आनन्दगिरिटीका (माण्डूक्य)
अलातशान्तिप्रकरणम् (१)
आद्यन्तमध्यमङ्गला ग्रन्थाः प्रचारिणो भवन्तीत्यभिप्रेत्याऽऽदावोङ्कारोच्चारणवदन्ते परदेवताप्रणामवन्मध्येऽपि परदेवतारूपमुपदेष्टारं प्रणमति –
ज्ञानेनेति ।
पूर्वोत्तरप्रकरणसम्बन्धसिद्ध्यर्थं पूर्वप्रकरणत्रये वृत्तमर्थं क्रमादनुद्रवति –
ओङ्कारेति ।
अद्वैत इत्यद्वैतोपलक्षितं तृतीयं प्रकरणमुच्यते।
चतुर्थं प्रकरणमवतारयितुमुपयुक्तमर्थान्तरमनुवदति –
तस्येति ।
द्वैतिनो भेदवादिनो वैनाशिकव्यतिरिक्ता गृह्यन्ते। वैनाशिका नैरात्म्यवादिनः। रागद्वेषादीत्यादिशब्देनातिरिक्तक्लेशोपादानम्।
पक्षान्तराणां मिथ्यादर्शनत्वसूचनं कुत्रोपयुज्यते, तत्राऽऽह –
क्लेशेति ।
पातनिकामेवं कृत्वा समनन्तरप्रकरणप्रवृत्तिं प्रतिजानीते –
तदिहेति ।
तदसम्यग्दर्शनत्वमिति सम्बन्धः। आवीतन्यायो व्यतिरेकन्यायः। यथा यत्कृतकं तदनित्यमित्यन्वयादनित्यत्वेऽवगतेऽपि यन्नानित्यं न तत्कृतकमिति व्यतिरेकोऽपि व्यभिचारशङ्कानिरासित्वेन व्याप्तिनिश्चयार्थमिष्यते। तथा तर्कतः सम्भावितस्याऽऽगमेनावगतस्यापि प्रतिपक्षभूतवादान्तरापाकरणप्रपञ्चमन्तरेण पाक्षिकासम्यक्त्वशङ्का स्यादद्वैतदर्शनस्येति तत्प्रतिषेधेन तत्सिद्धिरुपसंहर्तव्येत्यलातशान्तिदृष्टान्तोपलक्षितमारभ्यते प्रकरणमित्यर्थः। विशेषेण स्पष्टमितो वीतः, स न भवतीत्यवीतः। अवीत एवाऽवीतः। तेन न्यायेन व्यतिरेकेणेति यावत्।
प्रकरणस्य तात्पर्यमेवं दर्शयित्वा प्रथमश्लोकस्य तात्पर्यमाह –
तत्रेति ।
तत्र चतुर्थप्रकरणं सप्तम्यां परामृश्यते।
किमित्यद्वैतरूपेणाऽऽचार्यो नमस्क्रियते, तत्राऽऽह –
आचार्येति ।
अभिप्रेतार्थः शास्त्रस्याविध्नेन परिसमाप्तिस्तदर्थे विप्रतिपत्त्यादिव्यावृत्तिश्च। आकाशस्य जडत्वाधिक्याज्ज्ञानं स्वप्रकाशमाकाशेनेषदसमाप्तं वक्तव्यम्। विभुत्वादावुपमा द्रष्टव्या। बहुवचनमुपाधिकल्पितभेदाभिप्रायम्।
तेषामपि चिन्मात्रत्वं विवक्षित्वोक्तम् –
ज्ञानस्यैवेति ।
तेनेत्यादि पुनरनुवादेनान्वयमन्वाचष्टे। आचार्यो हि पुरा बदरिकाश्रमे नरनारायणाधिष्ठिते नारायणं भगवन्तमभिप्रेत्य तपो महदतप्यत। ततो भगवानतिप्रसन्नस्तस्मै विद्यां प्रादादिति प्रसिद्धं परमगुरुत्वं परमेश्वरस्येति भावः।
ननु प्रकरणे प्रारभ्यमाणे प्रतिपाद्ये प्रमेये वक्तव्ये किमित्युपदेष्टा नमस्क्रियते तत्राऽऽह –
उपदेष्ट्रिति ॥१॥
इदानीमद्वैतदर्शनयोगस्तुतये तन्नमस्कारं प्रस्तौति –
अस्पर्शेति ।
श्लोकस्य तात्पर्यमाह –
अधुनेति ।
तस्य च स्तुतिस्तत्साधनेषु प्रवृत्तावुपयुज्यते।
सम्प्रत्यक्षराणि व्याकुर्वन्नस्पर्शयोगशब्दं व्याकरोति –
स्पर्शनमिति ।
योगस्यान्यसम्बन्धप्रसङ्गाभावात् कथमस्पर्शत्वमित्याशङ्क्याऽऽह –
ब्रह्मेति ।
निपातयोरर्थं कथयति –
वै नामेति ।
सर्वेषां सत्त्वानां देहभृतां सुखयतीति व्युत्पत्त्या सुखहेतुत्वं ब्रह्मस्वभावस्य सुखविशेषणेन दर्शयति –
स चेति ।
सुखहेतावपि ब्रह्मस्वभावे विवक्षितं विशेषं दर्शयति –
भवतीति ।
हितविशेषणस्य तात्पर्यमाह –
तथेह भवतीत्यादिना ।
तस्य हितत्वे हेतुमाह –
नित्यमिति ।
तस्यैव विशेषणान्तरमाह –
किं चेति ।
तत्र हेतुं प्रश्नपूर्वकमाह –
कस्मादिति ।
आत्मप्रकाशत्वाद् ब्रह्मस्वभावस्याविरुद्धत्वम्। न हि कस्याचिदात्मप्रकाशो विरुद्धो भवतीत्यर्थः।
यथोक्तयोगज्ञानमार्गस्य सम्प्रदायागतत्वमाह –
य ईदृश इति ।
तन्नमस्कारव्याजेन तस्य स्तुतिस्तदुपायेषु श्रोतृप्रवृत्त्यर्थमत्र विवक्षितेत्याह –
तं नमामीति ॥२॥
अद्वैतदर्शनस्याविरुद्धत्वेनाविवादत्वं विशदीकर्तुं द्वैतिनां विवादं तावदुदाहरति –
भूतस्येति ।
एवं विरुद्धं वदन्तो मिथो जेतुमिच्छन्तीत्याह –
विवदन्त इति ।
प्रश्नपूर्वकं श्लोकाक्षराणि योजयति –
कथमित्यादिना ।
एवकारार्थे हेतुमाह –
यस्मादिति ।
प्राज्ञाभिमानिनो जातिमिच्छन्तीति पुर्वेण सम्बन्धः।
चतुर्थपादं साध्याहारं व्याकरोति –
विवदन्त इति ॥३॥
पक्षद्वयनिषेधमुखेन सिद्धमर्थं कथयति –
भूतमित्यादिना ।
श्लोकाक्षरव्याख्यानार्थमाकाङ्क्षां निक्षिपति –
तैरिति ।
तत्राऽऽद्यं पादमवतार्य व्याकरोति –
उच्यत इति ।
द्वितीयपादं विभजते –
तथेति ।
द्वितीयार्धं विभजते –
विवदन्त इत्यादिना ।
सदसदतिरिक्तवस्त्वभावाद् वस्तुत उत्पत्तेरनुपपत्तिरित्याह –
अर्थादिति ॥४॥
तर्हि प्रतिवादिभिरुक्तत्वादजातिरपि भवता प्रत्याख्येयेत्याशङ्क्याऽऽह –
ख्याप्यमानामिति ।
प्रतिवादिभिः सह विवादाभावे फलितमाह –
अविवादमिति ।
अक्षराणि व्याचष्टे –
तैरित्यादिना ।
अद्वैतवादिनो द्वैतवादिभिर्विवादाभावे वैधर्म्यदृष्टान्तमाह –
यथा त इति ।
चतुर्थपादार्थमाह –
अत इति ॥५॥
जातस्यैव जन्मन आनर्थक्यादनवस्थानाच्चाजातस्यैव पदार्थस्य जन्म सद्वादिनोऽसद्वादिनश्च सर्वेऽपि स्वीकुर्वन्तीति परपक्षमनुवदति –
अजातस्येति ।
तत्र शिष्टाभीष्टदोषं प्रदर्श्याभ्यनुजानाति –
अजातो हीति ।
के ते वादिनो यैरेवमिष्यते, तत्राऽऽह –
सदसदिति ।
अवशिष्टानि श्लोकाक्षराणि व्याख्यातत्वान्न पुनर्व्याख्यानसापेक्षाणीत्याह –
पुरस्तादिति ॥६॥
परिणामिब्रह्मवादे यदब्रह्मवादिभिर्दूषणमुच्यते तदप्यनुज्ञातमेवेति मत्वाऽऽह –
न भवतीति ।
अमृतं हि ब्रह्म न तद्रूपे स्थिते मर्त्यं भवितुमर्हति, स्थितरूपविरोधात्। न च मर्त्यं कार्यं स्वरूपे स्थिते प्रलयावस्थायाममृतं ब्रह्म सम्पद्यते।
नष्टेऽपि स्वरूपे तस्यैवाभावान्नान्यथात्वमित्यभिप्रेत्याऽऽह –
प्रकृतेरिति ।
किं च तस्य परिणामवादिनः स्वभावेनामृतः सन् परमात्माख्यो धर्मशब्दितो भावो मर्त्यतां कार्यभावापत्त्या गच्छति तस्य कृतकेन समुच्चयानुष्ठानेनामृतो जातो मुक्तो वक्तव्यः। स च कथं निश्चलः स्थातुं पारयति।
यत्कृतकं तदनित्यमिति न्यायविरोधादित्याह –
स्वभावेनेति ।
पुनरुक्तिमाशङ्क्य प्रत्यादिशति –
उक्तार्थानामिति ॥७–८॥
प्रकृतेरन्यथाभावो न कथञ्चिदित्युक्तं तत्र प्रकृतिशब्दार्थं कथयति –
सांसिद्धिकीति ।
श्लोकाक्षराणि व्याकुर्वन् प्रकृतेरन्यथात्वाभावे हेतुमाह –
यस्मादिति ।
तस्मादजाऽमृतस्वभावा प्रकृतिर्न विपर्येतीति किमु वक्तव्यमिति योजना। कैमुतिकन्यायद्योतनार्थोऽपिशब्दः।
विवक्षितं हेतुं स्फुटयितुं प्रश्नपूर्वकं विभजते –
काऽसावित्यादिना ।
साङ्गयोगमनुष्ठाय परिसमापनं संसिद्धिः। सिद्धानामणिमाद्यैश्वर्यप्राप्तौ सामग्रीसम्पन्नानाम्। या काचित् स्वभावं न जहाति घटस्य घटत्वं पटस्य पटत्वमित्यादिकेति शेषः।
प्रासङ्गिकं प्रकृतिशब्दार्थमुक्त्वा प्रकृतेरन्यथात्वाभावे प्रागुक्ते स्वसिद्धान्ते यत्फलति तदिदानीं किंपुनर्न्यायेन कथयति –
मिथ्येति ॥९॥
प्रासङ्गिकीमेव जीवानां प्रकृतिं दर्शयितुं प्रक्रमते –
जरेति ।
आत्मनो हि सर्वविक्रियारहिताः स्वभावतो भवन्तीत्यर्थः।
तेषामुक्तप्रकृतेरन्यथात्वे का क्षतिरित्याशङ्क्याऽऽह –
जरामरणमिति ।
सर्वविक्रियाशून्ये स्वात्मनि विक्रियाकल्पनायां तद्वासनया स्वभावहानिः स्यादित्यर्थः।
श्लोकाक्षराणि व्याकर्तुमाकाङ्क्षां दर्शयति –
किंविषयेति ।
आश्रयविषयो विषयशब्दः।
अप्रकृतं प्रकृतेराश्रयनिरूपणमित्याशङ्क्याऽऽह –
यस्या इति ।
प्रश्नान्तरं प्रकरोति –
कल्पनायामिति ।
तत्र पूर्वार्धमुत्तरत्वेन व्याकरोति –
आहेत्यादिना ।
उत्तरार्धं विभजते –
एवंस्वभावा इति ॥१०॥
प्रासङ्गिकं परित्यज्य साङ्ख्यपक्षे वैशेषिकादिभिरुच्यमानं दूषणमभ्यनुज्ञातमनुभाषते –
कारणमिति ।
कारणस्य जायमानत्वे का हानिरित्याशङ्क्याऽऽह –
जायमानमिति ।
सावयवत्वाच्च प्रधानस्य नित्यत्वानुपपत्तिरित्याह –
भिन्नमिति ।
श्लोकस्य तात्पर्यमाह –
कथमिति ।
यत्र प्रथमपादाक्षराणि योजयति –
कारणमित्यादिना ।
तदेव स्पष्टयति –
कारणमेवेति ।
द्वितीयपादं विभजते –
तस्येति ।
प्रधानादीत्यादिशब्देन तदवयवाः सत्त्वादयो गृह्यन्ते । महदादीत्यादिशब्देनाहङ्कारादिग्रहणम्।
तृतीयपादं व्याकरोति –
महदादीति ।
विप्रतिषेधं विशदयति –
जायत इति ।
चतुर्थपादार्थमाह –
नित्यं चेति ।
विमतमनित्यं सावयवत्वाद् घटादिवदित्यभिप्रेत्य दृष्टान्तं साधयति –
न हीति ।
सङ्ख्यस्मृतिविरुद्धमनुमानमित्याशङ्क्याऽऽह –
विदीर्णं चेति ॥११॥
किं च कार्यकारणयोरभेदे किं कारणाभिन्नं कार्यम्? किं वा कार्यभिन्नं कारणमिति विकल्प्याऽऽद्यमनुवदति –
कारणादिति ।
अतोऽस्मिन्पक्षे कार्यमजं स्यात्, तथाविधकारणाभिन्नत्वादिति दूषयति –
अत इति ।
द्वितीयमनुद्रवति –
यदीति ।
जायमानात्कार्यात् कारणमभिन्नं यदीति योजना।
न तर्हि कारणं ध्रुवं भवितुमर्हति कार्याभिन्नत्वात् तस्य चाध्रुवत्वादिति दूषयति –
कारणमिति ।
श्लोकस्य तात्पर्यमाह –
उक्तस्येति ।
कार्यकारणयोरभेदवादे विप्रतिषेधो दर्शितः। तस्यैव दृढीकरणार्थमयं श्लोक इत्यर्थः।
पुर्वार्धाक्षरोत्थमर्थमाह –
कारणादिति ।
प्राप्तेरनिष्टपर्यवसायित्वमाह –
इदं चेति ।
प्रधानस्याजत्वं जायमानत्वं च विप्रतिषिद्धमित्युक्तम्।
अन्यदित्युक्तमेव व्यनक्ति –
कार्यमिति ।
अभेदेऽपि मायावादे नैष दोषः, कारणस्य कार्यादनन्यत्वानभ्युपगमात्, कार्यस्यैव कारणमात्रत्वाङ्गीकारादिति मत्वाऽऽह –
तवेति ।
द्वितीयार्धं विभजते –
किं चान्यदिति ।
अभेदवादेऽपि कार्यस्यानित्यत्वं कारणस्य नित्यत्वमिति व्यवस्था किमिति न भवतीत्याशङ्क्याऽऽह –
न हीति ॥१२॥
किं च यस्य प्रधानवादिनो मते प्रधानादजादभिन्नं कार्यं जायते महादादीत्यभ्युपगम्यते तस्य पक्षे तस्मिन्नर्थे दृष्टान्तो वक्तव्यः, तदवष्टम्भेनैव तेनार्थव्यवस्थापनात्। न चात्रोभयसम्प्रतिपन्नो दृष्टान्तो दृष्टोऽस्तीत्याह –
अजादिति ।
यद्यजान्नित्याद् वस्तुनो जायमानमभ्युपगन्तुं न शक्यते तर्हि जातादेव जायमानमभ्युपगम्यतामित्याशङ्क्याऽऽह –
जाताच्चेति ।
साङ्ख्यसमये दोषान्तरप्रदर्शनपरत्वं श्लोकस्य प्रतिजानीते –
किं चान्यदिति ।
तत्र पूर्वार्धाक्षराणि योजयति –
अजादिति ।
दृष्टान्ताभावेऽपि प्रमाणान्तरादर्थप्रतिपत्तिर्भविष्यतीत्याशङ्क्याऽऽह –
दृष्टान्तेति ।
परस्य खल्वनुमानाधीनमर्थपरिज्ञानम्। न च दृष्टान्ताभावेऽनुमानमवकल्पते। तस्मान्न साङ्ख्यसमयः सम्भवतीत्यर्थः।
द्वितीयार्धं व्याचष्टे –
यदा पुनरित्यादिना ॥१३॥
द्वैतवादिभिरन्योन्यपक्षप्रतिक्षेमुपखेन ख्यापितं वस्तुनोऽजन्यत्वमद्वैतवादिनाऽभ्यनुज्ञातम्; इदानीं द्वैतनिरसनमपि श्रौतं विद्वदनुभवानुसारित्वात् तेनाभ्यनुज्ञातमेवेत्याह –
हेतोरिति ।
हेतुफलात्मकः संसारोऽनादिरिति वदद्भिस्तस्यानादित्वस्वभावो नैव वक्तुं शक्यते। हेतुफलयोरादिमत्त्वस्य कण्ठोत्कत्वादतो हेतुफलात्मकं द्वैतमनिरूपित रूपमवस्तुभूतमित्यर्थः।
श्लोकस्य तात्पर्यमाह –
यत्र त्विति ।
तमाश्रित्य कार्यकारणात्मकस्य द्वैतस्य दुर्निरूपत्वमाहेति योजना।
हेतुफलयोरात्मपरिणामत्वादादिमत्त्वमुपादानरूपेण चानादित्वमित्याशङ्क्याऽऽत्मनो निरंशस्य कूटस्थस्य नित्यस्य परिणामानुपपत्तेर्मैवमित्याह –
न हीति ॥१४॥
हेतुफलयोरन्योन्यमादिमत्त्वं ब्रुवता तदात्मकस्य संसारस्यानादित्वं विप्रतिषिद्धमित्युपपादितम्। सम्प्रति कार्यकारणभावोऽपि तयोर्न सम्भवतीत्याह –
हेतोरित्यादिना ।
हेतुफलयोरन्योन्यं कारणत्वमभ्युपगच्छद्भिरभ्युपगम्यते विरुद्धमित्येतत् प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।
ईदृशत्वमेव विशदयति –
यथेति ॥१५॥
प्रतीतितो हेतुफलयोरुत्पत्तेरुपगन्तव्यत्वान्न युक्तं तन्निराकरणमित्याशङ्क्याऽऽह –
सम्भव इति ।
तयोरुदये प्रातीतिके नियतपूर्वभावी हेतुर्नियतोत्तरभावि फलमित्यभ्युपगमे हेतुमाह –
युगपदिति ।
यथोक्तो विरोधो हेतुफलभावस्यासम्भवः, स न युक्तोऽभ्युपगन्तुं प्रतीतिविरोधादिति व्यावर्त्यां शङ्कामनुवदति –
यथेति ।
तत्रोत्तरत्वेन श्लोकाक्षराणि योजयति –
सम्भव इति ।
प्रतीत्या क्रमस्वीकारवदुपपत्तेश्चेत्याह –
इतश्चेति ।
तामेवोपपत्तिं स्फोरयति –
युगपदिति ।
ययोर्युगपत्सम्भवस्तयोर्न कार्यकारणत्वं यथा विषाणयोरिति व्याप्तेर्व्यक्तत्वात् क्रमस्याऽऽवश्यकतेत्यर्थः॥१६॥
उक्तव्याप्तेरनुग्राहकं तर्कमुपन्यस्यति –
फलादिति ।
हेतुफलयोर्मिथो हेतुफलत्वं ब्रुवतो मते हेत्वधीनतयाऽलब्धात्मकात् फलादुत्पद्यमानो हेतुर्न ततो लब्धात्मको भवत्यलब्धात्मकश्चासत्त्वान्न फलमुत्पादयितुं शक्नोति। अतो हेतुफलभावस्यैवासिद्धिरित्यर्थः।
हेतुफलयोरक्रमवतोर्न कार्यकारणभावेन सम्भन्धः सिध्यतीत्येतदाकाङ्क्षापूर्वकं साधयति –
कथमित्यादिना ।
स्वतो हेतुस्वरूपाज्जन्यं फलं तदधीनत्वेन लब्धात्मकं स्वतश्चालब्धात्मकम्। तत उत्पद्यमानः सन्नेष हेतुर्न प्रसिध्यति। न खलु शशविषाणादेरसतः सकाशात् किञ्चिल्लब्धात्मकमुपलभ्यते। हेतुश्चेदप्रसिद्धोऽलब्धात्मकोऽभ्युपगतः स तर्हि तथाविधोऽसद्रूपः सन्न फलमुत्पादयितुमुत्सहते। न हि सद्वादिमते फलमसतः सकाशादुपलब्धचरमित्यर्थः।
तथाऽपि कथं हेतुफलयोरसम्बन्धः सिध्यतीत्याशङ्क्याऽऽह –
न हीति ।
अन्यथा वेत्याधाराधेयभावादिकथनम्॥१७॥
हेतुफलयोर्यौगपद्ये सत्यन्यतरस्यापि न पूर्वक्षणे सत्तेत्यसतोः शशविषाणयोरिवान्योन्यापेक्षया जन्यजनकत्वं नोपपद्यते, शशविषाणादिष्वपि प्रसङ्गादित्युक्तम्। इदानीं “पुण्यो वै पुण्येन कर्मणा भवति”(बृ. उ. ३ । २ । १३) इत्यादिश्रुतेर्धर्मादिषु हेतुफलभावमाशङ्क्य श्रुतेरसम्भावितार्थे प्रामाण्यायोगादवश्यं पौर्वापर्यं वक्तव्यमित्याह –
यदीति ।
श्लोकाक्षराणि योजयति –
असम्बन्धतेत्यादिना ॥१८॥
हेतुफलयोरिदं पूर्वमिदं पश्चादिति न ज्ञायते, परस्पराश्रयात्। अतश्चेदं पूर्वनिष्पन्नमिति वक्तुमशक्यमित्याह –
अशक्तिरिति ।
उत्तरावसरे चेदुत्तरापरिज्ञानं तर्हि कथकाशक्तिसूचकं तन्निग्रहस्थानमप्रतिभाभिधानीयमापततीत्यर्थः। किं च यदि क्रमस्य नियतपूर्वापरभावात्मनोऽपरिज्ञानं सदा पूर्वं कारणमुत्तरं कार्यमिति प्रतिज्ञा हीयेत।
तथा च प्रतिज्ञाहानिर्निग्रहान्तरमापद्येतेत्याह –
क्रमेति ।
अन्योन्यपक्षप्रतिक्षेपमुखेन सतोऽसतश्च जन्मनी प्रत्याख्याते।
क्रमाक्रमाभ्यामुत्पत्तेरनुपपत्तेरजातिरेवास्मदभिप्रेता वादिभिरादर्शिता भवतीत्युपसंहरति –
एवं हीति ।
तत्राद्यं पादं व्याकरोति –
अथेत्यादिना ।
क्रमपक्षे पूर्वनिष्पन्नमेतच्छब्देन परामृश्यते।
द्वितीयपादं योजयति –
अथेवेत्यादिना ।
द्वितीयार्धं विवृणोति –
एवमिति ॥१९॥
बीजाङ्कुरयोरिव हेतुफलयोरन्योन्यं कार्यकारणभावाभ्युपगमान्नान्योन्याश्रयत्वमित्याशङ्क्याऽऽह –
बिजेति ।
दृष्टान्तस्य साध्यसमत्वेऽपि साधकत्वमस्त्वित्याशङ्क्याऽऽह –
न हीति ।
श्लोकापोद्यं चोद्यमुद्भावयति –
नन्विति ।
शब्दमात्रं विवक्षितार्थशून्यम्।
शब्दमाश्रित्य च्छल्प्रयोगमेवोदाहरति –
पुत्रादिति ।
आदिशब्देन ‘फलादुत्पद्यमानः सन्न ते हेतुः प्रसिध्यति’(मा. का. ४ । १७) इत्यादि गृह्यते।
कार्यकारणभावो हेतुफलयोरित्यत्रानभिप्रेतमर्थं कथयति –
न हीति ।
तत्रैव प्रश्नपूर्वकमभिप्रेतमर्थमुदाहरति –
किं तर्हीति ।
दृष्टान्तासम्प्रतिपत्त्या परिहरति –
अत्रेति ।
मायावादिमते क्वचिदपि कार्यकारणभावस्य वस्तुभूतस्यासम्प्रतिपत्तेर्ममेत्युक्तम् ।
प्रत्यक्षावष्टम्भेन दृष्टान्तं साधयन्नाशङ्कते –
नन्विति ।
किं बीजाङ्कुरव्यक्त्योरिदं कार्यकारणत्वमिष्यते किं वा बीजाङ्कुरसन्तानयोरिति विकल्प्याऽऽद्यं दूषयति –
न पूर्वस्येति ।
तदेव प्रपञ्चयति –
यथेत्यादिना ।
बीजव्यक्तेरङ्कुरव्यक्तेश्चोक्तप्रकारेणानादित्वस्यान्योन्यकारणत्वस्य चानुपपत्तिरिति शेषः।
कल्पन्तरमुत्थापयति –
अथेति ।
बीजसन्ततेरङ्कुरसन्ततेश्चानादित्वमन्योन्यकारणत्वं चाविरुद्धं सिध्यति। बीजजातीयादङ्कुरजातीयमङ्कुरजातीयाद् बीजजातीयमुत्पद्यमानमुपलभ्यते। तथैव हेतुजातीयात्फलजातीयं फलजातीजाच्च हेतुजातीयमविरुद्धमित्यर्थः।
दृष्टान्ते दार्ष्टान्तिके च सन्ततेरेकस्या व्यक्तेर्व्यतिरेकेणासम्भवान्मैवमिति दूषयति –
नेत्यादिना ।
तदेव प्रपञ्चयति –
न हीति ।
तदनादित्ववादिभिः तासु व्यक्तिषु मिथो हेतुत्वमनादित्वं तद्वदनशीलैरिति यावत्।
अन्योन्याश्रयत्वादनवस्थानाद्वा हेतुफलयोर्मिथो हेतुफलभावस्य वक्तुमशक्यत्वाद् दृष्टान्तदार्ष्टान्तिकयोरनुपपत्तिः सिद्धेत्युपसंहरति –
तस्मादिति ।
दृष्टान्तस्यासम्प्रतिपन्नत्वे स्थिते कार्यकारणस्य क्वचिदपि सम्प्रतिपत्त्यभावात् पुत्राज्जन्म पितुर्यथेत्यादि न च्छलप्रयुक्तमिति फलितमाह –
तथा चेति ।
एवं श्लोकस्य पूर्वार्धं व्याख्यायोत्तरार्धं व्याचष्टे –
न चेति ।
किमिति हेतुशब्दस्य मुख्यमर्थं त्यक्त्वा गौणोऽर्थो गृह्यते? प्रकरणसामर्थ्यादित्याह –
प्रकृतो हीति ।
हेतुफलभावानुपपत्तिमुपपादितामुपसंहर्तुमितिशब्दः॥२०॥
यत्पुनरन्योन्यपक्षं प्रतिक्षिपद्भिरजातिर्वस्तुतो ज्ञापिता परीक्षकैरित्युपक्षिप्तं तत्र कथमजातिर्वस्तुतो ज्ञापितेत्याशङ्क्याऽऽह –
पूर्वापरेति ।
कार्यस्य गृह्यमाणत्वादजातिरसिद्धेत्याशङ्क्य कारणस्यापि तर्हि ग्राह्यत्वादितरेतराश्रयादजातिरभिव्यक्ता सिध्यतीत्याह –
जायमानादिति ।
तत्र पूर्वार्धं प्रश्नद्वारा विवृणोति –
कथमित्यादिना ।
नियते पौर्वापर्ये निर्धारिते जातिः सिध्यति, तदभावे तदसिद्धिरित्यर्थः।
द्वितीयार्धं विभजते –
जायमानो हीति ।
कार्यग्रहणे कारणं ग्रहीतव्यमिति कुतो नियम्यते, तत्राऽऽह –
अवश्यं हीति ।
कार्यकारणयोर्नियतसम्बन्धवतोरितरेतराश्रयाद् दुर्ग्रहत्वादजातिरेव वस्तुतो ज्ञापितेत्युपसंहरति –
तस्मादिति ।
कार्यकारणयोर्दुर्ज्ञानत्वं तच्छब्देन परामृश्यते॥२१॥
वस्तुनो वस्तुतो जन्म नास्तीति विकल्पपूर्वकं साधयति –
स्वतो वेत्यादिना ।
कस्यचिदपि वस्तुनो जन्म नास्तीत्यस्मिन्नर्थे हेत्वन्तरपरत्वं श्लोकस्य दर्शयति –
इतश्चेति ।
इतःशब्दार्थमेव स्फोरयितुं जायमानमनूद्य षोढा विकल्पयति –
यज्जायमानमिति ।
सर्वेष्वपि पक्षेषु दोषसम्भावनां सूचयति –
न तस्येति ।
तत्राऽऽद्यं दूषयति –
न तावदिति ।
स्वयमेव जायमानं कार्यं स्वस्मादेव स्वरूपान्न तावज्जायते, स्वयमेव स्वापेक्षामन्तरेण स्वकारणाधीनतया परिनिषन्नत्वात्। अन्यथा स्वसिद्धेः स्वसिद्धिरित्यात्माश्रयात्। न हि घटादेव घटो जायमानो दृष्टोऽस्तीत्यर्थः।
द्वितीयं प्रत्याह –
नापीति ।
न खल्वन्यत्वं जनकत्वे प्रयोजकम्। घटादपि पटोत्पत्तिप्रसङ्गात्। न चोत्पादकत्वयोग्यत्वविशेषितमन्यत्वं तथेति वाच्यम्। उत्पत्तिमन्तरेण तद्योग्यत्वस्य दुरवगमत्वादित्यर्थः।
तृतीयं निरस्यति –
तथेति ।
विरोधमेव दृष्टान्तद्वारा स्पष्टयति –
यथेति ।
न हि घटपटाभ्यां घटः पटो वा जायमानो दृश्यते। तथा जायमानं स्वस्मादन्यस्माच्च भवतीत्यनुपपन्नमित्यर्थः।
अन्यत्वे सत्यपि जन्यजनकभावस्य प्रत्यक्षत्वान्नासौ शक्यते प्रतिक्षेप्तुमिति शङ्कते –
नन्विति ।
किं प्रत्यक्षानुसारिणौ शब्दप्रत्ययावविवेकिनामिष्येते किं वा विवेकिनामिति विकल्प्याऽऽद्यमङ्गीकरोति –
सत्यमिति ।
द्वितीयं प्रत्याह –
तावेवेति ।
मृषैवेति परीक्ष्यमाणे सतीति सम्बन्धः। तच्च जन्मशब्दधीविषयं वस्तु शब्दमात्रमेव वाचारम्भणश्रवणान्न परमार्थतो यावता विद्यते, तस्मादसत्यालम्बनत्वमेव शब्दप्रत्यययोरेष्टव्यमिति योजना।
चतुर्थं शिथिलयति –
सच्चेदिति ।
पञ्चमं निराकरोति –
यदीति ।
षष्ठं प्रत्यादिशति –
अथेत्यादिना ।
षण्णां विकल्पानां निरासे फलितं निगमयति –
अतो नेति ।
क्रियाकारकफलनानात्वपक्षे जन्मानुपपत्तिदोषमुक्त्वा पक्षान्तरमनूद्य दूषयति –
येषां पुनरिति ।
बौद्धानां न्यायावष्टम्भेन वस्तु व्यवस्थापयतां कुतो न्यायबाह्यत्वमित्याशङ्क्याऽऽह –
इदमिति ।
इदमा वस्तु परामृष्टम्। इत्थमिति क्षणिकत्वं विवक्षितम्। एवमवधारणावच्छिन्ने क्षणे वस्त्ववच्छेदकक्षणातिरिक्ते वस्तुनोऽवस्थानाभावान्न तस्मिन्ननुभवः सिध्यतीत्यर्थः। न च तस्मिन्नननुभूतेऽर्थे स्मृतिरुत्पद्यते।
तथा च वस्तुनि प्रत्ययद्वयासिद्धौ व्यवहारासिद्धिरित्याह –
अननुभूतस्येति ॥२२॥
वस्तुनो वस्तुतो जन्मराहित्ये हेत्वन्तरमाह –
हेतुर्नेति ।
नानादेः फलाद्धेतुर्जायते। न हि फलस्यानादित्वे ततो हेतुजन्म युक्तं सदा तज्जन्मप्रसङ्गादित्यर्थः।
फलमपि न हेतोरनादेर्जायते दोषसाम्यादित्याह –
फलं चेति ।
नापि स्वभावतो निमित्तमन्तरेण फलं हेतुर्वा जायते।
तत्र हेतुमाह –
आदिरिति ।
कारणरहितस्य जन्मानुपलब्धेरित्यर्थः।
वस्तुनो वस्तुतो जन्माभावे हेत्वन्तरपरत्वं श्लोकस्य सूचयति –
किं चेति ।
हेत्वन्तरमेव दर्शयितुं प्रथमं प्रतिज्ञां करोति –
हेत्विति ।
फलाद्धेतुर्जायते, ततश्च फलमित्यभ्युपगमात् कथमजन्माभ्युपगतमिति पृच्छति –
कथमिति ।
तत्राऽऽद्यपादाक्षरयोजनया परिहरति –
अनादेरिति ।
तदेवोपपादयति –
न हीति ।
फलं कार्यकरणसङ्घातः। हेतुर्धर्मादिः।
फलं चापीति भागं विभजते –
फलं चेति ।
अजाज्जायत इति नाभ्युपगम्यत इति सम्बन्धः।
स्वभावत इति पदं योजयति –
स्वभावत एवेति ।
फलितं निगमयति –
तस्मादिति ।
न हेतुफलयोर्जन्मवतोरनादित्वमभ्युपगन्तुं शक्यम्। अभ्युपगमे च जन्मैव तयोराकस्मिकं स्यादित्यर्थः।
स्वभाववादनिराकरणं प्रतिज्ञातमुत्तरार्धावष्टम्भेन प्रतिपादयति –
यस्मादिति ॥२३॥
वस्तुनो वस्तुतो जन्मायोगादजं विज्ञानमात्रं तत्त्वमित्युक्तम्। इदानीं बाह्यार्थवादमुत्थापयति –
प्रज्ञप्तेरिति ।
ज्ञानस्य निर्विषयत्वे प्रत्ययवैचित्र्यानुपपत्तिं प्रमाणयति –
अन्यथेति ।
अग्निदाहादिप्रयुक्तदुःखोपलब्ध्यनुपपत्तेश्चास्ति बाह्यार्थ इत्याह –
संक्लेशस्येति ।
परतन्त्रं परकीयं शास्त्रं, तस्यास्तिता तद्विषयस्य बाह्यार्थस्य विद्यमानतेति यावत्।
श्लोकस्य तात्पर्यमाह –
उक्तस्यैवेति ।
वस्तुनो नास्ति वस्तुतो जन्मेत्युक्तार्थस्तस्यैव दृढीकरणं पूर्वोत्तरपक्षाभ्यां चिकीर्ष्यते। तया पुनराक्षेपमुखेन बाह्यार्थवादिनां प्रस्थानमुत्थापयतीत्यर्थः।
ब्रह्मस्वरूपभूतां प्रज्ञप्तिं प्रतिषेधति –
शब्ददीति ।
साकारवादं व्युदस्यति –
स्वात्मेति ।
प्रज्ञप्तेर्विषयनिरपेक्षत्वान्न स्वातिरिक्तविषयतेत्याशङ्क्याऽऽह –
न हीति ।
सनिमित्तत्वं सविषयत्वेन स्फुरणम्।
तमेव हेतुं द्वितीयपादयोजनया विशदयति –
अन्यथेति ।
प्रसङ्गस्येष्टत्वं प्रत्याचष्टे –
न चेति ।
प्रत्ययवैचित्र्यानुपपत्तिप्रयुक्तं फलं चतुर्थपादव्याख्यानेन कथयति –
अत इति ।
ननु प्रज्ञप्तेः स्वभावभेदेनैव बाह्यालम्बनं वैचित्र्यमन्तरेण स्वगतं वैचित्र्यं घटिष्यते, तत्राऽऽह –
न हीति ।
औपाधिकं तर्हि प्रत्ययवैचित्र्यमित्याशङ्क्य बाह्यार्थतिरिक्तोपाध्यनधिगमान्मैवमित्याह –
स्फटिकस्येति ।
तृतीयपादं हेत्वन्तरपरत्वेनावतारयति –
इतिश्चेति ।
तस्योपलब्धिमुपपादयति –
उपलभ्यते हीति ।
तदुपलम्भेऽपि कुतो बाह्यार्थसिद्धिरित्याशङ्क्याऽऽह –
यदीति ।
उपलब्धिरेव तर्हि दुःखस्य मा भूदिति चेन्न।
स्वानुभवविरोधादित्याह –
उपलभ्यते त्विति ।
विशिष्टदुःखोपलब्ध्यनुपपत्तिसिद्धं फलमाह –
अत इति ।
विज्ञानातिरिक्तबाह्यार्थाभावेऽपि क्लेशोपलब्धिरविरुद्धेत्याशङ्क्याऽऽह –
न हीति ।
अन्यत्र दाहच्छेदादिव्यतिरिक्ते चन्दनपङ्कलेपादाविति यावत् ॥२४॥
द्वाभ्यामर्थापत्तिभ्यां बाह्यार्थवादे प्राप्ते विज्ञानवादमुद्भावयति –
प्रज्ञप्तेरिति ।
अस्तु का नाम वस्तुक्षतिरित्याशङ्क्याऽऽह –
निमित्तस्येति ।
मतान्तरे प्राप्ते तन्निराकरणमुच्यते निज्ञानवादिनेति श्लोकस्य तात्पर्यमाह –
अत्रेति ।
तत्र पूर्वार्धं विभजते –
बाढमित्यादिना ।
द्वैतिनस्तव तर्कप्रधानत्वान्न प्रतीतिमात्रशरणता युक्तेति मत्वाऽऽह –
स्थिरीभवेति ।
वस्तुनो बाह्यस्यार्थस्य तथात्वं प्रज्ञप्तिविषयत्वं तस्याभ्युपगमे कारणं प्रागुक्तयुक्तिदर्शनमित्येतस्मिन्नर्थे त्वं स्थिरीभवेति योजना।
विचारदृष्टिमेवावष्टभ्याहं वर्ते, किं ततः, दूषणं ब्रूहीति पृच्छति –
ब्रूहीति ।
तत्रोत्तरार्धं सिद्धान्ती व्याकुर्वन्नुत्तरमाह –
उच्यत इत्यादिना ।
घटादेर्वैचित्र्याहेतुत्वे प्रश्नपूर्वकं हेतुमाह –
कथमित्यादिना ।
परमार्थदर्शनं प्रपञ्चयति –
न हीति ।
तत्र वैधर्म्यदृष्टान्तमाह –
यथेति ।
घटे दर्शितं न्यायं पटेऽपि दर्शयति –
पटो वेति ।
तन्तुष्वपि न्यायसाम्यमुदाहरति –
तन्तव इति ।
परमार्थदर्शनफलमुपसंहरति –
इत्येवमिति ।
घटादीनां स्वकारणव्यतिरेकेणासतां न प्रत्ययवैचित्र्यहेतुत्वमतो घटादिप्रत्ययवत्प्रत्ययान्तराण्यपि प्रत्ययत्वाविशेषाद् वास्तवालम्बनवर्जितानि मन्तव्यानीत्यर्थः। भूतदर्शनं यौक्तिकं तत्त्वदर्शनं ततो निमित्तस्यानिमित्तत्वमिति व्याख्यातम्।
इदानीमभूतदर्शनादिति पदच्छेदेन व्याख्यानान्तरमाह –
अथवेति ।
यथा रज्ज्वादावधिष्ठाने सर्पादेरारोपितस्य दर्शनान्न तस्य वस्तुतो दर्शनं प्रत्यालम्बनत्वमिष्टम्। तथैवाधिष्ठानज्ञानापेक्षया परमार्थतो दर्शनाद् बाह्यस्यार्थस्य ज्ञानं प्रत्यालम्बनत्वं वास्तवमभ्युपगन्तुमशक्यमित्यर्थः।
किञ्च विमतो बाह्यार्थो न तत्त्वतो ज्ञानं प्रत्यालम्बनं भ्रान्तिविषयत्वाद् रज्ज्वां सर्पादिवदित्याह –
भ्रान्तीति ।
हेतुं साधयति –
तदभाव इति ।
भ्रान्त्यभावे बाह्यार्थो न भातीत्युक्तं हेतुं प्रपञ्चयति –
न हीति ।
देहाभिमानवतो बाह्यार्थप्रतिभानध्रौव्यादद्वैतदर्शिनोऽपि तत्प्रतिभानमप्रत्यूहं प्राप्नोतीत्याशङ्क्याऽऽह –
न ह्युन्मत्तेति ।
बाह्यार्थसमर्थनार्थमुक्तमर्थापत्तिद्वयं कथं निरसनीयमित्याह –
एतेनेति ।
तत्त्वदर्शिनां स्फुरणातिरिक्तवस्त्वनुपलम्भप्रदर्शनेन वैचित्र्यदर्शनं दुःखोपलब्धिश्च प्रत्युक्ता। तेनानुपपद्यमानार्थापत्तिद्वयस्यानुत्थानम्। व्यवहारदृष्ट्या तु पूर्वभ्रमसमारोपितस्वप्नवदेव संवेदने वैचित्र्यं दुःखं च व्यवहाराङ्गमित्यन्यथाऽप्युपपत्तिरित्यर्थः॥२५॥
ज्ञानस्य सालम्बनत्वप्रसिद्धेस्तत्त्वदृष्ट्या ज्ञेयाभावे ज्ञानमपि न स्यादित्याशङ्क्याऽऽह –
चित्तमिति ।
न हि स्फुरणं सकर्मकं तस्य सकर्मकत्वप्रसिद्ध्यभावात्। जानातेस्तु सकर्मकत्वं क्रियाफलत्वकल्पनया स्वीकृतमिति भावः।
चित्तस्यार्थस्पर्शित्वाभावेऽपि तदाभासस्पर्शित्वं स्यादित्याशङ्क्याऽऽह –
नार्थेति ।
तत्र हेतुमाह –
अभूत इति ।
प्रथमपादं व्याचष्टे –
यस्मादिति ।
विमतं चित्तमर्थाभासमपि न स्पृशति चित्तत्वात् सम्प्रतिपन्नवदिति द्वितीयं पादं विभजते –
नापीति ।
न हि दृष्टान्ते तस्यार्थाभासस्पर्शित्वं तस्यैव तदात्मना भानादित्यर्थः।
तृतीयपादं व्याकरोति –
अभूतो हीति ।
विमतोऽर्थः सन्न भवत्यर्थत्वात् सम्प्रतिपन्नवदित्यनुमानान्न ज्ञानस्याऽऽलम्बनमित्यर्थः।
विमतोऽर्थः स्वविषयज्ञानजनको न भवति भ्रान्तिविषयत्वात् सम्प्रतिपन्नवदित्युक्तमनुमानं स्मारयति –
उक्तेति ।
अर्थजन्यत्वाभावेऽपि ज्ञानस्यार्थाभासजन्यत्वं स्यादित्याशङ्क्य चतुर्थपादार्थमाह –
नापीति ॥२६॥
ज्ञानस्य सालम्बनत्वाभावे तस्य तथात्वप्रथा भ्रान्तिर्भवेत्। भ्रान्तिश्चाभ्रान्तिप्रतियोगिनीत्यन्यथाख्यातिमाशङ्क्याऽह –
निमित्तमिति ।
कालत्रयेऽपि ज्ञानस्य वस्तुतोऽर्थस्पर्शित्वाभावे तद्वासनाभावात् तज्जन्या नान्यथाख्यातिः सिध्यति।
भ्रान्तिस्तु विधान्तरेणापि भविष्यतीत्याह –
अनिमित्त इति ।
श्लोकव्यावर्त्यामाशङ्कां दर्शयति –
नन्विति ।
यदि घटादिर्बाह्योऽर्थो न गृह्यते तर्हि तस्मिन्नसत्येव तदाभासता ज्ञानस्य विपर्यासः। अतस्मिंस्तदबुद्धेस्तथात्वात्। विपर्यासे च स्वीकृते क्वचिदप्यविपर्यासो वक्तव्यः, भ्रान्तेरभ्रान्तिपूर्वकत्वस्यान्यथाख्यातिवादिभिरिष्टत्वादित्यर्थः।
तत्र पुर्वार्धयोजनया परिहरति –
अत्रेति ।
उक्तमेवार्थमुत्तरार्धयोजनया साधयति –
यदीति ।
अभ्रान्तेरभावादसम्भवे भ्रान्तेरसति घटादौ घटाद्याभासता ज्ञानस्य कथं निर्वहतीत्याशङ्क्याऽऽह –
अयमेवेति ।
स्वभावशब्देनाविद्योच्यते। न हि भ्रान्तिरभ्रान्तिपूर्विकेति नियमः। सविषयाणां भ्रमाणामविद्यात्वाभ्युपगमादित्यर्थः॥२७॥
बाह्यार्थवादिपक्षमेवं विज्ञानवादिमुखेन प्रतिक्षिप्य विज्ञानवादमिदानीमपवदति –
तस्मादिति ।
प्रतिक्षणं विज्ञानस्य जन्म दृश्यते विज्ञानवादिभिरित्याशङ्क्याऽऽह –
तस्येति ।
वृत्तसङ्कीर्तनपूर्वकं श्लोकस्य तात्पर्यमाह –
प्रज्ञप्तेरिति ।
तच्च बाह्यार्थवादिनो बाह्योऽर्थो विज्ञानवदस्तीति पक्षप्रतिषेधमुखेन प्रवृत्तम्, तत्पुनराचार्येण भवत्वेवमित्यनुज्ञातम्, बाह्यार्थवाददूषणस्य स्वमतेऽपि संमतत्वादित्याह –
बाह्यार्थेति ।
बाह्यार्थवाददूषणानुमोदनप्रयोजनमाह –
तदेवेति ।
असत्येव घटादौ घटाद्याभासत्वं विज्ञानस्य यदुक्तं तदेव हेतुत्वेनोपादाय विज्ञानवादनिषेधार्थं बाह्यार्थपक्षदूषणमनुमोदितमित्यर्थः।
सम्प्रति विज्ञानवाददूषणमवतारयति –
तदिदमिति ।
तस्मादित्यादि व्याचष्टे –
यस्मादिति ।
भूतदर्शनाद्घटादेर्मृदादिमात्रं भूतं वस्तुतत्त्वं तस्यापि विज्ञप्तिमात्रं तत्त्वं तस्य शास्त्रतो दर्शनादिति यावत्।
द्वितीयपादं दृष्टान्तत्वेन विभजते –
यथेति ।
विमतं विज्ञानजन्म न तात्त्विकं दृश्यत्वान्नीलपीतादिवदित्यर्थः।
विपक्षे दोषमाह –
अत इति ।
तत्त्वतो विज्ञानस्य जन्मायोगाद् ये तस्य तात्त्विकं जन्म पश्यन्ति ते पक्ष्यादीनां खेऽपि पदं पश्यन्तीत्यन्वयः। अनात्मत्वादीत्यादिशब्देनान्योन्यविलक्षणत्वमन्योन्यसादृश्यं च गृह्यते।
तत्र हेतुं सूचयति –
तेनैवेति ।
स्ववृत्तेरनुपपत्तेस्तद्दृश्यतामन्तरेण च तद्धर्मदृश्यताऽसम्भवादित्यर्थः।
विज्ञानवादे फलितं विशेषं दर्शयति –
अत इति ।
शून्यवादिनं प्रति विशेषं कथयति –
येऽपीति ।
पश्यन्त एवेत्यविलुप्तदृग्रूपता द्योत्यते। दृग्बलादेव सर्वाभावः सिध्यति। दृगभावस्तु कथं सिध्येत्। न च तावद् दृगेव तदभावं साधयेत्। तयोरेककालत्वानुपपत्तेरित्यर्थः। किं च सर्वशून्यतां वदन्तः शून्यतादर्शनस्य स्वात्मदर्शनस्य च शून्यतां वदन्ति।
तथा च स्वपक्षासिद्धिरित्यभिप्रेत्याऽऽह –
स्वदर्शनस्येति ।
ततोऽपीति विज्ञानवादिभ्योऽपीत्यर्थः॥२८॥
यदि विज्ञानस्य बाह्यालम्बनत्वं क्षणिकत्वं शून्यत्वं च न सम्भवति किं तर्हि तत्त्वेमेकरूपं भवतीत्याशङ्क्याऽऽह –
अजातमिति ।
तस्याश्च प्रकृतेरन्यथात्वं पुरस्तादेव निरस्तमित्याह –
प्रकृतेरिति ।
श्लोकस्य तात्पर्यमाह –
उक्तैरिति ।
कूटस्थमद्वितीयं ब्रह्मोति यत्पूर्वत्र प्रतिज्ञातं तज्जन्मनो दुर्निरूपत्वादुक्तहेतुभिः सिद्धम्। तस्यैव सिद्धस्यार्थस्य फलमुपसंहर्तुमेष श्लोक इत्यर्थः।
पूर्वार्धं योजयति –
अजातमिति ।
यदि चित्तं स्फुरणमजातमभीष्टं तर्हि तद् ब्रह्मैव, तस्य कौटस्थ्यैकस्वाभाव्यात्तत्पुनर्वस्तुतो न जातमेव मायया जन्मवदिति कल्प्यते चेत् तस्याजातिरेवाजातत्त्वात् प्रकृतिर्भवतीत्यर्थः।
द्वितीयार्धं योजयति –
अजातरूपाया इति ।
तस्याश्चेदन्यथात्वं स्वरूपहानिरापतेदित्यर्थः॥२९॥
कूटस्थं तत्त्वं तात्त्विकमित्यत्र हेत्वन्तरमाह –
अनादेरिति ।
विमतः संसारो नान्तवाननादिभावत्वादात्मवदित्यर्थः।
किं च मोक्षोऽनन्तो न भावत्वे सत्यादिमत्त्वाद् घटवदित्याह –
अनन्तेति ।
श्लोकस्य तात्पर्यमाह –
अयं चेति ।
तत्र पूर्वार्धं व्याकरोति –
अनादेरिति ।
अतीतकोटिरहितस्य पूर्वं नाऽऽसीदित्यवच्छेदवर्जितस्येत्यर्थः।
योऽनादिभावः सोऽन्तवान्नेति व्याप्तिरात्मनि व्यक्तेत्याह –
न हीति ।
बीजाङ्कुरयोर्हेतुफलभावेन सम्बन्धस्तस्य नैरन्तर्यं सन्तानस्तस्यानादिभावत्वेऽपि विच्छेदस्यान्तस्य दृष्टत्वादनैकान्तिकतेति शङ्कते –
बीजेति ।
भावत्वविशेष्यांशस्य तत्रावर्तनान्न व्यभिचारशङ्केति दूषयति –
नैकेति ।
द्वितीयार्धं व्याचष्टे –
तथेति ।
यत्राऽऽदिमत्त्वं तत्र नानन्तत्वमिति व्याप्तिभूमिमाह –
घटादिष्विति ।
यथा कृतकोऽपि घटादिध्वंसो नित्यस्तथा बन्धध्वंसोऽपि भवष्यतीत्यनैकान्तिकत्वमाशङ्कते –
घटादीति ।
मोक्षस्याभावत्वे सति परमार्थसत्त्वप्रतिज्ञा भज्येतेति दूषयति –
तथा चेति ।
किं च प्रागसतः सत्तासमवायरूपं कार्यत्वं तदपि मोक्षस्यासत्त्वे न सिद्ध्यतीत्याह –
असत्त्वादेवेति ॥३०॥
अस्तु तर्हि मोक्षस्याऽऽद्यन्तवत्त्वं तत्राऽऽह –
आदाविति ।
यदित्यूषरोदकादि गृह्यते। तथा वस्तुतो नास्त्येवेति यावत्। वितथैस्तैरेव मरीच्युदकादिभिः। सादृश्यमाद्यन्तवत्त्वम्। विमता मोक्षादयो न परमार्थसन्तो भवितुमर्हन्त्याद्यन्तवत्त्वान्मरीच्युदकादिवदित्यर्थः।
कथं तर्हि मोक्षादीनामपि तथात्वप्रथेत्याशङ्क्याऽऽह –
अवितथा इति ।
लक्षिता मूढैरविचारकैरिति शेषः।
ऊषरोदकादीनां स्नानपानादिप्रयोजनानुपलम्भान्मोक्षस्वर्गादीनां तु सुखादिप्राप्तिप्रयोजनप्रतिलम्भान्न मोक्षादिवैतथ्यमित्याशङ्क्याऽऽह –
सप्रयोजनतेति ।
तेषां मोक्षादीनामिति यावत्।
पुनरुक्तिशङ्कां वारयति –
वैतथ्य इति ॥३१– ३२॥
किं च येन हेतुना स्वप्नस्य मिथ्यात्वमिष्टं तस्य जागरितेऽपि तुल्यत्वाज्जन्मादिरहितं संविन्मात्रं तत्त्वमेष्टव्यमिति विवक्षित्वाऽऽह –
सर्व इति ।
यदि देहान्तर्दर्शनान्मिथ्यात्वं स्वप्नस्येष्टं तर्हि वैराजदेहे सर्वस्य जागरितस्य दर्शनान्मिथ्यात्वं दुर्वारमित्यर्थः ।
किञ्च योग्यदेशवैधुर्यान्मिथ्यात्वं स्वप्नस्य यद्यभीष्टं तर्हि संवृते प्रदेशे पृथग्भूते ब्रह्मण्यखण्डैकरसे भूतानां विद्यमानानां दर्शनं न कुतोऽपि स्याद् ब्रह्मणोऽनवकाशत्वादित्याह –
संवृत इति ।
अवतारितश्लोकसहितानामुत्तरश्लोकानां ‘जात्याभासम्’(मा. का. ४ । ४५) इत्यस्मात्प्राक्तनानां तात्पर्यमाह –
निमित्तस्येति ॥३३॥
उक्तमेवार्थं प्रपञ्चयति –
न युक्तमित्यादिना ।
स्वप्ने देशान्तरगतौ नियतकालाभावान्न गत्वा दर्शनमिष्टं तथा मरणादूर्ध्वमर्चिरादिमार्गेण गत्वा ब्रह्मदर्शनमयुक्तं कालानवच्छिन्नत्वादित्यर्थः। किं च यद्देशस्थः स्वप्नं पश्यति प्रतिबुद्धस्तस्मिन् देशे नास्तीति मिथ्यात्वमभीष्टम्।
तथा यस्मिन् देशे स्थितः संसारमनुभवति ब्रह्मभावं प्रतिपन्नस्तस्मिन् देहदेशे नास्ति परिपूर्णब्रह्मरूपेणावस्थानादतो जागरितस्यापि मिथ्यात्वमेष्टव्यमित्याह –
प्रतिबुद्धश्चेति ।
श्लोकस्य तात्पर्यार्थं कथयति –
जागरित इति ॥३४॥
किं च यथा स्वप्ने विसंवादादप्रामाण्यमिष्टं तथा जागरितेऽपि परं श्रेयोऽस्माभिः साधनीयमिति स ब्रह्मवादिभिः सह समालोच्याविद्यानिद्रातः प्रतिबुद्धो नैव श्रेयः साध्यत्वमालोचितं प्रतिपद्यते। सर्वस्य नित्यमुक्तत्वनिश्चयात्। अतो मुमुक्षुत्वं श्रवणादिकर्तव्यता च भ्रान्त्यैवेत्याह –
मित्राद्यैरिति ।
किं च स्वप्नवदेव गृहीतमुपदेशादि विद्वान्न पश्यति तत्साध्यफलाभावादित्याह –
गृहीतं चेति ।
अथ वा लोकदृष्ट्या यत्किञ्चिद् गृहीतं वस्त्रान्नोदकादि तद्विद्वान्नैव किञ्चित्करोमीति प्रतिबुद्धोऽन्यप्रत्ययबाधान्न स्वसम्बन्धित्वेनाधिगच्छति।
तेन तदाभासमात्रमेवsत्याह –
गृहीतं चेति ।
उक्तमर्थं विवक्षित्वा श्लोकाक्षराणि योजयति –
मित्राद्यैरित्यादिना ॥३५॥
किं च स्वप्नावस्थायां येन देहेन नाड्यादिषु पर्यटति स मिथ्या पृथग्भूतस्य निश्चलस्य देहस्य दर्शनात्। तथा जागरिते येन परिव्राजकादिशरीरेण लोकस्य पूज्यो द्वेष्यो वा दृश्यते स मिथ्या कथ्यते। पृथगेव कूटस्थब्रह्माख्यशरीरस्यानुभवादित्याह –
स्वप्ने चेति ।
किं च यथा स्वप्ने देहो मिथ्या तथा चित्तदृश्यं जडं सर्वमवस्तुकं मिथ्याभूतमेषितव्यमित्याह –
यथेति ।
पूर्वार्धगतान्यक्षराणि योजयति –
स्वप्न इति ।
उत्तरार्धगतानि व्याकरोति –
यथेत्यादिना ।
प्रकरणार्थमुपसंहरति –
स्वप्नेति ॥३६॥
यथा जागरितं तथा स्वप्नो गृह्यते। तथा च स्वप्नस्य जागरितकार्यत्वाद् यः स्वप्नद्रष्टा तस्यैव जागरितं सदिति स्वप्नवत् तन्मिथ्यात्वमित्याह –
ग्रहणादिति ।
किं च जागरितस्य विद्यमानत्वमनेकसाधारणत्वं च वस्तुतो नास्ति स्वप्नकारणत्वात्किं तु तथा भासमानत्वमित्याह –
तद्धेतुत्वादिति ।
जागरितस्य वस्तुतोऽसत्त्वे हेत्वन्तरपरत्वं श्लोकस्य दर्शयति –
इतश्चेति ।
इतः शब्दार्थमेव स्फोरयन् पूर्वार्धं योजयति –
जागरितवदिति ।
उत्तरार्धं योजयति –
तद्धेतुत्वादिति ।
सति प्रमातरि बाध्यत्वं स्वप्नस्य मिथ्यात्वं, जागरितस्य पुनस्तदनुपलम्भात् परमार्थतः सत्त्वम्। कार्यस्य मिथ्यात्वे कारणस्यापि मिथ्यात्वमिति मानाभावात्।
न हि सर्वसाधारणं विद्यमानं जागरितं मिथ्या भवितुं युक्तमित्याशङ्क्याऽऽह –
यथेत्यादिना ॥३७॥
कार्यकारणभावेऽपि स्वप्नजागरितयोर्न मिथ्यात्वमविशिष्टमत्यन्तवैषम्यादित्याशङ्क्याऽऽह –
उत्पादस्येति ।
यत्तु कार्यकारणत्वं सत्यासत्ययोरिव स्वप्नजागरितयोरित्युक्तं तद् दुरुक्तमित्याह –
न चेति ।
श्लोकव्यावर्त्यामाशङ्कामाह –
नन्विति ।
किमिदं वैलक्षण्यमविवेकिनां प्रतिभाति, किं वा विवेकिनामिति विकल्प्याऽऽद्यमङ्गीकरोति –
सत्यमिति ।
द्वितीयं प्रत्याह –
विवेकिनां त्विति ।
द्वितीयभागमाकाङ्क्षाद्वारा विभजते –
यदपीत्यादिना ।
सम्भवो नासतोऽस्तीत्येतद् दृष्टान्तेन साधयति –
न हीति ।
कथञ्चिदपि सतोऽसतो वेत्यर्थः॥३८॥
यदुक्तमुत्पादस्याप्रसिद्धत्वं तदयुक्तम्, स्वप्नजागरितयोस्त्वया कार्यकारणत्वाङ्गीकरणादित्याशङ्क्याऽऽह –
असदिति ।
जागरिते दृष्टस्य स्वप्ने दर्शनाज्जागरितस्य सप्नं प्रति कारणत्वं चेत् तर्हि स्वप्ने दृष्टस्य जागरितेऽपि दर्शनात् तस्य जागरितं प्रति कारणत्वं किं न स्यादित्याशङ्क्याऽऽह –
असत्स्वप्नेति ।
श्लोकव्यावर्त्यामाशङ्कामुत्थापयति –
नन्विति ।
पूर्वापरविरोधे चोदिते परिहारे कथ्यमाने मनःसमाधानं प्रार्थयते –
शृण्विति ।
तमेव प्रकारं प्रकटयन्नक्षराणि योजयति –
असदिति ।
तुच्छत्वं व्यवच्छिनत्ति –
रज्ज्विति ।
दर्शनस्याऽऽभासत्वं सूचयति –
विकल्पितमिति ।
यथा जाग्रद्दृष्टस्य विशेषस्य स्वप्ने दर्शनाज्जागरितवासनाधीनः स्वप्नो जागरितकार्यत्वेन व्यवह्रियते तथा स्वप्ने दृष्टस्य जागरितेऽपि दर्शनात् तत्कार्यत्वं जागरितस्य प्राप्तमित्याशङ्क्य द्वितीयार्धं व्याचष्टे –
तथेति ।
यत्तु स्वप्नजागरितयोरुक्तं कार्यकारणत्वं तदपि न नियतमिति निपातार्थं कथयति –
चशब्दादिति ।
तस्मात्प्रायशः स्वप्नस्य जाग्रद्वासनाधीनत्वादिति यावत्।
जागरितस्य परमार्थसत्त्वात् कार्यस्य स्वप्नस्यापि तादात्म्यात् तथात्वं विवक्षित्वा कार्यकारणत्वप्रथा कथं न भवतीति व्यावर्त्यं कथयति –
न त्विति ॥३९॥
व्यवहारदृष्ट्या कार्यकारणत्वं स्वप्नजागरितयोरुक्तम्। तत्त्वदृष्ट्या त्वप्रसिद्धमेव क्वचिदपि कार्यकारणत्वमिति वदन् वस्तुनोऽज्ञानादवस्त्वेव कार्यं भवतीति मतं व्यावर्त्तयति –
नास्तीति ।
शून्यवादिनस्तु सदेव कार्यं जायते शून्यादिति मन्यते, तान्प्रत्याह –
सदिति ।
तथेत्यनेन नास्तीत्येतदनुकृष्यते।
साङ्ख्यादयस्तु कार्यकरणयोर्द्वयोरपि सत्त्वं सङ्गिरन्ते, तान्प्रत्युक्तम् –
सच्चेति ।
सद् ब्रह्म कारणं मिथ्याप्रपञ्चसृष्टेरित्येके वर्णयन्ति, तान्निराचष्टे –
सद्धेतुकमिति ।
श्लोकस्य तात्पर्यमाह –
परमार्थस्त्विति ।
प्रसिद्धं कार्यकारणत्वं यया कया च प्रक्रियया प्रतिपादयितुमुचितमन्यथा प्रसिद्धिप्रकोपादित्याक्षिपति –
कथमिति ।
अनिर्वाच्यं मायामयं कार्यकारणत्वम् प्रतीतिमात्रसिद्धमयौक्तिकमधिकृत्य प्रसिद्धिरविरुद्धेत्यभिसन्धायाऽऽद्यं पादं विभजते –
नास्तीत्यादिना ।
द्वितीयं पादं व्याचष्टे –
तथेत्यादिना ।
तृतीयं पादं व्याकरोति –
तथा सच्चेति।
चतुर्थपादार्थमाह –
असदिति ।
अस्तु तर्हि प्रकारान्तरेण कार्यकारणभाव इत्याशङ्क्य योग्यानुपलब्धिविरुद्धत्वान्मैवमित्याह –
न चेति ॥४०॥
स्वप्नजागरितयोर्वस्तुतो नास्ति कार्यकारणत्वमित्यत्रैव हेत्वन्तरमाह –
विपर्यासादिति ।
श्लोकस्य तात्पर्यमाह –
पुनरपीति ।
अक्षरार्थं कथयति –
विपर्यासादित्यादिना ।
कश्चिदित्यस्य पूर्वेण क्रियापदेन सम्बन्धः।
दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –
यथेत्यादिना ॥४१॥
तत्त्वदृष्ट्या कार्यकारणत्वस्याप्रसिद्धत्वे कथं जन्मादिसूत्रप्रमुखैः सूत्रैर्जगत्कारणत्वं ब्रह्म सूत्रितमित्याशङ्क्याऽऽह –
उपलम्भादिति ।
अविवेकिनां विवेकोपायत्वेन कार्यकारणत्वमुपेत्य सूत्रकारप्रवृत्तिरित्यर्थः।
श्लोकाक्षराणि व्याचष्टे –
याऽपीत्यादिना ।
अस्ति वस्तुभावो द्वैतस्येति शेषः।
कार्यकारणभावमुपेत्य जन्मोपदिशतामद्वैतवादिनां मन्दविवेकिषु विवेकदार्ढ्योपायत्वेन कथं तदुपदेशः स्यादित्याशङ्क्याऽऽह –
तामिति ।
यदा ब्रह्मणः सकाशादशेषं जगद्भवतीत्यभ्युपेतं तदा तदतिरेकेण जगतोऽभावाद् ब्रह्मैव सर्वमिति निश्चितम्। तद्विषयेषु च वेदान्तेषु पौर्वापर्येणाऽऽलोचितेषु तदभ्यासिनां तेषां तदभ्यासप्रसादादेव कूटस्थाद्वितीयवस्तुविवेकदार्ढ्यं सेत्स्यतीत्यभिप्रेत्याद्वैतवादिभिर्जातिरुपदिष्टा, न तु द्वैतस्य श्रुतितो न्यायतश्च निरूपयितुमशक्यस्य परमार्थत्वं गृहीत्वा जातिरुपदिष्टेत्यजातिरेव पारमार्थिकीत्यर्थः।
चतुर्थपादार्थमाह –
ते हीति ।
तेषां विवेकोपायत्वेन जातिरुपदिष्टेत्यत्रोपक्रममनुकूलयति –
उपाय इति ॥४२॥
“उदरमन्तरं कुरुते। अथ तस्य भयं भवति”(तै. उ. २ । ७ । १) इत्यादिश्रुतिभ्यो ब्रह्मणि विकारदर्शिनां भयप्राप्तिः श्रूयते। तथा च श्रोत्रियाणामपि भेददर्शिनां नानुग्राह्यतेत्याशङ्क्याऽऽह –
अजातेरिति ।
“न हि कल्याणकृत् कश्चिद् दुर्गतिं तात गच्छति”(भ. गी. ६ । ४०) इति स्मृतेस्तेषामात्यन्तिकपतनाभावेऽपि निन्दानुपपत्त्या कश्चिद्दोषलेशः सम्भवतीत्याशङ्क्य सम्यग्दर्शनाप्राप्तिप्रयुक्तं गर्भवासादिदोषमभ्यनुजानाति –
दोषोऽपीति ।
अन्वयमादर्शयन् पादत्रयगतान्यक्षराणि योजयति –
ये चेत्यादिना ।
चतुर्थपादं व्याचष्टे –
यद्यपीति ।
कश्चिन्निन्दानुपपत्तिसूचित इति यावत् ॥४३॥
यत्तु हेतुभ्यां द्वैतस्यास्तित्वमुक्तं तद् दूषयति –
उपलम्भादिति ।
श्लोकव्यावर्त्यामाशङ्कामनूद्य दूषयति –
नन्वित्यादिना ।
व्यभिचारस्यासिद्धिमाशङ्क्य परिहरति –
कथमित्यादिना ।
उपलम्भसमाचारौ मायामये हस्तिनि वस्तुत्वाभावेऽपि भवतः, तथा द्वैतेऽपि न तयोरस्ति वस्तुत्वसाधकत्वमित्युपसंहरति –
तस्मादिति ॥४४॥
भूतदर्शनावष्टम्भेन निमित्तस्यानिमित्तत्वमुक्तमेतदन्तैः श्लोकैर्विप्रपञ्चितम्। सम्प्रति भूतदर्शनमुपसंहरति –
जात्याभासमिति ।
श्लोकाक्षराण्याकाङ्क्षाद्वारा विवृणोति –
किं पुनरित्यादिना ।
गौरत्वदीर्घत्वोक्त्या देवदत्तस्य गुणवत्त्वेन द्रव्यत्वं स्फुटीक्रियते।
पूर्वार्धार्थानुवादेनापरार्धं योजयति –
जायत इत्यादिना ।
विशेष्यं प्रश्नपूर्वकं विशदयति –
किं तदित्यादिना ॥४५॥