अद्वैतशारदा

आनन्दगिरिटीका (माण्डूक्य)

अद्वैतप्रकरणम् (२)

अस्मत्पक्षे सत्यायाः सृष्टेः सृष्टि­श­ब्दा­र्थ­त्वे­ना­प्र­सि­द्ध­त्वा­दिति परिहरति –
नेत्यादिना ।

लौकिकानां मुख्यसृष्टेः सत्यसृष्टित्वेन प्रसिद्धत्वेऽपि फलाभावान्न तत्र श्रुति­ता­त्प­र्य­मि­त्याह –
निष्प्र­यो­ज­न­त्वा­च्चेति ।

अन्यथा सृष्टे­र­प्र­सि­द्ध­त्व­मेव स्पष्टयति –
अविद्येति ।
गौणी स्वप्ने रथादिसृष्टिः। मुख्या जागरे घटादिसृष्टिः। सर्वाऽ­प्य­वि­द्या­व­स्था­या­मेव। तस्यां सत्यामेव भावान्न तत्त्वदृष्ट्या काऽपि सृष्टिः सम्भवति। तथा­भू­त­स्या­न्य­था­भू­तस्य स्वतः परतो वा वस्तु­नोऽ­न्य­था­भा­वा­स­म्भ­वात् तदतिरिकेण च सृष्टे­र­यो­गा­दि­त्यर्थः।

वस्तु­स्व­रू­पा­लो­च­नया वास्तव्याः सृष्टे­र­श्लि­ष्टत्वे श्रुतिमनुकूलयति –
सबाह्येति ।

सृष्टे­र­वि­द्या­वि­द्य­मा­न­त्वेऽपि किं वस्तु विव­क्षि­त­मि­त्या­श­ङ्क्यो­त्त­रार्धं विभजते –
तस्मादिति ।
निरवयवत्वं विभु­त्व­मि­त्या­दि­युक्तिः।

तेनाद्वैतमेव श्रुति­ता­त्प­र्य­गम्यं न द्वैतमिति फलितमाह –
तदेवेति ॥२३॥

सृष्टे­र्मृ­षा­त्व­स्प­ष्टी­क­र­ण­द्वा­रे­णा­द्वै­त­मेव श्रुत्यर्थतया निर्धारयितुं श्रौतनिश्चयमेव विवृणोति –
नेहेति ।

आकाङ्क्षां प्रदर्श्य श्लोकाक्षराणि व्याकरोति –
कथमित्यादिना ।

तत्राऽऽद्यपादे व्यतिरेकं दर्शयित्वा पुन­र­न्व­या­ख्या­नेन व्याचष्टे –
यदि हीति ।

द्वैत­भा­व­श्चे­त्प्र­ति­षि­ध्यते कथं तर्हि सृष्टि­रु­प­दि­श्यते, तत्राह –
तस्मादिति ।
यथा प्राण­वै­शि­ष्ट्य­दृ­ष्ट्यर्थं प्राणसंवादः श्रुतिषु कल्प्यते तथा सृष्टि­रे­क­त्व­प्र­ति­प­त्त्य­र्थ­त्वेन कल्पिता। वास्तव्याः सृष्टे­र­यो­ग­स्यो­प­दि­ष्ट­त्वा­दि­त्यर्थः।

कल्पिता सृष्टिरित्यत्र हेत्वन्तरं दर्शयन् द्वितीयं पादमवतार्य तात्पर्यमाह –
इन्द्र इति ।
मायाशब्देन सृष्टे­र्व्य­प­दे­शा­दसौ कल्पितायुक्तेति शेषः।

अभिधानग्रन्थे प्रज्ञानामसु पाठान्मायाशब्दो मिथ्यार्थो न भवतीति शङ्कते –
नन्विति ।

मायाशब्दस्य प्रज्ञानामसु क्वाचित्कं पाठमङ्गीकरोति –
सत्यमिति ।

कथं तर्हि मिथ्यार्थत्वं, तत्राऽऽह –
इन्द्रियेति ।
न हि मायाशब्दिता प्रज्ञा ब्रह्मचैतन्यम्। ‘भूयश्चान्ते विश्व­मा­या­नि­वृत्तिः’(श्वे. उ. १ । १०) इत्यादौ निवृ­त्ति­श्र­व­णात्। किं त्वसा­वि­न्द्रि­य­जन्या। तस्या­श्चा­वि­द्या­न्व­य­व्य­ति­रे­का­नु­वि­धा­यि­त­याऽ­वि­द्या­त्वेन मिथ्या­त्वा­न्मा­या­श­ब्दस्य मिथ्यार्थत्वे नानु­प­प­त्ति­रि­त्यर्थः।

तात्प­र्या­र्थ­मुक्त्वा तत्रै­वा­क्ष­रा­नु­गु­ण्य­माह –
मायाभिरिति ।
पुरुरूपः सन्नीयत इति सम्बन्धः।

मायामयी सृष्टिरित्यत्र हेत्व­न्त­र­प­र­त्वेन तृती­य­पा­द­म­व­ता­र­यति –
अजायमान इति ।

अजायमानस्य बहुधा विजायमानत्वं विरु­द्ध­मि­त्या­शङ्क्य चतु­र्थ­पा­द­मु­त्था­प­यति –
तस्मादिति ।

अश्रुतस्य कथ­मे­व­का­र­स्याऽऽ­वापः स्यादि­त्या­श­ङ्क्याऽऽह –
तुशब्द इति ।

अव­धा­र­ण­रू­प­म­र्थ­मे­वा­भि­न­यति –
माययैवेति

कस्मा­दि­त्थ­म­व­धा­र्यते? वास्तवे जन्मनि का वस्तु­क्ष­ति­रि­त्या­श­ङ्क्याऽऽह –
न ह्यजेति ।

आत्मै­क­त्व­ज्ञा­न­मेव सृष्टि­श्रु­ति­ता­त्प­र्य­गम्यं सृष्टिस्तु तच्छे­ष­त्वा­द­वि­व­क्षि­ते­त्यत्र हेत्वन्तरमाह –
फलवत्त्वाच्चेति ।

तस्य फलवत्त्वे प्रमाणमाह –
तत्रेति ।
एक­त्व­मा­चा­र्यो­प­दे­श­म­नु­प­श्यतः साक्षा­त्कु­र्व­त­स्त­त्रै­क­त्व­सा­क्षा­त्कारे सति शोकमोहोपलक्षितः संसारो न भवतीत्यर्थः।

न केवलं विफ­ल­त्वा­द्भे­द­दृ­ष्टि­र­वि­व­क्षिता किं तु निन्दितत्वेन निषि­द्ध­त्वा­द­न­र्थ­क­र­त्वा­च्चे­त्याह –
मृत्योरिति ॥२४॥

भेद­दृ­ष्टे­र्मि­थ्यात्वे हेत्वन्तरमाह –
सम्भूतेरिति ।
सम्य­ग्भू­ति­रै­श्वर्यं यस्याः सा सम्भूतिर्देवता हिर­ण्य­ग­र्भाख्या। तस्याश्च कार्यमध्ये श्रेष्ठाया निन्दितत्वात् प्रधा­न­म­ल्ल­नि­ब­र्ह­ण­न्या­येन सम्भवशब्दितं कार्यमेव निषिध्यते। तथा च सिद्धं तस्या­व­स्तु­त्व­मि­त्यर्थः।

कारणप्रतिषेधेन तद­व­स्तु­त्व­सि­द्धेश्च यथो­क्ता­र्थ­सि­द्धि­रि­त्याह –
को न्वेनमिति ।

पूर्वार्धं व्याकरोति –
अन्धमिति ।
सम्भू­त्यु­पा­स­नाया मन्त्रा­र्धे­नाऽऽ­द्येन निन्दां विधाय ‘ततो भूय इव’ इत्या­दि­नो­त्त­रा­र्धेन सम्भूतेरुक्ताया देवताया हेय­त्व­मु­प­पा­द्यते। ततश्च प्रधा­न­भू­त­दे­व­तो­पा­स्य­त्वा­प­वा­दा­त्त­तोऽ­र्वा­क्तनं सर्वमेव सम्भवशब्दितं कार्यमात्रं निषिध्यते। तथा च तद­व­स्तु­त्व­सि­द्धि­रि­त्यर्थः।

सम्भू­ते­र­प­वा­देऽपि तस्मि­न्मि­थ्या­त्व­नि­य­मा­भा­वान्न कार्यमात्रस्य मिथ्यात्वं शक्यं प्रति­ज्ञा­तु­मि­त्या­श­ङ्क्याऽऽह –
न हीति ।

सम्भूतिनिन्दा तद­व­स्तु­त्व­ख्या­प­नार्था न भवति; किं तु विनाशेन कर्मणा देवतोपासनस्य समु­च्च­य­वि­ध्यर्था; समुच्चयविधानस्य फलवत्त्वादिति शङ्कते –
नन्विति ।

अपवादस्य समु­च्च­य­वि­ध्य­र्थत्वे दृष्टान्तमाह –
यथेति ।
अत्र खल्व­वि­द्या­श­ब्दि­त­क­र्मा­प­वादो विद्याकर्मणोः समु­च्च­य­वि­ध्यर्थः स्थितो ‘विद्यां चाविद्यां च यस्तद्वेदोभयम् सह’(ई. उ. ११) इति श्रव­णा­दि­त्यर्थः।

उक्तं चोद्यमनुजानाति –
सत्यमिति ।

तर्हि सम्भू­त्य­प­वा­द­स्त­द­व­स्तु­त्व­ख्या­पको न भवतीत्युक्तं स्थित­मे­वे­त्या­शङ्क्य समु­च्च­य­स्या­वि­द्या­व­स्था­या­म­व­स्थि­त­फ­ल­व­त्त्वाद् यदवस्तुत्वं सम्भू­त्या­दे­र्नि­न्दा­धी­न­मुक्तं तत् तदवस्थमेवेति मन्वानः सन्नाह –
तथाऽपीति ।
यथाऽ­ग्नि­हो­त्रादेः शस्त्रीयस्य कर्म­णोऽ­शा­स्त्री­य­प्र­वृ­त्ति­रू­प­मृ­त्यु­त­र­णा­र्थत्वं तथा साध­ना­द्ये­ष­णा­रू­प­मृ­त्यु­त­र­णा­र्थत्वं समुच्चयस्यापि वाच्यम्। तथा च सम्भू­त्या­दे­र­व­स्तु­त्व­म­वि­रु­द्ध­मि­त्यर्थः।

मृत्यु­त­र­णा­र्थत्वे संस्कारार्थत्वं कथ­मि­त्या­श­ङ्क्याऽऽह –
एवं हीति ।

काम­चा­र­का­म­वा­द­का­म­भ­क्ष­णा­दि­ल­क्ष­ण­स्वा­भ­वि­क­प्र­वृ­त्ति­रू­पा­शु­द्धि­वि­योगः संस्कारो यथा नित्या­ग्नि­हो­त्रा­दि­फलं तथा निष्का­मे­णा­नु­ष्ठि­त­स­मु­च्च­य­फलं कामा­ख्या­शु­द्धि­व्या­वृ­त्ति­रि­त्यर्थः। ‘अविद्यया मृत्युं तीर्त्वा’(ई. उ. ११)‘अविद्यया मृत्युं तीर्त्वा’(ई. उ. ११) इति मन्त्रे मृत्यु­त­र­ण­हे­तु­र­वि­द्येति श्रवणात् ‘सम्भू­त्याऽ­मृ­त­म­श्नुत’(ई. उ. १४) इति च सम्भू­ते­र­मृ­त­त्व­फ­ला­भि­धा­नात् कथं समुच्चयफलं मृत्यो­र­ति­त­र­ण­मि­त्या­श­ङ्क्याऽऽह –
अत इति ।
यतो न समु­च्च­या­न्मु­ख्य­म­मृ­तत्वं घटते, तस्य ‘विद्य­याऽ­मृ­त­म­श्नुत’(ई. उ. ११) इति वक्ष्य­मा­ण­त्वात्। अतः समु­च्च­य­ल­क्ष­णाऽ­विद्या ‘अविद्यया मृत्युं तीर्त्वा’ त्यत्र निर्दिश्यते। आपे­क्षि­क­मृ­त्यु­त­र­ण­हे­तु­त्व­स­म्भ­वा­दि­त्यर्थः। यद्य­वि­द्या­श­ब्देन समुच्चयो विवक्ष्यते, कथं तर्हि ‘विद्यां चाविद्यां च’ इत्यनेन विद्याविद्ययोः समुच्चयो निर्दिश्यते।

न हि देव­ता­द­र्श­न­क­र्म­स­मु­च्च­यस्य ब्रह्मविद्यया समुच्चयः सम्भ­व­ती­त्या­श­ङ्क्याऽऽह –
एवमिति ।
नान्त­री­य­क­त्व­म­व­श्य­म्भा­वि­त्वम्। प्रतिबन्धकाभावे कार्यो­त्प­त्ते­रु­प­प­त्ते­रि­त्यर्थः।

एवं मन्त्रार्थे स्थिते प्रकृते फलितमाह –
अत इति ।
अन्यार्थत्वं समु­च्च­य­स्या­शु­द्धि­क्ष­य­हे­तु­त्वम्।

तच्चेदिष्टं किमि­त्य­प­वा­द­स्त­त्राऽऽह –
यद्यपीति ।

तथाऽ­प्य­त­न्नि­ष्ठ­त्वात् ‘को न्वेनं जनयेत्पुनः’(बृ. उ. ३ । ९ । ७) इति श्रुत्य­र्थ­मा­च­क्षाणो द्वितीयार्धं विभजते –
एवं मायेत्यादिना ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति –
न हीति ।
न कश्चिदेनं जनयेदिति कारणं प्रतिषिध्यत इति सम्बन्धः।

प्रश्नार्थे किंशब्दे दृश्यमाने कथं कार­ण­प्र­ति­षे­ध­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह –
को न्विति ।

अक्ष­रा­र्थ­मुक्त्वा द्वितीयार्धस्य तात्पर्यमाह –
अविद्येति ।

ततश्चेदुद्भूतो जीवः कथं तस्य जनयितृ कारणं नेत्युच्यते व्याघा­ता­दि­त्या­श­ङ्क्याऽऽह –
नष्टस्येति ।

जीवस्य जनयितृकारणाभावे प्रमाणमाह –
नायमिति ।

तस्या­वि­द्या­म­न्त­रेण स्वतो जन्माभावं सूचयति –
न बभूवेति ॥२५॥

इतोऽपि द्वैतं वस्तु न भवतीत्याह –
स एष इति ।
‘द्वे वाव’(बृ. उ. २ । ३ । १) इत्यादिना व्याख्यातं मूर्तामूर्तादि सर्वमेव त्याज्य­म­ग्राह्यं नेति नेतीति वीप्सया यतो निषेधति श्रुतिरतः ‘स एष’(बृ. उ. ३ । ९ । २६) इत्युपक्रम्य प्रति­पा­दि­त­स्याऽऽ­त्म­त­त्त्वस्य कूट­स्थ­स्या­वि­ष­य­त्वेन प्रथो­प­प­त्ति­रि­त्यर्थः।

नेति नेतीति वीप्सा­ता­त्प­र्य­माह –
सर्वेति ।
रूप­द्व­यो­प­न्या­सा­न­न्तरं तन्निषेधमन्तरेण निर्वि­शे­ष­स्तु­प्र­ति­प­त्ते­र­यो­गा­त्त­त्प्र­ति­पत्त्या च पुरु­षा­र्थ­प­रि­स­मा­प्ति­स­म्भ­वा­दा­देशो निर्वि­शे­ष­स्याऽ­त्म­त­त्त्व­स्यो­प­दे­श­स्ता­वत् प्रस्तूयते। एवं प्रस्तुत्य नेति नेतीति वीप्सया सर्वस्य मूर्ता­मू­र्ता­दि­वि­शे­ष­स्याऽऽ­रो­पि­तस्य निषेधो दर्शितस्तेन चाऽऽत्मा जिज्ञासितो विशिष्टो निर्दिष्ट इत्यर्थः।

स चेदेवं मूर्ता­मू­र्ता­धि­कारे प्रति­पा­दि­त­स्तर्हि किमिति प्रदेशान्तरे पुनः पुनरेवं प्रतिपाद्यते, पुन­रु­क्ते­रि­त्या­शङ्क्य व्याख्या­त­मि­त्यादि व्याचष्टे –
प्रति­पा­दि­त­स्येति ।
यद्यपि मूर्ता­मू­र्त­प्र­क­रणे प्रति­पा­दि­त­मा­त्म­तत्त्वं तथाऽपि तस्य पर­म­सू­क्ष्म­त्वाद् दुर्ज्ञानत्वं मन्यते श्रुतिः। सा पुन­रु­पा­य­वि­शे­ष­स­द्भा­वा­भि­प्रा­येण तस्यैव पुनः पुनः प्रतिपादनेच्छया यद्यदारोपितं तत्त­द­शे­ष­म­प­ह्नु­त्या­व­शि­ष्ट­मा­त्म­स्व­रूपं निवे­द­य­ती­त्यर्थः।

सर्वमित्यादि स्पष्टीकुर्वाणः स एष इति व्याचष्टे –
ग्राह्यमिति ।
स एष इत्याद्या श्रुति­र­दृ­श्य­ता­मा­त्मनो विशेषं निषेधमुखेन दर्शयन्ती यद् दृश्यं कार्यं मनसां वाचं च गोचरीभूतं तद­शे­ष­म­र्था­द­प­ल­पति। सा हि पर­मा­र्थ­व­स्त्व­दृ­श्य­मिति ब्रुवाणा दृश्यस्य वस्तुत्वे नोपपद्यते। तथा चानु­प­प­त्ते­र्दृ­श्य­व­र्ग­स्या­व­स्तुत्वं सिद्धमित्यर्थः।

ननु किमिति श्रुति­र्व्या­ख्यातं विशेषजातं निन्हुते पङ्क­प्र­क्षा­ल­न­न्या­या­पा­ता­दि­त्या­श­ङ्क्या­ग्रा­ह्य­भा­वे­ने­त्यादि व्याकरोति –
उपायस्येति ।
‘द्वे वाव’(बृ. उ. २ । ३ । १) इत्यादिना व्याख्यातस्य रूप­प्र­प­ञ्च­स्या­द्वि­ती­य­ब्र­ह्मा­त्म­मा­त्र­प­र्य­व­सा­यि­ता­म­प्र­ति­प­द्य­मा­नस्य ब्रह्म­व­दे­वो­पा­य­त्वे­ना­भि­म­त­स्यापि प्रपञ्चस्य वस्तुत्वेन ग्राह्य­त्वा­शङ्का या सा मा भूदि­त्य­शे­ष­वि­शे­ष­रा­हि­त्ये­ना­द्वि­ती­य­ब्र­ह्म­स्व­रू­प­नि­र्धा­र­णा­र्थ­मा­रो­पितं प्रपञ्चं प्रतिषेधति श्रुति­रि­त्यर्थः।

उपायस्य कल्पितत्वेन वस्तु­त्वा­भा­वा­दु­पे­यस्य च सदैकरूपत्वात् कथं तथा­वि­ध­व­स्तु­प्र­ति­प­त्ति­रि­त्या­श­ङ्क्या­ज­मि­त्यादि व्याचष्टे –
ततश्चेति ।
समारोपितस्य सर्वस्य निषेधादेव स्वातन्त्र्येण वस्तु­त्वा­भा­व­नि­श्च­या­दा­रो­पि­त­स­र्पा­दे­र­धि­ष्ठा­ना­ति­रे­के­णा­स­त्त्व­व­दु­पा­यस्य मूर्ता­दे­रु­पे­या­द्वि­ती­य­ब्र­ह्म­मा­त्र­ता­मेव प्रतिपद्यमानस्य ब्रह्मणश्च सदै­क­रू­प­त्व­कू­ट­स्थ­नि­त्य­दृ­ष्टि­स्व­भा­व­त्वादि जान­त­स्त­स्यो­त्त­म­स्या­धि­का­रिणः स्वय­मे­वा­न्या­पे­क्षा­म­न्त­रे­णाऽऽ­त्म­त­त्त्व­मु­क्त­वि­शे­षणं प्रकाशीभवति। कल्पितस्य चोपायत्वं प्रति­बि­म्बा­दि­व­द­वि­रु­द्ध­मि­त्यर्थः॥२६॥

आत्म­त­त्त्व­म­ज­म­द्वि­तीयं परमार्थभूतम्; द्वैतं तु माया­क­ल्पि­त­म­स­दिति प्रतिपादितम्। तत्रैव हेत्वन्तरमाह –
सतो हीति ।
यदात्मतत्त्वं सदा सदेकरूपं तस्य मायया जगदाकारेण जन्म युक्तम्, मायाया दुर्नि­रू­पा­र्थ­स­म­र्थ­न­प­टी­य­स्त्वात्। पर­मा­र्थ­त­स्त्वे­क­रू­प­म­ने­क­रू­प­तया नोत्पत्तुं पारयति, विरो­धा­दि­त्यर्थः।

विपक्षे दोषमाह –
तत्त्वत इति ।
यस्य वादिनो मते ब्रह्मैव परमार्थतो जगदात्मना जायते तस्याजस्य जाय­मा­न­त्व­प्र­ति­ज्ञाया व्याह­त­त्वा­ज्जा­त­स्यैव जायमानत्वे स्याद­न­व­स्थे­त्यर्थः।

अद्वै­त­मा­वे­द­यन्त्या द्वैत­नि­षे­ध­क­श्रुत्या दृश्य­त्व­ज­ड­त्वा­दि­युक्त्या च तथाविधया निर्धारितमर्थं श्लोका­क्ष­रा­र्थ­क­थ­ना­र्थ­म­नु­व­दति –
एवमिति ।

उक्तमेव वस्तु युक्त्यन्तरेण पुन­र्नि­र्धा­र­यि­तु­मु­त्त­र­ग्र­न्थ­प्र­वृ­त्ति­रि­त्याह –
अधुनेति ।

पूर्वार्धं शङ्कोत्तरत्वेन व्याख्यातुं शङ्कयति –
तत्रेति ।
श्लोकः सप्तम्या परामृश्यते। यन्न कदाचिदपि गृह्यते तदत्यन्तासदेव शश­वि­षा­णा­दि­व­दे­ष्टव्यं, प्रमाणाभावे प्रमे­या­सि­द्धे­रि­त्यर्थः।

कार्य­लि­ङ्ग­का­नु­मा­न­व­शा­दा­त्म­त­त्त्वस्य कारणत्वेन सत्त्व­नि­र्ण­या­न्ना­सत्त्वं चोद्यमिति दूषयति –
तन्नेति ।

संगृहीतमर्थं दृष्टान्तेन विवृणोति –
यथेति ।
विमतं सदधिष्ठानं कार्यत्वात् सम्प्र­ति­प­न्न­व­दि­त्यर्थः।

उक्तेऽर्थे पूर्वा­र्धा­क्ष­राणि योजयति –
यस्मादिति ।
तस्मात् कारणस्य सत्त्व­म­वि­वा­द­मिति शेषः ।

नासत इति ।
तस्य निःस्वभावत्वात् कार­ण­त्वा­यो­गा­दि­त्यर्थः ।

न त्विति ।
तथा­भू­त­स्या­न्य­था­भू­तस्य च जन्मा­यो­गा­दि­त्यर्थः। सत इति पञ्चम्यन्तं पदं गृहीत्वा निमि­त्त­का­र­ण­प­र­तया व्याख्यातम्। सम्प्रति सत इति षष्ठ्यन्तं पद­मा­दा­यो­पा­दा­न­प­र­तया जगदात्मना जन्म मायाप्रयुक्तं प्रतिपत्तव्यम्। जन्मरहितस्य वस्तुतो जन्म­व्या­घा­ता­दि­त्यर्थः।

उत्तरार्धं विभजते –
यस्येत्यादिना ।

मायिकं जन्म न तात्त्विकमिति स्थिते फलितमाह –
तस्मादिति ॥२७॥

सत्पूर्वकं कार्यमिति न व्याप्तिः। असद्वादिभिरसतः सज्ज­न्मा­भ्यु­प­ग­मा­दि­त्या­श­ङ्क्याऽऽह –
असत इति ।
तत्त्व­तोऽ­त­त्त्वतो वा नासतः सदाकारेण जन्मेत्यर्थः।

तत्र दृष्टान्तमाह –
वन्ध्येति ।

पूर्वार्धं व्याकरोति –
असद्वादिनामिति ।

असतो निःस्वरूपस्य स्वरूपाभावादेव तत्त्व­तोऽ­त­त्त्वतो वा कार्याकारेण न युक्तं जन्मेत्यत्र हेतुमाह –
अदृष्टत्वादिति ।

उत्तरार्धं व्याकु­र्व­न्न­दृ­ष्ट­त्व­मेव दृष्टान्तेन स्पष्टयति –
न हीति ।
सद्वादो मायया सम्भवति।

असद्वादस्तु तयाऽपि नेति विशेषं दर्श­य­न्नु­प­सं­ह­रति –
तस्मादिति ।
कार्य­का­र­ण­नि­रू­प­ण­म­त्रेति परामृश्यते॥२८॥

सत्तत्त्वस्यैव मायया जन्मे­त्यु­क्त­मु­प­पा­द­यति –
यथेति ।
सत एव मायया जन्मे­त्य­यु­क्तम्।

अवस्थाद्वयेऽपि द्वैतस्य मनः स्पन्दि­त­त्व­स्वी­का­रा­दिति श्लोक­व्या­वर्त्यं चोद्यमुत्थापयति –
कथमिति ।

अधिष्ठानरूपेण मनोऽपि सदिति सदृ­ष्टा­न्त­मु­त्त­र­माह –
उच्यत इति ।

मनसः सन्मात्रत्वेऽपि कथमनेकधा स्पन्द­न­मि­त्या­शङ्क्य स्वप्न­दृ­ष्टान्तं व्याचष्टे –
ग्राह्येति ।

दार्ष्टा­न्ति­क­माह –
तथेत्यादिना ।
मायाधीनं मनः­स्प­न्द­न­म­व­स्तु­भू­त­मिति द्योत­यि­तु­मि­वे­त्यु­क्तम्॥२९॥

मनो ब्रह्म चेति कारणद्वयं तर्हि द्वैतस्य स्वीकृ­त­मि­त्या­शङ्क्य दृष्टान्तेन निराचष्टे –
अद्वयं चेति ।

दृष्टान्तभागं विभजते –
रज्ज्विति ।

दृष्टान्ते चैत­न्या­ति­रि­क्तस्य ग्रह्य­ग्रा­ह­क­भे­दस्य मनः­स्प­न्दि­त­स्या­सत्त्वं साधयति –
न हीति ।
तथैव जागरितेऽपि पर­मा­र्था­त्म­स्व­रू­पे­णा­द्वयं सन्मनो ग्राह्य­ग्रा­ह­क­द्वै­ता­का­रे­णा­व­भा­सते।

तथा च परमार्थसतो विज्ञा­न­मा­त्र­स्या­व­स्था­द्व­येऽपि विशेषाभावात् तस्मि­न्ने­वा­धि­ष्ठाने मायाकल्पितं मनः स्पन्दते द्वया­का­र­मि­त्य­ङ्गी­का­रात् न कारणद्वयं शङ्कि­त­व्य­मि­त्याह –
जाग्रदपीति ॥३०॥

मनोमात्रं द्वैतमित्यत्र प्रमाणमाह –
मनोदृश्यमिति ।

वृत्तमनूद्य श्लोक­ता­त्प­र्य­माह –
रज्ज्विति ।
यथा रज्जुः सर्परूपेण विकल्पते तथा मनो द्वैतरूपेण विकल्पनात्मकम्। तच्चा­वि­द्या­क­ल्पि­त­मि­त्यु­क्तेऽर्थे प्रमाणगवेषणायां विशि­ष्ट­म­नु­मा­न­मु­प­न्य­स्य­ती­त्यर्थः।

तदेव प्रश्नपूर्वकं प्रकटयन् प्रथ­मा­र्धा­क्ष­राणि व्याचष्टे –
कथमित्यादिना ।
विमतं मनोमात्रं तद्भा­व­नि­य­त­भा­व­त्वात्।

यथा मृद्भावनियतभावो मृन्मात्रो घटा­दि­रि­त्य­नु­मा­न­मा­र­च­यति –
द्वैतमिति ।

उक्तमेव व्यतिरेकं स्फोरयन् द्वितीयार्धं विभजते –
मनसो हीति ।

सामा­धि­स्वा­प­यो­र्द्वै­त­स्या­नु­प­ल­म्भेऽपि नास­त्त्व­मि­त्या­शङ्क्य “मानाधीना मेयसिद्धिः”(चम­त्का­र­च­न्द्रिका ५।२९) इत्य­भि­प्रे­त्याऽऽह –
इत्यभावादिति ॥३१॥

मनसो यदमनस्त्वमुक्तं तदुपपादयति –
आत्मेति ।

समा­धि­स्वा­प­यो­र­न­नु­भ­वेऽपि मनसः स्वरूपेण नित्य­त्वा­न्ना­म­न­स्त्व­मि­त्या­क्षि­पति –
कथमिति ।
सङ्कल्पो हि मनसो व्यावहारिकं रूपम्। सङ्कल्पश्च सङ्क­ल्प्या­पे­क्ष­त्वात् तदभावे न भवति। सर्व­मा­त्मै­वे­त्य­व­गमे च सङ्क­ल्प्या­भा­वा­न्म­नसो मनस्त्वं न वर्तते।

तथाऽपि स्फुरति चेदात्मैवेति न विवेकिदृष्ट्या मनो नामास्तीति श्लोका­क्ष­रै­रु­त्त­र­माह –
उच्यत इति ।

तस्यैव सत्यत्वे दृष्टान्तमाह –
मृत्तिकावदिति ।
तथा घट­श­रा­वा­दि­ष्व­स­त्येषु मृत्ति­का­मा­त्र­म­नु­स्यूतं सत्यमिष्यते तथै­वा­ना­त्म­स्व­स­त्ये­ष्वा­त्म­मात्रं सत्यमेष्टव्यम्। तत्स­त्य­मि­त्य­व­धा­र­णा­दे­व­का­रस्य दृष्टा­न्त­नि­वि­ष्टस्य दार्ष्टा­न्ति­केऽ­नु­ष­ङ्गा­दि­त्यर्थः।

उक्ते दृष्टान्ते प्रमाणमाह –
वाचारम्भणमिति ।

अव­शि­ष्टा­न्य­क्ष­राणि व्याचष्टे –
तस्येत्यादिना ।

तेन तत्त्व­ज्ञा­ने­नाऽऽ­त्मा­ति­रि­क्ता­र्था­भावे निश्चिते सङ्क­ल्प­वि­ष­या­भा­व­नि­र्धा­र­णया सङ्कल्पाभावे दृष्टान्तमाह –
दाह्येति ।
यथाऽ­ग्ने­र्दा­ह्या­भावे ज्वलनं न भवति तथा सङ्कल्प्याभावे सङ्कल्पो निरवकाशः स्यादित्यर्थः।

सङ्कल्प्याभावे किं मनसो भवति, तदाह –
यदेति ॥३२॥

मन­स­श्चे­न्म­सस्त्वं व्यावर्तते, तर्हि कथमात्मनोऽवबोधो व्यञ्ज­का­भा­वा­दि­त्या­श­ङ्क्याऽऽह –
अकल्पकमिति ।

श्लोक­व्या­वर्त्यां शङ्कामाह –
यदीति ।
मनोमुख्यस्य द्वैत­स्या­सत्त्वे व्यञ्ज­का­भा­वा­न्नाऽऽ­त्म­बोधः सम्भवति “मन­सै­वा­नु­द्र­ष्ट­व्यम्”(बृ. उ. ४ । ४ । १९) इति श्रुतेः; मन­स­श्चा­स­त्त्वा­ङ्गी­का­रा­दि­त्यर्थः।

स्वरूपभूतेन ज्ञाने­नै­वाऽऽ­त्म­नोऽ­व­बो­ध­स­म्भ­वा­न्ना­ति­रिक्ते मन­स्य­पे­क्षे­त्यु­त्त­र­माह –
उच्यत इति ।

ज्ञेयाभिन्नं ज्ञानमित्यत्र श्रुतीरुदाहरति –
न हीति ।

सत्यग्नौ तदात्मकमौष्ण्यं न परिलुप्यते तथेत्युत्तरमाह –
अग्न्युष्णवदिति ।
“प्रज्ञानं ब्रह्म”(ऐ. उ. ३ । १ । ३) इत्या­दि­श्रु­ति­सं­ग्र­हा­र्थ­मा­दि­प­दम्।

ज्ञेया­भि­न्न­मि­त्युक्तं स्फुटयति –
तस्यैवेति ।

आत्मनः स्वय­मे­वा­व­ग­ति­रू­प­त्वा­न्ना­र्था­न्त­रा­पे­क्षे­त्ये­त­मर्थं दृष्टान्तेन स्फुटयति –
नित्येति ॥३३॥

मोक्षमाणस्य ज्ञानफलं स्वर्गवन्न परोक्षं किं तु तृप्ति­व­त्प्र­त्य­क्षम्। अतश्च प्रकृ­त­ज्ञा­न­फ­लस्य मनोनिरोधस्य प्रत्य­क्ष­त्वार्थं प्रसङ्गं प्रकरोति –
निगृहीतस्येति ।

न तस्य विज्ञेयत्वं सुषुप्ते प्रसि­द्ध­त्वा­दि­त्या­श­ङ्क्याऽऽह –
सुषुप्त इति ।

श्लोकाक्षराणि व्याकर्तुं वृत्तं कीर्तयति –
आत्मेति ।
तस्य सत्यस्य प्रागु­क्ते­ना­नु­बो­धेन सम्यग्ज्ञानेन बाह्यस्य विषयस्य सङ्क­ल्प्य­स्या­भावे निरालम्बनस्य प्रचारासम्भवे च मनः सङ्क­ल्प­म­कु­र्व­त्प्र­शान्तं निरुद्धं च प्रभ­व­ती­त्य­न्वयः।

निर्विषयं मनः शाम्यतीत्यत्र दृष्टान्तमाह –
निरिन्धनेति ।

निरुद्धे मनसि मन­स्त्व­व्या­वृत्तौ मनः स्पन्दितस्य द्वैत­स्या­भा­व­मुक्तं स्मारयति –
एवं चेति ।

एवं वृत्तमनूद्य पाद­त्र­य­स्या­र्थ­माह –
तस्येति ।
एवं विषयाभावेनेति यावत्। आत्मसत्यानुबोधो विवेकशब्दार्थः। प्रत्य­गा­त्म­न्येव पर्यवसानं प्रचारः, तस्य विद्व­त्प्र­त्य­क्षत्वं विवक्षित्वा योगि­भि­रि­त्यु­क्तम्।

चतु­र्थ­पा­द­व्या­व­र्त्या­मा­श­ङ्का­माह –
नन्विति ।
निरुद्धस्यापि मनसः प्रचार इति सम्बन्धः। विशे­ष­प्र­त्य­या­भा­वस्य निरोधे स्वापे च विशेषाभावादिति हेत्वर्थः। तत्र प्रचारे प्रसिद्धे सतीति यावत्।

चतु­र्थ­पा­द­मु­त्त­र­त्वे­ना­व­ता­र­यति –
अत्रेति ।

निरुद्धस्य मनसः सुषुप्तस्येव प्रचारस्य सुज्ञानत्वान्न तत्र ज्ञात­व्य­म­स्ती­त्युक्तं प्रत्याह –
नैवमिति ।
विद्याऽ­भा­व­व्या­वृ­त्त्यर्थं मोहविशेषणम्। चित्तभ्रमं व्यावर्तयितुं तमोविशेषणम्। अन्तर्लीना गुप्ता अनेकानर्थफलानां प्रवृत्तीनां बीजभूता वासना यस्मिन् मनसि तस्येति सुषुप्तस्य विशेषणम्। आत्मनः सत्यस्यानुबोधो यो व्याख्यातः स एव हुता­शोऽ­ग्नि­स्तेन विप्लु­ष्टा­न्य­वि­द्या­दी­न्य­ने­का­न­र्थ­प­र्य­न्त­प्र­वृ­त्तीनां बीजानि यस्य तस्येति निरुद्धस्य विशेषणं, प्रकर्षेण शान्तं सर्वक्लेशात्मकं रजो यस्येति तस्यैव विशेषणान्तरम्। स्वतन्त्रो ब्रह्म­स्व­रू­पा­व­स्था­ना­त्मक इत्यर्थः।

यथोक्तस्य प्रचारस्य सुषु­प्त­प्र­चा­र­वि­स­दृ­शस्य दुर्ज्ञानत्वे स्थिते फलितमाह –
तस्मादिति ॥३४॥

मनसः सुषुप्तस्य समाहितस्य च प्रचा­र­भे­दोऽ­स्ती­त्युक्तं, तत्र हेतुमाह –
लीयते हीति ।

समाहितस्य मनसो द्वैतवर्जितस्य स्वरूपं कथयति –
तदेवेति ।

पूर्वार्धस्य तात्पर्यमाह –
प्रचारेति ।
मनसः सुषुप्तस्य समाहितस्य चेति वक्तव्यम्। यस्मादित्यस्य तस्मा­दि­त्यु­त्त­रेण सम्बन्धः। अवि­द्या­दी­त्या­दि­श­ब्दे­ना­स्मि­ता­रा­गा­दयो गृह्यन्ते।

सुषुप्ते मनसो वासनाभिः सह लयप्रकारं कथयति –
तमोरूपमिति ।
आपद्यत इति सम्बन्धः।

जाड्यं रूप­म­व­स्था­न्त­रेऽपि तुल्यमित्यतो विशोनष्टि –
अविशेषेत्यादिना ।

एवमाद्यं पादं व्याख्या­या­द्वि­तीयं पादं व्याचष्टे –
तदिति ।

पूर्व­वि­भा­ग­वि­भ­ज­नेन फलितमाह –
तस्मादिति ।

तदेव निर्भयं ब्रह्मे­त्य­स्या­र्थ­माह –
यदेति ।
समाहितं मनो ग्राह्यं ग्राह­क­मि­त्य­वि­द्या­कृतं यन्मूलद्वयं तेन वर्जितं यदा तदेति सम्बन्धः।

मनसो ब्रह्मत्वे निर्भयत्वं तस्य फलितमित्याह –
इत्यत इति ।

तत्र हेतुमतःशब्देन सूचितमाह –
द्वैतेति ।

यदुपशान्तं ब्रह्मा­भ­य­मि­त्युक्तं तस्याभयत्वे प्रमाणं सूचयति –
यद्विद्वानिति ।

ननु यथोक्तं ब्रह्म प्रकाशते न वा प्रकाशते? प्रकाशते चेदु­पा­या­पे­क्षा­या­म­द्वै­त­व्या­घातः; न चेत्प्रकाशते पुरु­षा­र्थ­त्वा­सि­द्धि­रिति, तत्राऽऽह –
तदेवेति ।

तस्य ब्रह्म­त्व­सि­द्धये परिच्छिन्नत्वं व्यवच्छिनत्ति –
समन्तत इति ॥३५॥

प्रकृतमेव ब्रह्म प्रकारान्तरेण निरूपयति –
अजमित्यादिना ।

न च तस्मि­न्नि­रु­पा­धिके ब्रह्मणि ज्ञाते कर्तव्यशेषः सम्भवतीत्याह –
नेति ।

अजत्वमुपपादयति –
जन्मेति ।

किं तज्जन्मनिमित्तं यद­भा­वा­द­ज­त्व­मु­प­पा­द्यते, तदाह –
अविद्येति ।

कुतस्तर्हि तन्नि­वृ­त्त्याऽ­ज­त्व­सि­द्धि­स्त­त्राऽऽह –
सा चेति ।

निमि­त्त­नि­वृ­त्त्याऽ­ज­त्व­सि­द्धे­र्यु­क्त­म­नि­द्रत्वं निद्रा­श­ब्दे­ना­वि­द्या­भि­ला­पा­दि­त्याह –
अत एवेति ।

विशेषणान्तरं साधयति –
अविद्यालक्षणेति ।

उत्त­र­वि­शे­ष­ण­द्वयं विवृणोति –
अप्रबोधेति ।

ब्रह्मणो नाम­रू­प­व­त्त्वा­भावे प्रमाणमाह –
यत इति ।

विशेषणान्तरमाह –
किं चेति ।

सदा भारूपत्वे हेतुमाह –
अग्रहणेति ।
जीवे ह्युपा­धि­स्थेऽ­हं­रू­प­ग्र­ह­णा­नु­दये तिरोभावः, कर्ताऽ­ह­मि­त्य­न्य­था­ग्र­ह­णो­दये चाऽऽविर्भावो भवति तद­भा­वा­द्भा­स्व­रू­प­मेव सदा ब्रह्मेत्यर्थः।

श्रुत्या­चा­र्यो­प­दे­शा­त्पूर्वं ब्रह्मण्यग्रहणं तदु­प­दे­शा­दूर्ध्वं तद्ग्रहणमिति प्रसिद्धे ब्रह्मण्यपि ग्रहणाग्रहणे स्याता­मि­त्या­श­ङ्क्याऽऽह –
ग्रहणेति ।
यथा सवित्रपेक्षया रात्र्यहनी न स्तः, किन्तू­द­या­स्त­म­य­क­ल्प­नया कल्प्येते; तथा ब्रह्म­स्व­भा­वा­लो­च­नया ग्रहणाग्रहणे न विद्येते, किं तूपाधिद्वारा कल्प्येते। तेन ब्रह्मणः सदा भारू­प­त्व­म­वि­रु­द्ध­मि­त्यर्थः।

इतश्च निरुपाधिकं ब्रह्म सदा­वि­भा­त­मे­षि­त­व्य­मि­त्याह –
तमश्चेति ।
अप्रभातत्व इति च्छेदः। तदभावो ब्रह्मदृष्ट्या तमः­स­म्ब­न्धा­भावः।

उक्तमेव हेतूकृत्य विशेषणान्तरं विशदयति –
अत एवेति ।
विदुषो निरुद्धमनसो ब्रह्म­स्व­रू­पा­व­स्था­न­मु­क्तम्।

ये तु विदुषोऽपि समाध्यादि कर्तव्यमाचक्षते तान्प्रत्याह –
नेहेति ।
एवं विधत्वं निरु­पा­धि­क­त्व­मु­प­चारः समाध्यादिः।

निरुपाधिके ब्रह्मणि विदुषो न कर्त­व्य­शे­षोऽ­स्ती­त्ये­त­मर्थं वैध­र्म्यो­दा­ह­र­णेन साधयति –
यथेत्यादिना ।
अन्ये­षा­म­ना­त्म­वि­दा­मिति यावत्। अविद्यादशायामेव सर्वो व्यवहारो विद्यादशायां चाविद्याया असत्त्वान्न कोऽपि व्यवहारः। बाधि­ता­नु­वृत्त्या तु व्यव­हा­रा­भा­स­सि­द्धि­रि­त्यर्थः॥३६॥

विद्वानेव ब्रह्मे­त्य­ङ्गी­कृत्य प्रकृतं ब्रह्म पुल्लिङ्गत्वेन निर्दिशति –
सर्वेति ।

श्लोकस्य तात्पर्यमाह –
अनामेति ।
अत्रेति प्रकृ­त­प­दो­पा­दाने।

तर्हि सर्व­क­र­ण­व­र्जि­त­त्व­स्या­त्रैव सिद्ध­त्वा­दु­त्त­र­वि­शे­ष­ण­म­न­र्थ­क­मि­त्या­श­ङ्क्याऽऽह –
सर्वबाह्येति ।

बाह्य­क­र­ण­स­म्ब­न्ध­रा­हि­त्य­व­द­न्तः­क­र­ण­स­म्ब­न्ध­रा­हित्यं दर्शयति –
तथेति ।

उभ­य­वि­ध­क­र­ण­स­म्ब­न्ध­वै­धु­र्ये­णाऽऽ­त्मनः शुद्धत्वे प्रमाणामाह –
अप्राण इति ।

कार­ण­स­म्ब­न्ध­रा­हि­त्य­माह –
अक्षरादिति ।
तस्य परत्वं कार्यापेक्षया द्रष्टव्यम्।

उक्तं हेतूकृत्य विशेषणान्तरं विशदयति –
यस्मादिति ।
अस्मिन् परस्मिन्नात्मनि समाधीयते निक्षिप्यते जीव­स्त­दु­पा­धि­श्चेति समाधिः परमात्मा। समाधिनिमित्तया प्रज्ञया तस्या­व­ग­म्य­त्वाद्वा समा­धि­त्व­म­व­ग­न्त­व्यम्।

अत एवेत्युक्तं स्फुटयति –
विक्रियेति ॥३७॥

प्रकृते ब्रह्म­ण्य­वि­क्रिये विधि­नि­षे­धा­धी­न­यो­र्वै­दि­क­योर्वा लौकिकयोर्वा हानो­पा­दा­न­यो­र­न­व­का­श­त्व­मि­त्याह –
ग्रहो नेति ।

मनो­वि­ष­य­त्वा­भा­वाच्च ब्रह्मणि तयोरकाशो नास्तीत्याह –
चिन्तेति ।

यथोक्ते ब्रह्मणि ज्ञाते फलितमाह –
आत्मेति ।

प्रकरणादौ प्रति­ज्ञा­त­मु­प­सं­ह­रति –
अजातीति ।

किमिति लौकिकौ वैदिकौ वा ग्रहोत्सर्गौ ब्रह्मणि न भवतस्तत्राऽऽह –
यस्मादिति ।

उक्त­मे­वा­र्थ­मु­प­पा­द­यति –
यत्र हीति ।

ब्रह्मणि विक्रियाऽभावे हेतुमाह –
विकारेति ।

तस्य विक्रि­या­वि­ष­य­त्वा­भा­वेऽपि हेतुं कथयति –
निर­व­य­व­त्वा­च्चेति ।

विक्रि­या­या­स्त­द्वि­ष­य­त्वस्य चाभावे फलितमाह –
अत इति ।

द्वितीयं पादमवतार्य व्याचष्टे –
चिन्तेत्यादिना ।

तृतीयं पादं विभजते –
यदैवेति ।

चतुर्थपादं व्याकरोति –
अजातीति ।

नन्विदं प्रकरणादावुक्तं किमर्थं पुनरिहोच्यते, तत्राऽह –
यदादाविति ।

ननु ‘ग्रहो न तत्र’ इत्यादौ पूर्वत्र तत्त्व­ज्ञा­न­मुक्तं न त्वकार्पण्यम्, तत्कथमकार्पण्यं वक्ष्या­मी­त्यु­प­क्रा­न्त­स्या­त्रो­प­सं­हारः सम्भ­व­ती­त्या­शङ्क्य तत्त्व­ज्ञा­न­स्यै­वा­का­र्प­ण्य­रू­प­त्वा­दु­क्तो­प­सं­हा­र­सि­द्धि­रि­त्याह –
एतस्मादिति ।

तत्त्व­ज्ञा­ना­ति­रिक्तं ज्ञानं कार्प­ण्य­वि­ष­य­मि­त्यत्र लिङ्गं दर्शयति –
यो वा इति ।

तत्त्व­ज्ञा­न­रा­हित्ये कृपणत्वमुक्त्वा तद्वत्त्वे फलितमाह –
प्राप्येति ॥३८॥

पर­मा­र्थ­ब्र­ह्म­स्व­रू­पा­व­स्था­न­फ­लकं चेदद्वैतदर्शनं किमिति तर्हि सर्वैरेव नाऽऽद्रियते, तत्राऽऽह –
अस्पर्शेति ।

परमार्थतत्त्वं कर्मनिष्ठानां बहिर्मुखाणां दुर्द­र्श­न­मि­त्यत्र हेतुमाह –
योगिन इति ।

यदुक्तं तत्त्वज्ञानं स्वरू­पा­व­स्था­न­फ­ल­क­मिति, तदङ्गीकरोति –
यद्यपीति ।
परमार्थतत्त्वं ब्रह्मेदं प्रत्यग्भूतम् इत्थं प्रागु­क्त­प­रि­पाट्या कूट­स्थ­स­च्चि­दा­न­न्दा­त्मकं यद्यपि तत्त्वज्ञानात् प्राप्यते तथाऽपि मूढास्तन्निष्ठा न भवन्तीति शेषः।

यस्य तत्त्वानुभवस्य स्वरूपावस्थानं फलमुक्तं तमिदानीं विशिनष्टि –
अस्पर्शेति ।
तत्र वर्णा­श्र­मा­दि­ध­र्मेण पापादिमलेन च स्पर्शो न भव­त्य­स्मा­दि­त्य­द्वै­ता­नु­भा­वोऽ­स्पर्शः ।

स एव योगो जीवस्य ब्रह्मभावेन योजनादित्याह –
सर्वेति ।

नामेति निपातस्य पर्यायं गृहीत्वा विवक्षितमर्थमाह –
नामेत्यादिना ।
उपनिषत्सु “न लिप्यते कर्मणा पापकेन”(बृ. उ. ४ । ४ । २३) इत्याद्यासु। दुःखं श्रव­ण­म­न­ना­दि­ल­क्ष­णम्।

योगिशब्दस्य ज्ञानिविषयत्वं व्यावर्तयति –
वेदान्तेति ।

कैस्तर्हि यथो­क्त­स्या­नु­भ­वस्य लभ्य­त्व­मि­त्या­श­ङ्क्याऽऽह –
आत्मेति ।

उत्तरार्धं विभजते –
योगिन इति ।
कर्मिणो हि श्रोत्रिया ब्रह्म­ण्या­द्य­स्माकं नङ्क्षतीति मत्वा तत्त्वज्ञानाद् विभ्यतीत्यर्थः।

अभयनिमित्तमेव तत्त्वज्ञानं मिथ्या­ज्ञा­न­व­शा­द्भ­य­नि­मि­त्तम् पश्यन्तीत्याह –
सर्वेति ।

भयदर्शित्वं विशदयति –
अभयेति ॥३९॥

उत्त­म­दृ­ष्टी­ना­म­द्वै­त­द­र्श­न­म­द्वै­त­दृ­ष्टि­फलं च मनो­नि­रो­ध­मुक्त्वा मन्ददृष्टीनां मनो­नि­रो­धा­धि­न­मा­त्म­द­र्श­न­मु­प­न्य­स्यति –
मनस इति ।
अभ­य­मि­त्य­शे­ष­भ­य­नि­वृ­त्ति­सा­ध­न­मा­त्म­द­र्श­न­मु­च्यते। सर्वयोगिनां सर्वेषां योगिनां कर्मा­नु­ष्ठा­न­नि­ष्ठानां बुद्धि­शु­द्धि­म­ता­मि­त्यर्थः।

मनोनिरोधाधीनं प्रगुक्तमनूद्य तत्फलं कैवल्यं कथयति –
दुःखेति ।

श्लोकस्य विषयं परिशिनष्टि–
येषामिति ।
अभयं भय­रा­हि­त्य­म­सं­त्रा­सा­त्म­क­मि­त्यर्थः। उक्तलक्षणा – शान्ति­र्नि­र­ति­श­या­न­न्दा­भि­व्यक्तिः, स्वभावतो विद्या­स्व­रू­प­सा­म­र्थ्या­दि­त्यर्थः।

विदुषां जीवन्मुक्तानां मुक्तेः सिद्धत्वान्न साध­ना­पे­क्षे­त्याह –
नान्यायत्तेति ।

तत्र वाक्यो­प­क्र­म­म­नु­कू­ल­यति –
नेत्यादिना ।

उत्तमेभ्यो ज्ञान­व­द्भ्योऽ­धि­का­रिभ्यो व्यति­रि­क्ता­न­धि­का­रि­णोऽ­व­ता­र­यति –
ये त्विति ।

योगिनः सुकृ­ता­नु­ष्ठा­यि­न­स्त­द­नु­ष्ठा­ना­देव सन्मा­र्ग­गा­मि­न­स्ते­षा­मपि तत्त्वज्ञानं कथञ्चिदुपजातम् चेदलं मनो­नि­ग्र­हे­णे­त्या­श­ङ्क्याऽऽह –
तेषामिति ।
अभयं तदेव तत्त्वज्ञानम्।

दुःखनिवृत्तिरपि मनो­नि­ग्र­ह­म­पेक्ष्य भवतीत्याह –
किं चेति ।

तदेव व्यतिरेकमुखेण स्फोरयति –
न हीति ।

इतश्च मनो निग्र­ही­त­व्य­मि­त्याह –
किं चेति ।

अभयमित्यत्र सूचितं स्पष्टं विवृणोति –
आत्मेति ।

इतश्च मनो­नि­ग्र­होऽ­र्थ­वा­नि­त्याह –
तथेति ।
तेषां साधकानां मुमुक्षूणामिति यावत् ॥४०॥

कथं मुमुक्षूणां जिज्ञासूनां मनोनिग्रहः सिध्ये­दि­त्या­श­ङ्क्याऽऽह –
उत्सेक इति ।

दृष्टा­न्त­दा­र्ष्टा­न्ति­क­भू­त­श्लो­क­नि­वि­ष्टा­क्ष­राणि व्याचष्टे –
मनोनिग्रहोऽपीति ।
तेषां व्यव­सा­य­व­ता­मु­द्यो­ग­भा­गि­ना­म­नु­द्वे­ग­व­ता­मिति सम्बन्धः।

चक्षुषो निमीलने तमो दृश्यते तस्य चोन्मीलने घटा­द्ये­वो­प­ल­क्ष्यते न कदाचिदपि ब्रह्मे­त्यु­द्वे­ग­प­रि­व­र्ज­नात् प्रागुदीरितानां मनोनिग्रहः सम्भवति, तदाह –
अपरिखेदत इति ॥४१॥

समाधिं कुर्व­त­स्त­त्त्व­सा­क्षा­त्का­र­प्र­ति­ब­न्धका लय­वि­क्षे­प­सु­ख­रा­गा­स्तेभ्यो मनसो वक्ष्यमाणोपायेन निग्रहं कुर्यात् । अन्यथा समा­धि­सा­फ­ल्या­नु­प­प­त्ते­रि­त्याह –
उपायेनेति ।

प्रागु­क्ता­दु­पा­या­देव मनो­नि­ग्र­ह­प­रि­ग्रहे श्रव­णा­दि­वि­ध्या­न­र्थ­क्य­मिति मन्वानः शङ्कते –
किमिति ।

पूर्वो­क्तो­पा­य­वतः श्रव­णा­द्य­नु­ति­ष्ठतो मनोनिग्रहद्वारा तत्त्व­ज्ञा­न­सि­द्धि­रि­त्यु­त्त­र­माह –
नेत्युच्यत इति ।

तृतीयपादं व्याचष्टे –
किं चेति ।
लीयते स्थानद्वयमिति शेषः।

चतु­र्थ­पा­द­मा­का­ङ्क्षा­द्वारा विवृणोति –
सुप्र­स­न्न­मि­त्या­दिना ॥४२॥

उपायेन निगृ­ह्णी­या­दि­त्यु­क्तम्। तमेवोपायं वैरा­ग्य­रू­प­मु­प­दि­शति –
दुःखमिति ।

ज्ञाना­भ्या­सा­ख्य­मु­पा­या­न्त­र­मु­प­न्य­स्यति –
अजमिति ।

अक्ष­र­व्या­ख्या­ना­र्थ­मा­काङ्क्षां निक्षिपति –
कः स इति ।

तत्र पूर्वार्धम् व्याकरोति –
उच्यत इत्यादिना ।
वैराग्यभावना तत्र तत्र द्वैतविषये दोषानुसन्धानेन वैतृ­ष्ण्या­भा­वना। तया कामभोगान्मनो निरो­द्ध­व्य­मि­त्यर्थः।

द्वितीयार्धं ज्ञाना­भ्या­स­वि­षयं व्याकरोति –
अजमित्यादिना ॥४३॥

ज्ञाना­भ्या­स­वै­रा­ग्याभ्यां लया­द्वि­क्षे­पाच्च व्यावर्तितं मनो रागप्रतिबद्धं श्रव­ण­म­न­न­नि­धि­ध्या­स­ना­भ्या­स­प्र­सू­त­स­म्प्र­ज्ञा­त­स­मा­धि­नाऽ­स­म्प्र­ज्ञा­त­स­मा­धि­प­र्य­न्तेन [योजयितुं] ततोऽपि प्रतिबन्धाद् व्याव­र्त­नी­य­मि­त्याह –
लय इति ।

श्लोकाक्षराणि व्याकरोति –
एवमित्यादिना ।
ज्ञानाभ्यासः श्रव­णा­द्या­वृ­त्ति­र्वि­ष­येषु क्षयि­ष्णु­त्वा­दि­दो­ष­द­र्श­नेन वैतृष्ण्यं वैराग्यम्, लयो निद्रा।

सम्प्र­बो­ध­न­मे­वा­भि­न­यति –
आत्मेति ।

मनसि प्रकृते किमिति चित्तमुच्यते, तत्राऽऽह –
चित्तमिति ।
विक्षिप्तं विप्रसृतं शमयेद् व्यावर्तयेदिति यावत्।

पुनरित्यत्र विवक्षितमर्थमाह –
एवमिति ।

उभयतो व्यावर्तितं नमस्तर्हि निर्वि­शे­ष­ब्र­ह्म­रू­पतां गत­मि­त्या­श­ङ्क्याऽऽह –
नापीति ।

अन्त­रा­ला­व­स्थ­म­नसः स्वरूपं तृती­य­पा­दा­व­ष्ट­म्भेन स्पष्टयति –
सकषायमिति ।
रागस्य बीजत्वं परा­ची­न­वि­ष­य­प्र­वृत्तिं प्रति प्रतिपत्तव्यम्।

यथोक्तं मनो ज्ञात्वा किं कर्त­व्य­मि­त्य­पे­क्षा­या­माह –
ततोऽपीति ।
अन्तरालावस्था पञ्चम्या परामृश्यते । लयावस्थादि दृष्टा­न्त­यि­तु­म­पि­शब्दः । यत्नतः सम्प्र­ज्ञा­त­स­मा­धे­रिति यावत्। साम्य­म­स­म्प्र­ज्ञा­त­स­मा­धि­मि­त्यर्थः।

चतु­र्थ­पा­द­स्या­र्थ­माह –
यदा त्विति ।

समा­धि­द्व­य­द्वा­रेण समं निर्विशेषं परिपूर्णं ब्रह्मरूपं प्राप्य मनस्तन्मात्रतया समाप्तं चेद­प्रा­प्त­प्र­ति­षेधः स्यादि­त्या­श­ङ्क्याऽऽह –
समप्राप्तीति ।
ततो निर्वि­शे­ष­व­स्तु­प्रा­प्त्या­भि­मु­ख्या­द­न­न्त­र­मि­त्यर्थः।

किं तन्मनसश्चालनं यत्प्र­ति­षि­ध्यते, तत्राऽऽह –
विषयेति ॥४४॥

समाधित्सायां यत्सु­ख­मु­त्प­द्यते तद्वि­ष­या­भि­ला­षा­दपि मनो निरो­द्ध­व्य­मि­त्याह –
नाऽऽस्वादयेदिति ।
तत्रेति समा­ध्य­व­स्थो­च्यते।

किं तु तस्यामवस्थायां सुखं यदुपलभ्यते तद­ज्ञा­न­वि­जृ­म्भितं मिथ्यैवेति प्रज्ञया विवेकज्ञानेन निःस्पृहः सन् भावयेदित्याह –
निस्सङ्ग इति ।

किं च यच्चित्तं प्राची­न­वै­रा­ग्या­द्यु­पा­येन निश्चलं प्रत्य­गा­त्म­प्र­वणं प्रसाधितं तद्यदि स्वभावानुसारेण बहि­र्नि­र्ग­न्तु­मि­च्छेत् तदा सम्प्र­ज्ञा­त­स­मा­धे­र­स­म्प्र­ज्ञा­त­स­मा­धि­प­र्य­न्ता­त्प्र­य­त्नात् तदा­त्म­न्ये­वै­की­कृत्य तन्मात्रमापाद्य परि­शु­द्ध­प­रि­पू­र्ण­ब्र­ह्मा­त्मकः स्वयं तिष्ठेदित्याह –
निश्चरदिति ।

प्रथ­म­पा­दा­क्ष­राणि योजयति –
समाधित्सत इति ।
तस्य समा­ध्य­व­स्था­या­मिति शेषः।

द्विती­य­पा­द­मा­का­ङ्क्षा­द्वारा विवृणोति –
कथमित्यादिना ।
निःस्पृहो यथोक्ते सुखेऽनुरागरहितः सन्नित्यर्थः। विवेकरूपा बुद्धि­रा­ग­न्तु­कस्य रज्जु­स­र्प­व­त्क­ल्पि­त­त्व­मि­त्ये­व­मा­त्मिका, तया भावयेदिति सम्बन्धः।

भाव­ना­प्र­का­र­म­भि­न­यति –
यदित्यादिना ।

प्रथ­मा­र्ध­स्या­क्ष­रा­र्थ­मुक्त्वा तात्पर्यार्थं निगमयति –
ततोऽपीति ।

उत्तरार्धं विभजते –
यदेत्यादिना ।
पूर्वो­क्त­स­मा­ध्य­नु­रो­धा­दा­त्म­न्येव निश्चलस्वभावं सच्चित्तं यथोक्तं सुखरागनिमित्तं तदु­पा­य­रा­ग­नि­मित्तं वा निश्चरद्भवतीति सम्बन्धः। तच्च चित्तं बाह्य­वि­ष­या­भि­मु­ख्या­दु­क्तो­पा­येन ज्ञाना­भ्या­सा­दिना व्याव­र्त्याऽऽ­त्म­न्येव परस्मिन् ब्रह्मणि प्रयत्नतः सम्प्र­ज्ञा­त­स­मा­धि­व­शा­दे­की­कु­र्यात्। अस­म्प्र­ज्ञा­त­स­मा­धि­युक्तं परिपूर्णं ब्रह्मै­वाऽऽ­पा­द­ये­दि­त्यर्थः।

तदेव स्पष्टयति –
चित्स्वरूपेति ॥४५॥

कदा पुनरिदं चित्तं ब्रह्म­मा­त्र­मा­प­द्यते, तत्राऽऽह –
यदेति ।
त्रिवि­ध­प्र­ति­ब­न्ध­वि­धुरं विषयाकाररहितं यदा चित्तमवतिष्ठते तदा ब्रह्म सम्पन्नं भवतीत्यर्थः।

अक्षराणि व्याचष्टे –
यथो­क्ते­ने­त्या­दिना ।
उपायो ज्ञाना­भ्या­सादिः। निगृहीतं विषयेभ्यो विमुखीकृतं न लीयते, न निद्रापारवश्येन कारणात्मतां गतमित्यर्थः। अचलं रागा­दि­वा­स­ना­शू­न्य­मि­त्यर्थः।

अचलत्वे दृष्टान्तः –
निवातेति ।
किं तु ब्रह्मा­का­रे­णे­त्येव लक्षणं चित्तं यदा सम्पद्यते तदेति योजना।

निष्पन्नं ब्रह्मे­त्यु­क्त­मेव स्फुटयति –
ब्रह्म­स्व­रू­पे­णेति ॥४६॥

अस­म्प्र­ज्ञा­त­स­मा­ध्य­व­स्थायां येन रूपेण चित्त­म­भि­नि­ष्प­द्यते तद् ब्रह्मस्वरूपं विशिनष्टि –
स्वस्थमिति ।
ज्ञेये­ना­व्य­ति­रि­क्त­मिति शेषः ।

तत्र विदुषां संमतिमुदाहरति –
सर्वज्ञमिति ।
यथो­क्त­मि­त्य­स­म्प्र­ज्ञा­त­स­मा­धि­ल­क्षणं ब्रह्मेत्यर्थः।

तस्य पर­म­पु­रु­षा­र्थ­रू­प­ता­माह –
सुखमिति ।
वैषयिकं सुखं व्यवच्छेत्तुं परमार्थेति विशेषणम्।

किं तत्र ज्ञाने­ने­त्या­श­ङ्क्याऽऽह –
आत्मेति ।
तस्य सत्य­स्या­ग­मा­चा­र्या­नु­सा­रिणा बोधेन लक्ष्यते प्राप्यते ब्रह्मेति तथोच्यते।

तस्य स्वम­हि­म­प्र­ति­ष्ठ­त्व­माह –
स्वात्मनीति ।

सर्वस्य त्रिवि­ध­स्या­न­र्थ­स्यो­प­श­मे­नो­प­ल­क्षि­त­त्वा­दपि पुरु­षा­र्थ­त्वा­सि­द्धि­रि­त्याह –
सर्वेति ।
निर­ति­श­या­न­न्दा­भि­व्य­क्ति­र्नि­र­व­शे­षा­न­र्थो­च्छि­त्ति­श्चे­त्ये­वं­ल­क्षणं मोक्षमाचक्षते।

तत्कथमिदं ब्रह्मे­त्या­श­ङ्क्याऽऽह –
सनिर्वाणमिति ।

तस्य क्षीर­गु­डा­दि­मा­धु­र्य­भे­द­स्येव स्वानु­भ­व­मा­त्रा­धि­ग­म्य­त्वा­द­वा­च्य­त्व­माह –
तच्चेति ।

यदुक्तं परमार्थसुखमिति, तदि­दा­नी­मु­प­पा­द­यति –
सुखमिति ।

तर्हि सर्वेषामेव तद् भूया­दि­त्या­श­ङ्क्याऽऽह –
योगीति ।

ज्ञान­स्या­जा­तत्वे वैध­र्म्य­दृ­ष्टा­न्त­माह –
यथेति ॥४७॥

उक्ता­ना­मु­पा­यानां परमार्थसत्यत्वे सत्यद्वैतहानिः। अन्यथा तद­प्र­मि­ति­रि­त्या­श­ङ्क्याऽऽह –
न कश्चिदिति ।

तत्र हेतुमाह –
सम्भवोऽस्येति ।

श्लोकाक्षराणि व्याकर्तुं भूमिकां व्याकरोति –
सर्वोऽपीति ।

व्याव­हा­रि­क­स­त्य­त्व­मे­वो­पा­यानां न पर­मा­र्थ­स­त्य­त्व­मि­त्य­ङ्गी­कृत्य पार­मा­र्थि­क­स­त्यस्य प्रति­प­त्त्यु­पा­य­त्वे­नै­वो­क्ते­त्याह –
मृदिति ।

यदुक्तं मनोनिग्रहादीनां पर­मा­र्थ­त्वेऽ­द्वै­त­हा­नि­रिति, तत्राऽऽह –
नेत्यादिना ।
तेषा­म­प­र­मा­र्थत्वे कथ­म­द्वै­त­प्र­ति­प­त्ति­रि­त्यपि न, व्याव­हा­रि­क­स­त्या­ना­मपि तत्प्र­मि­ति­हे­तु­त्वस्य प्रति­बि­म्ब­व­दु­प­प­त्ते­रिति भावः।

उपायानां व्याव­हा­रि­क­स­त्य­त्वे­नैव पारमार्थिकं सत्यत्वं किं न स्यादिति, तत्राऽऽह –
परमार्थेति ।

तदेव स्पष्टयति –
कर्तेति ।
स्वभावतोऽऽजत्वं हेतूकर्तव्यम्।

तत्रैव हेत्वन्तरमाह –
अत इति ।

हेत्वन्तरमेव स्पष्टयति –
यस्मादिति ।

उत्तरार्धं व्याचष्टे –
पूर्वेष्विति ।
पूर्वेषु ग्रन्थेष्विति शेषः । इति­श­ब्दोऽ­द्वै­त­प्र­क­र­ण­प­रि­स­माप्तिं द्योतयति॥४८॥