं परिहृतं तर्हि पुनरुपन्यासो वृथा स्यादित्याशङ्कते –
इत एवेति ।
उत्पत्त्यादिश्रुतीनां मिथ्यासृष्टिपरत्वं पूर्वमुक्तम् ।
इह तु तासां ब्रह्मात्मैक्ये तात्पर्यप्रतिपादनेच्छया पुनरुपन्यासः सिध्यतीत्युत्तरमाह –
इह पुनरिति ।
पादत्रयगतान्यक्षराणि योजयति –
मृदित्यादिना ।
यः शब्दशक्त्या प्रतीयते न स श्रुत्यर्थो भवति, किं तु तात्पर्यगम्यस्यैव श्रुत्यर्थतेत्यत्र दृष्टान्तमाह –
यथेति ।
वागादीनां प्राणानामहं श्रेयानहं श्रेयानिति मिथः संघर्षः संवादस्तत्र याऽऽख्यायिका श्रूयते नासौ श्रुत्यर्थो भवति वागादीनामचेतनत्वात्। तथा सृष्ट्यादिश्रुतिरपि न स्वार्थे तत्पर्यवतीत्यर्थः।
उदाहरणान्तरं सूचयति –
वागादीति ।
देवासुरसङ्ग्रामे देवास्तावदसुरानभिभवितुं यज्ञमुपचक्रमिरे। वागादींश्चोद्गातृत्वेन वव्रिरे। तांश्च वागादीन् कल्याणासङ्गजेन पाप्मनाऽसुरा विविधुरित्याद्याख्यायिका च न यथाश्रुतार्था । वागादीनां वागभावेनोद्गानासामर्थ्यात् । किं त्वसुरैरधर्षितत्वात्प्राणोत्क्रान्तौ देहपातप्रसिद्धेश्च प्राणः श्रेष्ठो भवतीति प्राणवैशिष्ट्यनिश्चये बुद्ध्यवतारशेषत्वेन सा कल्पिता। तथैव प्रकृतेऽपि सृष्ट्यादिश्रुतेः स्वार्थे तात्पर्याभावात्तत्कार्यस्य तद्व्यतिरेकेणाभावात् तदेवास्तीत्यद्वैतबुद्ध्यवतारोपायत्वेन सृष्ट्यादिप्रक्रिया कल्पितेत्यर्थः।
देवताशब्दप्रयोगाच्चेतनत्वं वागादीनामिति मुख्यार्थत्वम् संवादादिश्रवणस्य, अतोऽसिद्धमुदाहरणमिति शङ्कते –
तदपीति ।
संवादविसंवादयोरसतोः श्रुतेऽर्थे प्रामाण्यमर्थवादानामित्यङ्गीकारादविरोधापेक्षमेवार्थवादप्रामाण्यम्।
इह तु परस्परव्याहतिदर्शनान्न प्रामाण्यमिति परिहरति –
न, शाखाभेदेष्विति ।
प्राणादीत्यादिशब्देन मुख्यप्राणातिरिक्ता वागादयो गृह्यन्ते।
उक्तमेव समाधानं व्यतिरेकमुखेण विवृणोति –
यदि हीति ।
क्वचिद्विवदमानानां प्राणानां स्वयमेव निर्णेतुमशक्तानां प्रजापतिमुपगतानां ‘यस्मिन्नुत्क्रान्ते शरीरमिदं पापिष्ठतरमिव तिष्ठति स वः श्रेष्ठो भवति’ इति तेनोक्तानां प्रवासः श्रूयते। क्वचित्तु स्वातन्त्र्येण यस्मिन्नुत्क्रान्ते शरीरमिदं पतति स नः श्रेयानित्यालोच्य प्रवासो व्यपदिश्यते। क्वचित्पुनर्वाक्चक्षुःश्रोत्रमनांसीति मुख्यप्राणातिरिक्ताश्चत्वारः श्रूयन्ते।
क्वचित्त्वगादयोऽपीत्येवं विरुद्धानेकप्रकारेण संवादश्रवणमस्तीत्याह –
श्रूयते त्विति ।
प्राणसंवादश्रुतीनां मिथो विरोधान्नास्ति स्वार्थे प्रामाण्यमित्युपसंहरति –
तस्मादिति ।
उक्तदृष्टान्तानुरोधादुत्पत्तिवाक्यान्यपि न विवक्षितार्थानि।
क्वचिदाकाशादिक्रमेण सृष्टिः क्वचिदग्न्यादिक्रमेण क्वचित्प्राणादिक्रमेण क्वचिदक्रमेणेत्येवं परस्परपराहतिदर्शनादित्याह –
तथेति ।
प्रतिकल्पं सृष्टिभेदस्येष्टत्वादुक्तश्रुतीनामपि प्रतिसर्गमन्यथात्वाद् व्यवस्थायाऽर्थवत्त्वं स्यादिति शङ्कते –
कल्पेति ।
सिद्धे प्रामाण्ये व्यवस्था कल्प्यते।
तदेव नाद्यापि सिद्धमित्युत्तरमाह –
नेत्यादिना ।
तासां प्रयोजनवत्त्वं त्वयाऽपि स्वीकृतमित्याशङ्क्याऽऽह –
यथोक्तेति ।
प्रयोजनान्तराभावं प्रकटयति –
न हीति ।
प्राणादिभावप्राप्तये ध्यानार्थं प्राणादिसङ्कीर्तनमिति शङ्कते –
तथात्वेति ।
‘तं यथा यथोपासते तदेव भवति’(शत. १० । ५ । २ । २०) इति श्रुतेः न्यायसाम्यात् कलहादिध्यानात्तत्प्रप्तिः फलं स्यात्, तच्चानिष्टमिति परिहरति –
नेत्यादिना ।
प्राणसंवादश्रुतीनां प्राणवैशिष्ट्यावबोधावतारार्थत्वमुपपाद्य दार्ष्टान्तिकमुपसंहरति –
तस्मादिति ।
उत्पत्त्यादिश्रुतीनामुत्पत्त्यादिपरत्वाभावे फलितं चतुर्थपादावष्टम्भेन स्पष्टयति –
अत इति ॥१५॥
उत्पत्यादिश्रुतिविरोधमद्वैते परिहृत्योपासनविध्यनुपपत्तिविरोधं परिहरति –
आश्रमा इति ।
आश्रमिणो वर्णिनश्च कार्यब्रह्मोपासका हीनदृष्टयः। कारणब्रह्मोपासका मध्यमदृष्टयः । अद्वितीयब्रह्मदर्शनशीलास्तूत्तमदृष्टयः। एवमेतेषु त्रिविधेषु मध्ये मन्दानां मध्यमानां चोत्तमदृष्टिप्रवेशार्थं दयालुना वेदेनोपासनोपदिष्टा। तथा चोपासनानुष्ठानद्वारेणोत्तमामेकत्वदृष्टिं क्रमेण प्राप्ता उत्तमेष्वेवान्तर्भविष्यतीत्यर्थः।
श्लोकव्यावर्त्यामाशङ्कामाह –
यदीति ।
तस्यैव परमार्थतः सत्त्वे प्रमाणमाह –
एकमेवेति ।
द्वैतप्रतीतेर्मिथ्याद्वैतविषयत्वेनाविरोधमाह –
असदिति ।
अद्वैतस्यैव वस्तुत्वे ध्यानविधिविरोधमाह –
किमर्थेति ।
उपासनोपदेशमेव विशदयति –
आत्मेति ।
तत्र हि निदिध्यासितव्य इत्युपासनोपदिश्यते। ‘य आत्मे’ त्यादौ तु ‘स विजिज्ञासितव्य’ इति ध्यानविधिः। ‘स क्रतु’ मित्यत्र सशब्देन शमादिमानधिकारी परामृश्यते।
अद्वैतस्यैव वस्तुत्वे कर्मविधिविरोधोऽपि प्रसरतीत्याह –
कर्माणि चेति ।
किमर्थान्युपदिष्ठानीति सम्बन्धः।
अद्वैताधिकारिणोऽधिकार्यन्तरं प्रति विधिद्वयं सावकाशमिति परिहरति –
श्रुण्विति ।
तत्रेत्युप्रासनोपदेशः कर्मोपदेशश्च गृह्यते।
तदेव कारणमक्षरयोजनया प्रकटयति –
आश्रमा इति ।
आश्रमशब्देनाऽऽश्रमिणो गृह्यन्तां, वर्णिनस्तु कथं गृहोरन्नित्याअशङ्क्याऽऽह –
आश्रमेति ।
शूद्रान् व्यावर्त्य त्रैवर्णिकानामेव ग्रहणार्थं मार्गगा इति विशेषणम्।
त्रैविध्यमेवाऽऽकाङ्क्ष्याद्वारा स्फोरयति –
कथमित्यादिना ।
कार्यब्रह्मविषयत्वान्निकृष्टत्वम्। मध्यमत्वं कारणब्रह्मविषयत्वात्। उत्कृष्टत्वमद्वैतविषयत्वादिति द्रष्टव्यम्।
एवं पूर्वार्धं व्याख्यायोत्तरार्धं व्याकरोति –
उपासनेति ।
कर्मोपदेशस्यापि तदर्थत्वमाह –
कर्माणि चेति ।
व्यावर्त्यां शङ्कां दर्शयति –
न चेति ।
वेदेनोपासनाद्युपदेशे मन्दानां मध्यमानां च कथमनुग्रहः सिध्यतीत्याशङ्क्याऽऽह –
सन्मार्गगा इति ।
प्राप्नुयुरित्युपासनोपदिष्टा कर्माणि चेति पूर्वेण सम्बन्धः।
उपास्यं ब्रह्मैव न भवतीति प्रतिषेधान्मन्दमध्यमदृष्टिविषयत्वमुपासनस्य प्रतिभातीत्याह –
यन्मनसेति ।
अद्वैतदृष्टीनां तु वर्णाश्रमभेदाभिमानाभावादेव नोपासनं कर्म वा सम्भवतीत्याह –
तत्त्वमसीति ॥१६॥
अद्वैतदर्शनस्योपासनादिविधिविरोधाभावेऽपि मतान्तरैर्विरोधोऽस्तीत्याशङ्क्य तेषां भ्रान्तिमूलत्वान्मैवमित्याह –
स्वसिद्धान्तेति ।
श्लोकस्य तात्पर्यं वक्तुं भूमिकां करोति –
शास्त्रेति ।
तद्वाह्यत्वादित्यत्र तच्छब्देन शास्त्रोपपत्ती गृह्येते।
द्वैतदर्शनस्य मिथ्यादर्शनत्वे हेत्वन्तरपरत्वमवतारितस्य श्लोकस्य दर्शयति –
इतश्चेति ।
इतः शब्दार्थमेव दर्शयति –
द्वैतिनामिति ।
आदिशब्देन मदमानादयो गृहीताः।
स्वीयं स्वीयं सिद्धान्तं व्यवस्थापयितुं तत्त्वज्ञानमधिकृत्य प्रवृत्तानां वादिनां कुतो दोषास्पदत्वमित्याक्षिपति –
कथमिति ।
श्लोकाक्षरयोजनया परिहरति –
स्वसिद्धान्तेत्यादिना ।
निश्चयमेव स्फोरयति –
एवमेवेति ।
रागास्पदत्वेऽपि तेषां द्वेषास्पदत्वं कथमित्याशङ्क्याऽऽह –
प्रतिपक्षमिति ।
उत्तरार्द्धं विभजते –
स्वसिद्धान्तेति ।
यद्धि वादिनां प्रत्येकं स्वसिद्धान्तत्वेनोपसंगृहीतं दर्शनं तन्निर्धारणार्थमन्योन्यं वादिनो विरोधमाचरन्तो दृश्यन्ते। न च तैरद्वैतदर्शनं विरुध्यमानमध्यवसीयते। यथा स्वकीयकरचरणादिभिराघाते कदाचिदाचरितेऽपि द्वेषो न जायते, परबुद्ध्यभावात्। तथा द्वैताभिमानिभिरुपद्रवे क्षुद्रे कृतेऽपि नाद्वैतदर्शिनस्तेषु द्वेषो जायते। सर्वानन्यत्वात् परबुद्ध्यभावादित्यर्थः।
अद्वैतदर्शनस्य सम्यग्दर्शनत्वं प्रतिज्ञातं कथं प्रदर्शितया प्रक्रियया प्रतिपन्नमित्याशङ्क्याऽऽह –
एवमिति ॥१७॥
द्वैतपक्षैरद्वैतपक्षस्य विषयद्वारके विरोधेऽधिगम्यमाने कथमविरोधवाचोयुक्तिरित्याशङ्क्य स्वमतपर्यालोचनया तावदविरोधमाह –
अद्वैतमिति ।
मिथ्याभूतेन द्वैतेनाद्वैतस्याविरोधेऽपि परमार्थभूतेन तेन विरोधः स्यादित्याशङ्क्य तथाविधं द्वैतमेव नास्तीति मत्वाऽऽह –
तेषामिति ।
द्वैतिनां परमार्थत्वेनापरमार्थत्वेन च द्वैतमेव व्यवहारगोचरीभूतम्। तच्च सम्प्रतिपन्नद्वैतवन्मिथ्येत्येवं स्थिते न द्वैतेनाद्वैतस्य विरोधः शक्यशङ्को भवतीत्यर्थः।
श्लोकप्रतिषेध्यं प्रश्नं करोति –
केनेति ।
श्लोकाक्षराणामर्थमाचक्षाणो हेतुमाह –
उच्यत ति ।
द्वैतस्याद्वैतकार्यत्वे प्रमाणमाह –
एकमेवेति ।
श्रुतिप्रामाण्याद् द्वैतस्याद्वैतकार्यत्वावगमात् कार्यस्य च कारणाद्भेदेन सत्त्वनिषेधात् तत्सत्यमित्यवधारणान्नाद्वैतदर्शनं द्वैतदर्शनेन विरुद्धमित्यर्थः।
अद्वैतदर्शनं द्वैतदर्शनैरविरुद्धमित्यत्रैव युक्तिमाह –
उपपत्तेश्चेति ।
तामेवोपपत्तिं संक्षिप्य दर्शयति –
स्वचित्तेति ।
सुषुप्त्याद्यवस्थायां स्वकीयचित्तस्पन्दनाभावे मिथ्याज्ञानोपरमे सति द्वैतदर्शनाभावादद्वैतं सिद्धम्। ततश्च स्वप्नवज्जाग्रद्भेदानामुत्पत्तिदर्शनादित्युपपत्तेर्द्वैतमद्वैतकार्यं, न च कारणं तत्कार्यप्रतिभासैर्विरुध्यते कार्यस्य वाचारम्भणमात्रत्वात् कारणातिरेकेणाभावादित्यर्थः।
तेषामित्यादिभागं विभजते –
द्वैतिनां त्विति ।
परमार्थद्वैतांशेनाद्वैतविरोधमाशङ्क्य द्विधा व्यवहारेऽपि विमतस्य द्वैतस्य द्वैतत्वादेव सम्प्रतिपन्नवन्मिथ्यात्वसिद्धेर्न तेन विरोधोऽद्वैतस्येति मन्वानः सन्नाह –
यदि चेति ।
भ्रान्तिमूलद्वैतदर्शनैरद्वैतदर्शनं प्रमाणमूलमविरुद्धमित्येतद् दृष्टान्तेनोपपादयति –
यथेत्यादिना ।
कार्यकारणभूतयोर्द्वैताद्वैतयोरविरोधे सिद्धे फलितमाह –
तत इति ।
अद्वैतिनां द्वैतिनां च प्रातिस्विकपक्षपर्यालोचनातो द्वैतपक्षैरद्वैतपक्षो विरुद्धो न भवतीति फलितमुपसंहरति –
तेनेति ॥१८॥
अद्वैतमेव द्वैतात्मना परिणमते चेद् द्वैतमपि तात्विकं स्यादित्याशङ्क्याऽऽह –
माययेति ।
विवर्तवादानङ्गीकारे दोषमाह –
तत्त्वत इति ।
पूर्वार्धव्यावर्त्यामाशङ्कामादर्शयति –
द्वैतमिति ।
तत्र पूर्वार्धाक्षरण्यवतार्य व्याकरोति –
अत आहेति ।
विमतो भेदो मिथ्या भेदत्वाच्चन्द्रादिभेदवदित्यर्थः।
विमतं तत्त्वतो भेदरहितम्, निरवयत्वान्नित्यत्वादजत्वाच्च व्यतिरेकेण मृदादिवदित्याह –
नेत्यदिना ।
निरवयवत्वेऽपि वस्तुनः स्फुटनधर्मत्वमाशङ्क्याऽऽह –
सावयवं हीति ।
उक्तमनुमानं निगमयति –
तस्मादिति ।
अन्यथा परमार्थत्वेनेत्यर्थः। पुनर्नञनुकर्षणमन्वयार्थं, कार्यत्वधर्मत्वांशत्वादिरत्र प्रकारोऽभिप्रेतः।
विपक्षे दोषं वदन् द्वितीयार्धं विवृणोति –
तत्त्वत इति ।
प्रसङ्गस्येष्टत्वमाशङ्क्य निराचष्टे –
तच्चेति ।
विवर्तवादमुपसंहरति –
अजमिति ।
स्थिते विवर्तवादे फलितमाह –
तस्मादिति ॥१९॥
स्वपक्षमुक्त्वा स्वयूथ्यपक्षमनुभाष्य दुषयति –
अजातस्येति ।
अनुवादभागं विभजते –
ये त्विति ।
स्वाभावत एवाजातस्य स्वभावत एवामृतस्य चाऽऽत्मतत्त्वस्य परमार्थत एव जातिमुत्पत्तिं ये स्वयूथ्याः स्वीकुर्वन्तीत्यर्थः। “जातस्य हि ध्रुवो मृत्युः”(भ. गी. २। २७) इति न्यायेन दूषयति –
तेषामिति ।
अजातो हीत्याद्यक्षराण्युक्तेऽर्थे योजयति –
स चेति ॥२०॥
पदार्थानां स्वभाववैपरीत्यगमनमनुपपन्नमित्युक्तं प्रपञ्चयति –
न भवतीति ।
तत्र पूर्वार्धं हेतुत्वेन व्याचष्टे –
यस्मादिति ।
उत्तरार्धं हेतुमत्त्वेन योजयति –
तत इति ।
यथाऽग्नेः स्वभावभूतस्योष्णत्वस्यान्यथात्वं शैत्यगमनमयुक्तं तथाऽन्यत्रापि स्वभावस्यान्यथात्वमनुचितं स्वरूपनाशप्रसङ्गादित्यर्थः॥२१॥
ननु ब्रह्म कारणरूपेण प्रागुत्पत्तेरमृतमपि कार्याकारेणोत्पत्त्युत्तरकालं मर्त्यतां गमिष्यति। ततो रूपभेदादुभयमविरुद्धमिति, तत्राऽऽह –
स्वभावेनेति ।
पूर्वार्धं साध्याहारं योजयति –
यस्येति ।
प्रागवस्थायामपि कारणस्यैव कार्याकारेण जन्मयोग्यतया मर्त्यत्वावगमान्मृषैव प्रतिज्ञा स्यादित्यर्थः।
कथं तर्हि तस्य प्रतिज्ञा युक्तेत्याशङ्क्य कृतकेन मर्त्यविलयेनामृतस्तस्य वादिनः स कारणाख्यो भावो [न] भवतीति प्रतिज्ञा युक्तेत्याह –
कथमित्यादिना ।
भवतु प्रलयावस्थायाममृतावस्थापरिणामेनामृतत्वं ततो [नित्यो] वा किं [न] स्यादित्याशङ्क्याऽऽह –
कृतकेनेति ।
कृतकत्वस्य यत्कृतकं तदनित्यमिति विनाशित्वेन व्याप्तत्वादित्यर्थः।
किं चास्यामवस्थायां कार्यमात्रं वस्त्वित्यजं ब्रह्मास्मीति ज्ञानाभावान्मोक्षो न स्यादित्याह –
आत्मेति ॥२२॥
परिणामवादस्य सृष्टिश्रुत्यनुसारेण स्वीकार्यत्वमाशङ्क्य निरस्यति –
भूतत इति ।
परिणामवादे विवर्तवादे च सृष्टिश्रुतेरविशेषादद्वैतानुरोधिश्रुतियुक्तिवशाद् विवर्तवादस्यैव स्वीकर्तव्यतेति भावः।
सृष्टिश्रुतेरद्वैतानुगुण्ये प्रमाणयुक्त्यनुगृहीतमद्वैतमेवाभ्युपगन्तव्यमिति फलितमाह –
निश्चितमिति ।
श्लोकव्यावर्त्यां शङ्कां दर्शयति –
नन्विति ।
यद्यात्मा कार्याकारेण न जायते तर्हि सृष्टिश्रुतिरश्लिष्टा स्यादित्यर्थः।
सृष्ट्यनुवादिनी श्रुतिरस्तीत्यङ्गीकरोति –
बाढमिति ।
तस्या मिथ्यासृष्ट्यनुवादित्वेन कथमुपपत्तिरित्याशङ्क्याऽऽह –
सात्विति ।
कथमद्वैतपरत्वेन सृष्टिश्रुतेरुपपत्तिरित्याशङ्क्याऽऽह –
उपाय इति ।
यदि सृष्टिश्रुतेरद्वैतपरत्वेन तद्विरोधसमाधी अधस्तादेवोक्तौ तर्हि पुनश्चोद्यं तत्परिहारश्चायुक्तौ पुनरुक्तेरित्याशङ्क्याऽऽह –
इदानीमिति ।
मिथ्यासृष्टिवादे श्रुतिपदानामसृजताभवदित्यादिनामसामञ्जस्यविरोधाशङ्कायां तावन्मात्रम् परिहर्तुं पुनश्चोद्यपरिहारावित्यर्थः।
श्लोकस्य तात्पर्यमुक्त्वा पूर्वार्धाक्षराणि व्याकरोति –
भूतत इति ।
माया ह्येषा माया सृष्टेत्यादिवत् ’ तत्तेजोऽसृजते’ ति श्रुतिः। ’ सच्च त्यच्चाभावदि’ ति श्रुतिस्तु देवदत्तो व्याघ्रोऽभवदितिवत्। न च सत्यत्वं विशेषणमत्रोपलभ्यते।
तेन मायामय्यां सृष्टाविष्टायामपि सृष्टिश्रुतिः श्लिष्टेत्यर्थः। ‘गौणमुख्ययोर्मुख्ये सम्प्रत्यय’ इति न्यायमाश्रित्य शङ्कते –
नन्विति ।
अग्निर्माणवक इत्यत्र माणवकेऽग्निशब्दप्रयोगेऽप्यग्निमानयेत्यादिप्रयोगे प्रथमं वह्निप्रतीतेर्मुख्यमेव प्रथमं प्रतिभातीति मुख्ये पदव्युप्तत्तेर्मुख्यार्थतया सत्या सृष्टिरेष्टव्येत्यर्थः। मुख्यसृष्ट्यङ्गीकारेऽपि सत्या सृष्टिर्न सिध्यति।