अद्वैतशारदा

आनन्दगिरिटीका (माण्डूक्य)

अलातशान्तिप्रकरणम् (१)

आद्य­न्त­म­ध्य­म­ङ्गला ग्रन्थाः प्रचारिणो भव­न्ती­त्य­भि­प्रे­त्याऽऽ­दा­वो­ङ्का­रो­च्चा­र­ण­व­दन्ते पर­दे­व­ता­प्र­णा­म­व­न्म­ध्येऽपि पर­दे­व­ता­रू­प­मु­प­दे­ष्टारं प्रणमति –
ज्ञानेनेति ।

पूर्वो­त्त­र­प्र­क­र­ण­स­म्ब­न्ध­सि­द्ध्यर्थं पूर्व­प्र­क­र­ण­त्रये वृत्तमर्थं क्रमादनुद्रवति –
ओङ्कारेति ।
अद्वैत इत्य­द्वै­तो­प­ल­क्षितं तृतीयं प्रकरणमुच्यते।

चतुर्थं प्रक­र­ण­म­व­ता­र­यि­तु­मु­प­यु­क्त­म­र्था­न्त­र­म­नु­व­दति –
तस्येति ।
द्वैतिनो भेदवादिनो वैना­शि­क­व्य­ति­रिक्ता गृह्यन्ते। वैनाशिका नैरा­त्म्य­वा­दिनः। राग­द्वे­षा­दी­त्या­दि­श­ब्दे­ना­ति­रि­क्त­क्ले­शो­पा­दा­नम्।

पक्षान्तराणां मिथ्या­द­र्श­न­त्व­सू­चनं कुत्रोपयुज्यते, तत्राऽऽह –
क्लेशेति ।

पातनिकामेवं कृत्वा सम­न­न्त­र­प्र­क­र­ण­प्र­वृत्तिं प्रतिजानीते –
तदिहेति ।
तद­स­म्य­ग्द­र्श­न­त्व­मिति सम्बन्धः। आवीतन्यायो व्यतिरेकन्यायः। यथा यत्कृतकं तद­नि­त्य­मि­त्य­न्व­या­द­नि­त्य­त्वेऽ­व­ग­तेऽपि यन्नानित्यं न तत्कृतकमिति व्यतिरेकोऽपि व्यभि­चा­र­श­ङ्का­नि­रा­सि­त्वेन व्याप्ति­नि­श्च­या­र्थ­मि­ष्यते। तथा तर्कतः सम्भा­वि­त­स्याऽऽ­ग­मे­ना­व­ग­त­स्यापि प्रति­प­क्ष­भू­त­वा­दा­न्त­रा­पा­क­र­ण­प्र­प­ञ्च­म­न्त­रेण पाक्षि­का­स­म्य­क्त्व­शङ्का स्याद­द्वै­त­द­र्श­न­स्येति तत्प्रतिषेधेन तत्सि­द्धि­रु­प­सं­ह­र्त­व्ये­त्य­ला­त­शा­न्ति­दृ­ष्टा­न्तो­प­ल­क्षि­त­मा­र­भ्यते प्रक­र­ण­मि­त्यर्थः। विशेषेण स्पष्टमितो वीतः, स न भवतीत्यवीतः। अवीत एवाऽवीतः। तेन न्यायेन व्यतिरेकेणेति यावत्।

प्रकरणस्य तात्पर्यमेवं दर्शयित्वा प्रथमश्लोकस्य तात्पर्यमाह –
तत्रेति ।
तत्र चतुर्थप्रकरणं सप्तम्यां परामृश्यते।

किमि­त्य­द्वै­त­रू­पे­णाऽऽ­चार्यो नमस्क्रियते, तत्राऽऽह –
आचार्येति ।
अभिप्रेतार्थः शास्त्र­स्या­वि­ध्नेन परि­स­मा­प्ति­स्त­दर्थे विप्र­ति­प­त्त्या­दि­व्या­वृ­त्तिश्च। आकाशस्य जड­त्वा­धि­क्या­ज्ज्ञानं स्वप्र­का­श­मा­का­शे­ने­ष­द­स­माप्तं वक्तव्यम्। विभुत्वादावुपमा द्रष्टव्या। बहु­व­च­न­मु­पा­धि­क­ल्पि­त­भे­दा­भि­प्रा­यम्।

तेषामपि चिन्मात्रत्वं विव­क्षि­त्वो­क्तम् –
ज्ञानस्यैवेति ।
तेनेत्यादि पुन­र­नु­वा­दे­ना­न्व­य­म­न्वा­चष्टे। आचार्यो हि पुरा बदरिकाश्रमे नर­ना­रा­य­णा­धि­ष्ठिते नारायणं भग­व­न्त­म­भि­प्रेत्य तपो महदतप्यत। ततो भग­वा­न­ति­प्र­स­न्न­स्तस्मै विद्यां प्रादादिति प्रसिद्धं परमगुरुत्वं परमेश्वरस्येति भावः।

ननु प्रकरणे प्रारभ्यमाणे प्रतिपाद्ये प्रमेये वक्तव्ये किमित्युपदेष्टा नमस्क्रियते तत्राऽऽह –
उपदेष्ट्रिति ॥१॥

इदा­नी­म­द्वै­त­द­र्श­न­यो­ग­स्तु­तये तन्नमस्कारं प्रस्तौति –
अस्पर्शेति ।

श्लोकस्य तात्पर्यमाह –
अधुनेति ।
तस्य च स्तुति­स्त­त्सा­ध­नेषु प्रवृ­त्ता­वु­प­यु­ज्यते।

सम्प्र­त्य­क्ष­राणि व्याकु­र्व­न्न­स्प­र्श­यो­ग­शब्दं व्याकरोति –
स्पर्शनमिति ।

योग­स्या­न्य­स­म्ब­न्ध­प्र­स­ङ्गा­भा­वात् कथ­म­स्प­र्श­त्व­मि­त्या­श­ङ्क्याऽऽह –
ब्रह्मेति ।

निपातयोरर्थं कथयति –
वै नामेति

सर्वेषां सत्त्वानां देहभृतां सुखयतीति व्युत्पत्त्या सुखहेतुत्वं ब्रह्मस्वभावस्य सुखविशेषणेन दर्शयति –
स चेति ।

सुखहेतावपि ब्रह्मस्वभावे विवक्षितं विशेषं दर्शयति –
भवतीति ।

हितविशेषणस्य तात्पर्यमाह –
तथेह भवतीत्यादिना ।

तस्य हितत्वे हेतुमाह –
नित्यमिति ।

तस्यैव विशेषणान्तरमाह –
किं चेति ।

तत्र हेतुं प्रश्नपूर्वकमाह –
कस्मादिति ।
आत्म­प्र­का­श­त्वाद् ब्रह्म­स्व­भा­व­स्या­वि­रु­द्ध­त्वम्। न हि कस्या­चि­दा­त्म­प्र­काशो विरुद्धो भवतीत्यर्थः।

यथो­क्त­यो­ग­ज्ञा­न­मा­र्गस्य सम्प्र­दा­या­ग­त­त्व­माह –
य ईदृश इति ।

तन्न­म­स्का­र­व्या­जेन तस्य स्तुति­स्त­दु­पा­येषु श्रोतृ­प्र­वृ­त्त्य­र्थ­मत्र विवक्षितेत्याह –
तं नमामीति ॥२॥

अद्वै­त­द­र्श­न­स्या­वि­रु­द्ध­त्वे­ना­वि­वा­दत्वं विशदीकर्तुं द्वैतिनां विवादं तावदुदाहरति –
भूतस्येति ।

एवं विरुद्धं वदन्तो मिथो जेतु­मि­च्छ­न्ती­त्याह –
विवदन्त इति ।

प्रश्नपूर्वकं श्लोकाक्षराणि योजयति –
कथमित्यादिना ।

एवकारार्थे हेतुमाह –
यस्मादिति ।
प्राज्ञा­भि­मा­निनो जातिमिच्छन्तीति पुर्वेण सम्बन्धः।

चतुर्थपादं साध्याहारं व्याकरोति –
विवदन्त इति ॥३॥

पक्ष­द्व­य­नि­षे­ध­मु­खेन सिद्धमर्थं कथयति –
भूतमित्यादिना ।

श्लोका­क्ष­र­व्या­ख्या­ना­र्थ­मा­काङ्क्षां निक्षिपति –
तैरिति ।

तत्राऽऽद्यं पादमवतार्य व्याकरोति –
उच्यत इति ।

द्वितीयपादं विभजते –
तथेति ।

द्वितीयार्धं विभजते –
विवदन्त इत्यादिना ।

सद­स­द­ति­रि­क्त­व­स्त्व­भा­वाद् वस्तुत उत्प­त्ते­र­नु­प­प­त्ति­रि­त्याह –
अर्थादिति ॥४॥

तर्हि प्रति­वा­दि­भि­रु­क्त­त्वा­द­जा­ति­रपि भवता प्रत्या­ख्ये­ये­त्या­श­ङ्क्याऽऽह –
ख्याप्यमानामिति ।

प्रतिवादिभिः सह विवादाभावे फलितमाह –
अविवादमिति ।

अक्षराणि व्याचष्टे –
तैरित्यादिना ।

अद्वैतवादिनो द्वैत­वा­दि­भि­र्वि­वा­दा­भावे वैध­र्म्य­दृ­ष्टा­न्त­माह –
यथा त इति ।

चतु­र्थ­पा­दा­र्थ­माह –
अत इति ॥५॥

जातस्यैव जन्मन आन­र्थ­क्या­द­न­व­स्था­ना­च्चा­जा­त­स्यैव पदार्थस्य जन्म सद्वा­दि­नोऽ­स­द्वा­दि­नश्च सर्वेऽपि स्वीकुर्वन्तीति परपक्षमनुवदति –
अजातस्येति ।

तत्र शिष्टाभीष्टदोषं प्रद­र्श्या­भ्य­नु­जा­नाति –
अजातो हीति ।

के ते वादिनो यैरेवमिष्यते, तत्राऽऽह –
सदसदिति ।

अवशिष्टानि श्लोकाक्षराणि व्याख्या­त­त्वान्न पुन­र्व्या­ख्या­न­सा­पे­क्षा­णी­त्याह –
पुरस्तादिति ॥६॥

परि­णा­मि­ब्र­ह्म­वादे यद­ब्र­ह्म­वा­दि­भि­र्दू­ष­ण­मु­च्यते तद­प्य­नु­ज्ञा­त­मे­वेति मत्वाऽऽह –
न भवतीति ।
अमृतं हि ब्रह्म न तद्रूपे स्थिते मर्त्यं भवितुमर्हति, स्थित­रू­प­वि­रो­धात्। न च मर्त्यं कार्यं स्वरूपे स्थिते प्रल­या­व­स्था­या­म­मृतं ब्रह्म सम्पद्यते।

नष्टेऽपि स्वरूपे तस्यै­वा­भा­वा­न्ना­न्य­था­त्व­मि­त्य­भि­प्रे­त्याऽऽह –
प्रकृतेरिति ।
किं च तस्य परिणामवादिनः स्वभावेनामृतः सन् परमात्माख्यो धर्मशब्दितो भावो मर्त्यतां कार्य­भा­वा­पत्त्या गच्छति तस्य कृतकेन समु­च्च­या­नु­ष्ठा­ने­ना­मृतो जातो मुक्तो वक्तव्यः। स च कथं निश्चलः स्थातुं पारयति।

यत्कृतकं तदनित्यमिति न्याय­वि­रो­धा­दि­त्याह –
स्वभावेनेति ।

पुन­रु­क्ति­मा­शङ्क्य प्रत्यादिशति –
उक्तार्थानामिति ॥७–८॥

प्रकृ­ते­र­न्य­था­भावो न कथ­ञ्चि­दि­त्युक्तं तत्र प्रकृ­ति­श­ब्दार्थं कथयति –
सांसिद्धिकीति ।

श्लोकाक्षराणि व्याकुर्वन् प्रकृ­ते­र­न्य­था­त्वा­भावे हेतुमाह –
यस्मादिति ।
तस्मा­द­जाऽ­मृ­त­स्व­भावा प्रकृतिर्न विपर्येतीति किमु वक्तव्यमिति योजना। कैमु­ति­क­न्या­य­द्यो­त­ना­र्थोऽ­पि­शब्दः।

विवक्षितं हेतुं स्फुटयितुं प्रश्नपूर्वकं विभजते –
काऽसावित्यादिना ।
साङ्ग­यो­ग­म­नु­ष्ठाय परिसमापनं संसिद्धिः। सिद्धा­ना­म­णि­मा­द्यै­श्व­र्य­प्राप्तौ साम­ग्री­स­म्प­न्ना­नाम्। या काचित् स्वभावं न जहाति घटस्य घटत्वं पटस्य पट­त्व­मि­त्या­दि­केति शेषः।

प्रासङ्गिकं प्रकृ­ति­श­ब्दा­र्थ­मुक्त्वा प्रकृ­ते­र­न्य­था­त्वा­भावे प्रागुक्ते स्वसिद्धान्ते यत्फलति तदिदानीं किंपुनर्न्यायेन कथयति –
मिथ्येति ॥९॥

प्रासङ्गिकीमेव जीवानां प्रकृतिं दर्शयितुं प्रक्रमते –
जरेति ।
आत्मनो हि सर्व­वि­क्रि­या­र­हिताः स्वभावतो भवन्तीत्यर्थः।

तेषा­मु­क्त­प्र­कृ­ते­र­न्य­थात्वे का क्षति­रि­त्या­श­ङ्क्याऽऽह –
जरामरणमिति ।
सर्व­वि­क्रि­या­शून्ये स्वात्मनि विक्रि­या­क­ल्प­नायां तद्वासनया स्वभावहानिः स्यादित्यर्थः।

श्लोकाक्षराणि व्याक­र्तु­मा­काङ्क्षां दर्शयति –
किंविषयेति ।
आश्रयविषयो विषयशब्दः।

अप्रकृतं प्रकृ­ते­रा­श्र­य­नि­रू­प­ण­मि­त्या­श­ङ्क्याऽऽह –
यस्या इति ।

प्रश्नान्तरं प्रकरोति –
कल्पनायामिति ।

तत्र पूर्वा­र्ध­मु­त्त­र­त्वेन व्याकरोति –
आहेत्यादिना ।

उत्तरार्धं विभजते –
एवंस्वभावा इति ॥१०॥

प्रासङ्गिकं परित्यज्य साङ्ख्यपक्षे वैशे­षि­का­दि­भि­रु­च्य­मानं दूष­ण­म­भ्य­नु­ज्ञा­त­म­नु­भा­षते –
कारणमिति ।

कारणस्य जायमानत्वे का हानि­रि­त्या­श­ङ्क्याऽऽह –
जायमानमिति ।

सावयवत्वाच्च प्रधानस्य नित्य­त्वा­नु­प­प­त्ति­रि­त्याह –
भिन्नमिति ।

श्लोकस्य तात्पर्यमाह –
कथमिति ।

यत्र प्रथ­म­पा­दा­क्ष­राणि योजयति –
कारणमित्यादिना ।

तदेव स्पष्टयति –
कारणमेवेति ।

द्वितीयपादं विभजते –
तस्येति ।
प्रधा­ना­दी­त्या­दि­श­ब्देन तदवयवाः सत्त्वादयो गृह्यन्ते । मह­दा­दी­त्या­दि­श­ब्दे­ना­ह­ङ्का­रा­दि­ग्र­ह­णम्।

तृतीयपादं व्याकरोति –
महदादीति ।

विप्रतिषेधं विशदयति –
जायत इति ।

चतु­र्थ­पा­दा­र्थ­माह –
नित्यं चेति ।

विमतमनित्यं सावयवत्वाद् घटा­दि­व­दि­त्य­भि­प्रेत्य दृष्टान्तं साधयति –
न हीति ।

सङ्ख्य­स्मृ­ति­वि­रु­द्ध­म­नु­मा­न­मि­त्या­श­ङ्क्याऽऽह –
विदीर्णं चेति ॥११॥

किं च कार्य­का­र­ण­यो­र­भेदे किं कारणाभिन्नं कार्यम्? किं वा कार्यभिन्नं कारणमिति विक­ल्प्याऽऽ­द्य­म­नु­व­दति –
कारणादिति ।

अतोऽस्मिन्पक्षे कार्यमजं स्यात्, तथा­वि­ध­का­र­णा­भि­न्न­त्वा­दिति दूषयति –
अत इति ।

द्विती­य­म­नु­द्र­वति –
यदीति ।
जाय­मा­ना­त्का­र्यात् कारणमभिन्नं यदीति योजना।

न तर्हि कारणं ध्रुवं भवितुमर्हति कार्या­भि­न्न­त्वात् तस्य चाध्रुवत्वादिति दूषयति –
कारणमिति ।

श्लोकस्य तात्पर्यमाह –
उक्तस्येति ।
कार्य­का­र­ण­यो­र­भे­द­वादे विप्रतिषेधो दर्शितः। तस्यैव दृढीकरणार्थमयं श्लोक इत्यर्थः।

पुर्वा­र्धा­क्ष­रो­त्थ­म­र्थ­माह –
कारणादिति ।

प्राप्ते­र­नि­ष्ट­प­र्य­व­सा­यि­त्व­माह –
इदं चेति ।
प्रधानस्याजत्वं जायमानत्वं च विप्र­ति­षि­द्ध­मि­त्यु­क्तम्।

अन्य­दि­त्यु­क्त­मेव व्यनक्ति –
कार्यमिति ।

अभेदेऽपि मायावादे नैष दोषः, कारणस्य कार्या­द­न­न्य­त्वा­न­भ्यु­प­ग­मात्, कार्यस्यैव कार­ण­मा­त्र­त्वा­ङ्गी­का­रा­दिति मत्वाऽऽह –
तवेति ।

द्वितीयार्धं विभजते –
किं चान्यदिति ।

अभेदवादेऽपि कार्य­स्या­नि­त्यत्वं कारणस्य नित्यत्वमिति व्यवस्था किमिति न भव­ती­त्या­श­ङ्क्याऽऽह –
न हीति ॥१२॥

किं च यस्य प्रधानवादिनो मते प्रधा­ना­द­जा­द­भिन्नं कार्यं जायते महा­दा­दी­त्य­भ्यु­प­ग­म्यते तस्य पक्षे तस्मिन्नर्थे दृष्टान्तो वक्तव्यः, तदवष्टम्भेनैव तेना­र्थ­व्य­व­स्था­प­नात्। न चात्रो­भ­य­स­म्प्र­ति­पन्नो दृष्टान्तो दृष्टोऽ­स्ती­त्याह –
अजादिति ।

यद्य­जा­न्नि­त्याद् वस्तुनो जाय­मा­न­म­भ्यु­प­गन्तुं न शक्यते तर्हि जातादेव जाय­मा­न­म­भ्यु­प­ग­म्य­ता­मि­त्या­श­ङ्क्याऽऽह –
जाताच्चेति ।

साङ्ख्यसमये दोषा­न्त­र­प्र­द­र्श­न­प­रत्वं श्लोकस्य प्रतिजानीते –
किं चान्यदिति ।

तत्र पूर्वा­र्धा­क्ष­राणि योजयति –
अजादिति ।

दृष्टा­न्ता­भा­वेऽपि प्रमा­णा­न्त­रा­द­र्थ­प्र­ति­प­त्ति­र्भ­वि­ष्य­ती­त्या­श­ङ्क्या‌ऽऽह –
दृष्टान्तेति ।
परस्य खल्व­नु­मा­ना­धी­न­म­र्थ­प­रि­ज्ञा­नम्। न च दृष्टा­न्ता­भा­वेऽ­नु­मा­न­म­व­क­ल्पते। तस्मान्न साङ्ख्यसमयः सम्भवतीत्यर्थः।

द्वितीयार्धं व्याचष्टे –
यदा पुनरित्यादिना ॥१३॥

द्वैत­वा­दि­भि­र­न्यो­न्य­प­क्ष­प्र­ति­क्षे­मु­प­खेन ख्यापितं वस्तु­नोऽ­ज­न्य­त्व­म­द्वै­त­वा­दि­नाऽ­भ्य­नु­ज्ञा­तम्; इदानीं द्वैतनिरसनमपि श्रौतं विद्व­द­नु­भ­वा­नु­सा­रि­त्वात् तेना­भ्य­नु­ज्ञा­त­मे­वे­त्याह –
हेतोरिति ।
हेतुफलात्मकः संसारोऽनादिरिति वद­द्भि­स्त­स्या­ना­दि­त्व­स्व­भावो नैव वक्तुं शक्यते। हेतु­फ­ल­यो­रा­दि­म­त्त्वस्य कण्ठोत्कत्वादतो हेतुफलात्मकं द्वैतमनिरूपित रूप­म­व­स्तु­भू­त­मि­त्यर्थः।

श्लोकस्य तात्पर्यमाह –
यत्र त्विति ।
तमाश्रित्य कार्य­का­र­णा­त्म­कस्य द्वैतस्य दुर्नि­रू­प­त्व­मा­हेति योजना।

हेतु­फ­ल­यो­रा­त्म­प­रि­णा­म­त्वा­दा­दि­म­त्त्व­मु­पा­दा­न­रू­पेण चाना­दि­त्व­मि­त्या­श­ङ्क्याऽऽ­त्मनो निरंशस्य कूटस्थस्य नित्यस्य परि­णा­मा­नु­प­प­त्ते­र्मै­व­मि­त्याह –
न हीति ॥१४॥

हेतु­फ­ल­यो­र­न्यो­न्य­मा­दि­मत्त्वं ब्रुवता तदात्मकस्य संसा­र­स्या­ना­दित्वं विप्र­ति­षि­द्ध­मि­त्यु­प­पा­दि­तम्। सम्प्रति कार्य­का­र­ण­भा­वोऽपि तयोर्न सम्भवतीत्याह –
हेतोरित्यादिना ।

हेतु­फ­ल­यो­र­न्योन्यं कार­ण­त्व­म­भ्यु­प­ग­च्छ­द्भि­र­भ्यु­प­ग­म्यते विरु­द्ध­मि­त्ये­तत् प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।

ईदृशत्वमेव विशदयति –
यथेति ॥१५॥

प्रतीतितो हेतु­फ­ल­यो­रु­त्प­त्ते­रु­प­ग­न्त­व्य­त्वान्न युक्तं तन्नि­रा­क­र­ण­मि­त्या­श­ङ्क्याऽऽह –
सम्भव इति ।

तयोरुदये प्रातीतिके नियतपूर्वभावी हेतु­र्नि­य­तो­त्त­र­भावि फलमित्यभ्युपगमे हेतुमाह –
युगपदिति ।

यथोक्तो विरोधो हेतु­फ­ल­भा­व­स्या­स­म्भवः, स न युक्तोऽ­भ्यु­प­गन्तुं प्रती­ति­वि­रो­धा­दिति व्यावर्त्यां शङ्कामनुवदति –
यथेति ।

तत्रोत्तरत्वेन श्लोकाक्षराणि योजयति –
सम्भव इति ।

प्रतीत्या क्रम­स्वी­का­र­व­दु­प­प­त्ते­श्चे­त्याह –
इतश्चेति ।

तामेवोपपत्तिं स्फोरयति –
युगपदिति ।
ययो­र्यु­ग­प­त्स­म्भ­व­स्त­योर्न कार्यकारणत्वं यथा विषाणयोरिति व्याप्ते­र्व्य­क्त­त्वात् क्रम­स्याऽऽ­व­श्य­क­ते­त्यर्थः॥१६॥

उक्त­व्या­प्ते­र­नु­ग्रा­हकं तर्कमुपन्यस्यति –
फलादिति ।
हेतुफलयोर्मिथो हेतुफलत्वं ब्रुवतो मते हेत्व­धी­न­त­याऽ­ल­ब्धा­त्म­कात् फलादुत्पद्यमानो हेतुर्न ततो लब्धात्मको भव­त्य­ल­ब्धा­त्म­क­श्चा­स­त्त्वान्न फलमुत्पादयितुं शक्नोति। अतो हेतु­फ­ल­भा­व­स्यै­वा­सि­द्धि­रि­त्यर्थः।

हेतु­फ­ल­यो­र­क्र­म­व­तोर्न कार्यकारणभावेन सम्भन्धः सिध्य­ती­त्ये­त­दा­का­ङ्क्षा­पू­र्वकं साधयति –
कथमित्यादिना ।
स्वतो हेतु­स्व­रू­पा­ज्जन्यं फलं तदधीनत्वेन लब्धात्मकं स्वत­श्चा­ल­ब्धा­त्म­कम्। तत उत्पद्यमानः सन्नेष हेतुर्न प्रसिध्यति। न खलु शशविषाणादेरसतः सकाशात् किञ्चि­ल्ल­ब्धा­त्म­क­मु­प­ल­भ्यते। हेतु­श्चे­द­प्र­सि­द्धोऽ­ल­ब्धा­त्म­कोऽ­भ्यु­प­गतः स तर्हि तथाविधोऽसद्रूपः सन्न फल­मु­त्पा­द­यि­तु­मु­त्स­हते। न हि सद्वादिमते फलमसतः सका­शा­दु­प­ल­ब्ध­च­र­मि­त्यर्थः।

तथाऽपि कथं हेतु­फ­ल­यो­र­स­म्बन्धः सिध्य­ती­त्या­श­ङ्क्याऽऽह –
न हीति ।
अन्यथा वेत्या­धा­रा­धे­य­भा­वा­दि­क­थ­नम्॥१७॥

हेतु­फ­ल­यो­र्यौ­ग­पद्ये सत्यन्यतरस्यापि न पूर्वक्षणे सत्तेत्यसतोः शश­वि­षा­ण­यो­रि­वा­न्यो­न्या­पे­क्षया जन्यजनकत्वं नोपपद्यते, शशविषाणादिष्वपि प्रस­ङ्गा­दि­त्यु­क्तम्। इदानीं “पुण्यो वै पुण्येन कर्मणा भवति”(बृ. उ. ३ । २ । १३) इत्या­दि­श्रु­ते­र्ध­र्मा­दिषु हेतु­फ­ल­भा­व­मा­शङ्क्य श्रुते­र­स­म्भा­वि­तार्थे प्रामा­ण्या­यो­गा­द­वश्यं पौर्वापर्यं वक्तव्यमित्याह –
यदीति ।

श्लोकाक्षराणि योजयति –
अस­म्ब­न्ध­ते­त्या­दिना ॥१८॥

हेतुफलयोरिदं पूर्वमिदं पश्चादिति न ज्ञायते, परस्पराश्रयात्। अतश्चेदं पूर्व­नि­ष्प­न्न­मिति वक्तु­म­श­क्य­मि­त्याह –
अशक्तिरिति ।
उत्तरावसरे चेदु­त्त­रा­प­रि­ज्ञानं तर्हि कथकाशक्तिसूचकं तन्नि­ग्र­ह­स्था­न­म­प्र­ति­भा­भि­धा­नी­य­मा­प­त­ती­त्यर्थः। किं च यदि क्रमस्य निय­त­पू­र्वा­प­र­भा­वा­त्म­नोऽ­प­रि­ज्ञानं सदा पूर्वं कारणमुत्तरं कार्यमिति प्रतिज्ञा हीयेत।

तथा च प्रति­ज्ञा­हा­नि­र्नि­ग्र­हा­न्त­र­मा­प­द्ये­ते­त्याह –
क्रमेति ।
अन्यो­न्य­प­क्ष­प्र­ति­क्षे­प­मु­खेन सतोऽसतश्च जन्मनी प्रत्याख्याते।

क्रमा­क्र­मा­भ्या­मु­त्प­त्ते­र­नु­प­प­त्ते­र­जा­ति­रे­वा­स्म­द­भि­प्रेता वादिभिरादर्शिता भवतीत्युपसंहरति –
एवं हीति ।

तत्राद्यं पादं व्याकरोति –
अथेत्यादिना ।
क्रमपक्षे पूर्व­नि­ष्प­न्न­मे­त­च्छ­ब्देन परामृश्यते।

द्वितीयपादं योजयति –
अथेवेत्यादिना ।

द्वितीयार्धं विवृणोति –
एवमिति ॥१९॥

बीजाङ्कुरयोरिव हेतु­फ­ल­यो­र­न्योन्यं कार्य­का­र­ण­भा­वा­भ्यु­प­ग­मा­न्ना­न्यो­न्या­श्र­य­त्व­मि­त्या­श­ङ्क्याऽऽह –
बिजेति ।

दृष्टान्तस्य साध्यसमत्वेऽपि साध­क­त्व­म­स्त्वि­त्या­श­ङ्क्याऽऽह –
न हीति ।

श्लोकापोद्यं चोद्यमुद्भावयति –
नन्विति ।
शब्दमात्रं विव­क्षि­ता­र्थ­शू­न्यम्।

शब्दमाश्रित्य च्छल्प्र­यो­ग­मे­वो­दा­ह­रति –
पुत्रादिति ।
आदिशब्देन ‘फला­दु­त्प­द्य­मानः सन्न ते हेतुः प्रसिध्यति’(मा. का. ४ । १७) इत्यादि गृह्यते।

कार्यकारणभावो हेतु­फ­ल­यो­रि­त्य­त्रा­न­भि­प्रे­त­मर्थं कथयति –
न हीति ।

तत्रैव प्रश्न­पू­र्व­क­म­भि­प्रे­त­म­र्थ­मु­दा­ह­रति –
किं तर्हीति ।

दृष्टा­न्ता­स­म्प्र­ति­पत्त्या परिहरति –
अत्रेति ।
मायावादिमते क्वचिदपि कार्यकारणभावस्य वस्तु­भू­त­स्या­स­म्प्र­ति­प­त्ते­र्म­मे­त्यु­क्तम् ।

प्रत्य­क्षा­व­ष्ट­म्भेन दृष्टान्तं साधयन्नाशङ्कते –
नन्विति ।

किं बीजा­ङ्कु­र­व्य­क्त्यो­रिदं कार्य­का­र­ण­त्व­मि­ष्यते किं वा बीजा­ङ्कु­र­स­न्ता­न­यो­रिति विकल्प्याऽऽद्यं दूषयति –
न पूर्वस्येति ।

तदेव प्रपञ्चयति –
यथेत्यादिना ।
बीज­व्य­क्ते­र­ङ्कु­र­व्य­क्ते­श्चो­क्त­प्र­का­रे­णा­ना­दि­त्व­स्या­न्यो­न्य­का­र­ण­त्वस्य चानुपपत्तिरिति शेषः।

कल्प­न्त­र­मु­त्था­प­यति –
अथेति ।
बीज­स­न्त­ते­र­ङ्कु­र­स­न्त­ते­श्चा­ना­दि­त्व­म­न्यो­न्य­का­र­णत्वं चाविरुद्धं सिध्यति। बीज­जा­ती­या­द­ङ्कु­र­जा­ती­य­म­ङ्कु­र­जा­ती­याद् बीज­जा­ती­य­मु­त्प­द्य­मा­न­मु­प­ल­भ्यते। तथैव हेतु­जा­ती­या­त्फ­ल­जा­तीयं फलजातीजाच्च हेतु­जा­ती­य­म­वि­रु­द्ध­मि­त्यर्थः।

दृष्टान्ते दार्ष्टान्तिके च सन्ततेरेकस्या व्यक्ते­र्व्य­ति­रे­के­णा­स­म्भ­वा­न्मै­व­मिति दूषयति –
नेत्यादिना ।

तदेव प्रपञ्चयति –
न हीति ।
तद­ना­दि­त्व­वा­दिभिः तासु व्यक्तिषु मिथो हेतु­त्व­म­ना­दित्वं तद्वदनशीलैरिति यावत्।

अन्यो­न्या­श्र­य­त्वा­द­न­व­स्था­नाद्वा हेतुफलयोर्मिथो हेतुफलभावस्य वक्तु­म­श­क्य­त्वाद् दृष्टा­न्त­दा­र्ष्टा­न्ति­क­यो­र­नु­प­पत्तिः सिद्धे­त्यु­प­सं­ह­रति –
तस्मादिति ।

दृष्टा­न्त­स्या­स­म्प्र­ति­प­न्नत्वे स्थिते कार्यकारणस्य क्वचिदपि सम्प्र­ति­प­त्त्य­भा­वात् पुत्राज्जन्म पितुर्यथेत्यादि न च्छल­प्र­यु­क्त­मिति फलितमाह –
तथा चेति ।

एवं श्लोकस्य पूर्वार्धं व्याख्या­यो­त्त­रार्धं व्याचष्टे –
न चेति ।

किमिति हेतुशब्दस्य मुख्यमर्थं त्यक्त्वा गौणोऽर्थो गृह्यते? प्रक­र­ण­सा­म­र्थ्या­दि­त्याह –
प्रकृतो हीति ।
हेतु­फ­ल­भा­वा­नु­प­प­त्ति­मु­प­पा­दि­ता­मु­प­सं­ह­र्तु­मि­ति­शब्दः॥२०॥

यत्पु­न­र­न्यो­न्य­पक्षं प्रति­क्षि­प­द्भि­र­जा­ति­र्व­स्तुतो ज्ञापिता परी­क्ष­कै­रि­त्यु­प­क्षिप्तं तत्र कथ­म­जा­ति­र्व­स्तुतो ज्ञापि­ते­त्या­श­ङ्क्याऽऽह –
पूर्वापरेति ।

कार्यस्य गृह्य­मा­ण­त्वा­द­जा­ति­र­सि­द्धे­त्या­शङ्क्य कारणस्यापि तर्हि ग्राह्य­त्वा­दि­त­रे­त­रा­श्र­या­द­जा­ति­र­भि­व्यक्ता सिध्यतीत्याह –
जायमानादिति ।

तत्र पूर्वार्धं प्रश्नद्वारा विवृणोति –
कथमित्यादिना ।
नियते पौर्वापर्ये निर्धारिते जातिः सिध्यति, तदभावे तद­सि­द्धि­रि­त्यर्थः।

द्वितीयार्धं विभजते –
जायमानो हीति ।

कार्यग्रहणे कारणं ग्रहीतव्यमिति कुतो नियम्यते, तत्राऽऽह –
अवश्यं हीति ।

कार्य­का­र­ण­यो­र्नि­य­त­स­म्ब­न्ध­व­तो­रि­त­रे­त­रा­श्र­याद् दुर्ग्र­ह­त्वा­द­जा­ति­रेव वस्तुतो ज्ञापि­ते­त्यु­प­सं­ह­रति –
तस्मादिति ।
कार्य­का­र­ण­यो­र्दु­र्ज्ञा­नत्वं तच्छब्देन परामृश्यते॥२१॥

वस्तुनो वस्तुतो जन्म नास्तीति विकल्पपूर्वकं साधयति –
स्वतो वेत्यादिना ।

कस्यचिदपि वस्तुनो जन्म नास्ती­त्य­स्मि­न्नर्थे हेत्वन्तरपरत्वं श्लोकस्य दर्शयति –
इतश्चेति ।

इतःशब्दार्थमेव स्फोरयितुं जायमानमनूद्य षोढा विकल्पयति –
यज्जायमानमिति ।

सर्वेष्वपि पक्षेषु दोषसम्भावनां सूचयति –
न तस्येति ।

तत्राऽऽद्यं दूषयति –
न तावदिति ।
स्वयमेव जायमानं कार्यं स्वस्मादेव स्वरूपान्न तावज्जायते, स्वयमेव स्वापे­क्षा­म­न्त­रेण स्वकारणाधीनतया परि­नि­ष­न्न­त्वात्। अन्यथा स्वसिद्धेः स्वसि­द्धि­रि­त्या­त्मा­श्र­यात्। न हि घटादेव घटो जायमानो दृष्टोऽ­स्ती­त्यर्थः।

द्वितीयं प्रत्याह –
नापीति ।
न खल्वन्यत्वं जनकत्वे प्रयोजकम्। घटादपि पटो­त्प­त्ति­प्र­स­ङ्गात्। न चोत्पा­द­क­त्व­यो­ग्य­त्व­वि­शे­षि­त­म­न्यत्वं तथेति वाच्यम्। उत्पत्तिमन्तरेण तद्योग्यत्वस्य दुर­व­ग­म­त्वा­दि­त्यर्थः।

तृतीयं निरस्यति –
तथेति ।

विरोधमेव दृष्टान्तद्वारा स्पष्टयति –
यथेति ।
न हि घटपटाभ्यां घटः पटो वा जायमानो दृश्यते। तथा जायमानं स्वस्मा­द­न्य­स्माच्च भव­ती­त्य­नु­प­प­न्न­मि­त्यर्थः।

अन्यत्वे सत्यपि जन्यजनकभावस्य प्रत्य­क्ष­त्वा­न्नासौ शक्यते प्रति­क्षे­प्तु­मिति शङ्कते –
नन्विति ।

किं प्रत्य­क्षा­नु­सा­रिणौ शब्द­प्र­त्य­या­व­वि­वे­कि­ना­मि­ष्येते किं वा विवेकिनामिति विक­ल्प्याऽऽ­द्य­म­ङ्गी­क­रोति –
सत्यमिति ।

द्वितीयं प्रत्याह –
तावेवेति ।
मृषैवेति परीक्ष्यमाणे सतीति सम्बन्धः। तच्च जन्मशब्दधीविषयं वस्तु शब्दमात्रमेव वाचा­र­म्भ­ण­श्र­व­णान्न परमार्थतो यावता विद्यते, तस्मा­द­स­त्या­ल­म्ब­न­त्व­मेव शब्द­प्र­त्य­य­यो­रे­ष्ट­व्य­मिति योजना।

चतुर्थं शिथिलयति –
सच्चेदिति ।

पञ्चमं निराकरोति –
यदीति ।

षष्ठं प्रत्यादिशति –
अथेत्यादिना ।

षण्णां विकल्पानां निरासे फलितं निगमयति –
अतो नेति ।

क्रिया­का­र­क­फ­ल­ना­ना­त्व­पक्षे जन्मा­नु­प­प­त्ति­दो­ष­मुक्त्वा पक्षान्तरमनूद्य दूषयति –
येषां पुनरिति ।

बौद्धानां न्यायावष्टम्भेन वस्तु व्यवस्थापयतां कुतो न्याय­बा­ह्य­त्व­मि­त्या­श­ङ्क्याऽऽह –
इदमिति ।
इदमा वस्तु परामृष्टम्। इत्थमिति क्षणिकत्वं विवक्षितम्। एव­म­व­धा­र­णा­व­च्छिन्ने क्षणे वस्त्व­व­च्छे­द­क­क्ष­णा­ति­रिक्ते वस्तु­नोऽ­व­स्था­ना­भा­वान्न तस्मिन्ननुभवः सिध्यतीत्यर्थः। न च तस्मि­न्न­न­नु­भू­तेऽर्थे स्मृति­रु­त्प­द्यते।

तथा च वस्तुनि प्रत्य­य­द्व­या­सिद्धौ व्यव­हा­रा­सि­द्धि­रि­त्याह –
अननुभूतस्येति ॥२२॥

वस्तुनो वस्तुतो जन्मराहित्ये हेत्वन्तरमाह –
हेतुर्नेति ।
नानादेः फला­द्धे­तु­र्जा­यते। न हि फलस्यानादित्वे ततो हेतुजन्म युक्तं सदा तज्ज­न्म­प्र­स­ङ्गा­दि­त्यर्थः।

फलमपि न हेतो­र­ना­दे­र्जा­यते दोष­सा­म्या­दि­त्याह –
फलं चेति ।
नापि स्वभावतो निमित्तमन्तरेण फलं हेतुर्वा जायते।

तत्र हेतुमाह –
आदिरिति ।
कारणरहितस्य जन्मा­नु­प­ल­ब्धे­रि­त्यर्थः।

वस्तुनो वस्तुतो जन्माभावे हेत्वन्तरपरत्वं श्लोकस्य सूचयति –
किं चेति ।

हेत्वन्तरमेव दर्शयितुं प्रथमं प्रतिज्ञां करोति –
हेत्विति ।

फला­द्धे­तु­र्जा­यते, ततश्च फल­मि­त्य­भ्यु­प­ग­मात् कथ­म­ज­न्मा­भ्यु­प­ग­त­मिति पृच्छति –
कथमिति ।

तत्राऽऽ­द्य­पा­दा­क्ष­र­यो­ज­नया परिहरति –
अनादेरिति ।

तदेवोपपादयति –
न हीति ।
फलं कार्य­क­र­ण­स­ङ्घातः। हेतुर्धर्मादिः।

फलं चापीति भागं विभजते –
फलं चेति ।
अजाज्जायत इति नाभ्युपगम्यत इति सम्बन्धः।

स्वभावत इति पदं योजयति –
स्वभावत एवेति ।

फलितं निगमयति –
तस्मादिति ।
न हेतु­फ­ल­यो­र्ज­न्म­व­तो­र­ना­दि­त्व­म­भ्यु­प­गन्तुं शक्यम्। अभ्युपगमे च जन्मैव तयोराकस्मिकं स्यादित्यर्थः।

स्वभा­व­वा­द­नि­रा­क­रणं प्रति­ज्ञा­त­मु­त्त­रा­र्धा­व­ष्ट­म्भेन प्रतिपादयति –
यस्मादिति ॥२३॥

वस्तुनो वस्तुतो जन्मायोगादजं विज्ञानमात्रं तत्त्व­मि­त्यु­क्तम्। इदानीं बाह्या­र्थ­वा­द­मु­त्था­प­यति –
प्रज्ञप्तेरिति ।

ज्ञानस्य निर्विषयत्वे प्रत्य­य­वै­चि­त्र्या­नु­प­पत्तिं प्रमाणयति –
अन्यथेति ।

अग्नि­दा­हा­दि­प्र­यु­क्त­दुः­खो­प­ल­ब्ध्य­नु­प­प­त्ते­श्चास्ति बाह्यार्थ इत्याह –
संक्लेशस्येति ।
परतन्त्रं परकीयं शास्त्रं, तस्यास्तिता तद्विषयस्य बाह्यार्थस्य विद्यमानतेति यावत्।

श्लोकस्य तात्पर्यमाह –
उक्तस्यैवेति ।
वस्तुनो नास्ति वस्तुतो जन्मे­त्यु­क्ता­र्थ­स्त­स्यैव दृढीकरणं पूर्वो­त्त­र­प­क्षाभ्यां चिकीर्ष्यते। तया पुनराक्षेपमुखेन बाह्या­र्थ­वा­दिनां प्रस्था­न­मु­त्था­प­य­ती­त्यर्थः।

ब्रह्म­स्व­रू­प­भूतां प्रज्ञप्तिं प्रतिषेधति –
शब्ददीति ।

साकारवादं व्युदस्यति –
स्वात्मेति ।

प्रज्ञ­प्ते­र्वि­ष­य­नि­र­पे­क्ष­त्वान्न स्वाति­रि­क्त­वि­ष­य­ते­त्या­श­ङ्क्याऽऽह –
न हीति ।
सनिमित्तत्वं सविषयत्वेन स्फुरणम्।

तमेव हेतुं द्विती­य­पा­द­यो­ज­नया विशदयति –
अन्यथेति ।

प्रस­ङ्ग­स्ये­ष्टत्वं प्रत्याचष्टे –
न चेति ।

प्रत्य­य­वै­चि­त्र्या­नु­प­प­त्ति­प्र­युक्तं फलं चतु­र्थ­पा­द­व्या­ख्या­नेन कथयति –
अत इति ।

ननु प्रज्ञप्तेः स्वभावभेदेनैव बाह्यालम्बनं वैचि­त्र्य­म­न्त­रेण स्वगतं वैचित्र्यं घटिष्यते, तत्राऽऽह –
न हीति ।

औपाधिकं तर्हि प्रत्य­य­वै­चि­त्र्य­मि­त्या­शङ्क्य बाह्या­र्थ­ति­रि­क्तो­पा­ध्य­न­धि­ग­मा­न्मै­व­मि­त्याह –
स्फटिकस्येति ।

तृतीयपादं हेत्व­न्त­र­प­र­त्वे­ना­व­ता­र­यति –
इतिश्चेति ।

तस्यो­प­ल­ब्धि­मु­प­पा­द­यति –
उपलभ्यते हीति ।

तदुपलम्भेऽपि कुतो बाह्या­र्थ­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह –
यदीति ।
उपलब्धिरेव तर्हि दुःखस्य मा भूदिति चेन्न।

स्वानु­भ­व­वि­रो­धा­दि­त्याह –
उपलभ्यते त्विति ।

विशि­ष्ट­दुः­खो­प­ल­ब्ध्य­नु­प­प­त्ति­सिद्धं फलमाह –
अत इति ।

विज्ञा­ना­ति­रि­क्त­बा­ह्या­र्था­भा­वेऽपि क्लेशो­प­ल­ब्धि­र­वि­रु­द्धे­त्या­श­ङ्क्याऽऽह –
न हीति ।
अन्यत्र दाह­च्छे­दा­दि­व्य­ति­रिक्ते चन्द­न­प­ङ्क­ले­पा­दा­विति यावत् ॥२४॥

द्वाभ्या­म­र्था­प­त्तिभ्यां बाह्यार्थवादे प्राप्ते विज्ञा­न­वा­द­मु­द्भा­व­यति –
प्रज्ञप्तेरिति ।

अस्तु का नाम वस्तु­क्ष­ति­रि­त्या­श­ङ्क्याऽऽह –
निमित्तस्येति ।

मतान्तरे प्राप्ते तन्नि­रा­क­र­ण­मु­च्यते निज्ञानवादिनेति श्लोकस्य तात्पर्यमाह –
अत्रेति ।

तत्र पूर्वार्धं विभजते –
बाढमित्यादिना ।

द्वैतिनस्तव तर्क­प्र­धा­न­त्वान्न प्रती­ति­मा­त्र­श­र­णता युक्तेति मत्वाऽऽह –
स्थिरीभवेति ।
वस्तुनो बाह्यस्यार्थस्य तथात्वं प्रज्ञ­प्ति­वि­ष­यत्वं तस्याभ्युपगमे कारणं प्रागु­क्त­यु­क्ति­द­र्श­न­मि­त्ये­त­स्मि­न्नर्थे त्वं स्थिरीभवेति योजना।

विचा­र­दृ­ष्टि­मे­वा­व­ष्ट­भ्याहं वर्ते, किं ततः, दूषणं ब्रूहीति पृच्छति –
ब्रूहीति ।

तत्रोत्तरार्धं सिद्धान्ती व्याकु­र्व­न्नु­त्त­र­माह –
उच्यत इत्यादिना ।

घटा­दे­र्वै­चि­त्र्या­हे­तुत्वे प्रश्नपूर्वकं हेतुमाह –
कथमित्यादिना ।

परमार्थदर्शनं प्रपञ्चयति –
न हीति ।

तत्र वैध­र्म्य­दृ­ष्टा­न्त­माह –
यथेति ।

घटे दर्शितं न्यायं पटेऽपि दर्शयति –
पटो वेति ।

तन्तुष्वपि न्याय­सा­म्य­मु­दा­ह­रति –
तन्तव इति ।

पर­मा­र्थ­द­र्श­न­फ­ल­मु­प­सं­ह­रति –
इत्येवमिति ।
घटादीनां स्वका­र­ण­व्य­ति­रे­के­णा­सतां न प्रत्य­य­वै­चि­त्र्य­हे­तु­त्व­मतो घटा­दि­प्र­त्य­य­व­त्प्र­त्य­या­न्त­रा­ण्यपि प्रत्य­य­त्वा­वि­शे­षाद् वास्त­वा­ल­म्ब­न­व­र्जि­तानि मन्त­व्या­नी­त्यर्थः। भूतदर्शनं यौक्तिकं तत्त्वदर्शनं ततो निमि­त्त­स्या­नि­मि­त्त­त्व­मिति व्याख्यातम्।

इदा­नी­म­भू­त­द­र्श­ना­दिति पदच्छेदेन व्याख्या­ना­न्त­र­माह –
अथवेति ।
यथा रज्ज्वा­दा­व­धि­ष्ठाने सर्पा­दे­रा­रो­पि­तस्य दर्शनान्न तस्य वस्तुतो दर्शनं प्रत्या­ल­म्ब­न­त्व­मि­ष्टम्। तथै­वा­धि­ष्ठा­न­ज्ञा­ना­पे­क्षया परमार्थतो दर्शनाद् बाह्यस्यार्थस्य ज्ञानं प्रत्या­ल­म्ब­नत्वं वास्त­व­म­भ्यु­प­ग­न्तु­म­श­क्य­मि­त्यर्थः।

किञ्च विमतो बाह्यार्थो न तत्त्वतो ज्ञानं प्रत्यालम्बनं भ्रान्ति­वि­ष­य­त्वाद् रज्ज्वां सर्पादिवदित्याह –
भ्रान्तीति ।

हेतुं साधयति –
तदभाव इति ।

भ्रान्त्यभावे बाह्यार्थो न भातीत्युक्तं हेतुं प्रपञ्चयति –
न हीति ।

देहाभिमानवतो बाह्या­र्थ­प्र­ति­भा­न­ध्रौ­व्या­द­द्वै­त­द­र्शि­नोऽपि तत्प्र­ति­भा­न­म­प्र­त्यूहं प्राप्नो­ती­त्या­श­ङ्क्याऽऽह –
न ह्युन्मत्तेति ।

बाह्या­र्थ­स­म­र्थ­ना­र्थ­मु­क्त­म­र्था­प­त्ति­द्वयं कथं निरसनीयमित्याह –
एतेनेति ।
तत्त्वदर्शिनां स्फुर­णा­ति­रि­क्त­व­स्त्व­नु­प­ल­म्भ­प्र­द­र्श­नेन वैचित्र्यदर्शनं दुःखोपलब्धिश्च प्रत्युक्ता। तेना­नु­प­प­द्य­मा­ना­र्था­प­त्ति­द्व­य­स्या­नु­त्था­नम्। व्यवहारदृष्ट्या तु पूर्व­भ्र­म­स­मा­रो­पि­त­स्व­प्न­व­देव संवेदने वैचित्र्यं दुःखं च व्यव­हा­रा­ङ्ग­मि­त्य­न्य­थाऽ­प्यु­प­प­त्ति­रि­त्यर्थः॥२५॥

ज्ञानस्य साल­म्ब­न­त्व­प्र­सि­द्धे­स्त­त्त्व­दृष्ट्या ज्ञेयाभावे ज्ञानमपि न स्यादि­त्या­श­ङ्क्याऽऽह –
चित्तमिति ।
न हि स्फुरणं सकर्मकं तस्य सक­र्म­क­त्व­प्र­सि­द्ध्य­भा­वात्। जानातेस्तु सकर्मकत्वं क्रिया­फ­ल­त्व­क­ल्प­नया स्वीकृतमिति भावः।

चित्त­स्या­र्थ­स्प­र्शि­त्वा­भा­वेऽपि तदा­भा­स­स्प­र्शित्वं स्यादि­त्या­श­ङ्क्याऽऽह –
नार्थेति ।

तत्र हेतुमाह –
अभूत इति ।

प्रथमपादं व्याचष्टे –
यस्मादिति ।

विमतं चित्त­म­र्था­भा­स­मपि न स्पृशति चित्तत्वात् सम्प्र­ति­प­न्न­व­दिति द्वितीयं पादं विभजते –
नापीति ।
न हि दृष्टान्ते तस्या­र्था­भा­स­स्प­र्शित्वं तस्यैव तदात्मना भानादित्यर्थः।

तृतीयपादं व्याकरोति –
अभूतो हीति ।
विमतोऽर्थः सन्न भवत्यर्थत्वात् सम्प्र­ति­प­न्न­व­दि­त्य­नु­मा­नान्न ज्ञान­स्याऽऽ­ल­म्ब­न­मि­त्यर्थः।

विमतोऽर्थः स्ववि­ष­य­ज्ञा­न­ज­नको न भवति भ्रान्ति­वि­ष­य­त्वात् सम्प्र­ति­प­न्न­व­दि­त्यु­क्त­म­नु­मानं स्मारयति –
उक्तेति ।

अर्थ­ज­न्य­त्वा­भा­वेऽपि ज्ञान­स्या­र्था­भा­स­ज­न्यत्वं स्यादि­त्या­शङ्क्य चतु­र्थ­पा­दा­र्थ­माह –
नापीति ॥२६॥

ज्ञानस्य सालम्बनत्वाभावे तस्य तथात्वप्रथा भ्रान्ति­र्भ­वेत्। भ्रान्ति­श्चा­भ्रा­न्ति­प्र­ति­यो­गि­नी­त्य­न्य­था­ख्या­ति­मा­श­ङ्क्याऽह –
निमित्तमिति ।
कालत्रयेऽपि ज्ञानस्य वस्तु­तोऽ­र्थ­स्प­र्शि­त्वा­भावे तद्वासनाभावात् तज्जन्या नान्यथाख्यातिः सिध्यति।

भ्रान्तिस्तु विधान्तरेणापि भविष्यतीत्याह –
अनिमित्त इति ।

श्लोक­व्या­व­र्त्या­मा­शङ्कां दर्शयति –
नन्विति ।
यदि घटा­दि­र्बा­ह्योऽर्थो न गृह्यते तर्हि तस्मिन्नसत्येव तदाभासता ज्ञानस्य विपर्यासः। अत­स्मिं­स्त­द­बु­द्धे­स्त­था­त्वात्। विपर्यासे च स्वीकृते क्वचि­द­प्य­वि­प­र्यासो वक्तव्यः, भ्रान्ते­र­भ्रा­न्ति­पू­र्व­क­त्व­स्या­न्य­था­ख्या­ति­वा­दि­भि­रि­ष्ट­त्वा­दि­त्यर्थः।

तत्र पुर्वार्धयोजनया परिहरति –
अत्रेति ।

उक्त­मे­वा­र्थ­मु­त्त­रा­र्ध­यो­ज­नया साधयति –
यदीति ।

अभ्रा­न्ते­र­भा­वा­द­स­म्भवे भ्रान्तेरसति घटादौ घटाद्याभासता ज्ञानस्य कथं निर्व­ह­ती­त्या­श­ङ्क्याऽऽह –
अयमेवेति ।
स्वभा­व­श­ब्दे­ना­वि­द्यो­च्यते। न हि भ्रान्ति­र­भ्रा­न्ति­पू­र्वि­केति नियमः। सविषयाणां भ्रमा­णा­म­वि­द्या­त्वा­भ्यु­प­ग­मा­दि­त्यर्थः॥२७॥

बाह्या­र्थ­वा­दि­प­क्ष­मेवं विज्ञा­न­वा­दि­मु­खेन प्रतिक्षिप्य विज्ञा­न­वा­द­मि­दा­नी­म­प­व­दति –
तस्मादिति ।

प्रतिक्षणं विज्ञानस्य जन्म दृश्यते विज्ञा­न­वा­दि­भि­रि­त्या­श­ङ्क्याऽऽह –
तस्येति ।

वृत्त­स­ङ्की­र्त­न­पू­र्वकं श्लोकस्य तात्पर्यमाह –
प्रज्ञप्तेरिति ।

तच्च बाह्यार्थवादिनो बाह्योऽर्थो विज्ञानवदस्तीति पक्ष­प्र­ति­षे­ध­मु­खेन प्रवृत्तम्, तत्पुनराचार्येण भव­त्वे­व­मि­त्य­नु­ज्ञा­तम्, बाह्या­र्थ­वा­द­दू­ष­णस्य स्वमतेऽपि संमतत्वादित्याह –
बाह्यार्थेति ।

बाह्या­र्थ­वा­द­दू­ष­णा­नु­मो­द­न­प्र­यो­ज­न­माह –
तदेवेति ।
असत्येव घटादौ घटाद्याभासत्वं विज्ञानस्य यदुक्तं तदेव हेतुत्वेनोपादाय विज्ञा­न­वा­द­नि­षे­धार्थं बाह्या­र्थ­प­क्ष­दू­ष­ण­म­नु­मो­दि­त­मि­त्यर्थः।

सम्प्रति विज्ञा­न­वा­द­दू­ष­ण­म­व­ता­र­यति –
तदिदमिति ।

तस्मादित्यादि व्याचष्टे –
यस्मादिति ।
भूत­द­र्श­ना­द्घ­टा­दे­र्मृ­दा­दि­मात्रं भूतं वस्तुतत्त्वं तस्यापि विज्ञप्तिमात्रं तत्त्वं तस्य शास्त्रतो दर्शनादिति यावत्।

द्वितीयपादं दृष्टान्तत्वेन विभजते –
यथेति ।
विमतं विज्ञानजन्म न तात्त्विकं दृश्य­त्वा­न्नी­ल­पी­ता­दि­व­दि­त्यर्थः।

विपक्षे दोषमाह –
अत इति ।
तत्त्वतो विज्ञानस्य जन्मायोगाद् ये तस्य तात्त्विकं जन्म पश्यन्ति ते पक्ष्यादीनां खेऽपि पदं पश्य­न्ती­त्य­न्वयः। अना­त्म­त्वा­दी­त्या­दि­श­ब्दे­ना­न्यो­न्य­वि­ल­क्ष­ण­त्व­म­न्यो­न्य­सा­दृश्यं च गृह्यते।

तत्र हेतुं सूचयति –
तेनैवेति ।
स्ववृ­त्ते­र­नु­प­प­त्ते­स्त­द्दृ­श्य­ता­म­न्त­रेण च तद्ध­र्म­दृ­श्य­ताऽ­स­म्भ­वा­दि­त्यर्थः।

विज्ञानवादे फलितं विशेषं दर्शयति –
अत इति ।

शून्यवादिनं प्रति विशेषं कथयति –
येऽपीति ।
पश्यन्त एवे­त्य­वि­लु­प्त­दृ­ग्रू­पता द्योत्यते। दृग्बलादेव सर्वाभावः सिध्यति। दृगभावस्तु कथं सिध्येत्। न च तावद् दृगेव तदभावं साधयेत्। तयो­रे­क­का­ल­त्वा­नु­प­प­त्ते­रि­त्यर्थः। किं च सर्वशून्यतां वदन्तः शून्यतादर्शनस्य स्वात्मदर्शनस्य च शून्यतां वदन्ति।

तथा च स्वप­क्षा­सि­द्धि­रि­त्य­भि­प्रे­त्याऽऽह –
स्वदर्शनस्येति ।
ततोऽपीति विज्ञा­न­वा­दि­भ्योऽ­पी­त्यर्थः॥२८॥

यदि विज्ञानस्य बाह्यालम्बनत्वं क्षणिकत्वं शून्यत्वं च न सम्भवति किं तर्हि तत्त्वेमेकरूपं भव­ती­त्या­श­ङ्क्याऽऽह –
अजातमिति ।

तस्याश्च प्रकृ­ते­र­न्य­थात्वं पुरस्तादेव निरस्तमित्याह –
प्रकृतेरिति ।

श्लोकस्य तात्पर्यमाह –
उक्तैरिति ।
कूटस्थमद्वितीयं ब्रह्मोति यत्पूर्वत्र प्रतिज्ञातं तज्जन्मनो दुर्नि­रू­प­त्वा­दु­क्त­हे­तुभिः सिद्धम्। तस्यैव सिद्धस्यार्थस्य फलमुपसंहर्तुमेष श्लोक इत्यर्थः।

पूर्वार्धं योजयति –
अजातमिति ।
यदि चित्तं स्फुर­ण­म­जा­त­म­भीष्टं तर्हि तद् ब्रह्मैव, तस्य कौट­स्थ्यै­क­स्वा­भा­व्या­त्त­त्पु­न­र्व­स्तुतो न जातमेव मायया जन्मवदिति कल्प्यते चेत् तस्या­जा­ति­रे­वा­जा­त­त्त्वात् प्रकृ­ति­र्भ­व­ती­त्यर्थः।

द्वितीयार्धं योजयति –
अजातरूपाया इति ।
तस्या­श्चे­द­न्य­थात्वं स्वरू­प­हा­नि­रा­प­ते­दि­त्यर्थः॥२९॥

कूटस्थं तत्त्वं तात्त्वि­क­मि­त्यत्र हेत्वन्तरमाह –
अनादेरिति ।
विमतः संसारो नान्त­वा­न­ना­दि­भा­व­त्वा­दा­त्म­व­दि­त्यर्थः।

किं च मोक्षोऽनन्तो न भावत्वे सत्या­दि­म­त्त्वाद् घटवदित्याह –
अनन्तेति ।

श्लोकस्य तात्पर्यमाह –
अयं चेति ।

तत्र पूर्वार्धं व्याकरोति –
अनादेरिति ।
अतीतकोटिरहितस्य पूर्वं नाऽऽसी­दि­त्य­व­च्छे­द­व­र्जि­त­स्ये­त्यर्थः।

योऽनादिभावः सोऽन्तवान्नेति व्याप्तिरात्मनि व्यक्तेत्याह –
न हीति ।

बीजा­ङ्कु­र­यो­र्हे­तु­फ­ल­भा­वेन सम्बन्धस्तस्य नैरन्तर्यं सन्ता­न­स्त­स्या­ना­दि­भा­व­त्वेऽपि विच्छे­द­स्या­न्तस्य दृष्ट­त्वा­द­नै­का­न्ति­क­तेति शङ्कते –
बीजेति ।

भाव­त्व­वि­शे­ष्यां­शस्य तत्रावर्तनान्न व्यभिचारशङ्केति दूषयति –
नैकेति ।

द्वितीयार्धं व्याचष्टे –
तथेति ।

यत्राऽऽ­दि­मत्त्वं तत्र नानन्तत्वमिति व्याप्तिभूमिमाह –
घटादिष्विति ।

यथा कृतकोऽपि घटादिध्वंसो नित्यस्तथा बन्धध्वंसोऽपि भव­ष्य­ती­त्य­नै­का­न्ति­क­त्व­मा­श­ङ्कते –
घटादीति ।

मोक्ष­स्या­भा­वत्वे सति पर­मा­र्थ­स­त्त्व­प्र­तिज्ञा भज्येतेति दूषयति –
तथा चेति ।

किं च प्रागसतः सत्तासमवायरूपं कार्यत्वं तदपि मोक्ष­स्या­सत्त्वे न सिद्ध्यतीत्याह –
असत्त्वादेवेति ॥३०॥

अस्तु तर्हि मोक्ष­स्याऽऽ­द्य­न्त­वत्त्वं तत्राऽऽह –
आदाविति ।
यदित्यूषरोदकादि गृह्यते। तथा वस्तुतो नास्त्येवेति यावत्। वितथैस्तैरेव मरी­च्यु­द­का­दिभिः। सादृ­श्य­मा­द्य­न्त­व­त्त्वम्। विमता मोक्षादयो न परमार्थसन्तो भवि­तु­म­र्ह­न्त्या­द्य­न्त­व­त्त्वा­न्म­री­च्यु­द­का­दि­व­दि­त्यर्थः।

कथं तर्हि मोक्षादीनामपि तथा­त्व­प्र­थे­त्या­श­ङ्क्याऽऽह –
अवितथा इति ।
लक्षिता मूढै­र­वि­चा­र­कै­रिति शेषः।

ऊषरोदकादीनां स्नान­पा­ना­दि­प्र­यो­ज­ना­नु­प­ल­म्भा­न्मो­क्ष­स्व­र्गा­दीनां तु सुखा­दि­प्रा­प्ति­प्र­यो­ज­न­प्र­ति­ल­म्भान्न मोक्षा­दि­वै­त­थ्य­मि­त्या­श­ङ्क्याऽऽह –
सप्रयोजनतेति ।
तेषां मोक्षादीनामिति यावत्।

पुनरुक्तिशङ्कां वारयति –
वैतथ्य इति ॥३१– ३२॥

किं च येन हेतुना स्वप्नस्य मिथ्यात्वमिष्टं तस्य जागरितेऽपि तुल्य­त्वा­ज्ज­न्मा­दि­र­हितं संविन्मात्रं तत्त्व­मे­ष्ट­व्य­मिति विवक्षित्वाऽऽह –
सर्व इति ।
यदि देहा­न्त­र्द­र्श­ना­न्मि­थ्यात्वं स्वप्नस्येष्टं तर्हि वैराजदेहे सर्वस्य जागरितस्य दर्श­ना­न्मि­थ्यात्वं दुर्वा­र­मि­त्यर्थः ।

किञ्च योग्य­दे­श­वै­धु­र्या­न्मि­थ्यात्वं स्वप्नस्य यद्यभीष्टं तर्हि संवृते प्रदेशे पृथग्भूते ब्रह्म­ण्य­ख­ण्डै­क­रसे भूतानां विद्यमानानां दर्शनं न कुतोऽपि स्याद् ब्रह्म­णोऽ­न­व­का­श­त्वा­दि­त्याह –
संवृत इति ।

अव­ता­रि­त­श्लो­क­स­हि­ता­ना­मु­त्त­र­श्लो­कानां ‘जात्याभासम्’(मा. का. ४ । ४५) इत्य­स्मा­त्प्रा­क्त­नानां तात्पर्यमाह –
निमित्तस्येति ॥३३॥

उक्तमेवार्थं प्रपञ्चयति –
न युक्तमित्यादिना ।
स्वप्ने देशान्तरगतौ नियतकालाभावान्न गत्वा दर्शनमिष्टं तथा मर­णा­दू­र्ध्व­म­र्चि­रा­दि­मा­र्गेण गत्वा ब्रह्म­द­र्श­न­म­युक्तं काला­न­व­च्छि­न्न­त्वा­दि­त्यर्थः। किं च यद्देशस्थः स्वप्नं पश्यति प्रति­बु­द्ध­स्त­स्मिन् देशे नास्तीति मिथ्या­त्व­म­भी­ष्टम्।

तथा यस्मिन् देशे स्थितः संसारमनुभवति ब्रह्मभावं प्रति­प­न्न­स्त­स्मिन् देहदेशे नास्ति परि­पू­र्ण­ब्र­ह्म­रू­पे­णा­व­स्था­ना­दतो जागरितस्यापि मिथ्या­त्व­मे­ष्ट­व्य­मि­त्याह –
प्रति­बु­द्ध­श्चेति ।

श्लोकस्य तात्पर्यार्थं कथयति –
जागरित इति ॥३४॥

किं च यथा स्वप्ने विसं­वा­दा­द­प्रा­मा­ण्य­मिष्टं तथा जागरितेऽपि परं श्रेयोऽस्माभिः साधनीयमिति स ब्रह्मवादिभिः सह समा­लो­च्या­वि­द्या­नि­द्रातः प्रतिबुद्धो नैव श्रेयः साध्य­त्व­मा­लो­चितं प्रतिपद्यते। सर्वस्य नित्य­मु­क्त­त्व­नि­श्च­यात्। अतो मुमुक्षुत्वं श्रव­णा­दि­क­र्त­व्यता च भ्रान्त्यै­वे­त्याह –
मित्राद्यैरिति ।

किं च स्वप्नवदेव गृहीतमुपदेशादि विद्वान्न पश्यति तत्सा­ध्य­फ­ला­भा­वा­दि­त्याह –
गृहीतं चेति ।
अथ वा लोकदृष्ट्या यत्किञ्चिद् गृहीतं वस्त्रा­न्नो­द­कादि तद्विद्वान्नैव किञ्चित्करोमीति प्रति­बु­द्धोऽ­न्य­प्र­त्य­य­बा­धान्न स्वस­म्ब­न्धि­त्वे­ना­धि­ग­च्छति।

तेन तदा­भा­स­मा­त्र­मे­वsत्याह –
गृहीतं चेति ।

उक्तमर्थं विवक्षित्वा श्लोकाक्षराणि योजयति –
मित्रा­द्यै­रि­त्या­दिना ॥३५॥

किं च स्वप्नावस्थायां येन देहेन नाड्यादिषु पर्यटति स मिथ्या पृथग्भूतस्य निश्चलस्य देहस्य दर्शनात्। तथा जागरिते येन परि­व्रा­ज­का­दि­श­री­रेण लोकस्य पूज्यो द्वेष्यो वा दृश्यते स मिथ्या कथ्यते। पृथगेव कूट­स्थ­ब्र­ह्मा­ख्य­श­री­र­स्या­नु­भ­वा­दि­त्याह –
स्वप्ने चेति ।

किं च यथा स्वप्ने देहो मिथ्या तथा चित्तदृश्यं जडं सर्वमवस्तुकं मिथ्या­भू­त­मे­षि­त­व्य­मि­त्याह –
यथेति ।

पूर्वा­र्ध­ग­ता­न्य­क्ष­राणि योजयति –
स्वप्न इति ।

उत्तरार्धगतानि व्याकरोति –
यथेत्यादिना ।

प्रक­र­णा­र्थ­मु­प­सं­ह­रति –
स्वप्नेति ॥३६॥

यथा जागरितं तथा स्वप्नो गृह्यते। तथा च स्वप्नस्य जाग­रि­त­का­र्य­त्वाद् यः स्वप्नद्रष्टा तस्यैव जागरितं सदिति स्वप्नवत् तन्मि­थ्या­त्व­मि­त्याह –
ग्रहणादिति ।

किं च जागरितस्य विद्य­मा­न­त्व­म­ने­क­सा­धा­र­णत्वं च वस्तुतो नास्ति स्वप्न­का­र­ण­त्वात्किं तु तथा भास­मा­न­त्व­मि­त्याह –
तद्धेतुत्वादिति ।

जागरितस्य वस्तुतोऽसत्त्वे हेत्वन्तरपरत्वं श्लोकस्य दर्शयति –
इतश्चेति ।

इतः शब्दार्थमेव स्फोरयन् पूर्वार्धं योजयति –
जागरितवदिति ।

उत्तरार्धं योजयति –
तद्धेतुत्वादिति ।
सति प्रमातरि बाध्यत्वं स्वप्नस्य मिथ्यात्वं, जागरितस्य पुन­स्त­द­नु­प­ल­म्भात् परमार्थतः सत्त्वम्। कार्यस्य मिथ्यात्वे कारणस्यापि मिथ्यात्वमिति मानाभावात्।

न हि सर्वसाधारणं विद्यमानं जागरितं मिथ्या भवितुं युक्त­मि­त्या­श­ङ्क्याऽऽह –
यथेत्यादिना ॥३७॥

कार्य­का­र­ण­भा­वेऽपि स्वप्न­जा­ग­रि­त­योर्न मिथ्या­त्व­म­वि­शि­ष्ट­म­त्य­न्त­वै­ष­म्या­दि­त्या­श­ङ्क्याऽऽह –
उत्पादस्येति ।

यत्तु कार्यकारणत्वं सत्यासत्ययोरिव स्वप्न­जा­ग­रि­त­यो­रि­त्युक्तं तद् दुरुक्तमित्याह –
न चेति ।

श्लोक­व्या­व­र्त्या­मा­श­ङ्का­माह –
नन्विति ।

किमिदं वैल­क्ष­ण्य­म­वि­वे­किनां प्रतिभाति, किं वा विवेकिनामिति विक­ल्प्याऽऽ­द्य­म­ङ्गी­क­रोति –
सत्यमिति ।

द्वितीयं प्रत्याह –
विवेकिनां त्विति ।

द्विती­य­भा­ग­मा­का­ङ्क्षा­द्वारा विभजते –
यदपीत्यादिना ।

सम्भवो नास­तोऽ­स्ती­त्ये­तद् दृष्टान्तेन साधयति –
न हीति ।
कथञ्चिदपि सतोऽसतो वेत्यर्थः॥३८॥

यदु­क्त­मु­त्पा­द­स्या­प्र­सि­द्धत्वं तदयुक्तम्, स्वप्न­जा­ग­रि­त­यो­स्त्वया कार्य­का­र­ण­त्वा­ङ्गी­क­र­णा­दि­त्या­श­ङ्क्याऽऽह –
असदिति ।

जागरिते दृष्टस्य स्वप्ने दर्श­ना­ज्जा­ग­रि­तस्य सप्नं प्रति कारणत्वं चेत् तर्हि स्वप्ने दृष्टस्य जागरितेऽपि दर्शनात् तस्य जागरितं प्रति कारणत्वं किं न स्यादि­त्या­श­ङ्क्याऽऽह –
असत्स्वप्नेति ।

श्लोक­व्या­व­र्त्या­मा­श­ङ्का­मु­त्था­प­यति –
नन्विति ।

पूर्वापरविरोधे चोदिते परिहारे कथ्यमाने मनःसमाधानं प्रार्थयते –
शृण्विति ।

तमेव प्रकारं प्रक­ट­य­न्न­क्ष­राणि योजयति –
असदिति ।

तुच्छत्वं व्यवच्छिनत्ति –
रज्ज्विति ।

दर्श­न­स्याऽऽ­भा­सत्वं सूचयति –
विकल्पितमिति ।

यथा जाग्रद्दृष्टस्य विशेषस्य स्वप्ने दर्श­ना­ज्जा­ग­रि­त­वा­स­ना­धीनः स्वप्नो जाग­रि­त­का­र्य­त्वेन व्यवह्रियते तथा स्वप्ने दृष्टस्य जागरितेऽपि दर्शनात् तत्कार्यत्वं जागरितस्य प्राप्त­मि­त्या­शङ्क्य द्वितीयार्धं व्याचष्टे –
तथेति ।

यत्तु स्वप्न­जा­ग­रि­त­यो­रुक्तं कार्यकारणत्वं तदपि न नियतमिति निपातार्थं कथयति –
चशब्दादिति ।
तस्मात्प्रायशः स्वप्नस्य जाग्र­द्वा­स­ना­धी­न­त्वा­दिति यावत्।

जागरितस्य पर­मा­र्थ­स­त्त्वात् कार्यस्य स्वप्नस्यापि तादात्म्यात् तथात्वं विवक्षित्वा कार्य­का­र­ण­त्व­प्रथा कथं न भवतीति व्यावर्त्यं कथयति –
न त्विति ॥३९॥

व्यवहारदृष्ट्या कार्यकारणत्वं स्वप्न­जा­ग­रि­त­यो­रु­क्तम्। तत्त्वदृष्ट्या त्वप्रसिद्धमेव क्वचिदपि कार्य­का­र­ण­त्व­मिति वदन् वस्तु­नोऽ­ज्ञा­ना­द­व­स्त्वेव कार्यं भवतीति मतं व्यावर्त्तयति –
नास्तीति ।

शून्यवादिनस्तु सदेव कार्यं जायते शून्यादिति मन्यते, तान्प्रत्याह –
सदिति ।
तथेत्यनेन नास्ती­त्ये­त­द­नु­कृ­ष्यते।

साङ्ख्यादयस्तु कार्य­क­र­ण­यो­र्द्व­यो­रपि सत्त्वं सङ्गिरन्ते, तान्प्र­त्यु­क्तम् –
सच्चेति ।

सद् ब्रह्म कारणं मिथ्या­प्र­प­ञ्च­सृ­ष्टे­रि­त्येके वर्णयन्ति, तान्निराचष्टे –
सद्धेतुकमिति ।

श्लोकस्य तात्पर्यमाह –
परमार्थस्त्विति ।

प्रसिद्धं कार्यकारणत्वं यया कया च प्रक्रियया प्रति­पा­द­यि­तु­मु­चि­त­म­न्यथा प्रसि­द्धि­प्र­को­पा­दि­त्या­क्षि­पति –
कथमिति ।

अनिर्वाच्यं मायामयं कार्यकारणत्वम् प्रती­ति­मा­त्र­सि­द्ध­म­यौ­क्ति­क­म­धि­कृत्य प्रसि­द्धि­र­वि­रु­द्धे­त्य­भि­स­न्धा­याऽऽद्यं पादं विभजते –
नास्तीत्यादिना ।

द्वितीयं पादं व्याचष्टे –
तथेत्यादिना ।

तृतीयं पादं व्याकरोति –
तथा सच्चेति।

चतु­र्थ­पा­दा­र्थ­माह –
असदिति ।

अस्तु तर्हि प्रकारान्तरेण कार्यकारणभाव इत्याशङ्क्य योग्या­नु­प­ल­ब्धि­वि­रु­द्ध­त्वा­न्मै­व­मि­त्याह –
न चेति ॥४०॥

स्वप्न­जा­ग­रि­त­यो­र्व­स्तुतो नास्ति कार्य­का­र­ण­त्व­मि­त्य­त्रैव हेत्वन्तरमाह –
विपर्यासादिति ।

श्लोकस्य तात्पर्यमाह –
पुनरपीति ।

अक्षरार्थं कथयति –
विप­र्या­सा­दि­त्या­दिना ।
कश्चिदित्यस्य पूर्वेण क्रियापदेन सम्बन्धः।

दृष्टान्तमनूद्य दार्ष्टा­न्ति­क­माह –
यथेत्यादिना ॥४१॥

तत्त्वदृष्ट्या कार्य­का­र­ण­त्व­स्या­प्र­सि­द्धत्वे कथं जन्मा­दि­सू­त्र­प्र­मुखैः सूत्रै­र्ज­ग­त्का­र­णत्वं ब्रह्म सूत्रि­त­मि­त्या­श­ङ्क्याऽऽह –
उपलम्भादिति ।
अविवेकिनां विवेकोपायत्वेन कार्य­का­र­ण­त्व­मु­पेत्य सूत्र­का­र­प्र­वृ­त्ति­रि­त्यर्थः।

श्लोकाक्षराणि व्याचष्टे –
याऽपीत्यादिना ।
अस्ति वस्तुभावो द्वैतस्येति शेषः।

कार्य­का­र­ण­भा­व­मु­पेत्य जन्मो­प­दि­श­ता­म­द्वै­त­वा­दिनां मन्दविवेकिषु विवे­क­दा­र्ढ्यो­पा­य­त्वेन कथं तदुपदेशः स्यादि­त्या­श­ङ्क्याऽऽह –
तामिति ।
यदा ब्रह्मणः सकाशादशेषं जग­द्भ­व­ती­त्य­भ्यु­पेतं तदा तदतिरेकेण जगतोऽभावाद् ब्रह्मैव सर्वमिति निश्चितम्। तद्विषयेषु च वेदान्तेषु पौर्वा­प­र्ये­णाऽऽ­लो­चि­तेषु तदभ्यासिनां तेषां तद­भ्या­स­प्र­सा­दा­देव कूट­स्था­द्वि­ती­य­व­स्तु­वि­वे­क­दार्ढ्यं सेत्स्य­ती­त्य­भि­प्रे­त्या­द्वै­त­वा­दि­भि­र्जा­ति­रु­प­दिष्टा, न तु द्वैतस्य श्रुतितो न्यायतश्च निरू­प­यि­तु­म­श­क्यस्य परमार्थत्वं गृहीत्वा जाति­रु­प­दि­ष्टे­त्य­जा­ति­रेव पार­मा­र्थि­की­त्यर्थः।

चतु­र्थ­पा­दा­र्थ­माह –
ते हीति ।

तेषां विवेकोपायत्वेन जाति­रु­प­दि­ष्टे­त्य­त्रो­प­क्र­म­म­नु­कू­ल­यति –
उपाय इति ॥४२॥

“उदरमन्तरं कुरुते। अथ तस्य भयं भवति”(तै. उ. २ । ७ । १) इत्या­दि­श्रु­तिभ्यो ब्रह्मणि विकारदर्शिनां भयप्राप्तिः श्रूयते। तथा च श्रोत्रियाणामपि भेददर्शिनां नानु­ग्रा­ह्य­ते­त्या­श­ङ्क्याऽऽह –
अजातेरिति ।

“न हि कल्याणकृत् कश्चिद् दुर्गतिं तात गच्छति”(भ. गी. ६ । ४०) इति स्मृते­स्ते­षा­मा­त्य­न्ति­क­प­त­ना­भा­वेऽपि निन्दा­नु­प­पत्त्या कश्चिद्दोषलेशः सम्भ­व­ती­त्या­शङ्क्य सम्य­ग्द­र्श­ना­प्रा­प्ति­प्र­युक्तं गर्भ­वा­सा­दि­दो­ष­म­भ्य­नु­जा­नाति –
दोषोऽपीति ।

अन्वयमादर्शयन् पाद­त्र­य­ग­ता­न्य­क्ष­राणि योजयति –
ये चेत्यादिना ।

चतुर्थपादं व्याचष्टे –
यद्यपीति ।
कश्चि­न्नि­न्दा­नु­प­प­त्ति­सू­चित इति यावत् ॥४३॥

यत्तु हेतुभ्यां द्वैत­स्या­स्ति­त्व­मुक्तं तद् दूषयति –
उपलम्भादिति ।

श्लोक­व्या­व­र्त्या­मा­श­ङ्का­म­नूद्य दूषयति –
नन्वित्यादिना ।

व्यभि­चा­र­स्या­सि­द्धि­मा­शङ्क्य परिहरति –
कथमित्यादिना ।

उपलम्भसमाचारौ मायामये हस्तिनि वस्तु­त्वा­भा­वेऽपि भवतः, तथा द्वैतेऽपि न तयोरस्ति वस्तु­त्व­सा­ध­क­त्व­मि­त्यु­प­सं­ह­रति –
तस्मादिति ॥४४॥

भूत­द­र्श­ना­व­ष्ट­म्भेन निमि­त्त­स्या­नि­मि­त्त­त्व­मु­क्त­मे­त­दन्तैः श्लोकै­र्वि­प्र­प­ञ्चि­तम्। सम्प्रति भूत­द­र्श­न­मु­प­सं­ह­रति –
जात्याभासमिति ।

श्लोका­क्ष­रा­ण्या­का­ङ्क्षा­द्वारा विवृणोति –
किं पुनरित्यादिना ।
गौर­त्व­दी­र्घ­त्वोक्त्या देवदत्तस्य गुणवत्त्वेन द्रव्यत्वं स्फुटीक्रियते।

पूर्वा­र्धा­र्था­नु­वा­दे­ना­प­रार्धं योजयति –
जायत इत्यादिना ।

विशेष्यं प्रश्नपूर्वकं विशदयति –
किं तदित्यादिना ॥४५॥