अद्वैतशारदा

आनन्दगिरिटीका (माण्डूक्य)

अलातशान्तिप्रकरणम् (२)

ब्रह्म­ण­श्चि­द्रू­प­स्या­ज­त्व­मु­प­पा­दि­त­मु­प­सं­ह­रति –
एवं नेति ।

चित्प्र­ति­बि­म्बानां जीवानां बिम्ब­भू­त­ब्र­ह्म­मा­त्र­त्वा­द­ज­त्व­म­वि­शि­ष्ट­मि­त्याह –
एवमिति ।

उक्त­ब्र­ह्मा­त्मै­क्य­ज्ञा­नस्य फलमाह –
एवमिति ।

श्लोकाक्षराणि व्याकरोति –
एवमित्यादिना ।
कार्यकारणभावस्य दुर्भणत्वादयो यथोक्ता हेतवः। चित्त चैतन्यं ब्रह्मेति यावत्।

एवमिति ।
प्रतिबिम्बानां बिम्ब­मा­त्र­त्वात् जीवानामपि प्रति­बि­म्ब­क­ल्पानां बिम्ब­भू­त­ब्र­ह्म­मा­त्र­त्वा­दि­त्यर्थः।

अद्वयस्य बहु­व­च­न­भा­क्त्व­म­यु­क्त­मि­त्या­ङ्क्याऽऽह –
धर्मा इतीति ।

उत्तरार्धं योजयति –
एवमेवेति ।
विज्ञानं विज्ञप्तिरूपं ब्रह्मेत्यर्थः।

यथोक्तज्ञाने मुख्यानधिकारिणो व्यपदिशति –
त्यक्तेति ।

उक्तज्ञानवतां संसा­र­स­न्त्रा­सा­भावे प्रमाणमाह –
तत्रेति ॥४६॥

विज्ञानमजमचलमेव जात्याभासं चलाभासं चेत्युक्तम्, तदिदानीं दृष्टान्तेन प्रपञ्चयति –
ॠजुवक्रादिकेति ।
अप्र­च्यु­त­पू­र्व­स्व­रू­प­स्या­स­त्य­ना­ना­का­रा­व­भासो विवर्तः, तदत्र विज्ञानस्य स्पन्दितत्वम्।

श्लोकस्य तात्पर्यमाह –
यथोक्तमिति ।

तत्र दृष्टान्तभागं व्याचष्टे –
यथा हीति ।

दार्ष्टान्तिकं योजयति –
तथेति ।

किमि­त्य­वि­द्या­म­न्त­रेण मुख्यमेव स्पन्दनं विज्ञानस्य नेष्यते, तत्राऽऽह –
न हीति ।

निरवयवस्य विभुनो विज्ञानस्य वस्तु­त­श्च­ल­न­वि­क­ल­स्या­वि­द्य­मा­न­मेव स्पन्दनमित्यत्र वाक्यो­प­क्र­मा­नु­कूल्यं कथयति –
अजेति ॥४७॥

विज्ञानं शान्तमित्युक्तं दृष्टान्ते स्पष्टयति –
अस्पन्दमानमिति ।

श्लोकाक्षराणि व्याकरोति –
अस्प­न्द­मा­न­मि­त्या­दिना ।
तथाऽ­वि­द्य­ये­त्य­त्रा­वि­द्य­येति च्छेदः॥४८॥

अलातदृष्टान्ते कथ­मृ­जु­व­क्रा­दी­ना­म­स­त्त्व­मि­त्या­श­ङ्कायां निरू­प­णा­स­ह­त्वा­दि­त्याह –
अलात इति ।
यदा खल्वलातं स्पन्द­मा­न­म­व­ति­ष्ठते तदा तस्मिन्नन्यतो देशा­न्त­रा­दा­ग­त्याऽऽ­भासा भवन्तीति न शक्यं वक्तु­मृ­जु­व­क्रा­द्या­भा­सानां देशा­न्त­रा­दा­ग­म­न­स्या­न­व­ग­मात्। यदा तदेवालातं निःस्पन्दनं स्पन्दनवर्जितं वर्तते तदा ततोऽ­न्य­त्राऽऽ­भासा भवन्तीत्यपि न युक्तं वक्तु­म­नु­प­ल­म्भा­वि­शे­षात्। न चाऽऽभा­सा­स्त­स्मि­न्ने­वा­लाते लीयन्ते, तद­नु­पा­दा­न­त्वात्। यदि हि स्पन्दनं निमि­त्त­म­ला­त­मु­पा­दानं तदा निमि­त्ता­भा­व­मा­त्रा­न्नै­मि­त्ति­का­भा­वा­द­र्श­ना­दृ­जु­व­क्रा­द्या­काराः स्पन्द­ना­भा­वेऽ­प्य­लाते भवेयुरित्यर्थः।

इतश्च दृष्टान्ते दृष्टा­ना­मा­भा­सानां मिथ्या­त्व­मे­ष्ट­व्य­मि­त्याह –
किं चेति ।

हेत्वन्तरमेव स्पष्टयन् पूर्वा­र्धा­क्ष­राणि व्याचष्टे –
तस्मिन्नेवेति ।
आभासानां देशा­न्त­रा­दा­ग­म­न­स्या­नु­प­लम्भो हेतुः कर्तव्यः।

अनुपलब्धिमेव हेतूकृत्य तृतीयपादार्थमाह –
न चेति ।

चतु­र्थ­पा­दा­र्थ­माह –
न च निस्पन्दमिति ॥४९॥

ॠजु­व­क्रा­द्या­भा­सानां दृष्टान्ते निर्ग­म­न­प्र­वे­श­यो­र­स­म्भवं साधयति –
नेत्यादिना ।

दृष्टा­न्त­नि­वि­ष्टा­भा­स­व­द्दा­र्ष्टा­न्ति­केऽपि जन्माद्याभासा मिथ्यैव भवेयुरित्याह –
विज्ञानेऽपीति ।

ॠजु­व­क्रा­द्या­का­रेषु जन्माद्याकारेषु चाऽऽभासत्वस्य तुल्यत्वादिति हेतुमाह –
आभासस्येति ।

इतश्च दृष्टान्ते मिथ्या­त्व­मा­भा­सा­ना­मे­ष्ट­व्य­मि­त्याह –
किं चेति ।

तदेव पूर्वार्धयोजनया विशदयति –
नेति ।

ॠजु­व­क्रा­द्या­भा­सानां वस्तुतोऽभावेऽपि किमिति प्रवे­शा­द्य­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह –
वस्तुनो हीति ।

द्वितीयार्धं योजयन् दार्ष्टा­न्ति­क­मा­चष्टे –
विज्ञानेऽपीति ॥५०॥

तुल्यत्वं सार्धे­नो­त्त­र­श्लो­केन साधयति –
कथमित्यादिना ।
न हि तस्मिन्विज्ञाने यथा कथञ्चिच्चलनवति ततोऽ­न्य­स्मा­त्क­स्मा­च्चि­दा­गत्य जन्मा­द्या­भा­सा­स्तत्र भवितुमर्हन्ति तथा प्रथाऽभावात्। न च तस्मा­द्वि­ज्ञा­ना­द­च­ल­त­याऽ­व­स्थि­ता­द­न्य­त्राऽऽ­भासा भवितुमुत्सहन्ते प्रतीत्यभावस्य तुल्यत्वात् नापि तदेव विज्ञानं प्रविशन्ति तस्य केवलस्य तदु­पा­दा­न­त्वा­नु­प­ग­मात्। न च ते विज्ञाने प्रवेष्टुं समर्थास्ततो निर्गन्तुं वा पारयन्ति, तेषा­म­व­स्तु­त्वा­दि­त्यर्थः।

कथं तर्हि विज्ञाने प्रथा तेषा­मि­त्या­शङ्क्य मृषैवेत्याह –
कार्येति ।
आभासानां विज्ञानस्य च कार्यकारणताया दुर्व­च­त्वा­दा­भासाः सर्वदैव निरू­प­यि­तु­म­श­क्य­त्वा­न्मा­या­मयाः सन्तो मिथ्यैव भवन्तीत्यर्थः।

सार्ध­श्लो­क­ता­त्प­र्य­माह –
अलातेनेति ।

तर्हि सक्रियत्वमपि विज्ञानस्य प्रस­ज्ये­ते­त्या­श­ङ्क्याऽऽह –
सदेति ।

यदि विज्ञा­न­म­च­ल­म­भीष्टं तर्हि तत्र जात्याद्याभासा हेत्वभावान्न स्युरि­त्या­श­ङ्क्या­न्ति­मा­र्धेन परिहरति –
जात्याद्याभास। इत्यादिना ।
यतः सदैवाचिन्त्या अतो मृषैवेति शेषः।

संक्षे­प­त­स्ता­त्प­र्य­माह –
यथेत्यादिना ॥५१– ५२॥

यदुक्तं कार्य­का­र­ण­ताऽ­भा­वा­दिति तदि­दा­नी­मु­प­पा­द­यि­तु­मु­प­क्र­मते –
द्रव्यमिति ।
अव­य­व­द्र­व्य­म­व­य­वि­द्र­व्य­स्यो­पा­दा­नम्। अव­य­व­गु­णा­श्चा­व­य­वि­गु­णेषु समा­न­जा­ती­ये­ष्व­स­म­वा­यिनो दृष्टाः। न चैवमात्मनो द्रव्यत्वं येन समवायित्वम्। न च तद्रूपाणां क्वचि­द­स­म­वा­यित्वं गुण­गु­णि­भा­व­स्या­न्य­त्वस्य तस्मिन् दुर्व­च­न­त्वा­दि­त्यर्थः।

श्लोकाक्षराणि योजयति –
अजमित्यादिना ।
अव­य­वा­व­य­वि­वि­भा­ग­वि­र­हि­त्व­म­ज­त्वम्। एकत्वं गुण­गु­णि­भा­व­शू­न्य­त्वम्। तत्रे­त्या­त्म­तत्त्वं परामृश्यते।

तत्र कार्यकारणभावं दूषयितुं सामान्यन्यायमाह –
तेषामिति ।

अद्रव्यस्यापि रूपा­दे­स्त­न्त्वा­दि­द्वारा पटशौक्ल्यादौ कारणत्वं दृष्टमित्यतो विशिनष्टि –
स्वतन्त्रमिति ।

अस्तु तर्हि द्रव्य­त्वे­ना­न्य­त्वेन चाऽऽत्मनि कार्यकारणत्वं नेत्याह –
न चेति ।
नहि तत्र गुणवत्त्वेन द्रव्यत्वं निर्गुणत्वात्, नापि समवायित्वेन तथा­त्व­म­न्यो­न्या­श्र­य­त्व­प्र­स­ङ्गात्। न च तत्र कुतश्चिदन्यत्वं सर्वस्य सन्मा­त्र­त्वे­नै­क­रू­प­त्व­प्र­ति­भा­नात्।

अतो न तत्र कारणत्वं कार्यत्वं वा प्रतिपत्तुं शक्यमिति फलितमाह –
अत इति ॥५३॥

चिकी­र्षि­त­कु­म्भ­सं­वे­द­न­स­म­न­न्तरं कुम्भः सम्भवति। सम्भूतश्चासौ कर्मतया स्वसंविदं जनयतीति व्यवहारोऽपि नोपपद्यते। कस्यचिदपि विद्व­द्दृ­ष्ट्य­नु­रो­धे­ना­न­न्य­त्वा­दि­त्याह –
एवमिति।

यश्च धर्मादेः शरीरादेश्च कार्यकारणभावो विद्वद् दृष्ट्या पुर­स्ता­न्नि­रस्तः सोऽप्य­न्य­त्वा­भावे न सिध्यतीत्याह –
एवं हेत्विति ।

तत्र पूर्वार्धं योजयति –
एवमित्यादिना ।
आत्मस्वरूपस्य निर्वि­का­र­त्व­म­द्र­व्य­त्व­म­प्र­सि­द्ध­त्व­मि­त्या­दयो यथोक्ता हेतवः। बाह्या धर्मा घटादयो नाऽऽत्मानः। न च धर्मशब्दितानां जीवानां चित्त­श­ब्दि­ता­त्प­र­स्मा­दा­त्मनो जन्मेति युक्तम्।

तेषां प्रति­बि­म्ब­क­ल्पानां बिम्ब­भू­त­ब्र­ह्म­मा­त्र­त्वा­दि­त्य­भि­प्रे­त्याऽऽह –
विज्ञानेति ।

उत्तरार्धं योजयति –
एवं नेति ॥५४॥

न फला­द्धे­तु­र्जा­यते नापि फलं हेतोरिति तत्त्व­दृ­ष्ट्यो­प­दि­ष्टम्। इदानीं मुमुक्षूणां तद­भि­नि­वे­श­व्या­वृ­त्त्यर्थं तद­भि­नि­वे­श­भा­वा­भा­व­यो­स्त­दु­द्भ­वा­नु­द्भवौ दर्शयति –
यावदिति ।

श्लोका­क्ष­र­ण्या­का­ङ्क्षा­प्र­द­र्श­न­पु­रः­सरं विवृणोति –
ये पुनरित्यादिना ॥५५॥

अभि­नि­वे­श­व­शा­द्धे­तु­फ­लो­द्भवे किं भवति, तदाह –
यावदिति ।

अभि­नि­वे­श­नि­वृत्त्या तदनुद्भवे वा किं स्यादि­त्या­श­ङ्क्याऽऽह –
क्षीण इति ।

आका­ङ्क्षा­पू­र्वकं पूर्वार्धं योजयति –
यदीति ।

उत्तरार्धं व्याचष्टे –
क्षीणे पुनरिति ॥५६॥

कूट­स्थ­म­द्वि­ती­य­मा­त्म­त­त्त्व­मि­च्छता कुतो जन्मनाशौ व्यवह्रियेते, तत्राऽऽह –
संवृत्येति ।

अविद्यया सर्वस्य जायमानत्वे सत्यविद्याविषये नित्यं नाम नास्त्येवेत्याह –
शाश्वतमिति ।

परमार्थतस्तु सर्वमजं कूट­स्थ­मा­स्थी­यते, तेन कल्पनां विना विनाशो नास्त्येव हेतु­फ­ला­दे­रि­त्याह –
सद्भावेनेति ।

पूर्वा­प­र­वि­रो­ध­मा­श­ङ्कते –
नन्विति ।
न तावदात्मनो जन्मविनाशौ तस्य कूटस्थत्वान्नपि ततोऽन्यस्य तौ युक्तौ तस्या­द्वि­ती­य­त्वात्। तथा च हेत्वा­दे­र्ब­न्धस्य जन्मनाशौ न त्वया वक्त­व्या­वि­त्यर्थः।

उच्यमाने समाधाने मनः­स­मा­धा­न­म­र्थ­यते –
शृण्विति ।

तत्र पूर्व­भा­गा­क्ष­रार्थं कथयति –
संवृतेत्यादिना ।

अविद्याविषये नित्यस्य वस्तुनोऽभावे फलितमाह –
अत इति ।

द्विती­या­र्धा­क्ष­रा­र्थ­माह –
परमार्थेति ।

जात्यभावो जन्मा­दि­वि­क्रि­याऽ­भा­व­स्त­मे­वो­च्छे­दा­भावे हेतुं कथयति –
तेनेति ।
यथा पुरेवर्तिनि भुज­गा­भा­व­म­नु­भ­व­न्वि­वेकी ‘नास्ति भुजङ्गो रज्जुरेषा कथं वृथैव बिभेषी’ ति भ्रान्त­म­भि­द­धाति। भ्रान्तस्तु स्वकी­या­द­प­रा­धा­देव भुजङ्गं परिकल्प्य भीतः सन् पलायते न च तत्र विवेकिनो वचनं मूढदृष्ट्या विरुध्यते। तथा पर­मा­र्थ­कू­ट­स्था­त्म­द­र्शनं व्याव­हा­रि­क­ज­न्मा­दि­व­च­ने­ना­वि­रु­द्ध­मिति भावः॥५७॥

संवृत्या जायते सर्वमित्युक्तं तदिदानीं प्रपञ्चयति –
धर्मा इति ।

तत्राऽऽद्यं पादं विभजते –
येऽपीति ।

प्रसि­द्धा­व­द्यो­त­क­त्व­मि­ति­श­ब्दस्य दर्शयति –
त इत्येवंप्रकारा इति ।

एवंप्रकारत्वमेव स्फोरयति –
यथोक्तेति ।
अनन्तरप्रकृता संवृ­ति­रि­ति­श­ब्दे­नोक्ता। तथा च संवृत्यैव ते धर्मा जायन्ते न तु तेषां तत्त्वतो जन्मा­स्ती­त्यर्थः।

न ते तत्त्वत इत्युक्तं प्रपञ्चयति –
परमार्थत इति ।

संवृत्याऽपि जन्म पार­मा­र्थि­क­मे­वे­त्या­शङ्क्य तृतीयपादं योजयति –
यत्पुनरिति ।
प्रत्येतव्यं जन्मेति शेषः।

चतु­र्थ­पा­दा­र्थ­मा­का­ङ्क्षा­द्वारा स्फोरयति –
मायेत्यादिना ॥५८॥

जन्म मायोपमं तेषा­मि­त्यु­क्तम्, तदेव दृष्टा­न्ता­व­ष्ट­म्भेन साधयति –
यथेत्यादिना ।

श्लोका­क्षा­रा­ण्या­काङ्क्षां दर्शयन् योजयति –
कथमित्यादिना ॥५९॥

यदुक्तं सद्भावेन ह्यजं सर्वमिति तत् प्रपञ्चयति –
नाजेष्विति ।

आत्मसु नित्यानित्यकथा नावतरतीत्यत्र हेतुमाह –
यत्रेति ।

श्लोकस्य पूर्वार्धं व्याचष्टे –
पर­मा­र्थ­त­स्त्विति ।

द्वितीयार्धं व्याकरोति –
यत्रेत्यादिना ।
तत्रेति प्रकृतेषु धर्मेष्विति यावत्।

आत्मसु नित्या­नि­त्य­क­थाऽ­भावे शब्दागोचरत्वं हेतुस्तत्र प्रमाणमाह –
यत इति ॥६०॥

आत्मनः शब्दागोचरत्वे कथमसौ व्याख्यातृभिः शब्दैरेव प्रति­पा­द्य­ता­मा­च­र­ती­त्या­शङ्क्य चित्त­स्प­न्द­न­मा­त्र­म­वि­चा­र­सु­न्दरं प्रति­पा­द्य­प्र­ति­पा­द­क­रूपं द्वैतमिति सदृष्टान्तमाह –
यथेति ।

स्वप्ने प्रति­पा­द्य­प्र­ति­पा­द­क­द्वै­तस्य चित्त­स्प­न्दि­त­मा­त्र­त्वेऽपि जागरिते कथं तथा स्यादि­त्या­श­ङ्क्याऽऽह –
अद्वयं चेति ।

पौनरुक्त्यं श्लोकयोरशङ्क्य शङ्का­न्त­र­नि­रा­सा­र्थ­त्वा­न्मै­व­मिति मन्वानः सन्नाह –
यत्पुनरिति ॥६१– ६२॥

वाचो गोचरीभूतस्य द्वैत­स्या­सत्त्वे हेत्व­न्त­र­मा­च­क्षाणो दृष्टा­न्त­मा­चष्टे –
स्वप्नदृगिति ।
यान् पश्यति ते न विद्यन्ते पृथ­गि­त्यु­त्त­रत्र सम्बन्धः।

श्लोकस्य तात्पर्यमाह –
इतश्चेति ।

इतःशब्दार्थमेव स्फुट­य­न्न­क्ष­राणि व्याचष्टे –
स्वप्नानिति ।
न ते विद्यन्त इति पूर्ववदन्वयः।

स्वप्नदृशो विषयभूतानां भेदानां तत्र दृश्यमानत्वेऽपि द्वैत­भे­द­मि­थ्यात्वे किमायातमिति पृच्छति –
यदीति ।

उत्त­र­श्लो­के­नो­त्त­र­माह –
उच्यत इति ॥६३॥

श्लोकाक्षराणि योजयन् कर्मधारयं व्यावर्तयति –
स्वप्नेति ।

जीवादिभेदानां स्वप्ने दृश्य­मा­ना­ना­मु­क्तानां चित्ता­त्पृ­थ­ग­सत्त्वं साधयति –
चित्तमेवेति ।

तर्हि द्रष्टा चित्तं चेति द्वयं स्वप्ने स्वीकृतम्, नेत्याह –
तथेति ।

तच्छब्दस्य चित्तविषयत्वं व्यावर्तयति –
तेनेति ।

स्वप्नावस्थस्य चित्तस्य स्वप्न­दृ­ग्वि­ष­यत्वे फलितमाह –
अत इति ॥६४॥

दृष्टा­न्त­नि­वि­ष्ट­मर्थं दार्ष्टान्तिके योजयति –
चरन्नित्यादिना ।
जाग्रदवस्थो हि पुरुषो याञ्चीवान् पश्यतीत्यत्र जीवशब्देन कार्यकरणसङ्घाता गृह्यन्ते, चेतनानां दृश्य­त्वा­भा­वा­दिति द्रष्टव्यम्।

श्लोकद्वये विव­क्षि­त­म­नु­मा­न­द्व­य­मा­र­च­यति –
जाग्रत इति ।

अक्षरव्याख्यानं तु दृष्टा­न्त­व्या­ख्या­ने­नैव स्पष्टत्वान्न पृथगपेक्षितमिति विवक्षित्वाऽऽह –
उक्तार्थमिति ॥६५– ६६॥

दृश्य­द­र्श­न­व्य­ति­रे­क­ग्रा­ह­क­प्र­मा­ण­प्र­ति­ह­तम् हेतु­द्व­य­मि­त्या­श­ङ्क्याऽऽह –
उभे हीति ।
दृश्यदर्शने पर­स्प­रा­पे­क्ष­सि­द्धिके। दृश्ये सिद्धे तदवच्छिन्नं दर्शनं सिध्यति, तस्य च सिद्धौ तदवच्छिन्नं दृश्यं सिध्य­ती­त्य­न्यो­न्या­श्र­यान्न दृश्यं दर्शनं वा सिध्यतीत्यतो विभा­गा­व­गा­हि­प्र­मा­णा­भा­वान्न तद्बाधो हेतु­द्व­य­स्ये­त्यर्थः। किं च सम्भावनायां प्रमा­ण­प्र­वृ­त्ति­र्व­क्तव्या। न च दृश्य­द­र्श­न­यो­र­न्य­त­र­स्यापि नैरपेक्ष्येण सम्भावना भव­त्य­न्यो­न्या­श्र­य­दो­षात्।

तथा च पर­स्प­र­पु­र­स्का­रेण सिध्यदुभयं कल्पितमेव स्यादिति मत्वाऽऽह –
किं तदिति ।
तद् दृश्यं दर्शनं वा किमस्तीति पृष्टे विवेकिना नास्ती­त्ये­वो­च्यते प्रागु­क्त­दो­षा­दि­त्यर्थः। किं च प्रामाणिकस्यैव प्रामाणिको भेदः सम्भवति।

न च दृश्यदर्शनयोः स्वरूपे प्रमा­ण­म­स्ती­त्याह –
लक्षणेति ।

कथं तर्हि प्रमा­ण­प्र­मे­य­वि­भागो वादि­भि­र्गृ­ह्यते? तच्चि­त्त­ता­दो­षे­णे­त्याह –
तन्मतेनेति ।

तत्र प्रथमं पादं विभजते –
जीवेति ।
ते जीवचित्ते इति सम्बन्धः।

अन्यो­न्य­दृ­श्य­त्व­मि­त­रे­त­र­ग्रा­ह्यत्वं, तदेव स्पष्टयति –
जीवादीति ।

द्वितीयपादं व्याचष्टे –
तस्मादिति ।

तदेव स्फुटयति –
चित्तं वेति ।
किं तदस्तीति पृष्टे सति न किञ्चि­द­स्ती­त्यु­च्यते विवेकिनेति योजना।

उक्तमेवार्थं दृष्टान्तेन विवृणोति –
न हीति ।
इहेति जागरितोक्तिः।

द्वितीयार्धं व्याचिख्यासुतया पृच्छति –
कथमिति ।

तदेवावतार्य व्याकरोति –
लक्षणेत्यादिना ।
यतस्ततो न तद्भेदस्य प्रामा­णि­क­त्व­मिति शेषः।

कथं तर्हि लौकिकानां परीक्षकाणां च प्रमा­ण­प्र­मे­य­वि­भा­ग­प्र­वृ­त्ति­रि­त्या­शङ्क्य चतु­र्थ­पा­दा­र्थ­माह –
तन्मतेनेति ।

तदेव प्रपञ्चयति –
न हीति ।
घटे किं प्रमा­ण­मि­त्युक्ते ज्ञान­मि­त्य­नु­त्त­र­म­ति­प्र­स­ङ्गात्, नापि घट­ज्ञा­न­म­न्यो­न्या­श्र­य­प्र­स­ङ्गा­दतो न घट­त­ज्ज्ञा­न­यो­र्मा­न­मे­य­भावः सम्भ­व­ती­त्यर्थः॥६७॥

दृश्या­ना­म­ण्ड­जा­दीनां दर्श­ना­ति­रि­क्ता­ना­म­स­त्त्वा­नु­मा­नस्य भेद­ग्रा­ह­क­प्र­मा­ण­बाधं परिहृत्य दर्शनातिरेकेण तेषामसत्त्वे जन्मा­दि­प्र­त्य­य­बाधः स्यादि­त्या­शङ्क्य परिहरति –
यथेत्यादिना ।

मायामयस्य निर्मितकस्य च जीवस्य विशेषं बुभुत्समानं प्रत्याह –
मायेति ।
संवि­द­ति­रे­के­णा­ण्ड­जा­दीनां परमार्थतः सत्त्वा­भा­वा­नु­मा­नस्य न जन्मा­दि­प्र­ति­भा­स­बाधः।

सत्त्वाभावेऽपि स्वप्नादिषु जन्मा­दि­वि­क­ल्प­बा­हु­ल्यो­प­ल­म्भा­दिति श्लोकत्रयस्य तात्पर्यमाह –
स्वप्नेत्यादिना ॥६८–६९–७०॥

यस्यु जन्मादि सत्यमिति मन्यते, तं प्रति प्रागुक्तं स्मारयति –
न कश्चिदिति ।

वृत्ता­नु­वा­द­पू­र्वकं श्लोक­ता­त्प­र्य­माह –
व्यवहारेति ।

अक्षराणि न व्याख्येयानि व्याख्या­त­त्वा­दि­त्याह –
उक्तार्थमिति ॥७१॥

संवेदनस्य कल्पि­त­दृ­श्यो­प­हि­त­रू­पेण दृश्यत्वान्न द्रष्टु­र्व्य­ति­रे­केण सत्त्वमिति स्वप्न­दृ­ष्टा­न्ते­नो­क्त­मि­दानीं तत्त्वतः संवेदनस्य विष­य­स­म्ब­न्धा­भा­वा­दा­त्मैव संवेदनमित्याह –
चित्तेति ।

अक्षरार्थं कथयति –
सर्वमित्यादिना ।

निर्वि­ष­य­त्वे­ना­स­ङ्गत्वे सिद्धे श्रुतिमपि संवादयति –
असङ्गो हीति ।

श्रुति­यु­क्ति­सि­द्ध­म­स­ङ्गत्वं साधयति –
सविषयस्येति ॥७२॥

निर्विषयत्वेन चित्त­स्या­स­ङ्गत्वं सङ्गीतम्; तदसङ्गतम्; शास्त्रा­दे­र्वि­ष­यस्य सत्त्वा­दि­त्या­श­ङ्क्याऽऽह –
योऽस्तीति ।

ननु परमार्थतो वैशेषिकाः षट् पदार्थान् द्रव्या­दि­स­म­वा­या­न्ता­ना­ति­ष्ठन्ते, तथा च चित्तस्य कथमसङ्गत्वम्, तत्राऽऽह –
परेति ।
वैशे­षि­क­पा­रि­भा­षि­क­व्य­व­हा­रा­नु­रो­धेन पदर्थो यो द्रव्यादिः समवायान्तः स्यान्न स परमार्थतोऽस्ति, किं तु संवृत्या प्रतिभाति, तस्मा­द­वि­रु­द्ध­म­स­ङ्ग­त्व­मि­त्यर्थः।

व्यावर्त्यं चोद्यमुत्थापयति –
नन्विति ।

तत्र यस्मादिति सामान्येनोक्तं हेतुं विशेषतो व्यनक्ति –
शास्तेति ।
आदिशब्देन प्रमाता प्रमाणं प्रमेयमित्यादि गृह्यते।

असङ्गत्वाक्षेपं परिहरति –
नैष दोष इति ।

तत्र निर्वि­ष­य­त्व­हेतुं प्रश्नपूर्वकं पूर्वार्धयोजनया साधयति –
कस्मादित्यादिना ।

परमार्थतो द्वैत­स्या­सत्त्वे वाक्यो­प­क्र­म­म­नु­गु­ण­मा­द­र्श­यति –
ज्ञात इति ।

द्वितीयार्धं योजयति –
यश्चेति ।
न हि द्रव्यस्य लक्षणं गुणादिपञ्चकस्य च ततो व्याव­र्त­क­प्रा­ति­स्वि­क­ल­क्ष­ण­प्र­ति­प­त्ति­म­न्त­रेण प्रकल्पते। तथा च तल्ल­क्ष­ण­त­स्त­त्प्र­ति­पत्तौ तदि­त­र­प्र­ति­पत्तिः, तत्प्रतिपत्तौ च तल्ल­क्ष­ण­स्त­द्व्या­वृ­त्त­त­त्त­त्प्र­ति­प­त्ति­रिति परस्पराश्रयान्न किञ्चिदपि वस्तुतः सिध्ये­दि­त्यर्थः।

वस्तुतो निर्विषयस्यैव सिद्ध­त्वा­द­स­ङ्गत्वं चित्तस्य प्रागुक्तं सङ्ग­त­मे­वे­त्यु­प­सं­ह­रति –
तेनेति ॥७३॥

शास्त्रा­दि­भे­द­क­ल्प­नायाः संवृतिसिद्धत्वे तद­धी­नाऽऽ­त्म­न्य­ज­त्व­क­ल्प­नाऽपि संवृतिसिद्धैव स्यादि­त्या­श­ङ्क्या­ङ्गी­क­रोति –
अज इति ।

किल्पि­त­मा­त्म­न्य­ज­त्व­मि­त्यत्र हेतुमाह –
परतन्त्रेति ।
परि­णा­म­वा­द­प्र­सि­द्ध­ज­न्मना भ्रान्त्यै­वाऽऽत्मा जायते, जन्मनश्च विभ्रमत्वे तन्नि­षे­ध­स्या­ज­त्व­स्यापि तथात्वं युक्तमित्यर्थः।

श्लोक­व्या­व­र्त्या­मा­श­ङ्का­माह –
नन्विति ।
शास्त्रा­दि­भे­दस्य कल्पितत्वे तत्प्र­यु­क्त­मा­त्म­न्य­ज­त्व­मपि कल्पितं स्यादित्यर्थः।

किमजोऽयमात्मेति व्यवहारस्य कल्पितत्वं किं वा तदुपलक्षितस्य रूपस्येति विक­ल्प्याऽ­द्य­म­ङ्गी­क­रोति –
सत्यमिति ।
अजोऽ­य­मि­त्य­भि­धा­नस्य संवृ­ति­प्र­यु­क्त­त्वात् तद् व्यवहारस्य कल्पि­त­त्व­मि­ष्ट­मि­त्यर्थः।

कैव­ल्या­व­स्था­या­म­जोऽ­य­मि­त्य­भि­धा­ना­भा­व­म­भ्यु­पेत्य व्यावर्त्यं दर्शयति –
परमार्थेनेति ।

आत्म­न्य­ज­त्व­व्य­व­हा­रस्य कल्पितत्वे द्विती­या­र्ध­व्या­ख्या­नेन हेतुमाह –
यस्मादिति ।
परेषां परिणामवादिनां शास्त्रे या परि­णा­म­प्र­सि­द्धि­स्ता­म­पेक्ष्य तन्निषेधेन योऽज इत्यात्मोक्तः स संवृत्यैव यतो जायतेऽतश्च प्रतियोगिनो जन्मनः संवृ­ति­सि­द्ध­त्वात् तन्नि­षे­ध­रू­प­म­ज­त्व­मपि तादृ­गे­वे­त्यर्थः। अज­त्वा­दि­व्य­व­हा­रो­प­ल­क्षि­त­स्व­रू­प­स्या­क­ल्पि­त­त्वम्। तस्य कल्प­ना­धि­ष्ठा­न­त्वात्। न च कल्पितस्य शास्त्रा­दे­र­क­ल्पिते न प्रमितिहेतुत्वं प्रतिबिम्बादौ बिम्बा­दि­प्र­मि­ति­हे­तु­त्वस्य सम्प्र­ति­प­न्न­त्वा­दिति द्रष्टव्यम्॥७४॥

ननु ज्ञानस्य कल्पि­त­शा­स्त्रा­दि­ज­न्यत्वे मिथ्या­त्वा­न्ना­पु­न­रा­वृ­त्ति­फ­ल­सा­ध­न­त्वम्, तत्राऽऽह –
अभूतेति ।

यदि द्वितीयः संसारः सत्यः स्यात् तदा तन्नि­वृ­त्त्यर्थं साधनमपि वस्तु­भू­त­म­भि­धी­यते, मिथ्या­भि­नि­वे­श­मा­त्रस्य तु मिथ्यो­पा­य­ज­न्ये­नापि ज्ञानेन वस्तुनिष्ठेन निवृत्तिः सिध्यतीति श्लोकार्थं कथयति –
यस्मादित्यादिना ॥७५॥

निर्निमित्तो न जायत इत्युक्तम्, तदे­त­त्प्र­प­ञ्च­यति –
यदेति ।

उत्तमान् हेतून्विभजते –
जातीति ।
आशीर्वर्जितैः फल­तृ­ष्णा­र­हि­तै­र­धि­का­रि­भि­रिति यावत्। देव­त्वा­दी­त्या­दि­श­ब्दे­नो­त्कृष्टं जन्म गृह्यते। केवलत्वं धर्माणां प्राधान्यम्। मनु­ष्य­त्वा­दी­त्या­दि­श­ब्देन मध्यमयोनयो गृह्यन्ते। तिर्य­गा­दी­त्या­दि­श­ब्दे­ना­धमं जन्म संगृह्यते।

वाक्या­र्थ­ज्ञा­न­द­ज्ञा­न­नि­वृत्तौ तन्निवृत्यर्थं विशिनष्टि –
अविद्येति ।

अविदुषां प्रतीयमाना हेतवो विदुषां न प्रति­भा­न्ती­त्ये­तद् दृष्टान्तेन स्फुटयति –
यथेति ।

उक्तेऽर्थे हेतुत्वेन चतुर्थपादम् व्याचष्टे –
न हीति ॥७६॥

तदा न जायते चित्तमिति काल­प­रि­च्छे­द­प्र­ती­ते­रा­ग­न्तु­क­त्व­मा­शङ्क्य परिहरति –
अनिमित्तस्येति ।

चित्तस्य हि निमि­त्त­व­र्जि­तस्य नित्यसिद्धस्य या सर्व­दाऽ­नु­त्पत्तिः सा निर्वि­शे­षाऽ­द्वि­तीया चेत्यत्र हेतुमाह –
अजातस्येति ।
सर्वस्य द्वैतस्य चित्तदृश्यत्वेन मिथ्या­त्वा­न्नि­त्य­सि­द्धस्य परिपूर्णस्य चित्ताख्यस्य स्फुरणस्य जन्मायोगात् तद­नु­त्प­त्ति­रु­क्त­ल­क्षणा युक्तेत्यर्थः।

उक्त­म­नू­द्याऽऽ­का­ङ्क्षा­पू­र्वकं श्लोकमवतार्य व्याकरोति –
हेत्वभाव इत्यादिना ।

यथा रूप्य­क­ल्प­ना­का­लेऽपि शुक्ते­र­रू­प्यत्वं स्वाभाविकं तथा जन्म­क­ल्प­ना­का­लेऽपि संविदो निर्वि­शे­षा­द्वि­ती­य­ब्र­ह्मता स्वाभाविकी, जन्म­भ्र­म­नि­वृ­त्त्य­पे­क्षया तु तदा न जायत इत्युक्तमित्याह –
सर्वदेति ।

न केवलं मोक्षावस्थस्यैव चैत­न्य­स्या­जत्वं, किं तु घटा­द्यु­प­र­क्त­स्या­पि­त्य­भि­प्रे­त्याऽऽह –
सर्वा­व­स्था­स्विति ।

सर्वस्यैव चित्त­प्र­ति­बि­म्बस्य बिम्ब­क­ल्प­ब्र­ह्म­रू­प­त्वा­दिति हेतु­म­भि­प्रे­त्याऽऽह –
अद्वया चेति ।

तृतीयपादार्थम् कथयति –
पूर्वमपीति ।

तत्र हेतुमाह –
यस्मादिति ।
तस्मा­द्र­ज्जु­स­र्प­वद् द्वैतस्य जन्मनश्च दृश्यत्वाद् वस्तु­तोऽ­स­त्त्वा­दिति यावत्॥७७॥

‘द्वयाभावं स बुद्‌ध्वैव निर्निमित्तो न जायत’(मा. का. ४ । ७५) इत्युक्तं तदिदानीं प्रपञ्चयति –
बुद्‌ध्वेति ।
द्वैता­भा­वो­प­ल­क्षितां सत्ता­म­ना­द्य­नन्तां परमार्थभूतां प्रतिपद्य देवा­दि­यो­नि­प्राप्तौ धर्मा­दि­हे­तु­म­सा­ङ्क­र्ये­णा­न­नु­ति­ष्ठन् यदा विद्वानवतिष्ठते तदा सर्व­सं­सा­र­का­र­ण­र­हितं पदमश्नुवानो न पुनः शरीरं गृह्णा­ती­त्यर्थः।

श्लोकं व्याचष्टे –
यथोक्तेनेति ।
दृश्यत्वादिना हेतुना द्वैतस्य रज्जु­स­र्पा­दि­व­देव कल्पितत्वं यथोक्तो न्यायस्तेन चैतन्यस्य जन्मनि यद् द्वयं निमित्तं तस्या­भा­व­ता­म­भा­वो­प­ल­क्षितां सत्तां निमि­त्ता­भा­वा­दे­वा­ना­द्य­नन्तां तस्मादेव सत्यां बुद्‌ध्वेति योजना। पृथगिति देव­ता­दि­प्र­कृ­ष्ट­ज­न्म­प्रा­प्तये धर्मं मनु­ष्य­त्व­प्रा­प्तये धर्माधर्मौ तिर्य­गा­द्य­ध­म­यो­नि­प्रा­प्तये चाध­र्म­म­सा­ङ्क­र्ये­णा­न­नु­ति­ष्ठ­न्निति यावत्।

प्रकृतस्य ज्ञानवतो धर्मा­द्य­नु­ष्ठा­ना­योगे हेतुं सूचयति –
त्यक्तेति ।

कार्य­भू­त­स­र्वा­न­र्थ­रा­हि­त्य­मुक्त्वा पुन­र­भ­य­मि­त्य­स्या­र्थ­माह –
अविद्येति ॥७८॥

यथो­क्त­प­द­प्राप्तिः सदाऽ­स्ती­त्या­श­ङ्क्याऽऽह –
अभूतेति ।
व्याभि­चा­रि­त्वा­दि­हे­तु­भि­र­द्व­या­त्म­द­र्श­नेन वा सध्यसाधानात्मनो द्वैतस्य वस्तुनोऽभावं यदा पुमान् बुद्धवांस्तदा वस्त्वभावं पुरुषो बुद्‌ध्वैव निःसङ्गं चित्तं यथा पुनर्न प्रवर्तते तथा तन्निवृत्तिमनु निवृतो भवतीत्यर्थः।

अक्षराणि विभजते –
यस्मादित्यादिना ।
यस्मा­द­भू­ता­भि­नि­वे­शात् तदनुरूपे चित्तं प्रवर्तते तस्मान्निःसङ्गं निवर्तत इति सम्बन्धः।

अभूताभिनिवेशमेव विशदयति –
असतीति ।
अभि­नि­वे­श­स्या­वि­द्या­व्या­मो­ह­रू­प­त्व­म­न्व­य­व्य­ति­रे­क­सि­द्ध­मिति वक्तुं हीत्युक्तम्। तदनुरूप इत्यत्र तच्छ­ब्दे­ना­भि­नि­वेशो गृह्यते ।

तस्येति ।
अभि­नि­वे­श­वि­ष­य­स्ये­त्यर्थः॥७९॥

अभयं पदमश्नुत इत्यत्र हेतुमाह –
निवृत्तस्येति ।

विद्व­द­नु­भ­वै­क­ग­म्य­त्वा­द­शे­ष­क­ल्प­ना­ती­त­त्वाच्च सिद्धं मोक्ष­स्या­भ­या­दि­रू­प­त्व­मि­त्याह –
विषय इति ।

अक्षरार्थं कथयति –
निवृ­त्त­स्ये­त्या­दिना ॥८०॥

यो मोक्षो विदुषां विषयो दर्शितस्तमेव पुनर्विशिनष्टि –
अजमिति ।

स्वयंप्रभातत्वे हेतुमाह –
सकृदिति ।

कल्पितस्य सर्वस्य धारणाद्धर्मो, नासौ कथमपि परतन्त्रो भवि­तु­म­र्ह­त्य­न­व­स्था­ना­दतः स्वयं­ज्यो­ति­रि­त्याह –
धर्म इति ।
किं च धीयते निधीयते सर्वं निक्षिप्यते सुषु­प्ता­दा­व­स्मि­न्निति धातु­रा­त्मो­च्यते।

तथा च सर्वस्य ज्ञान­सा­ध­न­स्यो­प­सं­हा­रेऽपि सुहुप्तादौ साक्षि­त­याऽऽ­त्मनः सिद्धेः स्वयं­ज्यो­ति­ष्ट्‌व­मे­ष्ट­व्य­मि­त्याह –
धातुरिति ।

किं चाऽऽत्म­त्वा­दे­वाऽऽ­त्मनः स्वयं­ज्यो­ति­ष्ट्‌व­म­न्यथा घट­व­द­ना­त्म­त्व­प्र­स­ङ्गा­दि­त्याह –
स्वभावत इति ।

आका­ङ्‌क्षा­पू­र्वकं श्लोकमवतार्य तदक्षराणि योजयति –
पुनरपीत्यादिना ।

धातुस्वभावत इत्येकं पदं गृहीत्वा व्याचष्टे –
वस्त्विति ।
विव­क्षि­ता­र्थस्तु पूर्व­स्मा­न्ना­ति­रि­च्यते॥८१॥

आत्मा चेदुक्तलक्षणो विवक्षितस्तर्हि किमित्यसौ श्रुत्या­चा­र्यो­प­दि­ष्ट­स्त­थैव सर्वैर्न गृह्यते, तत्राऽऽह –
सुखमिति ।
मिथ्या­भि­नि­वे­शा­दा­त्म­त­त्त्व­स्व­रू­प­सुखं सदै­वाऽऽ­च्छा­द्यते, तस्मादेव वस्तुतोऽसदपि दुःखं सर्वदा प्रकटीक्रियते, तेनासौ भगवानात्मा श्रुत्या­चा­र्यो­प­दि­ष्टोऽपि न विस्पष्टो भवतीत्यर्थः।

श्लोक­व्या­वर्त्यां शङ्कां दर्शयति –
एवमिति ।
स्वयं­ज्यो­ति­ष्ट्‌वा­दि­प्र­यु­क्त­प्र­का­रे­णेति यावत्।

तत्र श्लोकमवतार्य व्याकरोति –
उच्यत इत्यादिना ।

द्वैते गृह्यमाणेऽपि कथ­मा­त्म­स्व­रू­पस्य सुख­स्या­ना­या­से­नाऽऽ­च्छा­द्य­मा­न­त्वम्, तत्राऽऽह –
द्वयेति ।

इत­श्चाऽऽ­त्म­तत्त्वं यथावन्न प्रतिभातीत्याह –
दुःखं चेति ।

यथा­व­दा­त्म­प्र­थाऽ­भावे हेतुमाह –
परमार्थेति ।
देवो याथातथ्येन न भातीति शेषः।

सुखस्य विद्य­मा­न­स्याऽऽ­व­र­ण­म­वि­द्य­मा­नस्य दुःखस्य विवरणमिति स्थिते फलितमाह –
अत इति ।

श्रुत्या­चा­र्यो­प­दे­शस्य तात्प­र्य­शू­न्यत्वं वारयति –
बहुश इति ।

आत्मनि प्रवचनस्य परिज्ञानस्य दुर्लभत्वे प्रमाणमाह –
आश्चर्य इति ॥८२॥

परी­क्ष­का­भि­ने­वे­शा­ना­म­प्या­त्मा­व­र­णत्वे सति लौकि­क­पु­रु­षा­भि­नि­वे­शानां तदावरणत्वं किमु वक्तव्यमिति साधयति –
अस्तीत्यादिना ।

श्लोकस्य तात्पर्यमाह –
अस्तीति ।
प्रमाता देहा­दि­व्य­ति­रि­क्तोऽ­स्ती­त्यादौ वैशे­षि­का­दि­पक्षः। देहा­दि­व्य­ति­रि­क्तोऽपि नासौ बुद्धे­र्व्य­ति­रि­च्यते, क्षणिकस्य विज्ञा­न­स्यै­वाऽऽ­त्म­त्वा­दिति द्वितीयो विज्ञा­न­वा­दि­पक्षः। तृतीयो दिगम्बरपक्षः। चतुर्थे तु शून्यवादिपक्षे शून्य­स्याऽऽ­त्य­न्ति­क­त्व­द्यो­त­नार्था वीप्सा।

द्वितीयार्धं विभजते –
तत्रेत्यादिना ।
अनित्येभ्यो घटादिभ्यः सुखा­द्या­का­र­प­रि­णा­मि­तया वैल­क्ष­ण्या­द­स्ति­भावो योऽयं प्रमातोक्तः स चलः सविशेषः सन् परिणामीत्यर्थः।

देहा­द्य­ति­रि­क्तोऽपि प्रमाता बुद्ध्यतिरिक्तो नास्तीति यो नास्तिभावः स स्थिरो निर्वि­शे­ष­त्वा­त्त­द­भा­व­स्ये­त्याह –
नास्तिभाव इति ।
प्रका­र­च­तु­ष्ट­स्या­स्ति­त्वस्य नास्ति­त्व­स्या­स्ति­ना­स्ति­त्वस्य नास्ति­ना­स्ति­त्वस्य चेति यावत्।

बालिशत्वे सिद्धे फलितं न्यायमुपसंहरति –
किम्विति ॥८३॥

आत्मनो यदावरणमुक्तं तदुपसंहरति –
कोट्य इति ।
यासां कोटीनां परी­क्ष­क­प­रि­क­ल्पि­त­नि­र्ण­य­नि­रू­प­णी­यानां ग्रहै­र­भि­नि­वे­श­वि­शे­षै­रात्मा सदा समावृतस्ताः खल्वेताश्चतस्रः कोट्यः सन्ति। तथा चाऽऽत्मनो न यथा­व­त्प्र­थ­न­मि­त्यर्थः।

यदि सदाऽऽत्मा समावृतो न तर्हि तस्य ज्ञानम्, ज्ञाने वा नास्ति नैराकाङ्‌क्ष्यं ज्ञात­व्या­न्त­र­प­रि­शे­षा­दि­त्या­श­ङ्क्याऽऽह –
भगवानिति ।
आत्मा हि वस्तु­तोऽ­स्ती­त्या­दि­क­ल्प­ना­र­हितो येनो­प­नि­ष­त्प्र­व­णेन प्रतिपन्नः स सर्वज्ञो ज्ञात­व्या­न्त­र­म­प­श्यन् परमार्थपण्डितो निराकाङ्‌क्षो भवतीत्यर्थः।

श्लोक­नि­र­स्या­मा­काङ्‌क्षां दर्शयति –
कीदृगिति ।

किमिति परमार्थतत्त्वं जिज्ञास्यते? तज्ज्ञा­ना­त्पा­ण्डि­त्य­सि­द्ध्य­र्थ­मि­त्याह –
यदवबोधादिति ।

तत्र श्लोकमवतार्य व्याकरोति –
आहेत्यादिना ।
तेषामेव प्रावा­दु­का­ना­मु­प­ल­ब्धि­नि­श्च­यै­रिति सम्बन्धः। यो भग­वा­नु­क्त­वि­शे­षणः स येनेति योजना॥८४॥

ज्ञानवतोऽपि याव­ज्जी­वा­दि­श्रु­ति­व­शा­द­ग्नि­हो­त्रादि कर्त­व्य­मि­त्या­श­ङ्क्याऽऽह –
प्राप्येति ।
यथोक्तां चतु­ष्को­टि­वि­नि­र्मु­क्ता­मिति यावत्। समस्तत्वं ज्ञात­व्य­शे­ष­शू­न्यत्वं परि­पू­र्ण­ज्ञ­प्ति­रू­प­त्वम्।

तत्र ब्राह्म­ण्य­प­द­प्र­योगे प्रमाणमाह –
स ब्राह्मण इति ।
स विद्वा­न­प­रो­क्षी­कृ­त­ब्र­ह्म­स­तत्त्वः सन् फलावस्थो मुख्यो ब्राह्मणो भवतीत्यर्थः। ब्राह्मणस्य ब्रह्मविदो विद्या­फ­ला­व­स्थ­स्यैव स्वभावो महिमेत्युक्तो निर्विकारो वृद्धि­ह्रा­सा­भा­वा­दे­क­रूपो भवतीति वाक्या­न्त­र­स्यार्थः।

तदेव पदं विशिनष्टि –
अना­प­न्ना­दि­म­ध्या­न्त­मिति ।

तद् व्याकरोति –
आदीति ।

अन्वयं दर्शयन्नवशिष्टं व्याचष्टे –
तदेव प्राप्येति ।

ज्ञानवान् फलावस्थः सन् कृतकृत्यो न तस्य किञ्चिदस्ति कर्त्त­व्य­मि­त्य­स्मि­न्नर्थे भगवद्वाक्यं प्रमाणयति –
नैव तस्येति ॥८५॥

याव­ज्जी­वा­दि­श्रु­ते­र­वि­द्व­द्वि­ष­य­त्वा­द्वि­दुषो नाग्निहोत्रादि कर्त­व्य­मि­त्यु­क्तम्। इदानीं तस्यापि नियोगतोऽस्ति कर्त­व्य­मि­त्या­श­ङ्क्याऽऽह –
विप्राणामिति ।
ब्रह्मविदां ब्राह्मणानामेष विनयः स्वभावः। अतो न नियोगाधीनां कर्त­व्य­ता­म­धि­क­रोति। शमोऽपि स्वाभाविको न नियोगेन क्रियते। दमोऽपि स्वभा­व­सि­द्ध­त्वान्न नियोगमपेक्षते। एवं कूट­स्थ­मा­त्म­तत्त्वं विद्वान् पुमा­न­शे­ष­वि­क्रि­या­शू­न्य­ब्र­ह्म­स्व­रू­पेण तिष्ठतीत्यर्थः।

अक्षरार्थं कथयति –
विप्रा­णा­मि­त्या­दिना ।

तमेव स्वाभाविकं विनयं विवृणोति –
यदेतदिति ।
एष एवे­त्या­त्म­स्व­भावो गृह्यते॥८६॥

पर­म­त­नि­रा­क­र­ण­मु­खे­नाऽऽ­त्म­त­त्त्व­म­व­धा­रि­तम्। अधुना स्वप्र­क्रि­य­याऽ­व­स्था­त्र­यो­प­न्या­स­मु­खे­नापि तद­व­धा­र­यि­तु­म­व­स्था­द्व­य­मु­प­न्य­स्यति –
सवस्त्विति ।

वृत्ता­नु­वा­द­पू­र्वकं प्रकरणशेषस्य तात्पर्यं दर्शयति –
एवमिति ।
शिष्य­स्या­ध्या­रो­प­दृ­ष्टि­मा­श्रित्य जाग्र­दा­दि­प­दा­र्थ­प­रि­शु­द्धि­पू­र्वको बोधप्रकारः स्वप्रक्रिया; तया तस्यै­वाऽऽ­त्म­त­त्त्वस्य प्रदर्शनपरो ग्रन्थशेष इत्यर्थः।

तत्र जागरितमुदाहरति –
सवस्त्विति ।
यद्धि प्रातिभासिकं व्यावहारिकं च स्थूल­म­र्थ­जा­त­मा­दि­त्यादि देव­ता­नु­गृ­ही­तै­रि­न्द्रि­यै­रु­प­ल­भ्यते तज्जा­ग­रि­त­मि­त्यर्थः।

द्वय­मि­त्य­स्या­र्थ­माह –
शास्त्रादीति ।

तत्र श्लोके लोक­प्र­सि­द्ध­मि­त्ये­त­दु­च्यते –
लौकिकमिति ।

तद् व्याचष्टे –
लोकादिति ।
न केवलमिदं जागरितं लोकप्रसिद्धम्।

किं तु वेदान्तेष्वपि परम्परया ज्ञानोपायत्वेन प्रसिद्धमित्याह –
एवं लक्षणमिति ।

स्वप्नो­प­न्या­स­प­र­मो­त्त­रार्धं योजयति –
अवस्त्विति ।
बाह्ये­न्द्रि­य­प्र­युक्तो व्यवहारः संवृ­ति­श­ब्दार्थः। सोऽपि स्थूलार्थवन्न स्वप्ने सम्भवति। तथा च बाह्येषु करणेषूपसंहृतेषु जाग­रि­त­वा­स­ना­नु­सा­रेण मन­स­स्त­द­र्था­भा­सा­का­रा­व­भा­सनं स्वप्न­श­ब्दि­त­मि­त्यर्थः।

शुद्धमित्यस्य केवलमिति पर्यायं गृहीत्वा विवक्षितमर्थमाह –
प्रविविक्तमिति ।

तस्यापि लोकप्रसिद्धत्वं लौकि­क­मि­त्य­ने­नोक्तं, तद्विवृणोति –
सर्वप्राणीति ॥८७॥

सम्प्रति सुषुप्तं दर्शयति –
अवस्त्विति ।
स्थूलं सूक्ष्मं च वस्तु विषयभूतं यत्र न विद्यते तत्तथा।

इन्द्रि­या­र्थ­स­म्प्र­यो­ग­जन्यो वा स्थूलार्थावगाहि वासनात्मको वा यत्रोपलम्भो न सम्भवति तद­शे­ष­वि­शे­ष­वि­ज्ञा­न­शून्यं सुषुप्तमिति विशिनष्टि –
अनुपलम्भं चेति ।
नन्विदं कारणात्मना बुद्धे­र­व­स्था­नम्। न च कारणं लोके प्रसिद्धम्।

कार्य­स्यै­वा­व­स्था­द्व­या­त्म­कस्य तथा­त्वा­दि­त्य­भि­प्रे­त्याऽऽह –
लोकोत्तरमिति ।

तस्य साक्षि­प्र­सि­द्धत्वं विव­क्षि­त्वो­क्तम् –
इति स्मृतमिति ।

ज्ञान­ज्ञे­या­त्म­का­व­स्था­त्रयं तुरीयं च परमार्थतत्त्वं विद्व­द­नु­भ­व­स­म­धि­ग­म्य­मि­त्याह –
ज्ञानमिति ।

श्लोकगतं पदद्वयमनूद्य विवक्षितमर्थं कथयति –
अवस्त्विति ।

ग्राह्य­ग्र­ह­ण­वि­भा­ग­व­र्जि­त­त्वा­देव कुतो लोका­ती­त­त्व­मि­त्या­श­ङ्क्याऽऽह –
ग्राह्येति ।

सुषुप्तं चेदलौकिकं कथं तद­व­ग­म्य­ता­मि­त्या­श­ङ्क्याऽऽह –
सर्वप्रवृत्तीति ।

अवस्थाद्वयबीजं सुषु­प्त­मि­त्ये­त­त्प्र­सिद्धं शास्त्र­वि­दा­मि­त्याह –
एवमिति ।

अव­स्था­त्र­य­मे­व­मुक्त्वा ज्ञानपदार्थं कथयति –
सोपायमिति ।

ज्ञानमत्र मनोवृत्तिरूपं विवक्षितम् अव­स्था­त्र­या­ति­रि­क्त­मपि परी­क्ष­क­प­रि­क­ल्पितं ज्ञेयं सम्भ­व­ती­त्या­श­ङ्क्याऽऽह –
सर्वेति ।
सर्वैरेव प्रावादुकैः शुष्क­त­र्क­ज­ल्प­न­शीलैः परिकल्पितस्य कार्य­का­र­णा­दि­रू­प­व­स्तु­नोऽ­व­स्था­त्रये निय­मे­ना­न्त­र्भा­वा­ज्ज्ञे­या­न्तरं नास्तीत्यर्थः।

ज्ञेयमेव विशेषेण ज्ञेयं विज्ञेयमुच्यते, तेन तदपि नाव­स्था­त्र­या­ति­रि­क्त­म­स्ती­त्या­श­ङ्क्या‌ऽऽह –
विज्ञेयमिति ।

उपायोपेयभूते यथोक्तेऽर्थे विदु­षा­म­भि­म­ति­मा­द­र्श­यति –
सदेति ॥८८॥

“आत्मनि विज्ञाते सर्वमिदं विज्ञातम् भवति” इति श्रुत्या यत्प्रतिज्ञातं तदु­क्त­व­स्तु­ज्ञाने फलतिति कथयति –
ज्ञाने चेति ।

ज्ञानज्ञेयवेदने विवक्षितं क्रममनुक्रामति –
पूर्वमित्यादिना ।

यत्पु­न­र­व­स्था­त्र­या­तीतं तुरीयं तत्परिज्ञाने विवक्षितं क्रमं दर्शयति –
स्थानेति ।
तुर्ये विदिते सतीति सम्बन्धः।

तस्य स्थान­त्र­या­त्म­क­द्वै­ता­भा­वो­प­ल­क्षि­त­त्व­माह –
अद्वय इति ।

जन्मा­दि­स­र्व­वि­क्रि­या­र­हि­त­त्वेन कौटस्थ्यं कथयति –
अज इति ।

कार्य­स­म्ब­न्ध­स्तत्र नास्तीति वक्तुं कार­ण­भू­ता­वि­द्या­स­म्ब­न्धा­भा­व­म­भि­द­धाति –
अभय इति ।

यथो­क्त­त­त्त्व­ज्ञा­नस्य परि­पू­र्ण­ब्र­ह्म­रू­पे­णा­व­स्थानं फलमाह –
स्वयमेवेति ।

ज्ञानवतो यथोक्तं फल­म­र्चि­रा­दि­मा­र्गा­य­त्त­मिति शङ्कां वारयति –
इहेति ।

उक्तज्ञानवतो महाबुद्धित्वे हेतुमाह –
सर्वलोकेति ।

ज्ञानवतो यथोक्तं ज्ञानं कदाचिद्भवदपि काला­न्त­रेऽ­भि­भू­त­म­स­त्कल्पं भवि­ष्य­ती­त्या­श­ङ्क्याऽऽह –
एवंविद इति ।

श्रुत्या­चा­र्य­प्र­सा­दा­द्वि­दिते स्वरूपे स्वरूपस्फुरणस्य व्यभिचाराभावात् परि­पू­र्ण­ज्ञा­प्ति­रू­पता विदुषो भवतीत्युक्तं स्फुटयति –
न हीति ॥८९॥

अवस्थात्रयस्य ज्ञेय­त्व­नि­र्दे­शा­त्प­र­मा­र्थ­तोऽ­स्ति­त्व­मा­शङ्क्य परिहरति –
हेयेति ।

शङ्कोत्तरत्वेन श्लोकमवतार्य हेयशब्दार्थं व्याचष्टे –
लौकिकादीनामिति ।

तान्येव त्रीणि विभजते –
जागरितेति ।
पाण्डित्यं वेदा­न्त­ता­त्प­र्या­भि­ज्ञ­त्व­म­द्वि­ती­य­व­स्तु­वि­चा­र­चा­तु­र्य­प­रि­नि­ष्पन्नं श्रवणम्। बाल्यं दम्भ­द­र्पा­ह­ङ्का­रा­दि­रा­हि­त्यम्, युक्तितः श्रुता­र्था­नु­स­न्धा­न­कु­श­ल­त्वम्। मौनं मुनेः कर्म ज्ञाना­भ्या­स­ल­क्षणं निदि­ध्या­स­न­श­ब्दि­तम्। तान्ये­ता­न्या­प्त­व्यानि।

यद्यपि ज्ञेयस्य विज्ञेयत्वं युक्तं तथाऽपि कथं हेयादीनां विज्ञे­य­त्व­मि­त्या­श­ङ्क्याऽऽह –
उपायत्वेनेति ।
तदेव प्रकटयितुं प्रथमत इत्युक्तम्।

उत्तरार्धं व्याचष्टे –
तेषामिति ।
हेयादीनां रज्जु­स­र्प­व­द­वि­द्या­क­ल्पि­त­त्वा­न्नास्ति पर­मा­र्थ­त्व­श­ङ्के­त्यर्थः॥९०॥

यदुक्तं ज्ञेयं चतु­ष्को­टि­व­र्जितं पर­मा­र्थ­त­त्त्व­मिति, तदिदानीं स्फुटयति –
प्रकृत्येति ।

बहु­व­च­न­प्र­यो­ग­प्राप्तं दोषं प्रत्यादिशति –
विद्यत इति ।
कल्पि­त­भे­द­नि­ब­न्धनं बहु­व­च­न­मि­त्यर्थः। क्वचनेति देश­का­ला­व­स्था­ग्र­ह­णम्। अणुमात्रमपीति कार्य­का­र­ण­भा­व­स्यां­शां­शि­भा­वस्य चोपादानम्॥९१॥

ज्ञेय­श­ब्द­प्र­यो­गा­न्मु­ख्य­मेव ज्ञेयत्वं प्राप्तं प्रत्युदस्यति –
आदिबुद्धा इति ।

यथोक्तरीत्या समुत्पन्नस्य ज्ञानस्य फलमाह –
यस्येति ।

प्रथमपादस्य तात्पर्यमाह –
ज्ञेयताऽपीति ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति –
यथेति ।

पदान्तरस्यार्थं कथयति –
न चेति ।

निश्चि­त­स्व­स्व­रू­प­त्व­मेव व्यतिरेकद्वारा स्फोरयति –
नेत्यादिना ।
न खल्वात्मा स्वसत्तायामेवं नैवमिति सन्दि­ह्य­मा­न­स्व­रूपो भवितुमलम्। तस्य स्फुर­णा­व्य­भि­चा­रात् तद्रूपत्वस्य प्रागेव साधि­त­त्वा­दि­त्यर्थः।

द्वितीयार्धं व्याकरोति –
यस्येत्यादिना ।
आत्मस्वरूपस्य स्फुरद्रूपत्वं यथोक्तप्रकारः। बोधाख्यो निश्चयो बोध­नि­श्च­य­स्त­स्मि­न्नि­र­पे­क्षत्वं स्वार्थ­म­न्यार्थं वा यस्य भवति सोऽमृतत्वाय कल्पत इति सम्बन्धः।

तदेव दृष्टान्तेन साधयति –
यथेत्यादिना ।
इतिशब्दो यथेत्यनेन सम्बध्यते॥९२॥

“सोऽमृतत्वाय”(मा. का. ४ । ९२) इत्या­दि­व­च­ना­दा­ग­न्तु­क­म­मृ­तत्वं प्रत्युदस्यति –
आदिशान्ता इति ।

श्लोकस्य तात्प­र्य­म­क्ष­रार्थं च निर्दिशति –
तथा नापीत्यादिना ।

उक्तमेवार्थं चतुर्थपादेन संक्षिप्य दर्शयति –
अजमिति ।

श्लोका­र्थ­मु­प­सं­ह­रति –
विशुद्धमिति ।

उक्त­रू­प­ता­न­ङ्गी­कारे मोक्ष­स्या­पु­रु­षा­र्थता स्यादित्याह –
न हीति ।
संसारदुःखोपशमनं सुखजन्म वा यदि क्रियेत तदा कृत­क­स्या­नि­त्य­त्व­म­व­श्य­म्भा­वी­त्यर्थः॥९३॥

इदानीं मुमु­क्षु­प्र­रो­च­ना­र्थ­म­वि­द्व­न्निन्दां दर्शयति –
वैशारद्यं त्विति ।

श्लोकस्य तात्पर्यं दर्शयति –
ये यथोक्तमिति ।

उत्तरार्धमादौ योजयति –
यस्मादिति ।
तस्मा­दि­त्यु­त्त­रे­णास्य सम्बन्धः।

प्रथ­मा­र्ध­मु­क्तेऽर्थे हेतुत्वेन व्याचष्टे –
यस्मादित्यादिना ।

समनन्तरोक्तस्य यस्मा­दि­त्य­स्या­पे­क्षितं पूरयति –
अत इति ॥९४॥

एव­म­वि­द्व­न्निन्दां प्रदर्श्य विद्वत्प्रशंसां प्रसारयति –
अज इति ।
कूटस्थे वस्तुनि निर्विशेषे येषा­म­स­म्भा­व­ना­वि­प­री­त­भा­व­ना­वि­रहि निर्धारणरूपं विज्ञानं सम्भा­व­नो­प­नी­त­मस्ति ते हि व्यवहारभूमौ महति निरतिशये तत्त्वे परि­ज्ञा­न­व­त्त्वा­न्म­हा­नु­भावा भवन्तीत्यर्थः।

ननु तत्त्व­वि­ष­य­ज्ञा­नस्य सर्व­लो­क­सा­धा­र­ण­त्वात् तत्त्वज्ञानवतां किमिति प्रशंसा प्रस्तूयते तत्राऽऽह –
तच्चेति ।

श्लोकस्य तात्पर्यमाह –
यदिदमिति ।
यदित्युपक्रमात् तद­म­हा­त्म­भि­र­न­व­गा­ह्य­मिति योजनीयम्। अमहात्मत्वं क्षुद्र­हृ­द­य­त्वम्।

तत्र हेतुः –
अपण्डितैरिति ।
अपाण्डित्यं विवेकरहितत्वम्। तत्र हेतु­र्वे­दा­न्ते­त्या­दिना सूच्यते। तेषां पौर्वापर्येण पर्या­लो­च­ना­प­रि­च­य­प­रा­ङ्‌मु­खै­रि­त्यर्थः।

विचा­र­चा­तु­र्या­भा­वा­देव पदा­र्थ­वा­क्या­र्थ­वि­भा­गा­व­ग­म­शू­न्य­त्व­माह –
अल्पप्रज्ञैरिति ।

तर्हि पारमार्थिके तत्त्वे केषामेवं मनीषा समु­न्मि­षे­दि­त्या­शङ्क्य येषां केषाञ्चिदेव तन्नि­ष्ठा­ना­मि­त्याह –
ये केचिदिति ।
स्त्र्यादी­ना­मु­प­नि­ष­द्‌द्वारा ज्ञाना­धि­का­रा­भा­वेऽपि द्वारा­न्त­र­प्र­यु­क्त­स्त­द­धि­कारः सम्भ­व­ती­त्य­भि­प्रे­त्या­पी­त्यु­क्तम्। तत्त्वज्ञानस्य दुर्ल­भ­त्व­म­भ्यु­पेत्य चेदित्युक्तम्।

चतुर्थपादं व्याचष्टे –
तच्चेति ।

ज्ञानवतां विज्ञातं पर­मा­र्थ­त­त्त्व­म­न्ये­षा­म­न­व­गा­ह्य­मि­त्यत्र प्रमाणमाह –
सर्वभूतेति ।
सर्वेषां भूतानां ब्रह्मादीनां स्तम्ब­प­र्य­न्ता­ना­मात्मा परं ब्रह्म तद्भूतस्य विदुषः सर्व­त्राऽऽ­त्म­भू­तस्य सर्वेषु निरु­प­च­रि­त­स्व­रू­प­त्वा­देव परमहितस्य पर­म­प्रे­मा­स्प­द­त्वा­देव परमसुखात्मकस्य प्राप्य­पु­रु­षा­र्थ­वि­र­हिणो मार्गे देवा विद्यावन्तोऽपि पदमन्वेषमाणा विविधं मोह­मु­प­ग­च्छ­न्ती­त्यर्थः।

महात्मनो ज्ञानवतो गन्त­व्य­प­द­र­हि­तस्य परिपूर्णस्य गति­र­व­गु­न्तु­म­श­क्येति निदर्शनवशेन विशदयति –
शकुनीनामिति ॥९५॥

अजं साम्यमित्युक्तं प्रमेयं तद्वि­ष­य­नि­श्च­य­वान् प्रमाता प्रमाणं तथा­वि­ध­नि­श्च­या­ज्ञा­न­मिति वस्तुपरिच्छेदे कथं महा­ज्ञा­न­त्व­मि­त्या­श­ङ्क्याऽऽह –
अजेष्विति ।
अजा धर्मा­श्चि­त्प्र­ति­बिम्बा जीवा विवक्ष्यन्ते। तेष्वजं ज्ञानं कूट­स्थ­दृ­ष्टि­रूपं बिम्बकल्पं ब्रह्मा­च­ल­मा­त्म­भू­त­म­भ्यु­प­ग­म्यते। तथा च मानमेयादिभावस्य कल्पितत्वेऽपि वस्तुतो वस्तु­प­रि­च्छे­दा­भा­वा­दु­प­पन्नं तज्ज्ञानवतां महा­ज्ञा­न­त्व­मि­त्यर्थः। किं चास्मन्मते ज्ञानस्य यद­स­ङ्ग­त्व­म­ङ्गी­कृतं तदपि विषयाभावादेव सिध्यति।

ततश्च “मुक्त्यै निर्विषयं मन”(ब्रह्म­बि­न्दू­प­नि­षत् २) इति यदुच्यते तद­प्य­वि­रु­द्ध­मि­त्याह –
यतो नेति ।

आका­ङ्‌क्षा­पू­र्वकं पूर्वार्धं योजयति –
कथमित्यादिना ।

उत्तरार्धं व्याचष्टे –
यस्मान्नेति ।

नित्य­वि­ज्ञ­प्ति­रू­प­स्याऽऽ­त्म­नोऽ­स­ङ्गत्वं प्रागपि सूचितमित्याह –
आकाशेति ॥९६॥

कूटस्थं ब्रह्मैव तत्त्वमिति स्वमते ज्ञानमसङ्गं सिध्य­ती­त्यु­क्तम्। मतान्तरे पुनः सवि­ष­य­त्वा­ज्ज्ञा­न­स्या­स­ङ्ग­त्व­म­स­ङ्गतं प्रसज्येतेत्याह –
अणुमात्रेऽपीति ।

अवि­द्व­द्‌दृष्ट्या कस्यचिदपि पदार्थस्य जन्माङ्गीकारे ज्ञानस्य तद­नु­षि­ङ्गि­त्वे­ना­स­ङ्ग­त्वा­योगे बन्धध्वंसलक्षणं प्रयोजनं दूरापास्तं भवतीत्याह –
किमुतेति ।

श्लोकाक्षराणि व्याकरोति –
इत इति ।
विद्वा­न­द्वै­त­वादी पञ्चम्या परामृश्यते॥९७॥

न चेदा­व­र­ण­च्यु­ति­रि­ष्यते तर्हि स्वीकृ­त­मा­व­र­ण­मि­त्या­श­ङ्क्याऽऽह –
अलब्धेति ।

बोद्‌धृत्वं तर्हि कथमित्याशङ्क्य बोध­न­श­क्ति­म­त्त्वा­दि­त्याह –
बुध्यन्त इति ।

शङ्कोत्तरत्वेन श्लोकमवतारयति –
तेषामित्यादिना ।

अवि­द्व­द्‌दृ­ष्ट्यै­वा­वि­द्या­व­रणं सिध्यति, न तत्त्व­दृ­ष्ट्ये­त्य­भि­प्रेत्य व्याचष्टे –
अलब्धेति ।

उक्तेऽर्थे हेतुकथनार्थं विशे­ष­ण­त्र­य­मि­त्याह –
यस्मादिति ।
तस्माद् बन्धनरहिता इति पूर्वेण सम्बन्धः।

आत्मनो यथो­क्त­स्व­भा­वत्वे बोद्धृत्वं न सिध्य­ती­त्या­क्षि­पति –
यद्येवमिति ।

पादा­न्त­रे­णो­त्त­र­माह –
उच्यत इति ।

मुख्यावेव क्रियाकर्तारौ प्रकृ­ति­प्र­त्य­या­भ्या­म­भि­धे­या­वि­त्या­शङ्क्य निय­म­मु­दा­ह­र­णाभ्यां निरस्यति –
यथेत्यादिना ॥९८॥

किमिति मुख्ये बोद्धृत्वे सम्भाविते तदेव नेष्ट­मि­त्या­शङ्क्य ज्ञानस्य विद्वद्दृष्ट्या विष­य­स­म्ब­न्धा­स­म्भ­वा­दि­त्याह –
क्रमत इति ।

किं च जीवानां ब्रह्मात्मना विभु­त्वा­दा­का­श­व­त्क्रि­या­स­म­वा­या­यो­गान्न मुख्यं बोद्धृत्वं सेद्धुमलमित्याह –
सर्व इति ।

ज्ञानमात्रं पारमार्थिकं तत्रैव ज्ञातृज्ञेयादि कल्पितमिति सौगतमतमेव भवताऽपि संगृ­ही­त­मि­त्या­श­ङ्क्याऽऽह –
ज्ञानमिति ।

तत्र पूर्वा­र्धा­क्ष­राणि व्याकरोति –
यस्मादिति ।
यद्धि परमार्थदर्शिनो ज्ञानं तत्र विषयान्तरेषु क्रमते, किं तु सवितरि प्रका­श­व­दा­त्म­न्येव प्रतिष्ठितं यस्मादिष्यते तस्मान्नास्मिन् मुख्यं बोद्धृत्वं सेद्धु­म­र्ह­ती­त्यर्थः ।

परमार्थदर्शिनो विशेषणम् –
तायिन इति ।

तद्व्याचष्टे –
तायोऽ­स्या­त्या­दिना ।

आत्मनो मुख्यस्य बोद्धृ­त्व­स्या­भावे हेत्वन्तरम् –
सर्वे धर्मास्तथेति ।

तद्विभजते –
सर्व इत्यादिना ।

प्रक­र­णा­दा­वु­क्त­मेव किमर्थं पुनरिहोच्यते, तत्राऽऽह –
यदादाविति ।
तदि­द­मि­हो­प­सं­हृ­त­मिति शेषः।

क्रमते न हीत्या­दे­र­क्ष­रा­र्थ­मु­प­सं­ह­रति –
आकाशकल्पस्येति ।

सर्वे धर्मा­स्त­थे­त्य­स्यार्थं निगमयति –
तथेति ।
धर्मा न क्रमन्ते क्वचिदपीति शेषः। तथा च नाऽऽत्मनि मुख्यं बोद्धृत्वं, किं त्वौपचारिकमिति प्रकृ­त­मु­प­सं­ह­र्तु­मि­ति­शब्दः।

पूर्वार्धस्य तात्पर्यमाह –
आकाशमिति ।

ज्ञानमित्यादि व्याचष्टे –
ज्ञानेति ।
सकलभेदविकलं परि­पू­र्ण­म­ना­दि­नि­धनं ज्ञप्ति­मा­त्र­मु­प­नि­ष­दे­क­स­म­धि­गम्यं तत्त्वमिह प्रतिपद्यते। मतान्तरे तु नैवमिति कुतो मत­सा­ङ्क­र्या­श­ङ्काऽ­व­का­श­मा­सा­द­ये­दि­त्यर्थः॥९९॥

प्रक­र­ण­च­तु­ष्ट­य­वि­शि­ष्टस्य शास्त्र­स्याऽऽ­दा­वि­वा­न्तेऽपि पर­दे­व­ता­त­त्त्व­म­नु­स्म­रं­स्त­न्न­म­स्का­र­रूपं मङ्गलाचरणं सम्पादयति –
दुर्दर्शमिति ।

दुर्विज्ञेयत्वे प्रत्य­क्षा­दि­प्र­मा­णा­न­धि­ग­म्यत्वं हेतुं विवक्षित्वा विशिनष्टि –
अतिगम्भीरमिति ।

प्रत्य­क्षा­दि­भि­र­न­व­गा­ह्यत्वे कूटस्थत्वं निर्विशेषत्वं सर्व­स­म्ब­न्ध­वि­धु­रत्वं चेति हेतु­त्र­य­म­भि­प्रे­त्याऽऽह –
अजमित्यादिना ।

विशेषणत्रयं तर्हि कुतश्चिदनवगतं तन्नास्त्येवेति निश्चेतुं युक्तम्, प्रमा­णा­धी­न­त्वात् प्रमे­य­सि­द्धे­रि­त्या­श­ङ्क्यो­प­नि­ष­द्भि­र­त­द्ध­र्मा­ध्या­सा­पा­क­र­ण­द्वा­रे­णा­व­ग­म्य­मा­न­त्वा­न्मै­व­मि­त्याह –
पदमिति ।

तत्र तर्हि सकलविभागविकले कुतो नमस्कारक्रिया स्वीक्रि­या­म­र्ह­ती­त्या­श­ङ्क्याऽऽह –
अनानात्वमिति ।
यद्यपि वस्तु­त­स्त­स्मि­न्ना­नात्वं नावकल्पते तथापि यथासामर्थ्यं मायाबलमवलम्ब्य काल्पिनिकं नानात्वमनुसृत्य नमस्कारक्रिया प्रच­या­दि­प्र­यो­ज­न­वती प्रामा­णि­कै­र­भि­प्रे­ते­त्यर्थः।

श्लोकस्य तात्पर्यमाह –
शास्त्रेति ।
यदि परमार्थतत्त्वं शास्त्र­स्याऽऽ­दा­वि­वा­न्तेऽपि नमस्क्रियते तदा तस्याऽऽ­द्य­न्त­म­ध्ये­ष्व­नु­स­न्धे­य­तया स्तुतिः सिध्यति । तेन तद­र्थ­मा­दा­वि­वा­व­सा­नेऽपि प्रह्वी­भा­व­स्त­द्वि­ष­य­श्लो­के­नो­प­दि­श्यते। तथा च प्रतिपाद्यस्य ब्रह्मणो महामहिमत्वं सम­धि­ग­त­मि­त्यर्थः।

दुर्द­र्श­त्व­मुक्तं व्यनक्ति –
अस्तीति ।

सर्वेषामेव यथोक्ते परमार्थतत्त्वे प्रवे­शा­नु­प­प­त्ति­मा­शङ्क्य सम्प्र­दा­य­र­हि­तानां तथात्वेऽपि तद्वतां मैवमित्याह –
अकृतेति ।

कौट­स्थ्या­दि­सि­द्ध्यर्थं व्याख्यातमेव पदत्रयमनुवदति –
अजमिति ।

उक्तं वेदान्तैकगम्यं तत्त्वं द्वैता­भा­वो­प­ल­क्षि­त­मि­त्याह –
ईदृगिति ।
यथोक्तं ब्रह्म ज्ञात्वा ज्ञान­सा­म­र्थ्याद् ब्रह्मी­भू­त­श्चे­दा­चा­र्य­स्तर्हि कथं तस्मै नमस्कर्तुं प्रवर्तते।

न हि परिपूर्णं वस्तु वस्तुतो व्यव­हा­र­गो­च­र­ता­मा­च­र­ती­त्या­श­ङ्क्याऽऽह –
अव्यवहार्यमिति ।
परमार्थतो व्यव­हा­रा­गो­च­र­त्वेऽपि पर­मा­र्थ­त­त्त्वस्य माया­श­क्ति­म­नु­सृत्य व्यवहारगोचरतां परिकल्प्य नमस्कारक्रिया तस्मिन् प्रयो­ज­न­व­शा­दा­श्रि­ते­त्यर्थः॥१००॥

इदानीं भाष्यकारोपि भष्यपरिसमाप्तौ शास्त्र­प्र­ति­पा­दि­त­प­र­दे­व­ता­त­त्त्व­म­नु­स्मृत्य तन्नमस्काररूपं मङ्गलाचरणमाचरति –
अजमपीति ।
यद्‌ब्र­ह्मा­शे­षो­प­नि­ष­त्प्र­सिद्धं सर्वथा परिच्छेदरहितं तदहं प्रत्यग्भूतं नमस्ये [नतोऽस्मि] तद्विषयं प्रह्वीभावं करोमीति सम्बन्धः।

प्रणा­म­प्र­यो­ज­न­माह –
प्रणतेति ।
ये हि प्रणता ब्रह्मणि प्रह्वी­भू­ता­स्त­न्नि­ष्ठा­स्ति­ष्ठन्ति तेषां यद­वि­द्या­त­त्का­र्या­त्मकं भयं तदा­चा­र्यो­प­दे­श­ज­नि­त­बु­द्धि­वृ­त्ति­फ­ल­का­रूढं ब्रह्मैव हन्ति। न खलु जडा बुद्धि­वृ­त्ति­र्व­स्तु­सा­म­र्थ्य­म­न्त­रे­णा­ज्ञानं सका­र्य­प­म­ने­तु­म­लम्। बुद्धीद्धो बोधो बोधेद्धा वा बुद्धिरुक्तं फल­मा­द­धा­ती­त्यर्थः।

तस्यैव ब्रह्मणः सम्प्रति तटस्थलक्षणं विवक्षति –
अजमित्यादिना ।
यद्यपि जन्मा­दि­स­र्व­वि­क्रि­या­शून्यं वस्तुतो ब्रह्म­कू­ट­स्थ­मा­स्थी­यते तथाऽपि तदैश्वर्येण तदी­य­श­क्त्या­त्म­के­ना­नि­र्वा­च्या­ज्ञा­न­वै­भ­वेन योगा­दा­का­शा­दि­का­र्या­त्मना जन्मसम्बन्धं प्राप्य जगतो निदानमिति व्यप­दे­श­भा­ग्भ­वति। तथा च श्रुति­सू­त्र­यो­र्ब्र­ह्मणो जगत्कारणत्वं प्रसि­द्ध­मि­त्यर्थः।

यद्यपि चेदं ब्रह्म कूटस्थतया विभुतया च गति­व­र्जि­त­म­व­ति­ष्ठते तथाऽपि यथो­क्ता­ज्ञा­न­मा­हा­त्म्यात् कार्यब्रह्मतां प्राप्य गतिमत्तां गन्तव्यतां बाद­र्य­धि­क­र­ण­न्या­येन प्रतिपद्यते, तदाह –
अगति चेति ।

यद्यपि चेदं ब्रह्म वस्तुतो निर­स्त­स­म­स्त­ना­ना­त्व­मे­क­र­स­म­द्वि­ती­य­मु­प­नि­ष­द्भि­र­भ्यु­प­ग­म्यते तथाऽपि जीवो जग­दी­श्व­र­श्चे­त्ये­तद् यद­ना­द्य­नि­र्वा­च्या­वि­द्या­व­शा­द­ने­क­मिव प्रतिभातीत्याह –
एकमिति ।

केषां दृष्ट्या पुनरनेकत्वं ब्रह्म­णोऽ­व­ग­म्यते तदाह –
विविधेति ।
विविधाश्च ते विषयधर्माश्च तद्ग्राहितया मुग्धं विपर्यस्तं विवे­क­वि­क­ल­मी­क्षणं येषां तेषां दृष्ट्या ब्रह्म­णोऽ­ने­क­त्व­धीर्न तु तत्त्वतः, शास्त्रदृष्ट्या तु तस्मि­न्ने­क­त्व­मेव प्रामा­णि­क­मि­त्यर्थः॥१॥

सम्प्रति ग्रन्थ­प्र­ण­य­न­प्र­यो­ज­न­प्र­द­र्श­न­पू­र्वकं पर­म­गु­रू­ना­ग­म­शा­स्त्रस्य व्याख्यातस्य प्रणेतृत्वेन व्यवस्थितान् प्रणमति –
प्रज्ञेति ।
यो हि कारुण्यादिदं ज्ञानाख्यममृतं भूत­हे­तो­स्त­दु­प­का­रा­र्थ­मु­द्द­धार तं परमगुरुं नतोऽस्मीति सम्बन्धः। अमुमिति तस्य पुरोदेशे सन्नि­हि­त­त्वे­ना­प­रो­क्षत्वं सूचितम्।

परमगुरुत्वं पूज्यानामपि गुरूणामतिशयेन पूज्य­त्वा­दा­चा­र्यस्य समधिगतमित्याह –
पूज्येति ।

नम­स्का­र­प्र­क्रियां प्रकटयति –
पादपातैरिति ।
पादौ तदीयौ पादौ, तयोः स्वकी­य­स्यो­त्त­मा­ङ्गस्य पाता भूयो भूयो नम्री­भा­वा­स्तै­रिति यावत्।

आचार्यो ज्ञानाख्यममृतं कथं­भू­त­मु­द्धृ­त­वा­नि­त्य­पे­क्षा­या­मु­क्तम् –
अन्तरस्थमिति ।

कस्या­न्त­र­स्थ­मिति विवक्षायामाह –
वेदेति ।

कथमित्यत्राऽऽह –
प्रज्ञेति ।
मेधासहिता प्रज्ञैव वैशाखो मन्थास्तस्य वेधो वेधनं क्षेपणं तेन क्षुभितो विलोडितो जलनिधिर्वेदनामा तस्या­न्त­रेऽ­भ्य­न्तरे स्थित­मि­द­म­मृ­त­मिति यावत्।

उक्तस्य ज्ञानामृतस्य प्रसि­द्धा­द­मृ­ता­द­वा­न्त­र­वै­ष­म्य­मा­द­र्श­यति –
अमरैरिति ।
यद्धि भगवता नारायणेन क्षीर­सा­ग­रा­न्त­र­व­स्थि­त­म­मृतं समुद्धृतं तदेव कथञ्चिदमरा लेभिरे। इदं तु तैरनायासलभ्यं न भवति। ज्ञान­सा­म­ग्री­स­म्प­न्नै­रेव लभ्य­त्वा­दि­त्यर्थः।

यदि कारु­ण्या­दि­द­म­मृ­त­मा­चा­र्येण वेदो­द­धे­र्भू­तो­प­का­रा­र्थ­मु­द्धृतं कथं तर्हि कारुण्यं तस्य प्रादु­र­भू­दि­त्या­श­ङ्क्याऽऽह –
भूतानिति ।
योऽयं समुद्रवद् दुरुत्तारः संसा­र­स्त­स्मि­न्न­वि­र­त­म­न­व­रतं सन्ततमेव यानि जननानि विग्र­ह­भे­द­ग्र­ह­णानि तान्येव ग्राहा जलचरास्तैर्घोरे क्रूरे भयङ्करे मग्नानि भग्नसङ्कल्पानि परवशानि भूतान्युपलभ्य कारु­ण्य­मा­चा­र्यस्य प्रादुरासीत्। तत­श्चे­द­म­मृ­त­मु­द्धृत्य भूतेभ्यो दत्त्वा तानि रक्षि­त­वा­नि­त्यर्थः॥२॥

अथाधुना स्वगु­रु­भ­क्ते­र्वि­द्या­प्रा­प्ता­व­न्त­र­ङ्ग­त्व­म­ङ्गी­कृत्य तदी­य­पा­द­स­र­सी­रु­ह­यु­गलं प्रणमति –
यत्प्रज्ञेति ।
तेषा­म­स्म­द्गु­रूणां पादौ सर्व­भा­वै­र्वा­ङ्‌म­नो­दे­हानां प्रह्वी­भा­वै­र्न­मस्ये सम्रीभवामीति सम्बन्धः। तौ च जगतः सर्वस्यापि पावनीयौ पवित्रतया पवि­त्र­त्व­मा­पाद्य निर्वृणाते। तौ च स्वसम्बन्धिनां सर्वेषां भवः संसा­र­स्त­त्प्र­युक्तं भयं स्वकारणेन सहापनुद्य पुरु­षा­र्थ­प­रि­स­माप्तिं कुर्वाते।

तानेव गुरून्विशिनष्टि –
यत्प्रज्ञेति ।
मे मम स्वान्त­म­न्तः­क­रणं तस्मिन् मोहो व्याकु­ल­ता­हे­तु­र­वि­वे­क­स्तस्य कारणं यदनाद्यज्ञानं तद्येषां प्रज्ञै­वाऽऽ­लो­क­स्तस्य भा दीप्तिस्तया प्रतिहति विनाशमगमद् गतवत् तत्पादाविति सम्बन्धः।

न केव­ल­म­ज्ञा­न­मे­वाऽऽ­चा­र्य­प्र­सा­दा­द­प­ग­च्छ­त्तु­च्छी­भ­वति, किं तु तत्का­र्य­म­न­र्थ­जा­त­मपि कारणनिवृत्तौ स्थिति­म­ल­भ­मा­न­मा­भा­सी­भ­व­ती­त्याह –
मज्जोन्मज्जमिति ।
असकृदनेकशो देव­ति­र्य­गा­दि­यो­निषु योऽयमुपजनो नाना­वि­ध­दे­ह­भे­द­सं­ग्र­होऽ­सा­वे­वो­द­न्वा­नु­द­धि­स्त­स्मि­न्न­ति­त्रा­सने भयावहे कदाचिद् यथोक्तमज्ञानं कार्यरूपेण मज्ज­द­न­भि­व्य­क्त­म­व­ति­ष्ठते तदेव चावस्थाविशेषे तद्रू­पे­णो­न्म­ज्ज­द­भि­व्य­क्त­म­न­र्थ­करं परिवर्तते। तदेवमतिक्रूरे संसारसागरे परि­व­र्त­मा­न­म­ज्ञानं सका­र्य­मा­चा­र्य­प्र­सा­दा­द­प­नी­त­मा­सी­दि­त्यर्थः।

न केवलमेकस्य ममैव यथो­क्त­फ­ल­प्रा­प्ति­रा­चा­र्य­प्र­सा­दा­दा­वि­र­भूत् किं तु तच्च­र­न­प­रि­च­र्या­प­रा­य­णा­ना­म­न्ये­षा­मपि भूयसामित्याह –
यत्पादाविति ।
येषां गुरूणां पाद­द्व­य­मा­श्रि­ता­ना­म­न्ये­षा­मपि शिष्याणां तदी­य­श­श्रू­षा­प्र­ण­यि­म­नी­षा­जुषां श्रुति­र्म­न­न­नि­दि­ध्या­स­न­स­ह­कृतं श्रवणज्ञानम्। शमः शान्ति­रि­न्द्रि­यो­प­रतिः। विन­योऽ­व­न­ति­र­नौ­द्ध­त्यम्। तेषां प्राप्तिरग्र्या श्रेष्ठा प्रतिष्ठिता सिध्यति। यस्मादमोघा सफला श्रवणादीनां प्राप्ति­स्त­स्मा­द­ग्र्यत्वं तस्यां सम्भाव्यते । तदे­व­मा­चा­र्य­प्र­सा­दा­दा­त्म­नोऽ­न्येषां च वहूनां पुरु­षा­र्थ­प­रि­स­मा­प्ति­स­म्भ­वा­दा­चा­र्य­प­रि­च­रणं पुरु­षा­र्थ­का­मै­रा­च­र­णी­य­मि­त्यर्थः॥३॥
विष्णुं कृष्णं स्वमा­या­वि­र­चि­त­वि­वि­ध­द्वै­त­वर्गं निस­र्गा­दु­त्खा­ता­न­र्थ­सार्थं निरवधिमधुरं सच्चि­दे­क­स्व­भा­वम्।
आज्ञा­याऽऽ­त्मा­न­मेकं विधिमुखविमुखं नेति नेतीति गीतं वन्दे वाचां धियां चापदमपि जगतामास्पदं कल्पितानाम्॥१॥
गौड­पा­दी­य­भा­ष्यस्य व्याख्या व्याख्या­तृ­सं­मता।
संमिता निर्मिता सेयमर्पिता पुरुषोत्तमे॥२॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­शु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्य­भ­ग­व­दा­न­न्द­ज्ञा­न­वि­र­चि­तायां गौड­पा­दी­य­भा­ष्य­टी­का­या­म­ला­त­शा­न्त्याख्यं चतुर्थप्रकरणम्॥