आनन्दगिरिटीका (माण्डूक्य)
अद्वैतप्रकरणम् (२)
अस्मत्पक्षे सत्यायाः सृष्टेः सृष्टिशब्दार्थत्वेनाप्रसिद्धत्वादिति परिहरति –
नेत्यादिना ।
लौकिकानां मुख्यसृष्टेः सत्यसृष्टित्वेन प्रसिद्धत्वेऽपि फलाभावान्न तत्र श्रुतितात्पर्यमित्याह –
निष्प्रयोजनत्वाच्चेति ।
अन्यथा सृष्टेरप्रसिद्धत्वमेव स्पष्टयति –
अविद्येति ।
गौणी स्वप्ने रथादिसृष्टिः। मुख्या जागरे घटादिसृष्टिः। सर्वाऽप्यविद्यावस्थायामेव। तस्यां सत्यामेव भावान्न तत्त्वदृष्ट्या काऽपि सृष्टिः सम्भवति। तथाभूतस्यान्यथाभूतस्य स्वतः परतो वा वस्तुनोऽन्यथाभावासम्भवात् तदतिरिकेण च सृष्टेरयोगादित्यर्थः।
वस्तुस्वरूपालोचनया वास्तव्याः सृष्टेरश्लिष्टत्वे श्रुतिमनुकूलयति –
सबाह्येति ।
सृष्टेरविद्याविद्यमानत्वेऽपि किं वस्तु विवक्षितमित्याशङ्क्योत्तरार्धं विभजते –
तस्मादिति ।
निरवयवत्वं विभुत्वमित्यादियुक्तिः।
तेनाद्वैतमेव श्रुतितात्पर्यगम्यं न द्वैतमिति फलितमाह –
तदेवेति ॥२३॥
सृष्टेर्मृषात्वस्पष्टीकरणद्वारेणाद्वैतमेव श्रुत्यर्थतया निर्धारयितुं श्रौतनिश्चयमेव विवृणोति –
नेहेति ।
आकाङ्क्षां प्रदर्श्य श्लोकाक्षराणि व्याकरोति –
कथमित्यादिना ।
तत्राऽऽद्यपादे व्यतिरेकं दर्शयित्वा पुनरन्वयाख्यानेन व्याचष्टे –
यदि हीति ।
द्वैतभावश्चेत्प्रतिषिध्यते कथं तर्हि सृष्टिरुपदिश्यते, तत्राह –
तस्मादिति ।
यथा प्राणवैशिष्ट्यदृष्ट्यर्थं प्राणसंवादः श्रुतिषु कल्प्यते तथा सृष्टिरेकत्वप्रतिपत्त्यर्थत्वेन कल्पिता। वास्तव्याः सृष्टेरयोगस्योपदिष्टत्वादित्यर्थः।
कल्पिता सृष्टिरित्यत्र हेत्वन्तरं दर्शयन् द्वितीयं पादमवतार्य तात्पर्यमाह –
इन्द्र इति ।
मायाशब्देन सृष्टेर्व्यपदेशादसौ कल्पितायुक्तेति शेषः।
अभिधानग्रन्थे प्रज्ञानामसु पाठान्मायाशब्दो मिथ्यार्थो न भवतीति शङ्कते –
नन्विति ।
मायाशब्दस्य प्रज्ञानामसु क्वाचित्कं पाठमङ्गीकरोति –
सत्यमिति ।
कथं तर्हि मिथ्यार्थत्वं, तत्राऽऽह –
इन्द्रियेति ।
न हि मायाशब्दिता प्रज्ञा ब्रह्मचैतन्यम्। ‘भूयश्चान्ते विश्वमायानिवृत्तिः’(श्वे. उ. १ । १०) इत्यादौ निवृत्तिश्रवणात्। किं त्वसाविन्द्रियजन्या। तस्याश्चाविद्यान्वयव्यतिरेकानुविधायितयाऽविद्यात्वेन मिथ्यात्वान्मायाशब्दस्य मिथ्यार्थत्वे नानुपपत्तिरित्यर्थः।
तात्पर्यार्थमुक्त्वा तत्रैवाक्षरानुगुण्यमाह –
मायाभिरिति ।
पुरुरूपः सन्नीयत इति सम्बन्धः।
मायामयी सृष्टिरित्यत्र हेत्वन्तरपरत्वेन तृतीयपादमवतारयति –
अजायमान इति ।
अजायमानस्य बहुधा विजायमानत्वं विरुद्धमित्याशङ्क्य चतुर्थपादमुत्थापयति –
तस्मादिति ।
अश्रुतस्य कथमेवकारस्याऽऽवापः स्यादित्याशङ्क्याऽऽह –
तुशब्द इति ।
अवधारणरूपमर्थमेवाभिनयति –
माययैवेति ।
कस्मादित्थमवधार्यते? वास्तवे जन्मनि का वस्तुक्षतिरित्याशङ्क्याऽऽह –
न ह्यजेति ।
आत्मैकत्वज्ञानमेव सृष्टिश्रुतितात्पर्यगम्यं सृष्टिस्तु तच्छेषत्वादविवक्षितेत्यत्र हेत्वन्तरमाह –
फलवत्त्वाच्चेति ।
तस्य फलवत्त्वे प्रमाणमाह –
तत्रेति ।
एकत्वमाचार्योपदेशमनुपश्यतः साक्षात्कुर्वतस्तत्रैकत्वसाक्षात्कारे सति शोकमोहोपलक्षितः संसारो न भवतीत्यर्थः।
न केवलं विफलत्वाद्भेददृष्टिरविवक्षिता किं तु निन्दितत्वेन निषिद्धत्वादनर्थकरत्वाच्चेत्याह –
मृत्योरिति ॥२४॥
भेददृष्टेर्मिथ्यात्वे हेत्वन्तरमाह –
सम्भूतेरिति ।
सम्यग्भूतिरैश्वर्यं यस्याः सा सम्भूतिर्देवता हिरण्यगर्भाख्या। तस्याश्च कार्यमध्ये श्रेष्ठाया निन्दितत्वात् प्रधानमल्लनिबर्हणन्यायेन सम्भवशब्दितं कार्यमेव निषिध्यते। तथा च सिद्धं तस्यावस्तुत्वमित्यर्थः।
कारणप्रतिषेधेन तदवस्तुत्वसिद्धेश्च यथोक्तार्थसिद्धिरित्याह –
को न्वेनमिति ।
पूर्वार्धं व्याकरोति –
अन्धमिति ।
सम्भूत्युपासनाया मन्त्रार्धेनाऽऽद्येन निन्दां विधाय ‘ततो भूय इव’ इत्यादिनोत्तरार्धेन सम्भूतेरुक्ताया देवताया हेयत्वमुपपाद्यते। ततश्च प्रधानभूतदेवतोपास्यत्वापवादात्ततोऽर्वाक्तनं सर्वमेव सम्भवशब्दितं कार्यमात्रं निषिध्यते। तथा च तदवस्तुत्वसिद्धिरित्यर्थः।
सम्भूतेरपवादेऽपि तस्मिन्मिथ्यात्वनियमाभावान्न कार्यमात्रस्य मिथ्यात्वं शक्यं प्रतिज्ञातुमित्याशङ्क्याऽऽह –
न हीति ।
सम्भूतिनिन्दा तदवस्तुत्वख्यापनार्था न भवति; किं तु विनाशेन कर्मणा देवतोपासनस्य समुच्चयविध्यर्था; समुच्चयविधानस्य फलवत्त्वादिति शङ्कते –
नन्विति ।
अपवादस्य समुच्चयविध्यर्थत्वे दृष्टान्तमाह –
यथेति ।
अत्र खल्वविद्याशब्दितकर्मापवादो विद्याकर्मणोः समुच्चयविध्यर्थः स्थितो ‘विद्यां चाविद्यां च यस्तद्वेदोभयम् सह’(ई. उ. ११) इति श्रवणादित्यर्थः।
उक्तं चोद्यमनुजानाति –
सत्यमिति ।
तर्हि सम्भूत्यपवादस्तदवस्तुत्वख्यापको न भवतीत्युक्तं स्थितमेवेत्याशङ्क्य समुच्चयस्याविद्यावस्थायामवस्थितफलवत्त्वाद् यदवस्तुत्वं सम्भूत्यादेर्निन्दाधीनमुक्तं तत् तदवस्थमेवेति मन्वानः सन्नाह –
तथाऽपीति ।
यथाऽग्निहोत्रादेः शस्त्रीयस्य कर्मणोऽशास्त्रीयप्रवृत्तिरूपमृत्युतरणार्थत्वं तथा साधनाद्येषणारूपमृत्युतरणार्थत्वं समुच्चयस्यापि वाच्यम्। तथा च सम्भूत्यादेरवस्तुत्वमविरुद्धमित्यर्थः।
मृत्युतरणार्थत्वे संस्कारार्थत्वं कथमित्याशङ्क्याऽऽह –
एवं हीति ।
कामचारकामवादकामभक्षणादिलक्षणस्वाभविकप्रवृत्तिरूपाशुद्धिवियोगः संस्कारो यथा नित्याग्निहोत्रादिफलं तथा निष्कामेणानुष्ठितसमुच्चयफलं कामाख्याशुद्धिव्यावृत्तिरित्यर्थः। ‘अविद्यया मृत्युं तीर्त्वा’(ई. उ. ११)‘अविद्यया मृत्युं तीर्त्वा’(ई. उ. ११) इति मन्त्रे मृत्युतरणहेतुरविद्येति श्रवणात् ‘सम्भूत्याऽमृतमश्नुत’(ई. उ. १४) इति च सम्भूतेरमृतत्वफलाभिधानात् कथं समुच्चयफलं मृत्योरतितरणमित्याशङ्क्याऽऽह –
अत इति ।
यतो न समुच्चयान्मुख्यममृतत्वं घटते, तस्य ‘विद्ययाऽमृतमश्नुत’(ई. उ. ११) इति वक्ष्यमाणत्वात्। अतः समुच्चयलक्षणाऽविद्या ‘अविद्यया मृत्युं तीर्त्वा’ त्यत्र निर्दिश्यते। आपेक्षिकमृत्युतरणहेतुत्वसम्भवादित्यर्थः। यद्यविद्याशब्देन समुच्चयो विवक्ष्यते, कथं तर्हि ‘विद्यां चाविद्यां च’ इत्यनेन विद्याविद्ययोः समुच्चयो निर्दिश्यते।
न हि देवतादर्शनकर्मसमुच्चयस्य ब्रह्मविद्यया समुच्चयः सम्भवतीत्याशङ्क्याऽऽह –
एवमिति ।
नान्तरीयकत्वमवश्यम्भावित्वम्। प्रतिबन्धकाभावे कार्योत्पत्तेरुपपत्तेरित्यर्थः।
एवं मन्त्रार्थे स्थिते प्रकृते फलितमाह –
अत इति ।
अन्यार्थत्वं समुच्चयस्याशुद्धिक्षयहेतुत्वम्।
तच्चेदिष्टं किमित्यपवादस्तत्राऽऽह –
यद्यपीति ।
तथाऽप्यतन्निष्ठत्वात् ‘को न्वेनं जनयेत्पुनः’(बृ. उ. ३ । ९ । ७) इति श्रुत्यर्थमाचक्षाणो द्वितीयार्धं विभजते –
एवं मायेत्यादिना ।
उक्तमर्थं दृष्टान्तेन स्पष्टयति –
न हीति ।
न कश्चिदेनं जनयेदिति कारणं प्रतिषिध्यत इति सम्बन्धः।
प्रश्नार्थे किंशब्दे दृश्यमाने कथं कारणप्रतिषेधसिद्धिरित्याशङ्क्याऽऽह –
को न्विति ।
अक्षरार्थमुक्त्वा द्वितीयार्धस्य तात्पर्यमाह –
अविद्येति ।
ततश्चेदुद्भूतो जीवः कथं तस्य जनयितृ कारणं नेत्युच्यते व्याघातादित्याशङ्क्याऽऽह –
नष्टस्येति ।
जीवस्य जनयितृकारणाभावे प्रमाणमाह –
नायमिति ।
तस्याविद्यामन्तरेण स्वतो जन्माभावं सूचयति –
न बभूवेति ॥२५॥
इतोऽपि द्वैतं वस्तु न भवतीत्याह –
स एष इति ।
‘द्वे वाव’(बृ. उ. २ । ३ । १) इत्यादिना व्याख्यातं मूर्तामूर्तादि सर्वमेव त्याज्यमग्राह्यं नेति नेतीति वीप्सया यतो निषेधति श्रुतिरतः ‘स एष’(बृ. उ. ३ । ९ । २६) इत्युपक्रम्य प्रतिपादितस्याऽऽत्मतत्त्वस्य कूटस्थस्याविषयत्वेन प्रथोपपत्तिरित्यर्थः।
नेति नेतीति वीप्सातात्पर्यमाह –
सर्वेति ।
रूपद्वयोपन्यासानन्तरं तन्निषेधमन्तरेण निर्विशेषस्तुप्रतिपत्तेरयोगात्तत्प्रतिपत्त्या च पुरुषार्थपरिसमाप्तिसम्भवादादेशो निर्विशेषस्याऽत्मतत्त्वस्योपदेशस्तावत् प्रस्तूयते। एवं प्रस्तुत्य नेति नेतीति वीप्सया सर्वस्य मूर्तामूर्तादिविशेषस्याऽऽरोपितस्य निषेधो दर्शितस्तेन चाऽऽत्मा जिज्ञासितो विशिष्टो निर्दिष्ट इत्यर्थः।
स चेदेवं मूर्तामूर्ताधिकारे प्रतिपादितस्तर्हि किमिति प्रदेशान्तरे पुनः पुनरेवं प्रतिपाद्यते, पुनरुक्तेरित्याशङ्क्य व्याख्यातमित्यादि व्याचष्टे –
प्रतिपादितस्येति ।
यद्यपि मूर्तामूर्तप्रकरणे प्रतिपादितमात्मतत्त्वं तथाऽपि तस्य परमसूक्ष्मत्वाद् दुर्ज्ञानत्वं मन्यते श्रुतिः। सा पुनरुपायविशेषसद्भावाभिप्रायेण तस्यैव पुनः पुनः प्रतिपादनेच्छया यद्यदारोपितं तत्तदशेषमपह्नुत्यावशिष्टमात्मस्वरूपं निवेदयतीत्यर्थः।
सर्वमित्यादि स्पष्टीकुर्वाणः स एष इति व्याचष्टे –
ग्राह्यमिति ।
स एष इत्याद्या श्रुतिरदृश्यतामात्मनो विशेषं निषेधमुखेन दर्शयन्ती यद् दृश्यं कार्यं मनसां वाचं च गोचरीभूतं तदशेषमर्थादपलपति। सा हि परमार्थवस्त्वदृश्यमिति ब्रुवाणा दृश्यस्य वस्तुत्वे नोपपद्यते। तथा चानुपपत्तेर्दृश्यवर्गस्यावस्तुत्वं सिद्धमित्यर्थः।
ननु किमिति श्रुतिर्व्याख्यातं विशेषजातं निन्हुते पङ्कप्रक्षालनन्यायापातादित्याशङ्क्याग्राह्यभावेनेत्यादि व्याकरोति –
उपायस्येति ।
‘द्वे वाव’(बृ. उ. २ । ३ । १) इत्यादिना व्याख्यातस्य रूपप्रपञ्चस्याद्वितीयब्रह्मात्ममात्रपर्यवसायितामप्रतिपद्यमानस्य ब्रह्मवदेवोपायत्वेनाभिमतस्यापि प्रपञ्चस्य वस्तुत्वेन ग्राह्यत्वाशङ्का या सा मा भूदित्यशेषविशेषराहित्येनाद्वितीयब्रह्मस्वरूपनिर्धारणार्थमारोपितं प्रपञ्चं प्रतिषेधति श्रुतिरित्यर्थः।
उपायस्य कल्पितत्वेन वस्तुत्वाभावादुपेयस्य च सदैकरूपत्वात् कथं तथाविधवस्तुप्रतिपत्तिरित्याशङ्क्याजमित्यादि व्याचष्टे –
ततश्चेति ।
समारोपितस्य सर्वस्य निषेधादेव स्वातन्त्र्येण वस्तुत्वाभावनिश्चयादारोपितसर्पादेरधिष्ठानातिरेकेणासत्त्ववदुपायस्य मूर्तादेरुपेयाद्वितीयब्रह्ममात्रतामेव प्रतिपद्यमानस्य ब्रह्मणश्च सदैकरूपत्वकूटस्थनित्यदृष्टिस्वभावत्वादि जानतस्तस्योत्तमस्याधिकारिणः स्वयमेवान्यापेक्षामन्तरेणाऽऽत्मतत्त्वमुक्तविशेषणं प्रकाशीभवति। कल्पितस्य चोपायत्वं प्रतिबिम्बादिवदविरुद्धमित्यर्थः॥२६॥
आत्मतत्त्वमजमद्वितीयं परमार्थभूतम्; द्वैतं तु मायाकल्पितमसदिति प्रतिपादितम्। तत्रैव हेत्वन्तरमाह –
सतो हीति ।
यदात्मतत्त्वं सदा सदेकरूपं तस्य मायया जगदाकारेण जन्म युक्तम्, मायाया दुर्निरूपार्थसमर्थनपटीयस्त्वात्। परमार्थतस्त्वेकरूपमनेकरूपतया नोत्पत्तुं पारयति, विरोधादित्यर्थः।
विपक्षे दोषमाह –
तत्त्वत इति ।
यस्य वादिनो मते ब्रह्मैव परमार्थतो जगदात्मना जायते तस्याजस्य जायमानत्वप्रतिज्ञाया व्याहतत्वाज्जातस्यैव जायमानत्वे स्यादनवस्थेत्यर्थः।
अद्वैतमावेदयन्त्या द्वैतनिषेधकश्रुत्या दृश्यत्वजडत्वादियुक्त्या च तथाविधया निर्धारितमर्थं श्लोकाक्षरार्थकथनार्थमनुवदति –
एवमिति ।
उक्तमेव वस्तु युक्त्यन्तरेण पुनर्निर्धारयितुमुत्तरग्रन्थप्रवृत्तिरित्याह –
अधुनेति ।
पूर्वार्धं शङ्कोत्तरत्वेन व्याख्यातुं शङ्कयति –
तत्रेति ।
श्लोकः सप्तम्या परामृश्यते। यन्न कदाचिदपि गृह्यते तदत्यन्तासदेव शशविषाणादिवदेष्टव्यं, प्रमाणाभावे प्रमेयासिद्धेरित्यर्थः।
कार्यलिङ्गकानुमानवशादात्मतत्त्वस्य कारणत्वेन सत्त्वनिर्णयान्नासत्त्वं चोद्यमिति दूषयति –
तन्नेति ।
संगृहीतमर्थं दृष्टान्तेन विवृणोति –
यथेति ।
विमतं सदधिष्ठानं कार्यत्वात् सम्प्रतिपन्नवदित्यर्थः।
उक्तेऽर्थे पूर्वार्धाक्षराणि योजयति –
यस्मादिति ।
तस्मात् कारणस्य सत्त्वमविवादमिति शेषः ।
नासत इति ।
तस्य निःस्वभावत्वात् कारणत्वायोगादित्यर्थः ।
न त्विति ।
तथाभूतस्यान्यथाभूतस्य च जन्मायोगादित्यर्थः। सत इति पञ्चम्यन्तं पदं गृहीत्वा निमित्तकारणपरतया व्याख्यातम्। सम्प्रति सत इति षष्ठ्यन्तं पदमादायोपादानपरतया जगदात्मना जन्म मायाप्रयुक्तं प्रतिपत्तव्यम्। जन्मरहितस्य वस्तुतो जन्मव्याघातादित्यर्थः।
उत्तरार्धं विभजते –
यस्येत्यादिना ।
मायिकं जन्म न तात्त्विकमिति स्थिते फलितमाह –
तस्मादिति ॥२७॥
सत्पूर्वकं कार्यमिति न व्याप्तिः। असद्वादिभिरसतः सज्जन्माभ्युपगमादित्याशङ्क्याऽऽह –
असत इति ।
तत्त्वतोऽतत्त्वतो वा नासतः सदाकारेण जन्मेत्यर्थः।
तत्र दृष्टान्तमाह –
वन्ध्येति ।
पूर्वार्धं व्याकरोति –
असद्वादिनामिति ।
असतो निःस्वरूपस्य स्वरूपाभावादेव तत्त्वतोऽतत्त्वतो वा कार्याकारेण न युक्तं जन्मेत्यत्र हेतुमाह –
अदृष्टत्वादिति ।
उत्तरार्धं व्याकुर्वन्नदृष्टत्वमेव दृष्टान्तेन स्पष्टयति –
न हीति ।
सद्वादो मायया सम्भवति।
असद्वादस्तु तयाऽपि नेति विशेषं दर्शयन्नुपसंहरति –
तस्मादिति ।
कार्यकारणनिरूपणमत्रेति परामृश्यते॥२८॥
सत्तत्त्वस्यैव मायया जन्मेत्युक्तमुपपादयति –
यथेति ।
सत एव मायया जन्मेत्ययुक्तम्।
अवस्थाद्वयेऽपि द्वैतस्य मनः स्पन्दितत्वस्वीकारादिति श्लोकव्यावर्त्यं चोद्यमुत्थापयति –
कथमिति ।
अधिष्ठानरूपेण मनोऽपि सदिति सदृष्टान्तमुत्तरमाह –
उच्यत इति ।
मनसः सन्मात्रत्वेऽपि कथमनेकधा स्पन्दनमित्याशङ्क्य स्वप्नदृष्टान्तं व्याचष्टे –
ग्राह्येति ।
दार्ष्टान्तिकमाह –
तथेत्यादिना ।
मायाधीनं मनःस्पन्दनमवस्तुभूतमिति द्योतयितुमिवेत्युक्तम्॥२९॥
मनो ब्रह्म चेति कारणद्वयं तर्हि द्वैतस्य स्वीकृतमित्याशङ्क्य दृष्टान्तेन निराचष्टे –
अद्वयं चेति ।
दृष्टान्तभागं विभजते –
रज्ज्विति ।
दृष्टान्ते चैतन्यातिरिक्तस्य ग्रह्यग्राहकभेदस्य मनःस्पन्दितस्यासत्त्वं साधयति –
न हीति ।
तथैव जागरितेऽपि परमार्थात्मस्वरूपेणाद्वयं सन्मनो ग्राह्यग्राहकद्वैताकारेणावभासते।
तथा च परमार्थसतो विज्ञानमात्रस्यावस्थाद्वयेऽपि विशेषाभावात् तस्मिन्नेवाधिष्ठाने मायाकल्पितं मनः स्पन्दते द्वयाकारमित्यङ्गीकारात् न कारणद्वयं शङ्कितव्यमित्याह –
जाग्रदपीति ॥३०॥
मनोमात्रं द्वैतमित्यत्र प्रमाणमाह –
मनोदृश्यमिति ।
वृत्तमनूद्य श्लोकतात्पर्यमाह –
रज्ज्विति ।
यथा रज्जुः सर्परूपेण विकल्पते तथा मनो द्वैतरूपेण विकल्पनात्मकम्। तच्चाविद्याकल्पितमित्युक्तेऽर्थे प्रमाणगवेषणायां विशिष्टमनुमानमुपन्यस्यतीत्यर्थः।
तदेव प्रश्नपूर्वकं प्रकटयन् प्रथमार्धाक्षराणि व्याचष्टे –
कथमित्यादिना ।
विमतं मनोमात्रं तद्भावनियतभावत्वात्।
यथा मृद्भावनियतभावो मृन्मात्रो घटादिरित्यनुमानमारचयति –
द्वैतमिति ।
उक्तमेव व्यतिरेकं स्फोरयन् द्वितीयार्धं विभजते –
मनसो हीति ।
सामाधिस्वापयोर्द्वैतस्यानुपलम्भेऽपि नासत्त्वमित्याशङ्क्य “मानाधीना मेयसिद्धिः”(चमत्कारचन्द्रिका ५।२९) इत्यभिप्रेत्याऽऽह –
इत्यभावादिति ॥३१॥
मनसो यदमनस्त्वमुक्तं तदुपपादयति –
आत्मेति ।
समाधिस्वापयोरननुभवेऽपि मनसः स्वरूपेण नित्यत्वान्नामनस्त्वमित्याक्षिपति –
कथमिति ।
सङ्कल्पो हि मनसो व्यावहारिकं रूपम्। सङ्कल्पश्च सङ्कल्प्यापेक्षत्वात् तदभावे न भवति। सर्वमात्मैवेत्यवगमे च सङ्कल्प्याभावान्मनसो मनस्त्वं न वर्तते।
तथाऽपि स्फुरति चेदात्मैवेति न विवेकिदृष्ट्या मनो नामास्तीति श्लोकाक्षरैरुत्तरमाह –
उच्यत इति ।
तस्यैव सत्यत्वे दृष्टान्तमाह –
मृत्तिकावदिति ।
तथा घटशरावादिष्वसत्येषु मृत्तिकामात्रमनुस्यूतं सत्यमिष्यते तथैवानात्मस्वसत्येष्वात्ममात्रं सत्यमेष्टव्यम्। तत्सत्यमित्यवधारणादेवकारस्य दृष्टान्तनिविष्टस्य दार्ष्टान्तिकेऽनुषङ्गादित्यर्थः।
उक्ते दृष्टान्ते प्रमाणमाह –
वाचारम्भणमिति ।
अवशिष्टान्यक्षराणि व्याचष्टे –
तस्येत्यादिना ।
तेन तत्त्वज्ञानेनाऽऽत्मातिरिक्तार्थाभावे निश्चिते सङ्कल्पविषयाभावनिर्धारणया सङ्कल्पाभावे दृष्टान्तमाह –
दाह्येति ।
यथाऽग्नेर्दाह्याभावे ज्वलनं न भवति तथा सङ्कल्प्याभावे सङ्कल्पो निरवकाशः स्यादित्यर्थः।
सङ्कल्प्याभावे किं मनसो भवति, तदाह –
यदेति ॥३२॥
मनसश्चेन्मसस्त्वं व्यावर्तते, तर्हि कथमात्मनोऽवबोधो व्यञ्जकाभावादित्याशङ्क्याऽऽह –
अकल्पकमिति ।
श्लोकव्यावर्त्यां शङ्कामाह –
यदीति ।
मनोमुख्यस्य द्वैतस्यासत्त्वे व्यञ्जकाभावान्नाऽऽत्मबोधः सम्भवति “मनसैवानुद्रष्टव्यम्”(बृ. उ. ४ । ४ । १९) इति श्रुतेः; मनसश्चासत्त्वाङ्गीकारादित्यर्थः।
स्वरूपभूतेन ज्ञानेनैवाऽऽत्मनोऽवबोधसम्भवान्नातिरिक्ते मनस्यपेक्षेत्युत्तरमाह –
उच्यत इति ।
ज्ञेयाभिन्नं ज्ञानमित्यत्र श्रुतीरुदाहरति –
न हीति ।
सत्यग्नौ तदात्मकमौष्ण्यं न परिलुप्यते तथेत्युत्तरमाह –
अग्न्युष्णवदिति ।
“प्रज्ञानं ब्रह्म”(ऐ. उ. ३ । १ । ३) इत्यादिश्रुतिसंग्रहार्थमादिपदम्।
ज्ञेयाभिन्नमित्युक्तं स्फुटयति –
तस्यैवेति ।
आत्मनः स्वयमेवावगतिरूपत्वान्नार्थान्तरापेक्षेत्येतमर्थं दृष्टान्तेन स्फुटयति –
नित्येति ॥३३॥
मोक्षमाणस्य ज्ञानफलं स्वर्गवन्न परोक्षं किं तु तृप्तिवत्प्रत्यक्षम्। अतश्च प्रकृतज्ञानफलस्य मनोनिरोधस्य प्रत्यक्षत्वार्थं प्रसङ्गं प्रकरोति –
निगृहीतस्येति ।
न तस्य विज्ञेयत्वं सुषुप्ते प्रसिद्धत्वादित्याशङ्क्याऽऽह –
सुषुप्त इति ।
श्लोकाक्षराणि व्याकर्तुं वृत्तं कीर्तयति –
आत्मेति ।
तस्य सत्यस्य प्रागुक्तेनानुबोधेन सम्यग्ज्ञानेन बाह्यस्य विषयस्य सङ्कल्प्यस्याभावे निरालम्बनस्य प्रचारासम्भवे च मनः सङ्कल्पमकुर्वत्प्रशान्तं निरुद्धं च प्रभवतीत्यन्वयः।
निर्विषयं मनः शाम्यतीत्यत्र दृष्टान्तमाह –
निरिन्धनेति ।
निरुद्धे मनसि मनस्त्वव्यावृत्तौ मनः स्पन्दितस्य द्वैतस्याभावमुक्तं स्मारयति –
एवं चेति ।
एवं वृत्तमनूद्य पादत्रयस्यार्थमाह –
तस्येति ।
एवं विषयाभावेनेति यावत्। आत्मसत्यानुबोधो विवेकशब्दार्थः। प्रत्यगात्मन्येव पर्यवसानं प्रचारः, तस्य विद्वत्प्रत्यक्षत्वं विवक्षित्वा योगिभिरित्युक्तम्।
चतुर्थपादव्यावर्त्यामाशङ्कामाह –
नन्विति ।
निरुद्धस्यापि मनसः प्रचार इति सम्बन्धः। विशेषप्रत्ययाभावस्य निरोधे स्वापे च विशेषाभावादिति हेत्वर्थः। तत्र प्रचारे प्रसिद्धे सतीति यावत्।
चतुर्थपादमुत्तरत्वेनावतारयति –
अत्रेति ।
निरुद्धस्य मनसः सुषुप्तस्येव प्रचारस्य सुज्ञानत्वान्न तत्र ज्ञातव्यमस्तीत्युक्तं प्रत्याह –
नैवमिति ।
विद्याऽभावव्यावृत्त्यर्थं मोहविशेषणम्। चित्तभ्रमं व्यावर्तयितुं तमोविशेषणम्। अन्तर्लीना गुप्ता अनेकानर्थफलानां प्रवृत्तीनां बीजभूता वासना यस्मिन् मनसि तस्येति सुषुप्तस्य विशेषणम्। आत्मनः सत्यस्यानुबोधो यो व्याख्यातः स एव हुताशोऽग्निस्तेन विप्लुष्टान्यविद्यादीन्यनेकानर्थपर्यन्तप्रवृत्तीनां बीजानि यस्य तस्येति निरुद्धस्य विशेषणं, प्रकर्षेण शान्तं सर्वक्लेशात्मकं रजो यस्येति तस्यैव विशेषणान्तरम्। स्वतन्त्रो ब्रह्मस्वरूपावस्थानात्मक इत्यर्थः।
यथोक्तस्य प्रचारस्य सुषुप्तप्रचारविसदृशस्य दुर्ज्ञानत्वे स्थिते फलितमाह –
तस्मादिति ॥३४॥
मनसः सुषुप्तस्य समाहितस्य च प्रचारभेदोऽस्तीत्युक्तं, तत्र हेतुमाह –
लीयते हीति ।
समाहितस्य मनसो द्वैतवर्जितस्य स्वरूपं कथयति –
तदेवेति ।
पूर्वार्धस्य तात्पर्यमाह –
प्रचारेति ।
मनसः सुषुप्तस्य समाहितस्य चेति वक्तव्यम्। यस्मादित्यस्य तस्मादित्युत्तरेण सम्बन्धः। अविद्यादीत्यादिशब्देनास्मितारागादयो गृह्यन्ते।
सुषुप्ते मनसो वासनाभिः सह लयप्रकारं कथयति –
तमोरूपमिति ।
आपद्यत इति सम्बन्धः।
जाड्यं रूपमवस्थान्तरेऽपि तुल्यमित्यतो विशोनष्टि –
अविशेषेत्यादिना ।
एवमाद्यं पादं व्याख्यायाद्वितीयं पादं व्याचष्टे –
तदिति ।
पूर्वविभागविभजनेन फलितमाह –
तस्मादिति ।
तदेव निर्भयं ब्रह्मेत्यस्यार्थमाह –
यदेति ।
समाहितं मनो ग्राह्यं ग्राहकमित्यविद्याकृतं यन्मूलद्वयं तेन वर्जितं यदा तदेति सम्बन्धः।
मनसो ब्रह्मत्वे निर्भयत्वं तस्य फलितमित्याह –
इत्यत इति ।
तत्र हेतुमतःशब्देन सूचितमाह –
द्वैतेति ।
यदुपशान्तं ब्रह्माभयमित्युक्तं तस्याभयत्वे प्रमाणं सूचयति –
यद्विद्वानिति ।
ननु यथोक्तं ब्रह्म प्रकाशते न वा प्रकाशते? प्रकाशते चेदुपायापेक्षायामद्वैतव्याघातः; न चेत्प्रकाशते पुरुषार्थत्वासिद्धिरिति, तत्राऽऽह –
तदेवेति ।
तस्य ब्रह्मत्वसिद्धये परिच्छिन्नत्वं व्यवच्छिनत्ति –
समन्तत इति ॥३५॥
प्रकृतमेव ब्रह्म प्रकारान्तरेण निरूपयति –
अजमित्यादिना ।
न च तस्मिन्निरुपाधिके ब्रह्मणि ज्ञाते कर्तव्यशेषः सम्भवतीत्याह –
नेति ।
अजत्वमुपपादयति –
जन्मेति ।
किं तज्जन्मनिमित्तं यदभावादजत्वमुपपाद्यते, तदाह –
अविद्येति ।
कुतस्तर्हि तन्निवृत्त्याऽजत्वसिद्धिस्तत्राऽऽह –
सा चेति ।
निमित्तनिवृत्त्याऽजत्वसिद्धेर्युक्तमनिद्रत्वं निद्राशब्देनाविद्याभिलापादित्याह –
अत एवेति ।
विशेषणान्तरं साधयति –
अविद्यालक्षणेति ।
उत्तरविशेषणद्वयं विवृणोति –
अप्रबोधेति ।
ब्रह्मणो नामरूपवत्त्वाभावे प्रमाणमाह –
यत इति ।
विशेषणान्तरमाह –
किं चेति ।
सदा भारूपत्वे हेतुमाह –
अग्रहणेति ।
जीवे ह्युपाधिस्थेऽहंरूपग्रहणानुदये तिरोभावः, कर्ताऽहमित्यन्यथाग्रहणोदये चाऽऽविर्भावो भवति तदभावाद्भास्वरूपमेव सदा ब्रह्मेत्यर्थः।
श्रुत्याचार्योपदेशात्पूर्वं ब्रह्मण्यग्रहणं तदुपदेशादूर्ध्वं तद्ग्रहणमिति प्रसिद्धे ब्रह्मण्यपि ग्रहणाग्रहणे स्यातामित्याशङ्क्याऽऽह –
ग्रहणेति ।
यथा सवित्रपेक्षया रात्र्यहनी न स्तः, किन्तूदयास्तमयकल्पनया कल्प्येते; तथा ब्रह्मस्वभावालोचनया ग्रहणाग्रहणे न विद्येते, किं तूपाधिद्वारा कल्प्येते। तेन ब्रह्मणः सदा भारूपत्वमविरुद्धमित्यर्थः।
इतश्च निरुपाधिकं ब्रह्म सदाविभातमेषितव्यमित्याह –
तमश्चेति ।
अप्रभातत्व इति च्छेदः। तदभावो ब्रह्मदृष्ट्या तमःसम्बन्धाभावः।
उक्तमेव हेतूकृत्य विशेषणान्तरं विशदयति –
अत एवेति ।
विदुषो निरुद्धमनसो ब्रह्मस्वरूपावस्थानमुक्तम्।
ये तु विदुषोऽपि समाध्यादि कर्तव्यमाचक्षते तान्प्रत्याह –
नेहेति ।
एवं विधत्वं निरुपाधिकत्वमुपचारः समाध्यादिः।
निरुपाधिके ब्रह्मणि विदुषो न कर्तव्यशेषोऽस्तीत्येतमर्थं वैधर्म्योदाहरणेन साधयति –
यथेत्यादिना ।
अन्येषामनात्मविदामिति यावत्। अविद्यादशायामेव सर्वो व्यवहारो विद्यादशायां चाविद्याया असत्त्वान्न कोऽपि व्यवहारः। बाधितानुवृत्त्या तु व्यवहाराभाससिद्धिरित्यर्थः॥३६॥
विद्वानेव ब्रह्मेत्यङ्गीकृत्य प्रकृतं ब्रह्म पुल्लिङ्गत्वेन निर्दिशति –
सर्वेति ।
श्लोकस्य तात्पर्यमाह –
अनामेति ।
अत्रेति प्रकृतपदोपादाने।
तर्हि सर्वकरणवर्जितत्वस्यात्रैव सिद्धत्वादुत्तरविशेषणमनर्थकमित्याशङ्क्याऽऽह –
सर्वबाह्येति ।
बाह्यकरणसम्बन्धराहित्यवदन्तःकरणसम्बन्धराहित्यं दर्शयति –
तथेति ।
उभयविधकरणसम्बन्धवैधुर्येणाऽऽत्मनः शुद्धत्वे प्रमाणामाह –
अप्राण इति ।
कारणसम्बन्धराहित्यमाह –
अक्षरादिति ।
तस्य परत्वं कार्यापेक्षया द्रष्टव्यम्।
उक्तं हेतूकृत्य विशेषणान्तरं विशदयति –
यस्मादिति ।
अस्मिन् परस्मिन्नात्मनि समाधीयते निक्षिप्यते जीवस्तदुपाधिश्चेति समाधिः परमात्मा। समाधिनिमित्तया प्रज्ञया तस्यावगम्यत्वाद्वा समाधित्वमवगन्तव्यम्।
अत एवेत्युक्तं स्फुटयति –
विक्रियेति ॥३७॥
प्रकृते ब्रह्मण्यविक्रिये विधिनिषेधाधीनयोर्वैदिकयोर्वा लौकिकयोर्वा हानोपादानयोरनवकाशत्वमित्याह –
ग्रहो नेति ।
मनोविषयत्वाभावाच्च ब्रह्मणि तयोरकाशो नास्तीत्याह –
चिन्तेति ।
यथोक्ते ब्रह्मणि ज्ञाते फलितमाह –
आत्मेति ।
प्रकरणादौ प्रतिज्ञातमुपसंहरति –
अजातीति ।
किमिति लौकिकौ वैदिकौ वा ग्रहोत्सर्गौ ब्रह्मणि न भवतस्तत्राऽऽह –
यस्मादिति ।
उक्तमेवार्थमुपपादयति –
यत्र हीति ।
ब्रह्मणि विक्रियाऽभावे हेतुमाह –
विकारेति ।
तस्य विक्रियाविषयत्वाभावेऽपि हेतुं कथयति –
निरवयवत्वाच्चेति ।
विक्रियायास्तद्विषयत्वस्य चाभावे फलितमाह –
अत इति ।
द्वितीयं पादमवतार्य व्याचष्टे –
चिन्तेत्यादिना ।
तृतीयं पादं विभजते –
यदैवेति ।
चतुर्थपादं व्याकरोति –
अजातीति ।
नन्विदं प्रकरणादावुक्तं किमर्थं पुनरिहोच्यते, तत्राऽह –
यदादाविति ।
ननु ‘ग्रहो न तत्र’ इत्यादौ पूर्वत्र तत्त्वज्ञानमुक्तं न त्वकार्पण्यम्, तत्कथमकार्पण्यं वक्ष्यामीत्युपक्रान्तस्यात्रोपसंहारः सम्भवतीत्याशङ्क्य तत्त्वज्ञानस्यैवाकार्पण्यरूपत्वादुक्तोपसंहारसिद्धिरित्याह –
एतस्मादिति ।
तत्त्वज्ञानातिरिक्तं ज्ञानं कार्पण्यविषयमित्यत्र लिङ्गं दर्शयति –
यो वा इति ।
तत्त्वज्ञानराहित्ये कृपणत्वमुक्त्वा तद्वत्त्वे फलितमाह –
प्राप्येति ॥३८॥
परमार्थब्रह्मस्वरूपावस्थानफलकं चेदद्वैतदर्शनं किमिति तर्हि सर्वैरेव नाऽऽद्रियते, तत्राऽऽह –
अस्पर्शेति ।
परमार्थतत्त्वं कर्मनिष्ठानां बहिर्मुखाणां दुर्दर्शनमित्यत्र हेतुमाह –
योगिन इति ।
यदुक्तं तत्त्वज्ञानं स्वरूपावस्थानफलकमिति, तदङ्गीकरोति –
यद्यपीति ।
परमार्थतत्त्वं ब्रह्मेदं प्रत्यग्भूतम् इत्थं प्रागुक्तपरिपाट्या कूटस्थसच्चिदानन्दात्मकं यद्यपि तत्त्वज्ञानात् प्राप्यते तथाऽपि मूढास्तन्निष्ठा न भवन्तीति शेषः।
यस्य तत्त्वानुभवस्य स्वरूपावस्थानं फलमुक्तं तमिदानीं विशिनष्टि –
अस्पर्शेति ।
तत्र वर्णाश्रमादिधर्मेण पापादिमलेन च स्पर्शो न भवत्यस्मादित्यद्वैतानुभावोऽस्पर्शः ।
स एव योगो जीवस्य ब्रह्मभावेन योजनादित्याह –
सर्वेति ।
नामेति निपातस्य पर्यायं गृहीत्वा विवक्षितमर्थमाह –
नामेत्यादिना ।
उपनिषत्सु “न लिप्यते कर्मणा पापकेन”(बृ. उ. ४ । ४ । २३) इत्याद्यासु। दुःखं श्रवणमननादिलक्षणम्।
योगिशब्दस्य ज्ञानिविषयत्वं व्यावर्तयति –
वेदान्तेति ।
कैस्तर्हि यथोक्तस्यानुभवस्य लभ्यत्वमित्याशङ्क्याऽऽह –
आत्मेति ।
उत्तरार्धं विभजते –
योगिन इति ।
कर्मिणो हि श्रोत्रिया ब्रह्मण्याद्यस्माकं नङ्क्षतीति मत्वा तत्त्वज्ञानाद् विभ्यतीत्यर्थः।
अभयनिमित्तमेव तत्त्वज्ञानं मिथ्याज्ञानवशाद्भयनिमित्तम् पश्यन्तीत्याह –
सर्वेति ।
भयदर्शित्वं विशदयति –
अभयेति ॥३९॥
उत्तमदृष्टीनामद्वैतदर्शनमद्वैतदृष्टिफलं च मनोनिरोधमुक्त्वा मन्ददृष्टीनां मनोनिरोधाधिनमात्मदर्शनमुपन्यस्यति –
मनस इति ।
अभयमित्यशेषभयनिवृत्तिसाधनमात्मदर्शनमुच्यते। सर्वयोगिनां सर्वेषां योगिनां कर्मानुष्ठाननिष्ठानां बुद्धिशुद्धिमतामित्यर्थः।
मनोनिरोधाधीनं प्रगुक्तमनूद्य तत्फलं कैवल्यं कथयति –
दुःखेति ।
श्लोकस्य विषयं परिशिनष्टि–
येषामिति ।
अभयं भयराहित्यमसंत्रासात्मकमित्यर्थः। उक्तलक्षणा – शान्तिर्निरतिशयानन्दाभिव्यक्तिः, स्वभावतो विद्यास्वरूपसामर्थ्यादित्यर्थः।
विदुषां जीवन्मुक्तानां मुक्तेः सिद्धत्वान्न साधनापेक्षेत्याह –
नान्यायत्तेति ।
तत्र वाक्योपक्रममनुकूलयति –
नेत्यादिना ।
उत्तमेभ्यो ज्ञानवद्भ्योऽधिकारिभ्यो व्यतिरिक्तानधिकारिणोऽवतारयति –
ये त्विति ।
योगिनः सुकृतानुष्ठायिनस्तदनुष्ठानादेव सन्मार्गगामिनस्तेषामपि तत्त्वज्ञानं कथञ्चिदुपजातम् चेदलं मनोनिग्रहेणेत्याशङ्क्याऽऽह –
तेषामिति ।
अभयं तदेव तत्त्वज्ञानम्।
दुःखनिवृत्तिरपि मनोनिग्रहमपेक्ष्य भवतीत्याह –
किं चेति ।
तदेव व्यतिरेकमुखेण स्फोरयति –
न हीति ।
इतश्च मनो निग्रहीतव्यमित्याह –
किं चेति ।
अभयमित्यत्र सूचितं स्पष्टं विवृणोति –
आत्मेति ।
इतश्च मनोनिग्रहोऽर्थवानित्याह –
तथेति ।
तेषां साधकानां मुमुक्षूणामिति यावत् ॥४०॥
कथं मुमुक्षूणां जिज्ञासूनां मनोनिग्रहः सिध्येदित्याशङ्क्याऽऽह –
उत्सेक इति ।
दृष्टान्तदार्ष्टान्तिकभूतश्लोकनिविष्टाक्षराणि व्याचष्टे –
मनोनिग्रहोऽपीति ।
तेषां व्यवसायवतामुद्योगभागिनामनुद्वेगवतामिति सम्बन्धः।
चक्षुषो निमीलने तमो दृश्यते तस्य चोन्मीलने घटाद्येवोपलक्ष्यते न कदाचिदपि ब्रह्मेत्युद्वेगपरिवर्जनात् प्रागुदीरितानां मनोनिग्रहः सम्भवति, तदाह –
अपरिखेदत इति ॥४१॥
समाधिं कुर्वतस्तत्त्वसाक्षात्कारप्रतिबन्धका लयविक्षेपसुखरागास्तेभ्यो मनसो वक्ष्यमाणोपायेन निग्रहं कुर्यात् । अन्यथा समाधिसाफल्यानुपपत्तेरित्याह –
उपायेनेति ।
प्रागुक्तादुपायादेव मनोनिग्रहपरिग्रहे श्रवणादिविध्यानर्थक्यमिति मन्वानः शङ्कते –
किमिति ।
पूर्वोक्तोपायवतः श्रवणाद्यनुतिष्ठतो मनोनिग्रहद्वारा तत्त्वज्ञानसिद्धिरित्युत्तरमाह –
नेत्युच्यत इति ।
तृतीयपादं व्याचष्टे –
किं चेति ।
लीयते स्थानद्वयमिति शेषः।
चतुर्थपादमाकाङ्क्षाद्वारा विवृणोति –
सुप्रसन्नमित्यादिना ॥४२॥
उपायेन निगृह्णीयादित्युक्तम्। तमेवोपायं वैराग्यरूपमुपदिशति –
दुःखमिति ।
ज्ञानाभ्यासाख्यमुपायान्तरमुपन्यस्यति –
अजमिति ।
अक्षरव्याख्यानार्थमाकाङ्क्षां निक्षिपति –
कः स इति ।
तत्र पूर्वार्धम् व्याकरोति –
उच्यत इत्यादिना ।
वैराग्यभावना तत्र तत्र द्वैतविषये दोषानुसन्धानेन वैतृष्ण्याभावना। तया कामभोगान्मनो निरोद्धव्यमित्यर्थः।
द्वितीयार्धं ज्ञानाभ्यासविषयं व्याकरोति –
अजमित्यादिना ॥४३॥
ज्ञानाभ्यासवैराग्याभ्यां लयाद्विक्षेपाच्च व्यावर्तितं मनो रागप्रतिबद्धं श्रवणमनननिधिध्यासनाभ्यासप्रसूतसम्प्रज्ञातसमाधिनाऽसम्प्रज्ञातसमाधिपर्यन्तेन [योजयितुं] ततोऽपि प्रतिबन्धाद् व्यावर्तनीयमित्याह –
लय इति ।
श्लोकाक्षराणि व्याकरोति –
एवमित्यादिना ।
ज्ञानाभ्यासः श्रवणाद्यावृत्तिर्विषयेषु क्षयिष्णुत्वादिदोषदर्शनेन वैतृष्ण्यं वैराग्यम्, लयो निद्रा।
सम्प्रबोधनमेवाभिनयति –
आत्मेति ।
मनसि प्रकृते किमिति चित्तमुच्यते, तत्राऽऽह –
चित्तमिति ।
विक्षिप्तं विप्रसृतं शमयेद् व्यावर्तयेदिति यावत्।
पुनरित्यत्र विवक्षितमर्थमाह –
एवमिति ।
उभयतो व्यावर्तितं नमस्तर्हि निर्विशेषब्रह्मरूपतां गतमित्याशङ्क्याऽऽह –
नापीति ।
अन्तरालावस्थमनसः स्वरूपं तृतीयपादावष्टम्भेन स्पष्टयति –
सकषायमिति ।
रागस्य बीजत्वं पराचीनविषयप्रवृत्तिं प्रति प्रतिपत्तव्यम्।
यथोक्तं मनो ज्ञात्वा किं कर्तव्यमित्यपेक्षायामाह –
ततोऽपीति ।
अन्तरालावस्था पञ्चम्या परामृश्यते । लयावस्थादि दृष्टान्तयितुमपिशब्दः । यत्नतः सम्प्रज्ञातसमाधेरिति यावत्। साम्यमसम्प्रज्ञातसमाधिमित्यर्थः।
चतुर्थपादस्यार्थमाह –
यदा त्विति ।
समाधिद्वयद्वारेण समं निर्विशेषं परिपूर्णं ब्रह्मरूपं प्राप्य मनस्तन्मात्रतया समाप्तं चेदप्राप्तप्रतिषेधः स्यादित्याशङ्क्याऽऽह –
समप्राप्तीति ।
ततो निर्विशेषवस्तुप्राप्त्याभिमुख्यादनन्तरमित्यर्थः।
किं तन्मनसश्चालनं यत्प्रतिषिध्यते, तत्राऽऽह –
विषयेति ॥४४॥
समाधित्सायां यत्सुखमुत्पद्यते तद्विषयाभिलाषादपि मनो निरोद्धव्यमित्याह –
नाऽऽस्वादयेदिति ।
तत्रेति समाध्यवस्थोच्यते।
किं तु तस्यामवस्थायां सुखं यदुपलभ्यते तदज्ञानविजृम्भितं मिथ्यैवेति प्रज्ञया विवेकज्ञानेन निःस्पृहः सन् भावयेदित्याह –
निस्सङ्ग इति ।
किं च यच्चित्तं प्राचीनवैराग्याद्युपायेन निश्चलं प्रत्यगात्मप्रवणं प्रसाधितं तद्यदि स्वभावानुसारेण बहिर्निर्गन्तुमिच्छेत् तदा सम्प्रज्ञातसमाधेरसम्प्रज्ञातसमाधिपर्यन्तात्प्रयत्नात् तदात्मन्येवैकीकृत्य तन्मात्रमापाद्य परिशुद्धपरिपूर्णब्रह्मात्मकः स्वयं तिष्ठेदित्याह –
निश्चरदिति ।
प्रथमपादाक्षराणि योजयति –
समाधित्सत इति ।
तस्य समाध्यवस्थायामिति शेषः।
द्वितीयपादमाकाङ्क्षाद्वारा विवृणोति –
कथमित्यादिना ।
निःस्पृहो यथोक्ते सुखेऽनुरागरहितः सन्नित्यर्थः। विवेकरूपा बुद्धिरागन्तुकस्य रज्जुसर्पवत्कल्पितत्वमित्येवमात्मिका, तया भावयेदिति सम्बन्धः।
भावनाप्रकारमभिनयति –
यदित्यादिना ।
प्रथमार्धस्याक्षरार्थमुक्त्वा तात्पर्यार्थं निगमयति –
ततोऽपीति ।
उत्तरार्धं विभजते –
यदेत्यादिना ।
पूर्वोक्तसमाध्यनुरोधादात्मन्येव निश्चलस्वभावं सच्चित्तं यथोक्तं सुखरागनिमित्तं तदुपायरागनिमित्तं वा निश्चरद्भवतीति सम्बन्धः। तच्च चित्तं बाह्यविषयाभिमुख्यादुक्तोपायेन ज्ञानाभ्यासादिना व्यावर्त्याऽऽत्मन्येव परस्मिन् ब्रह्मणि प्रयत्नतः सम्प्रज्ञातसमाधिवशादेकीकुर्यात्। असम्प्रज्ञातसमाधियुक्तं परिपूर्णं ब्रह्मैवाऽऽपादयेदित्यर्थः।
तदेव स्पष्टयति –
चित्स्वरूपेति ॥४५॥
कदा पुनरिदं चित्तं ब्रह्ममात्रमापद्यते, तत्राऽऽह –
यदेति ।
त्रिविधप्रतिबन्धविधुरं विषयाकाररहितं यदा चित्तमवतिष्ठते तदा ब्रह्म सम्पन्नं भवतीत्यर्थः।
अक्षराणि व्याचष्टे –
यथोक्तेनेत्यादिना ।
उपायो ज्ञानाभ्यासादिः। निगृहीतं विषयेभ्यो विमुखीकृतं न लीयते, न निद्रापारवश्येन कारणात्मतां गतमित्यर्थः। अचलं रागादिवासनाशून्यमित्यर्थः।
अचलत्वे दृष्टान्तः –
निवातेति ।
किं तु ब्रह्माकारेणेत्येव लक्षणं चित्तं यदा सम्पद्यते तदेति योजना।
निष्पन्नं ब्रह्मेत्युक्तमेव स्फुटयति –
ब्रह्मस्वरूपेणेति ॥४६॥
असम्प्रज्ञातसमाध्यवस्थायां येन रूपेण चित्तमभिनिष्पद्यते तद् ब्रह्मस्वरूपं विशिनष्टि –
स्वस्थमिति ।
ज्ञेयेनाव्यतिरिक्तमिति शेषः ।
तत्र विदुषां संमतिमुदाहरति –
सर्वज्ञमिति ।
यथोक्तमित्यसम्प्रज्ञातसमाधिलक्षणं ब्रह्मेत्यर्थः।
तस्य परमपुरुषार्थरूपतामाह –
सुखमिति ।
वैषयिकं सुखं व्यवच्छेत्तुं परमार्थेति विशेषणम्।
किं तत्र ज्ञानेनेत्याशङ्क्याऽऽह –
आत्मेति ।
तस्य सत्यस्यागमाचार्यानुसारिणा बोधेन लक्ष्यते प्राप्यते ब्रह्मेति तथोच्यते।
तस्य स्वमहिमप्रतिष्ठत्वमाह –
स्वात्मनीति ।
सर्वस्य त्रिविधस्यानर्थस्योपशमेनोपलक्षितत्वादपि पुरुषार्थत्वासिद्धिरित्याह –
सर्वेति ।
निरतिशयानन्दाभिव्यक्तिर्निरवशेषानर्थोच्छित्तिश्चेत्येवंलक्षणं मोक्षमाचक्षते।
तत्कथमिदं ब्रह्मेत्याशङ्क्याऽऽह –
सनिर्वाणमिति ।
तस्य क्षीरगुडादिमाधुर्यभेदस्येव स्वानुभवमात्राधिगम्यत्वादवाच्यत्वमाह –
तच्चेति ।
यदुक्तं परमार्थसुखमिति, तदिदानीमुपपादयति –
सुखमिति ।
तर्हि सर्वेषामेव तद् भूयादित्याशङ्क्याऽऽह –
योगीति ।
ज्ञानस्याजातत्वे वैधर्म्यदृष्टान्तमाह –
यथेति ॥४७॥
उक्तानामुपायानां परमार्थसत्यत्वे सत्यद्वैतहानिः। अन्यथा तदप्रमितिरित्याशङ्क्याऽऽह –
न कश्चिदिति ।
तत्र हेतुमाह –
सम्भवोऽस्येति ।
श्लोकाक्षराणि व्याकर्तुं भूमिकां व्याकरोति –
सर्वोऽपीति ।
व्यावहारिकसत्यत्वमेवोपायानां न परमार्थसत्यत्वमित्यङ्गीकृत्य पारमार्थिकसत्यस्य प्रतिपत्त्युपायत्वेनैवोक्तेत्याह –
मृदिति ।
यदुक्तं मनोनिग्रहादीनां परमार्थत्वेऽद्वैतहानिरिति, तत्राऽऽह –
नेत्यादिना ।
तेषामपरमार्थत्वे कथमद्वैतप्रतिपत्तिरित्यपि न, व्यावहारिकसत्यानामपि तत्प्रमितिहेतुत्वस्य प्रतिबिम्बवदुपपत्तेरिति भावः।
उपायानां व्यावहारिकसत्यत्वेनैव पारमार्थिकं सत्यत्वं किं न स्यादिति, तत्राऽऽह –
परमार्थेति ।
तदेव स्पष्टयति –
कर्तेति ।
स्वभावतोऽऽजत्वं हेतूकर्तव्यम्।
तत्रैव हेत्वन्तरमाह –
अत इति ।
हेत्वन्तरमेव स्पष्टयति –
यस्मादिति ।
उत्तरार्धं व्याचष्टे –
पूर्वेष्विति ।
पूर्वेषु ग्रन्थेष्विति शेषः । इतिशब्दोऽद्वैतप्रकरणपरिसमाप्तिं द्योतयति॥४८॥