आनन्दगिरिटीका (माण्डूक्य)
अलातशान्तिप्रकरणम् (२)
ब्रह्मणश्चिद्रूपस्याजत्वमुपपादितमुपसंहरति –
एवं नेति ।
चित्प्रतिबिम्बानां जीवानां बिम्बभूतब्रह्ममात्रत्वादजत्वमविशिष्टमित्याह –
एवमिति ।
उक्तब्रह्मात्मैक्यज्ञानस्य फलमाह –
एवमिति ।
श्लोकाक्षराणि व्याकरोति –
एवमित्यादिना ।
कार्यकारणभावस्य दुर्भणत्वादयो यथोक्ता हेतवः। चित्त चैतन्यं ब्रह्मेति यावत्।
एवमिति ।
प्रतिबिम्बानां बिम्बमात्रत्वात् जीवानामपि प्रतिबिम्बकल्पानां बिम्बभूतब्रह्ममात्रत्वादित्यर्थः।
अद्वयस्य बहुवचनभाक्त्वमयुक्तमित्याङ्क्याऽऽह –
धर्मा इतीति ।
उत्तरार्धं योजयति –
एवमेवेति ।
विज्ञानं विज्ञप्तिरूपं ब्रह्मेत्यर्थः।
यथोक्तज्ञाने मुख्यानधिकारिणो व्यपदिशति –
त्यक्तेति ।
उक्तज्ञानवतां संसारसन्त्रासाभावे प्रमाणमाह –
तत्रेति ॥४६॥
विज्ञानमजमचलमेव जात्याभासं चलाभासं चेत्युक्तम्, तदिदानीं दृष्टान्तेन प्रपञ्चयति –
ॠजुवक्रादिकेति ।
अप्रच्युतपूर्वस्वरूपस्यासत्यनानाकारावभासो विवर्तः, तदत्र विज्ञानस्य स्पन्दितत्वम्।
श्लोकस्य तात्पर्यमाह –
यथोक्तमिति ।
तत्र दृष्टान्तभागं व्याचष्टे –
यथा हीति ।
दार्ष्टान्तिकं योजयति –
तथेति ।
किमित्यविद्यामन्तरेण मुख्यमेव स्पन्दनं विज्ञानस्य नेष्यते, तत्राऽऽह –
न हीति ।
निरवयवस्य विभुनो विज्ञानस्य वस्तुतश्चलनविकलस्याविद्यमानमेव स्पन्दनमित्यत्र वाक्योपक्रमानुकूल्यं कथयति –
अजेति ॥४७॥
विज्ञानं शान्तमित्युक्तं दृष्टान्ते स्पष्टयति –
अस्पन्दमानमिति ।
श्लोकाक्षराणि व्याकरोति –
अस्पन्दमानमित्यादिना ।
तथाऽविद्ययेत्यत्राविद्ययेति च्छेदः॥४८॥
अलातदृष्टान्ते कथमृजुवक्रादीनामसत्त्वमित्याशङ्कायां निरूपणासहत्वादित्याह –
अलात इति ।
यदा खल्वलातं स्पन्दमानमवतिष्ठते तदा तस्मिन्नन्यतो देशान्तरादागत्याऽऽभासा भवन्तीति न शक्यं वक्तुमृजुवक्राद्याभासानां देशान्तरादागमनस्यानवगमात्। यदा तदेवालातं निःस्पन्दनं स्पन्दनवर्जितं वर्तते तदा ततोऽन्यत्राऽऽभासा भवन्तीत्यपि न युक्तं वक्तुमनुपलम्भाविशेषात्। न चाऽऽभासास्तस्मिन्नेवालाते लीयन्ते, तदनुपादानत्वात्। यदि हि स्पन्दनं निमित्तमलातमुपादानं तदा निमित्ताभावमात्रान्नैमित्तिकाभावादर्शनादृजुवक्राद्याकाराः स्पन्दनाभावेऽप्यलाते भवेयुरित्यर्थः।
इतश्च दृष्टान्ते दृष्टानामाभासानां मिथ्यात्वमेष्टव्यमित्याह –
किं चेति ।
हेत्वन्तरमेव स्पष्टयन् पूर्वार्धाक्षराणि व्याचष्टे –
तस्मिन्नेवेति ।
आभासानां देशान्तरादागमनस्यानुपलम्भो हेतुः कर्तव्यः।
अनुपलब्धिमेव हेतूकृत्य तृतीयपादार्थमाह –
न चेति ।
चतुर्थपादार्थमाह –
न च निस्पन्दमिति ॥४९॥
ॠजुवक्राद्याभासानां दृष्टान्ते निर्गमनप्रवेशयोरसम्भवं साधयति –
नेत्यादिना ।
दृष्टान्तनिविष्टाभासवद्दार्ष्टान्तिकेऽपि जन्माद्याभासा मिथ्यैव भवेयुरित्याह –
विज्ञानेऽपीति ।
ॠजुवक्राद्याकारेषु जन्माद्याकारेषु चाऽऽभासत्वस्य तुल्यत्वादिति हेतुमाह –
आभासस्येति ।
इतश्च दृष्टान्ते मिथ्यात्वमाभासानामेष्टव्यमित्याह –
किं चेति ।
तदेव पूर्वार्धयोजनया विशदयति –
नेति ।
ॠजुवक्राद्याभासानां वस्तुतोऽभावेऽपि किमिति प्रवेशाद्यसिद्धिरित्याशङ्क्याऽऽह –
वस्तुनो हीति ।
द्वितीयार्धं योजयन् दार्ष्टान्तिकमाचष्टे –
विज्ञानेऽपीति ॥५०॥
तुल्यत्वं सार्धेनोत्तरश्लोकेन साधयति –
कथमित्यादिना ।
न हि तस्मिन्विज्ञाने यथा कथञ्चिच्चलनवति ततोऽन्यस्मात्कस्माच्चिदागत्य जन्माद्याभासास्तत्र भवितुमर्हन्ति तथा प्रथाऽभावात्। न च तस्माद्विज्ञानादचलतयाऽवस्थितादन्यत्राऽऽभासा भवितुमुत्सहन्ते प्रतीत्यभावस्य तुल्यत्वात् नापि तदेव विज्ञानं प्रविशन्ति तस्य केवलस्य तदुपादानत्वानुपगमात्। न च ते विज्ञाने प्रवेष्टुं समर्थास्ततो निर्गन्तुं वा पारयन्ति, तेषामवस्तुत्वादित्यर्थः।
कथं तर्हि विज्ञाने प्रथा तेषामित्याशङ्क्य मृषैवेत्याह –
कार्येति ।
आभासानां विज्ञानस्य च कार्यकारणताया दुर्वचत्वादाभासाः सर्वदैव निरूपयितुमशक्यत्वान्मायामयाः सन्तो मिथ्यैव भवन्तीत्यर्थः।
सार्धश्लोकतात्पर्यमाह –
अलातेनेति ।
तर्हि सक्रियत्वमपि विज्ञानस्य प्रसज्येतेत्याशङ्क्याऽऽह –
सदेति ।
यदि विज्ञानमचलमभीष्टं तर्हि तत्र जात्याद्याभासा हेत्वभावान्न स्युरित्याशङ्क्यान्तिमार्धेन परिहरति –
जात्याद्याभास। इत्यादिना ।
यतः सदैवाचिन्त्या अतो मृषैवेति शेषः।
संक्षेपतस्तात्पर्यमाह –
यथेत्यादिना ॥५१– ५२॥
यदुक्तं कार्यकारणताऽभावादिति तदिदानीमुपपादयितुमुपक्रमते –
द्रव्यमिति ।
अवयवद्रव्यमवयविद्रव्यस्योपादानम्। अवयवगुणाश्चावयविगुणेषु समानजातीयेष्वसमवायिनो दृष्टाः। न चैवमात्मनो द्रव्यत्वं येन समवायित्वम्। न च तद्रूपाणां क्वचिदसमवायित्वं गुणगुणिभावस्यान्यत्वस्य तस्मिन् दुर्वचनत्वादित्यर्थः।
श्लोकाक्षराणि योजयति –
अजमित्यादिना ।
अवयवावयविविभागविरहित्वमजत्वम्। एकत्वं गुणगुणिभावशून्यत्वम्। तत्रेत्यात्मतत्त्वं परामृश्यते।
तत्र कार्यकारणभावं दूषयितुं सामान्यन्यायमाह –
तेषामिति ।
अद्रव्यस्यापि रूपादेस्तन्त्वादिद्वारा पटशौक्ल्यादौ कारणत्वं दृष्टमित्यतो विशिनष्टि –
स्वतन्त्रमिति ।
अस्तु तर्हि द्रव्यत्वेनान्यत्वेन चाऽऽत्मनि कार्यकारणत्वं नेत्याह –
न चेति ।
नहि तत्र गुणवत्त्वेन द्रव्यत्वं निर्गुणत्वात्, नापि समवायित्वेन तथात्वमन्योन्याश्रयत्वप्रसङ्गात्। न च तत्र कुतश्चिदन्यत्वं सर्वस्य सन्मात्रत्वेनैकरूपत्वप्रतिभानात्।
अतो न तत्र कारणत्वं कार्यत्वं वा प्रतिपत्तुं शक्यमिति फलितमाह –
अत इति ॥५३॥
चिकीर्षितकुम्भसंवेदनसमनन्तरं कुम्भः सम्भवति। सम्भूतश्चासौ कर्मतया स्वसंविदं जनयतीति व्यवहारोऽपि नोपपद्यते। कस्यचिदपि विद्वद्दृष्ट्यनुरोधेनानन्यत्वादित्याह –
एवमिति।
यश्च धर्मादेः शरीरादेश्च कार्यकारणभावो विद्वद् दृष्ट्या पुरस्तान्निरस्तः सोऽप्यन्यत्वाभावे न सिध्यतीत्याह –
एवं हेत्विति ।
तत्र पूर्वार्धं योजयति –
एवमित्यादिना ।
आत्मस्वरूपस्य निर्विकारत्वमद्रव्यत्वमप्रसिद्धत्वमित्यादयो यथोक्ता हेतवः। बाह्या धर्मा घटादयो नाऽऽत्मानः। न च धर्मशब्दितानां जीवानां चित्तशब्दितात्परस्मादात्मनो जन्मेति युक्तम्।
तेषां प्रतिबिम्बकल्पानां बिम्बभूतब्रह्ममात्रत्वादित्यभिप्रेत्याऽऽह –
विज्ञानेति ।
उत्तरार्धं योजयति –
एवं नेति ॥५४॥
न फलाद्धेतुर्जायते नापि फलं हेतोरिति तत्त्वदृष्ट्योपदिष्टम्। इदानीं मुमुक्षूणां तदभिनिवेशव्यावृत्त्यर्थं तदभिनिवेशभावाभावयोस्तदुद्भवानुद्भवौ दर्शयति –
यावदिति ।
श्लोकाक्षरण्याकाङ्क्षाप्रदर्शनपुरःसरं विवृणोति –
ये पुनरित्यादिना ॥५५॥
अभिनिवेशवशाद्धेतुफलोद्भवे किं भवति, तदाह –
यावदिति ।
अभिनिवेशनिवृत्त्या तदनुद्भवे वा किं स्यादित्याशङ्क्याऽऽह –
क्षीण इति ।
आकाङ्क्षापूर्वकं पूर्वार्धं योजयति –
यदीति ।
उत्तरार्धं व्याचष्टे –
क्षीणे पुनरिति ॥५६॥
कूटस्थमद्वितीयमात्मतत्त्वमिच्छता कुतो जन्मनाशौ व्यवह्रियेते, तत्राऽऽह –
संवृत्येति ।
अविद्यया सर्वस्य जायमानत्वे सत्यविद्याविषये नित्यं नाम नास्त्येवेत्याह –
शाश्वतमिति ।
परमार्थतस्तु सर्वमजं कूटस्थमास्थीयते, तेन कल्पनां विना विनाशो नास्त्येव हेतुफलादेरित्याह –
सद्भावेनेति ।
पूर्वापरविरोधमाशङ्कते –
नन्विति ।
न तावदात्मनो जन्मविनाशौ तस्य कूटस्थत्वान्नपि ततोऽन्यस्य तौ युक्तौ तस्याद्वितीयत्वात्। तथा च हेत्वादेर्बन्धस्य जन्मनाशौ न त्वया वक्तव्यावित्यर्थः।
उच्यमाने समाधाने मनःसमाधानमर्थयते –
शृण्विति ।
तत्र पूर्वभागाक्षरार्थं कथयति –
संवृतेत्यादिना ।
अविद्याविषये नित्यस्य वस्तुनोऽभावे फलितमाह –
अत इति ।
द्वितीयार्धाक्षरार्थमाह –
परमार्थेति ।
जात्यभावो जन्मादिविक्रियाऽभावस्तमेवोच्छेदाभावे हेतुं कथयति –
तेनेति ।
यथा पुरेवर्तिनि भुजगाभावमनुभवन्विवेकी ‘नास्ति भुजङ्गो रज्जुरेषा कथं वृथैव बिभेषी’ ति भ्रान्तमभिदधाति। भ्रान्तस्तु स्वकीयादपराधादेव भुजङ्गं परिकल्प्य भीतः सन् पलायते न च तत्र विवेकिनो वचनं मूढदृष्ट्या विरुध्यते। तथा परमार्थकूटस्थात्मदर्शनं व्यावहारिकजन्मादिवचनेनाविरुद्धमिति भावः॥५७॥
संवृत्या जायते सर्वमित्युक्तं तदिदानीं प्रपञ्चयति –
धर्मा इति ।
तत्राऽऽद्यं पादं विभजते –
येऽपीति ।
प्रसिद्धावद्योतकत्वमितिशब्दस्य दर्शयति –
त इत्येवंप्रकारा इति ।
एवंप्रकारत्वमेव स्फोरयति –
यथोक्तेति ।
अनन्तरप्रकृता संवृतिरितिशब्देनोक्ता। तथा च संवृत्यैव ते धर्मा जायन्ते न तु तेषां तत्त्वतो जन्मास्तीत्यर्थः।
न ते तत्त्वत इत्युक्तं प्रपञ्चयति –
परमार्थत इति ।
संवृत्याऽपि जन्म पारमार्थिकमेवेत्याशङ्क्य तृतीयपादं योजयति –
यत्पुनरिति ।
प्रत्येतव्यं जन्मेति शेषः।
चतुर्थपादार्थमाकाङ्क्षाद्वारा स्फोरयति –
मायेत्यादिना ॥५८॥
जन्म मायोपमं तेषामित्युक्तम्, तदेव दृष्टान्तावष्टम्भेन साधयति –
यथेत्यादिना ।
श्लोकाक्षाराण्याकाङ्क्षां दर्शयन् योजयति –
कथमित्यादिना ॥५९॥
यदुक्तं सद्भावेन ह्यजं सर्वमिति तत् प्रपञ्चयति –
नाजेष्विति ।
आत्मसु नित्यानित्यकथा नावतरतीत्यत्र हेतुमाह –
यत्रेति ।
श्लोकस्य पूर्वार्धं व्याचष्टे –
परमार्थतस्त्विति ।
द्वितीयार्धं व्याकरोति –
यत्रेत्यादिना ।
तत्रेति प्रकृतेषु धर्मेष्विति यावत्।
आत्मसु नित्यानित्यकथाऽभावे शब्दागोचरत्वं हेतुस्तत्र प्रमाणमाह –
यत इति ॥६०॥
आत्मनः शब्दागोचरत्वे कथमसौ व्याख्यातृभिः शब्दैरेव प्रतिपाद्यतामाचरतीत्याशङ्क्य चित्तस्पन्दनमात्रमविचारसुन्दरं प्रतिपाद्यप्रतिपादकरूपं द्वैतमिति सदृष्टान्तमाह –
यथेति ।
स्वप्ने प्रतिपाद्यप्रतिपादकद्वैतस्य चित्तस्पन्दितमात्रत्वेऽपि जागरिते कथं तथा स्यादित्याशङ्क्याऽऽह –
अद्वयं चेति ।
पौनरुक्त्यं श्लोकयोरशङ्क्य शङ्कान्तरनिरासार्थत्वान्मैवमिति मन्वानः सन्नाह –
यत्पुनरिति ॥६१– ६२॥
वाचो गोचरीभूतस्य द्वैतस्यासत्त्वे हेत्वन्तरमाचक्षाणो दृष्टान्तमाचष्टे –
स्वप्नदृगिति ।
यान् पश्यति ते न विद्यन्ते पृथगित्युत्तरत्र सम्बन्धः।
श्लोकस्य तात्पर्यमाह –
इतश्चेति ।
इतःशब्दार्थमेव स्फुटयन्नक्षराणि व्याचष्टे –
स्वप्नानिति ।
न ते विद्यन्त इति पूर्ववदन्वयः।
स्वप्नदृशो विषयभूतानां भेदानां तत्र दृश्यमानत्वेऽपि द्वैतभेदमिथ्यात्वे किमायातमिति पृच्छति –
यदीति ।
उत्तरश्लोकेनोत्तरमाह –
उच्यत इति ॥६३॥
श्लोकाक्षराणि योजयन् कर्मधारयं व्यावर्तयति –
स्वप्नेति ।
जीवादिभेदानां स्वप्ने दृश्यमानानामुक्तानां चित्तात्पृथगसत्त्वं साधयति –
चित्तमेवेति ।
तर्हि द्रष्टा चित्तं चेति द्वयं स्वप्ने स्वीकृतम्, नेत्याह –
तथेति ।
तच्छब्दस्य चित्तविषयत्वं व्यावर्तयति –
तेनेति ।
स्वप्नावस्थस्य चित्तस्य स्वप्नदृग्विषयत्वे फलितमाह –
अत इति ॥६४॥
दृष्टान्तनिविष्टमर्थं दार्ष्टान्तिके योजयति –
चरन्नित्यादिना ।
जाग्रदवस्थो हि पुरुषो याञ्चीवान् पश्यतीत्यत्र जीवशब्देन कार्यकरणसङ्घाता गृह्यन्ते, चेतनानां दृश्यत्वाभावादिति द्रष्टव्यम्।
श्लोकद्वये विवक्षितमनुमानद्वयमारचयति –
जाग्रत इति ।
अक्षरव्याख्यानं तु दृष्टान्तव्याख्यानेनैव स्पष्टत्वान्न पृथगपेक्षितमिति विवक्षित्वाऽऽह –
उक्तार्थमिति ॥६५– ६६॥
दृश्यदर्शनव्यतिरेकग्राहकप्रमाणप्रतिहतम् हेतुद्वयमित्याशङ्क्याऽऽह –
उभे हीति ।
दृश्यदर्शने परस्परापेक्षसिद्धिके। दृश्ये सिद्धे तदवच्छिन्नं दर्शनं सिध्यति, तस्य च सिद्धौ तदवच्छिन्नं दृश्यं सिध्यतीत्यन्योन्याश्रयान्न दृश्यं दर्शनं वा सिध्यतीत्यतो विभागावगाहिप्रमाणाभावान्न तद्बाधो हेतुद्वयस्येत्यर्थः। किं च सम्भावनायां प्रमाणप्रवृत्तिर्वक्तव्या। न च दृश्यदर्शनयोरन्यतरस्यापि नैरपेक्ष्येण सम्भावना भवत्यन्योन्याश्रयदोषात्।
तथा च परस्परपुरस्कारेण सिध्यदुभयं कल्पितमेव स्यादिति मत्वाऽऽह –
किं तदिति ।
तद् दृश्यं दर्शनं वा किमस्तीति पृष्टे विवेकिना नास्तीत्येवोच्यते प्रागुक्तदोषादित्यर्थः। किं च प्रामाणिकस्यैव प्रामाणिको भेदः सम्भवति।
न च दृश्यदर्शनयोः स्वरूपे प्रमाणमस्तीत्याह –
लक्षणेति ।
कथं तर्हि प्रमाणप्रमेयविभागो वादिभिर्गृह्यते? तच्चित्ततादोषेणेत्याह –
तन्मतेनेति ।
तत्र प्रथमं पादं विभजते –
जीवेति ।
ते जीवचित्ते इति सम्बन्धः।
अन्योन्यदृश्यत्वमितरेतरग्राह्यत्वं, तदेव स्पष्टयति –
जीवादीति ।
द्वितीयपादं व्याचष्टे –
तस्मादिति ।
तदेव स्फुटयति –
चित्तं वेति ।
किं तदस्तीति पृष्टे सति न किञ्चिदस्तीत्युच्यते विवेकिनेति योजना।
उक्तमेवार्थं दृष्टान्तेन विवृणोति –
न हीति ।
इहेति जागरितोक्तिः।
द्वितीयार्धं व्याचिख्यासुतया पृच्छति –
कथमिति ।
तदेवावतार्य व्याकरोति –
लक्षणेत्यादिना ।
यतस्ततो न तद्भेदस्य प्रामाणिकत्वमिति शेषः।
कथं तर्हि लौकिकानां परीक्षकाणां च प्रमाणप्रमेयविभागप्रवृत्तिरित्याशङ्क्य चतुर्थपादार्थमाह –
तन्मतेनेति ।
तदेव प्रपञ्चयति –
न हीति ।
घटे किं प्रमाणमित्युक्ते ज्ञानमित्यनुत्तरमतिप्रसङ्गात्, नापि घटज्ञानमन्योन्याश्रयप्रसङ्गादतो न घटतज्ज्ञानयोर्मानमेयभावः सम्भवतीत्यर्थः॥६७॥
दृश्यानामण्डजादीनां दर्शनातिरिक्तानामसत्त्वानुमानस्य भेदग्राहकप्रमाणबाधं परिहृत्य दर्शनातिरेकेण तेषामसत्त्वे जन्मादिप्रत्ययबाधः स्यादित्याशङ्क्य परिहरति –
यथेत्यादिना ।
मायामयस्य निर्मितकस्य च जीवस्य विशेषं बुभुत्समानं प्रत्याह –
मायेति ।
संविदतिरेकेणाण्डजादीनां परमार्थतः सत्त्वाभावानुमानस्य न जन्मादिप्रतिभासबाधः।
सत्त्वाभावेऽपि स्वप्नादिषु जन्मादिविकल्पबाहुल्योपलम्भादिति श्लोकत्रयस्य तात्पर्यमाह –
स्वप्नेत्यादिना ॥६८–६९–७०॥
यस्यु जन्मादि सत्यमिति मन्यते, तं प्रति प्रागुक्तं स्मारयति –
न कश्चिदिति ।
वृत्तानुवादपूर्वकं श्लोकतात्पर्यमाह –
व्यवहारेति ।
अक्षराणि न व्याख्येयानि व्याख्यातत्वादित्याह –
उक्तार्थमिति ॥७१॥
संवेदनस्य कल्पितदृश्योपहितरूपेण दृश्यत्वान्न द्रष्टुर्व्यतिरेकेण सत्त्वमिति स्वप्नदृष्टान्तेनोक्तमिदानीं तत्त्वतः संवेदनस्य विषयसम्बन्धाभावादात्मैव संवेदनमित्याह –
चित्तेति ।
अक्षरार्थं कथयति –
सर्वमित्यादिना ।
निर्विषयत्वेनासङ्गत्वे सिद्धे श्रुतिमपि संवादयति –
असङ्गो हीति ।
श्रुतियुक्तिसिद्धमसङ्गत्वं साधयति –
सविषयस्येति ॥७२॥
निर्विषयत्वेन चित्तस्यासङ्गत्वं सङ्गीतम्; तदसङ्गतम्; शास्त्रादेर्विषयस्य सत्त्वादित्याशङ्क्याऽऽह –
योऽस्तीति ।
ननु परमार्थतो वैशेषिकाः षट् पदार्थान् द्रव्यादिसमवायान्तानातिष्ठन्ते, तथा च चित्तस्य कथमसङ्गत्वम्, तत्राऽऽह –
परेति ।
वैशेषिकपारिभाषिकव्यवहारानुरोधेन पदर्थो यो द्रव्यादिः समवायान्तः स्यान्न स परमार्थतोऽस्ति, किं तु संवृत्या प्रतिभाति, तस्मादविरुद्धमसङ्गत्वमित्यर्थः।
व्यावर्त्यं चोद्यमुत्थापयति –
नन्विति ।
तत्र यस्मादिति सामान्येनोक्तं हेतुं विशेषतो व्यनक्ति –
शास्तेति ।
आदिशब्देन प्रमाता प्रमाणं प्रमेयमित्यादि गृह्यते।
असङ्गत्वाक्षेपं परिहरति –
नैष दोष इति ।
तत्र निर्विषयत्वहेतुं प्रश्नपूर्वकं पूर्वार्धयोजनया साधयति –
कस्मादित्यादिना ।
परमार्थतो द्वैतस्यासत्त्वे वाक्योपक्रममनुगुणमादर्शयति –
ज्ञात इति ।
द्वितीयार्धं योजयति –
यश्चेति ।
न हि द्रव्यस्य लक्षणं गुणादिपञ्चकस्य च ततो व्यावर्तकप्रातिस्विकलक्षणप्रतिपत्तिमन्तरेण प्रकल्पते। तथा च तल्लक्षणतस्तत्प्रतिपत्तौ तदितरप्रतिपत्तिः, तत्प्रतिपत्तौ च तल्लक्षणस्तद्व्यावृत्ततत्तत्प्रतिपत्तिरिति परस्पराश्रयान्न किञ्चिदपि वस्तुतः सिध्येदित्यर्थः।
वस्तुतो निर्विषयस्यैव सिद्धत्वादसङ्गत्वं चित्तस्य प्रागुक्तं सङ्गतमेवेत्युपसंहरति –
तेनेति ॥७३॥
शास्त्रादिभेदकल्पनायाः संवृतिसिद्धत्वे तदधीनाऽऽत्मन्यजत्वकल्पनाऽपि संवृतिसिद्धैव स्यादित्याशङ्क्याङ्गीकरोति –
अज इति ।
किल्पितमात्मन्यजत्वमित्यत्र हेतुमाह –
परतन्त्रेति ।
परिणामवादप्रसिद्धजन्मना भ्रान्त्यैवाऽऽत्मा जायते, जन्मनश्च विभ्रमत्वे तन्निषेधस्याजत्वस्यापि तथात्वं युक्तमित्यर्थः।
श्लोकव्यावर्त्यामाशङ्कामाह –
नन्विति ।
शास्त्रादिभेदस्य कल्पितत्वे तत्प्रयुक्तमात्मन्यजत्वमपि कल्पितं स्यादित्यर्थः।
किमजोऽयमात्मेति व्यवहारस्य कल्पितत्वं किं वा तदुपलक्षितस्य रूपस्येति विकल्प्याऽद्यमङ्गीकरोति –
सत्यमिति ।
अजोऽयमित्यभिधानस्य संवृतिप्रयुक्तत्वात् तद् व्यवहारस्य कल्पितत्वमिष्टमित्यर्थः।
कैवल्यावस्थायामजोऽयमित्यभिधानाभावमभ्युपेत्य व्यावर्त्यं दर्शयति –
परमार्थेनेति ।
आत्मन्यजत्वव्यवहारस्य कल्पितत्वे द्वितीयार्धव्याख्यानेन हेतुमाह –
यस्मादिति ।
परेषां परिणामवादिनां शास्त्रे या परिणामप्रसिद्धिस्तामपेक्ष्य तन्निषेधेन योऽज इत्यात्मोक्तः स संवृत्यैव यतो जायतेऽतश्च प्रतियोगिनो जन्मनः संवृतिसिद्धत्वात् तन्निषेधरूपमजत्वमपि तादृगेवेत्यर्थः। अजत्वादिव्यवहारोपलक्षितस्वरूपस्याकल्पितत्वम्। तस्य कल्पनाधिष्ठानत्वात्। न च कल्पितस्य शास्त्रादेरकल्पिते न प्रमितिहेतुत्वं प्रतिबिम्बादौ बिम्बादिप्रमितिहेतुत्वस्य सम्प्रतिपन्नत्वादिति द्रष्टव्यम्॥७४॥
ननु ज्ञानस्य कल्पितशास्त्रादिजन्यत्वे मिथ्यात्वान्नापुनरावृत्तिफलसाधनत्वम्, तत्राऽऽह –
अभूतेति ।
यदि द्वितीयः संसारः सत्यः स्यात् तदा तन्निवृत्त्यर्थं साधनमपि वस्तुभूतमभिधीयते, मिथ्याभिनिवेशमात्रस्य तु मिथ्योपायजन्येनापि ज्ञानेन वस्तुनिष्ठेन निवृत्तिः सिध्यतीति श्लोकार्थं कथयति –
यस्मादित्यादिना ॥७५॥
निर्निमित्तो न जायत इत्युक्तम्, तदेतत्प्रपञ्चयति –
यदेति ।
उत्तमान् हेतून्विभजते –
जातीति ।
आशीर्वर्जितैः फलतृष्णारहितैरधिकारिभिरिति यावत्। देवत्वादीत्यादिशब्देनोत्कृष्टं जन्म गृह्यते। केवलत्वं धर्माणां प्राधान्यम्। मनुष्यत्वादीत्यादिशब्देन मध्यमयोनयो गृह्यन्ते। तिर्यगादीत्यादिशब्देनाधमं जन्म संगृह्यते।
वाक्यार्थज्ञानदज्ञाननिवृत्तौ तन्निवृत्यर्थं विशिनष्टि –
अविद्येति ।
अविदुषां प्रतीयमाना हेतवो विदुषां न प्रतिभान्तीत्येतद् दृष्टान्तेन स्फुटयति –
यथेति ।
उक्तेऽर्थे हेतुत्वेन चतुर्थपादम् व्याचष्टे –
न हीति ॥७६॥
तदा न जायते चित्तमिति कालपरिच्छेदप्रतीतेरागन्तुकत्वमाशङ्क्य परिहरति –
अनिमित्तस्येति ।
चित्तस्य हि निमित्तवर्जितस्य नित्यसिद्धस्य या सर्वदाऽनुत्पत्तिः सा निर्विशेषाऽद्वितीया चेत्यत्र हेतुमाह –
अजातस्येति ।
सर्वस्य द्वैतस्य चित्तदृश्यत्वेन मिथ्यात्वान्नित्यसिद्धस्य परिपूर्णस्य चित्ताख्यस्य स्फुरणस्य जन्मायोगात् तदनुत्पत्तिरुक्तलक्षणा युक्तेत्यर्थः।
उक्तमनूद्याऽऽकाङ्क्षापूर्वकं श्लोकमवतार्य व्याकरोति –
हेत्वभाव इत्यादिना ।
यथा रूप्यकल्पनाकालेऽपि शुक्तेररूप्यत्वं स्वाभाविकं तथा जन्मकल्पनाकालेऽपि संविदो निर्विशेषाद्वितीयब्रह्मता स्वाभाविकी, जन्मभ्रमनिवृत्त्यपेक्षया तु तदा न जायत इत्युक्तमित्याह –
सर्वदेति ।
न केवलं मोक्षावस्थस्यैव चैतन्यस्याजत्वं, किं तु घटाद्युपरक्तस्यापित्यभिप्रेत्याऽऽह –
सर्वावस्थास्विति ।
सर्वस्यैव चित्तप्रतिबिम्बस्य बिम्बकल्पब्रह्मरूपत्वादिति हेतुमभिप्रेत्याऽऽह –
अद्वया चेति ।
तृतीयपादार्थम् कथयति –
पूर्वमपीति ।
तत्र हेतुमाह –
यस्मादिति ।
तस्माद्रज्जुसर्पवद् द्वैतस्य जन्मनश्च दृश्यत्वाद् वस्तुतोऽसत्त्वादिति यावत्॥७७॥
‘द्वयाभावं स बुद्ध्वैव निर्निमित्तो न जायत’(मा. का. ४ । ७५) इत्युक्तं तदिदानीं प्रपञ्चयति –
बुद्ध्वेति ।
द्वैताभावोपलक्षितां सत्तामनाद्यनन्तां परमार्थभूतां प्रतिपद्य देवादियोनिप्राप्तौ धर्मादिहेतुमसाङ्कर्येणाननुतिष्ठन् यदा विद्वानवतिष्ठते तदा सर्वसंसारकारणरहितं पदमश्नुवानो न पुनः शरीरं गृह्णातीत्यर्थः।
श्लोकं व्याचष्टे –
यथोक्तेनेति ।
दृश्यत्वादिना हेतुना द्वैतस्य रज्जुसर्पादिवदेव कल्पितत्वं यथोक्तो न्यायस्तेन चैतन्यस्य जन्मनि यद् द्वयं निमित्तं तस्याभावतामभावोपलक्षितां सत्तां निमित्ताभावादेवानाद्यनन्तां तस्मादेव सत्यां बुद्ध्वेति योजना। पृथगिति देवतादिप्रकृष्टजन्मप्राप्तये धर्मं मनुष्यत्वप्राप्तये धर्माधर्मौ तिर्यगाद्यधमयोनिप्राप्तये चाधर्ममसाङ्कर्येणाननुतिष्ठन्निति यावत्।
प्रकृतस्य ज्ञानवतो धर्माद्यनुष्ठानायोगे हेतुं सूचयति –
त्यक्तेति ।
कार्यभूतसर्वानर्थराहित्यमुक्त्वा पुनरभयमित्यस्यार्थमाह –
अविद्येति ॥७८॥
यथोक्तपदप्राप्तिः सदाऽस्तीत्याशङ्क्याऽऽह –
अभूतेति ।
व्याभिचारित्वादिहेतुभिरद्वयात्मदर्शनेन वा सध्यसाधानात्मनो द्वैतस्य वस्तुनोऽभावं यदा पुमान् बुद्धवांस्तदा वस्त्वभावं पुरुषो बुद्ध्वैव निःसङ्गं चित्तं यथा पुनर्न प्रवर्तते तथा तन्निवृत्तिमनु निवृतो भवतीत्यर्थः।
अक्षराणि विभजते –
यस्मादित्यादिना ।
यस्मादभूताभिनिवेशात् तदनुरूपे चित्तं प्रवर्तते तस्मान्निःसङ्गं निवर्तत इति सम्बन्धः।
अभूताभिनिवेशमेव विशदयति –
असतीति ।
अभिनिवेशस्याविद्याव्यामोहरूपत्वमन्वयव्यतिरेकसिद्धमिति वक्तुं हीत्युक्तम्। तदनुरूप इत्यत्र तच्छब्देनाभिनिवेशो गृह्यते ।
तस्येति ।
अभिनिवेशविषयस्येत्यर्थः॥७९॥
अभयं पदमश्नुत इत्यत्र हेतुमाह –
निवृत्तस्येति ।
विद्वदनुभवैकगम्यत्वादशेषकल्पनातीतत्वाच्च सिद्धं मोक्षस्याभयादिरूपत्वमित्याह –
विषय इति ।
अक्षरार्थं कथयति –
निवृत्तस्येत्यादिना ॥८०॥
यो मोक्षो विदुषां विषयो दर्शितस्तमेव पुनर्विशिनष्टि –
अजमिति ।
स्वयंप्रभातत्वे हेतुमाह –
सकृदिति ।
कल्पितस्य सर्वस्य धारणाद्धर्मो, नासौ कथमपि परतन्त्रो भवितुमर्हत्यनवस्थानादतः स्वयंज्योतिरित्याह –
धर्म इति ।
किं च धीयते निधीयते सर्वं निक्षिप्यते सुषुप्तादावस्मिन्निति धातुरात्मोच्यते।
तथा च सर्वस्य ज्ञानसाधनस्योपसंहारेऽपि सुहुप्तादौ साक्षितयाऽऽत्मनः सिद्धेः स्वयंज्योतिष्ट्वमेष्टव्यमित्याह –
धातुरिति ।
किं चाऽऽत्मत्वादेवाऽऽत्मनः स्वयंज्योतिष्ट्वमन्यथा घटवदनात्मत्वप्रसङ्गादित्याह –
स्वभावत इति ।
आकाङ्क्षापूर्वकं श्लोकमवतार्य तदक्षराणि योजयति –
पुनरपीत्यादिना ।
धातुस्वभावत इत्येकं पदं गृहीत्वा व्याचष्टे –
वस्त्विति ।
विवक्षितार्थस्तु पूर्वस्मान्नातिरिच्यते॥८१॥
आत्मा चेदुक्तलक्षणो विवक्षितस्तर्हि किमित्यसौ श्रुत्याचार्योपदिष्टस्तथैव सर्वैर्न गृह्यते, तत्राऽऽह –
सुखमिति ।
मिथ्याभिनिवेशादात्मतत्त्वस्वरूपसुखं सदैवाऽऽच्छाद्यते, तस्मादेव वस्तुतोऽसदपि दुःखं सर्वदा प्रकटीक्रियते, तेनासौ भगवानात्मा श्रुत्याचार्योपदिष्टोऽपि न विस्पष्टो भवतीत्यर्थः।
श्लोकव्यावर्त्यां शङ्कां दर्शयति –
एवमिति ।
स्वयंज्योतिष्ट्वादिप्रयुक्तप्रकारेणेति यावत्।
तत्र श्लोकमवतार्य व्याकरोति –
उच्यत इत्यादिना ।
द्वैते गृह्यमाणेऽपि कथमात्मस्वरूपस्य सुखस्यानायासेनाऽऽच्छाद्यमानत्वम्, तत्राऽऽह –
द्वयेति ।
इतश्चाऽऽत्मतत्त्वं यथावन्न प्रतिभातीत्याह –
दुःखं चेति ।
यथावदात्मप्रथाऽभावे हेतुमाह –
परमार्थेति ।
देवो याथातथ्येन न भातीति शेषः।
सुखस्य विद्यमानस्याऽऽवरणमविद्यमानस्य दुःखस्य विवरणमिति स्थिते फलितमाह –
अत इति ।
श्रुत्याचार्योपदेशस्य तात्पर्यशून्यत्वं वारयति –
बहुश इति ।
आत्मनि प्रवचनस्य परिज्ञानस्य दुर्लभत्वे प्रमाणमाह –
आश्चर्य इति ॥८२॥
परीक्षकाभिनेवेशानामप्यात्मावरणत्वे सति लौकिकपुरुषाभिनिवेशानां तदावरणत्वं किमु वक्तव्यमिति साधयति –
अस्तीत्यादिना ।
श्लोकस्य तात्पर्यमाह –
अस्तीति ।
प्रमाता देहादिव्यतिरिक्तोऽस्तीत्यादौ वैशेषिकादिपक्षः। देहादिव्यतिरिक्तोऽपि नासौ बुद्धेर्व्यतिरिच्यते, क्षणिकस्य विज्ञानस्यैवाऽऽत्मत्वादिति द्वितीयो विज्ञानवादिपक्षः। तृतीयो दिगम्बरपक्षः। चतुर्थे तु शून्यवादिपक्षे शून्यस्याऽऽत्यन्तिकत्वद्योतनार्था वीप्सा।
द्वितीयार्धं विभजते –
तत्रेत्यादिना ।
अनित्येभ्यो घटादिभ्यः सुखाद्याकारपरिणामितया वैलक्षण्यादस्तिभावो योऽयं प्रमातोक्तः स चलः सविशेषः सन् परिणामीत्यर्थः।
देहाद्यतिरिक्तोऽपि प्रमाता बुद्ध्यतिरिक्तो नास्तीति यो नास्तिभावः स स्थिरो निर्विशेषत्वात्तदभावस्येत्याह –
नास्तिभाव इति ।
प्रकारचतुष्टस्यास्तित्वस्य नास्तित्वस्यास्तिनास्तित्वस्य नास्तिनास्तित्वस्य चेति यावत्।
बालिशत्वे सिद्धे फलितं न्यायमुपसंहरति –
किम्विति ॥८३॥
आत्मनो यदावरणमुक्तं तदुपसंहरति –
कोट्य इति ।
यासां कोटीनां परीक्षकपरिकल्पितनिर्णयनिरूपणीयानां ग्रहैरभिनिवेशविशेषैरात्मा सदा समावृतस्ताः खल्वेताश्चतस्रः कोट्यः सन्ति। तथा चाऽऽत्मनो न यथावत्प्रथनमित्यर्थः।
यदि सदाऽऽत्मा समावृतो न तर्हि तस्य ज्ञानम्, ज्ञाने वा नास्ति नैराकाङ्क्ष्यं ज्ञातव्यान्तरपरिशेषादित्याशङ्क्याऽऽह –
भगवानिति ।
आत्मा हि वस्तुतोऽस्तीत्यादिकल्पनारहितो येनोपनिषत्प्रवणेन प्रतिपन्नः स सर्वज्ञो ज्ञातव्यान्तरमपश्यन् परमार्थपण्डितो निराकाङ्क्षो भवतीत्यर्थः।
श्लोकनिरस्यामाकाङ्क्षां दर्शयति –
कीदृगिति ।
किमिति परमार्थतत्त्वं जिज्ञास्यते? तज्ज्ञानात्पाण्डित्यसिद्ध्यर्थमित्याह –
यदवबोधादिति ।
तत्र श्लोकमवतार्य व्याकरोति –
आहेत्यादिना ।
तेषामेव प्रावादुकानामुपलब्धिनिश्चयैरिति सम्बन्धः। यो भगवानुक्तविशेषणः स येनेति योजना॥८४॥
ज्ञानवतोऽपि यावज्जीवादिश्रुतिवशादग्निहोत्रादि कर्तव्यमित्याशङ्क्याऽऽह –
प्राप्येति ।
यथोक्तां चतुष्कोटिविनिर्मुक्तामिति यावत्। समस्तत्वं ज्ञातव्यशेषशून्यत्वं परिपूर्णज्ञप्तिरूपत्वम्।
तत्र ब्राह्मण्यपदप्रयोगे प्रमाणमाह –
स ब्राह्मण इति ।
स विद्वानपरोक्षीकृतब्रह्मसतत्त्वः सन् फलावस्थो मुख्यो ब्राह्मणो भवतीत्यर्थः। ब्राह्मणस्य ब्रह्मविदो विद्याफलावस्थस्यैव स्वभावो महिमेत्युक्तो निर्विकारो वृद्धिह्रासाभावादेकरूपो भवतीति वाक्यान्तरस्यार्थः।
तदेव पदं विशिनष्टि –
अनापन्नादिमध्यान्तमिति ।
तद् व्याकरोति –
आदीति ।
अन्वयं दर्शयन्नवशिष्टं व्याचष्टे –
तदेव प्राप्येति ।
ज्ञानवान् फलावस्थः सन् कृतकृत्यो न तस्य किञ्चिदस्ति कर्त्तव्यमित्यस्मिन्नर्थे भगवद्वाक्यं प्रमाणयति –
नैव तस्येति ॥८५॥
यावज्जीवादिश्रुतेरविद्वद्विषयत्वाद्विदुषो नाग्निहोत्रादि कर्तव्यमित्युक्तम्। इदानीं तस्यापि नियोगतोऽस्ति कर्तव्यमित्याशङ्क्याऽऽह –
विप्राणामिति ।
ब्रह्मविदां ब्राह्मणानामेष विनयः स्वभावः। अतो न नियोगाधीनां कर्तव्यतामधिकरोति। शमोऽपि स्वाभाविको न नियोगेन क्रियते। दमोऽपि स्वभावसिद्धत्वान्न नियोगमपेक्षते। एवं कूटस्थमात्मतत्त्वं विद्वान् पुमानशेषविक्रियाशून्यब्रह्मस्वरूपेण तिष्ठतीत्यर्थः।
अक्षरार्थं कथयति –
विप्राणामित्यादिना ।
तमेव स्वाभाविकं विनयं विवृणोति –
यदेतदिति ।
एष एवेत्यात्मस्वभावो गृह्यते॥८६॥
परमतनिराकरणमुखेनाऽऽत्मतत्त्वमवधारितम्। अधुना स्वप्रक्रिययाऽवस्थात्रयोपन्यासमुखेनापि तदवधारयितुमवस्थाद्वयमुपन्यस्यति –
सवस्त्विति ।
वृत्तानुवादपूर्वकं प्रकरणशेषस्य तात्पर्यं दर्शयति –
एवमिति ।
शिष्यस्याध्यारोपदृष्टिमाश्रित्य जाग्रदादिपदार्थपरिशुद्धिपूर्वको बोधप्रकारः स्वप्रक्रिया; तया तस्यैवाऽऽत्मतत्त्वस्य प्रदर्शनपरो ग्रन्थशेष इत्यर्थः।
तत्र जागरितमुदाहरति –
सवस्त्विति ।
यद्धि प्रातिभासिकं व्यावहारिकं च स्थूलमर्थजातमादित्यादि देवतानुगृहीतैरिन्द्रियैरुपलभ्यते तज्जागरितमित्यर्थः।
द्वयमित्यस्यार्थमाह –
शास्त्रादीति ।
तत्र श्लोके लोकप्रसिद्धमित्येतदुच्यते –
लौकिकमिति ।
तद् व्याचष्टे –
लोकादिति ।
न केवलमिदं जागरितं लोकप्रसिद्धम्।
किं तु वेदान्तेष्वपि परम्परया ज्ञानोपायत्वेन प्रसिद्धमित्याह –
एवं लक्षणमिति ।
स्वप्नोपन्यासपरमोत्तरार्धं योजयति –
अवस्त्विति ।
बाह्येन्द्रियप्रयुक्तो व्यवहारः संवृतिशब्दार्थः। सोऽपि स्थूलार्थवन्न स्वप्ने सम्भवति। तथा च बाह्येषु करणेषूपसंहृतेषु जागरितवासनानुसारेण मनसस्तदर्थाभासाकारावभासनं स्वप्नशब्दितमित्यर्थः।
शुद्धमित्यस्य केवलमिति पर्यायं गृहीत्वा विवक्षितमर्थमाह –
प्रविविक्तमिति ।
तस्यापि लोकप्रसिद्धत्वं लौकिकमित्यनेनोक्तं, तद्विवृणोति –
सर्वप्राणीति ॥८७॥
सम्प्रति सुषुप्तं दर्शयति –
अवस्त्विति ।
स्थूलं सूक्ष्मं च वस्तु विषयभूतं यत्र न विद्यते तत्तथा।
इन्द्रियार्थसम्प्रयोगजन्यो वा स्थूलार्थावगाहि वासनात्मको वा यत्रोपलम्भो न सम्भवति तदशेषविशेषविज्ञानशून्यं सुषुप्तमिति विशिनष्टि –
अनुपलम्भं चेति ।
नन्विदं कारणात्मना बुद्धेरवस्थानम्। न च कारणं लोके प्रसिद्धम्।
कार्यस्यैवावस्थाद्वयात्मकस्य तथात्वादित्यभिप्रेत्याऽऽह –
लोकोत्तरमिति ।
तस्य साक्षिप्रसिद्धत्वं विवक्षित्वोक्तम् –
इति स्मृतमिति ।
ज्ञानज्ञेयात्मकावस्थात्रयं तुरीयं च परमार्थतत्त्वं विद्वदनुभवसमधिगम्यमित्याह –
ज्ञानमिति ।
श्लोकगतं पदद्वयमनूद्य विवक्षितमर्थं कथयति –
अवस्त्विति ।
ग्राह्यग्रहणविभागवर्जितत्वादेव कुतो लोकातीतत्वमित्याशङ्क्याऽऽह –
ग्राह्येति ।
सुषुप्तं चेदलौकिकं कथं तदवगम्यतामित्याशङ्क्याऽऽह –
सर्वप्रवृत्तीति ।
अवस्थाद्वयबीजं सुषुप्तमित्येतत्प्रसिद्धं शास्त्रविदामित्याह –
एवमिति ।
अवस्थात्रयमेवमुक्त्वा ज्ञानपदार्थं कथयति –
सोपायमिति ।
ज्ञानमत्र मनोवृत्तिरूपं विवक्षितम् अवस्थात्रयातिरिक्तमपि परीक्षकपरिकल्पितं ज्ञेयं सम्भवतीत्याशङ्क्याऽऽह –
सर्वेति ।
सर्वैरेव प्रावादुकैः शुष्कतर्कजल्पनशीलैः परिकल्पितस्य कार्यकारणादिरूपवस्तुनोऽवस्थात्रये नियमेनान्तर्भावाज्ज्ञेयान्तरं नास्तीत्यर्थः।
ज्ञेयमेव विशेषेण ज्ञेयं विज्ञेयमुच्यते, तेन तदपि नावस्थात्रयातिरिक्तमस्तीत्याशङ्क्याऽऽह –
विज्ञेयमिति ।
उपायोपेयभूते यथोक्तेऽर्थे विदुषामभिमतिमादर्शयति –
सदेति ॥८८॥
“आत्मनि विज्ञाते सर्वमिदं विज्ञातम् भवति” इति श्रुत्या यत्प्रतिज्ञातं तदुक्तवस्तुज्ञाने फलतिति कथयति –
ज्ञाने चेति ।
ज्ञानज्ञेयवेदने विवक्षितं क्रममनुक्रामति –
पूर्वमित्यादिना ।
यत्पुनरवस्थात्रयातीतं तुरीयं तत्परिज्ञाने विवक्षितं क्रमं दर्शयति –
स्थानेति ।
तुर्ये विदिते सतीति सम्बन्धः।
तस्य स्थानत्रयात्मकद्वैताभावोपलक्षितत्वमाह –
अद्वय इति ।
जन्मादिसर्वविक्रियारहितत्वेन कौटस्थ्यं कथयति –
अज इति ।
कार्यसम्बन्धस्तत्र नास्तीति वक्तुं कारणभूताविद्यासम्बन्धाभावमभिदधाति –
अभय इति ।
यथोक्ततत्त्वज्ञानस्य परिपूर्णब्रह्मरूपेणावस्थानं फलमाह –
स्वयमेवेति ।
ज्ञानवतो यथोक्तं फलमर्चिरादिमार्गायत्तमिति शङ्कां वारयति –
इहेति ।
उक्तज्ञानवतो महाबुद्धित्वे हेतुमाह –
सर्वलोकेति ।
ज्ञानवतो यथोक्तं ज्ञानं कदाचिद्भवदपि कालान्तरेऽभिभूतमसत्कल्पं भविष्यतीत्याशङ्क्याऽऽह –
एवंविद इति ।
श्रुत्याचार्यप्रसादाद्विदिते स्वरूपे स्वरूपस्फुरणस्य व्यभिचाराभावात् परिपूर्णज्ञाप्तिरूपता विदुषो भवतीत्युक्तं स्फुटयति –
न हीति ॥८९॥
अवस्थात्रयस्य ज्ञेयत्वनिर्देशात्परमार्थतोऽस्तित्वमाशङ्क्य परिहरति –
हेयेति ।
शङ्कोत्तरत्वेन श्लोकमवतार्य हेयशब्दार्थं व्याचष्टे –
लौकिकादीनामिति ।
तान्येव त्रीणि विभजते –
जागरितेति ।
पाण्डित्यं वेदान्ततात्पर्याभिज्ञत्वमद्वितीयवस्तुविचारचातुर्यपरिनिष्पन्नं श्रवणम्। बाल्यं दम्भदर्पाहङ्कारादिराहित्यम्, युक्तितः श्रुतार्थानुसन्धानकुशलत्वम्। मौनं मुनेः कर्म ज्ञानाभ्यासलक्षणं निदिध्यासनशब्दितम्। तान्येतान्याप्तव्यानि।
यद्यपि ज्ञेयस्य विज्ञेयत्वं युक्तं तथाऽपि कथं हेयादीनां विज्ञेयत्वमित्याशङ्क्याऽऽह –
उपायत्वेनेति ।
तदेव प्रकटयितुं प्रथमत इत्युक्तम्।
उत्तरार्धं व्याचष्टे –
तेषामिति ।
हेयादीनां रज्जुसर्पवदविद्याकल्पितत्वान्नास्ति परमार्थत्वशङ्केत्यर्थः॥९०॥
यदुक्तं ज्ञेयं चतुष्कोटिवर्जितं परमार्थतत्त्वमिति, तदिदानीं स्फुटयति –
प्रकृत्येति ।
बहुवचनप्रयोगप्राप्तं दोषं प्रत्यादिशति –
विद्यत इति ।
कल्पितभेदनिबन्धनं बहुवचनमित्यर्थः। क्वचनेति देशकालावस्थाग्रहणम्। अणुमात्रमपीति कार्यकारणभावस्यांशांशिभावस्य चोपादानम्॥९१॥
ज्ञेयशब्दप्रयोगान्मुख्यमेव ज्ञेयत्वं प्राप्तं प्रत्युदस्यति –
आदिबुद्धा इति ।
यथोक्तरीत्या समुत्पन्नस्य ज्ञानस्य फलमाह –
यस्येति ।
प्रथमपादस्य तात्पर्यमाह –
ज्ञेयताऽपीति ।
उक्तमर्थं दृष्टान्तेन स्पष्टयति –
यथेति ।
पदान्तरस्यार्थं कथयति –
न चेति ।
निश्चितस्वस्वरूपत्वमेव व्यतिरेकद्वारा स्फोरयति –
नेत्यादिना ।
न खल्वात्मा स्वसत्तायामेवं नैवमिति सन्दिह्यमानस्वरूपो भवितुमलम्। तस्य स्फुरणाव्यभिचारात् तद्रूपत्वस्य प्रागेव साधितत्वादित्यर्थः।
द्वितीयार्धं व्याकरोति –
यस्येत्यादिना ।
आत्मस्वरूपस्य स्फुरद्रूपत्वं यथोक्तप्रकारः। बोधाख्यो निश्चयो बोधनिश्चयस्तस्मिन्निरपेक्षत्वं स्वार्थमन्यार्थं वा यस्य भवति सोऽमृतत्वाय कल्पत इति सम्बन्धः।
तदेव दृष्टान्तेन साधयति –
यथेत्यादिना ।
इतिशब्दो यथेत्यनेन सम्बध्यते॥९२॥
“सोऽमृतत्वाय”(मा. का. ४ । ९२) इत्यादिवचनादागन्तुकममृतत्वं प्रत्युदस्यति –
आदिशान्ता इति ।
श्लोकस्य तात्पर्यमक्षरार्थं च निर्दिशति –
तथा नापीत्यादिना ।
उक्तमेवार्थं चतुर्थपादेन संक्षिप्य दर्शयति –
अजमिति ।
श्लोकार्थमुपसंहरति –
विशुद्धमिति ।
उक्तरूपतानङ्गीकारे मोक्षस्यापुरुषार्थता स्यादित्याह –
न हीति ।
संसारदुःखोपशमनं सुखजन्म वा यदि क्रियेत तदा कृतकस्यानित्यत्वमवश्यम्भावीत्यर्थः॥९३॥
इदानीं मुमुक्षुप्ररोचनार्थमविद्वन्निन्दां दर्शयति –
वैशारद्यं त्विति ।
श्लोकस्य तात्पर्यं दर्शयति –
ये यथोक्तमिति ।
उत्तरार्धमादौ योजयति –
यस्मादिति ।
तस्मादित्युत्तरेणास्य सम्बन्धः।
प्रथमार्धमुक्तेऽर्थे हेतुत्वेन व्याचष्टे –
यस्मादित्यादिना ।
समनन्तरोक्तस्य यस्मादित्यस्यापेक्षितं पूरयति –
अत इति ॥९४॥
एवमविद्वन्निन्दां प्रदर्श्य विद्वत्प्रशंसां प्रसारयति –
अज इति ।
कूटस्थे वस्तुनि निर्विशेषे येषामसम्भावनाविपरीतभावनाविरहि निर्धारणरूपं विज्ञानं सम्भावनोपनीतमस्ति ते हि व्यवहारभूमौ महति निरतिशये तत्त्वे परिज्ञानवत्त्वान्महानुभावा भवन्तीत्यर्थः।
ननु तत्त्वविषयज्ञानस्य सर्वलोकसाधारणत्वात् तत्त्वज्ञानवतां किमिति प्रशंसा प्रस्तूयते तत्राऽऽह –
तच्चेति ।
श्लोकस्य तात्पर्यमाह –
यदिदमिति ।
यदित्युपक्रमात् तदमहात्मभिरनवगाह्यमिति योजनीयम्। अमहात्मत्वं क्षुद्रहृदयत्वम्।
तत्र हेतुः –
अपण्डितैरिति ।
अपाण्डित्यं विवेकरहितत्वम्। तत्र हेतुर्वेदान्तेत्यादिना सूच्यते। तेषां पौर्वापर्येण पर्यालोचनापरिचयपराङ्मुखैरित्यर्थः।
विचारचातुर्याभावादेव पदार्थवाक्यार्थविभागावगमशून्यत्वमाह –
अल्पप्रज्ञैरिति ।
तर्हि पारमार्थिके तत्त्वे केषामेवं मनीषा समुन्मिषेदित्याशङ्क्य येषां केषाञ्चिदेव तन्निष्ठानामित्याह –
ये केचिदिति ।
स्त्र्यादीनामुपनिषद्द्वारा ज्ञानाधिकाराभावेऽपि द्वारान्तरप्रयुक्तस्तदधिकारः सम्भवतीत्यभिप्रेत्यापीत्युक्तम्। तत्त्वज्ञानस्य दुर्लभत्वमभ्युपेत्य चेदित्युक्तम्।
चतुर्थपादं व्याचष्टे –
तच्चेति ।
ज्ञानवतां विज्ञातं परमार्थतत्त्वमन्येषामनवगाह्यमित्यत्र प्रमाणमाह –
सर्वभूतेति ।
सर्वेषां भूतानां ब्रह्मादीनां स्तम्बपर्यन्तानामात्मा परं ब्रह्म तद्भूतस्य विदुषः सर्वत्राऽऽत्मभूतस्य सर्वेषु निरुपचरितस्वरूपत्वादेव परमहितस्य परमप्रेमास्पदत्वादेव परमसुखात्मकस्य प्राप्यपुरुषार्थविरहिणो मार्गे देवा विद्यावन्तोऽपि पदमन्वेषमाणा विविधं मोहमुपगच्छन्तीत्यर्थः।
महात्मनो ज्ञानवतो गन्तव्यपदरहितस्य परिपूर्णस्य गतिरवगुन्तुमशक्येति निदर्शनवशेन विशदयति –
शकुनीनामिति ॥९५॥
अजं साम्यमित्युक्तं प्रमेयं तद्विषयनिश्चयवान् प्रमाता प्रमाणं तथाविधनिश्चयाज्ञानमिति वस्तुपरिच्छेदे कथं महाज्ञानत्वमित्याशङ्क्याऽऽह –
अजेष्विति ।
अजा धर्माश्चित्प्रतिबिम्बा जीवा विवक्ष्यन्ते। तेष्वजं ज्ञानं कूटस्थदृष्टिरूपं बिम्बकल्पं ब्रह्माचलमात्मभूतमभ्युपगम्यते। तथा च मानमेयादिभावस्य कल्पितत्वेऽपि वस्तुतो वस्तुपरिच्छेदाभावादुपपन्नं तज्ज्ञानवतां महाज्ञानत्वमित्यर्थः। किं चास्मन्मते ज्ञानस्य यदसङ्गत्वमङ्गीकृतं तदपि विषयाभावादेव सिध्यति।
ततश्च “मुक्त्यै निर्विषयं मन”(ब्रह्मबिन्दूपनिषत् २) इति यदुच्यते तदप्यविरुद्धमित्याह –
यतो नेति ।
आकाङ्क्षापूर्वकं पूर्वार्धं योजयति –
कथमित्यादिना ।
उत्तरार्धं व्याचष्टे –
यस्मान्नेति ।
नित्यविज्ञप्तिरूपस्याऽऽत्मनोऽसङ्गत्वं प्रागपि सूचितमित्याह –
आकाशेति ॥९६॥
कूटस्थं ब्रह्मैव तत्त्वमिति स्वमते ज्ञानमसङ्गं सिध्यतीत्युक्तम्। मतान्तरे पुनः सविषयत्वाज्ज्ञानस्यासङ्गत्वमसङ्गतं प्रसज्येतेत्याह –
अणुमात्रेऽपीति ।
अविद्वद्दृष्ट्या कस्यचिदपि पदार्थस्य जन्माङ्गीकारे ज्ञानस्य तदनुषिङ्गित्वेनासङ्गत्वायोगे बन्धध्वंसलक्षणं प्रयोजनं दूरापास्तं भवतीत्याह –
किमुतेति ।
श्लोकाक्षराणि व्याकरोति –
इत इति ।
विद्वानद्वैतवादी पञ्चम्या परामृश्यते॥९७॥
न चेदावरणच्युतिरिष्यते तर्हि स्वीकृतमावरणमित्याशङ्क्याऽऽह –
अलब्धेति ।
बोद्धृत्वं तर्हि कथमित्याशङ्क्य बोधनशक्तिमत्त्वादित्याह –
बुध्यन्त इति ।
शङ्कोत्तरत्वेन श्लोकमवतारयति –
तेषामित्यादिना ।
अविद्वद्दृष्ट्यैवाविद्यावरणं सिध्यति, न तत्त्वदृष्ट्येत्यभिप्रेत्य व्याचष्टे –
अलब्धेति ।
उक्तेऽर्थे हेतुकथनार्थं विशेषणत्रयमित्याह –
यस्मादिति ।
तस्माद् बन्धनरहिता इति पूर्वेण सम्बन्धः।
आत्मनो यथोक्तस्वभावत्वे बोद्धृत्वं न सिध्यतीत्याक्षिपति –
यद्येवमिति ।
पादान्तरेणोत्तरमाह –
उच्यत इति ।
मुख्यावेव क्रियाकर्तारौ प्रकृतिप्रत्ययाभ्यामभिधेयावित्याशङ्क्य नियममुदाहरणाभ्यां निरस्यति –
यथेत्यादिना ॥९८॥
किमिति मुख्ये बोद्धृत्वे सम्भाविते तदेव नेष्टमित्याशङ्क्य ज्ञानस्य विद्वद्दृष्ट्या विषयसम्बन्धासम्भवादित्याह –
क्रमत इति ।
किं च जीवानां ब्रह्मात्मना विभुत्वादाकाशवत्क्रियासमवायायोगान्न मुख्यं बोद्धृत्वं सेद्धुमलमित्याह –
सर्व इति ।
ज्ञानमात्रं पारमार्थिकं तत्रैव ज्ञातृज्ञेयादि कल्पितमिति सौगतमतमेव भवताऽपि संगृहीतमित्याशङ्क्याऽऽह –
ज्ञानमिति ।
तत्र पूर्वार्धाक्षराणि व्याकरोति –
यस्मादिति ।
यद्धि परमार्थदर्शिनो ज्ञानं तत्र विषयान्तरेषु क्रमते, किं तु सवितरि प्रकाशवदात्मन्येव प्रतिष्ठितं यस्मादिष्यते तस्मान्नास्मिन् मुख्यं बोद्धृत्वं सेद्धुमर्हतीत्यर्थः ।
परमार्थदर्शिनो विशेषणम् –
तायिन इति ।
तद्व्याचष्टे –
तायोऽस्यात्यादिना ।
आत्मनो मुख्यस्य बोद्धृत्वस्याभावे हेत्वन्तरम् –
सर्वे धर्मास्तथेति ।
तद्विभजते –
सर्व इत्यादिना ।
प्रकरणादावुक्तमेव किमर्थं पुनरिहोच्यते, तत्राऽऽह –
यदादाविति ।
तदिदमिहोपसंहृतमिति शेषः।
क्रमते न हीत्यादेरक्षरार्थमुपसंहरति –
आकाशकल्पस्येति ।
सर्वे धर्मास्तथेत्यस्यार्थं निगमयति –
तथेति ।
धर्मा न क्रमन्ते क्वचिदपीति शेषः। तथा च नाऽऽत्मनि मुख्यं बोद्धृत्वं, किं त्वौपचारिकमिति प्रकृतमुपसंहर्तुमितिशब्दः।
पूर्वार्धस्य तात्पर्यमाह –
आकाशमिति ।
ज्ञानमित्यादि व्याचष्टे –
ज्ञानेति ।
सकलभेदविकलं परिपूर्णमनादिनिधनं ज्ञप्तिमात्रमुपनिषदेकसमधिगम्यं तत्त्वमिह प्रतिपद्यते। मतान्तरे तु नैवमिति कुतो मतसाङ्कर्याशङ्काऽवकाशमासादयेदित्यर्थः॥९९॥
प्रकरणचतुष्टयविशिष्टस्य शास्त्रस्याऽऽदाविवान्तेऽपि परदेवतातत्त्वमनुस्मरंस्तन्नमस्काररूपं मङ्गलाचरणं सम्पादयति –
दुर्दर्शमिति ।
दुर्विज्ञेयत्वे प्रत्यक्षादिप्रमाणानधिगम्यत्वं हेतुं विवक्षित्वा विशिनष्टि –
अतिगम्भीरमिति ।
प्रत्यक्षादिभिरनवगाह्यत्वे कूटस्थत्वं निर्विशेषत्वं सर्वसम्बन्धविधुरत्वं चेति हेतुत्रयमभिप्रेत्याऽऽह –
अजमित्यादिना ।
विशेषणत्रयं तर्हि कुतश्चिदनवगतं तन्नास्त्येवेति निश्चेतुं युक्तम्, प्रमाणाधीनत्वात् प्रमेयसिद्धेरित्याशङ्क्योपनिषद्भिरतद्धर्माध्यासापाकरणद्वारेणावगम्यमानत्वान्मैवमित्याह –
पदमिति ।
तत्र तर्हि सकलविभागविकले कुतो नमस्कारक्रिया स्वीक्रियामर्हतीत्याशङ्क्याऽऽह –
अनानात्वमिति ।
यद्यपि वस्तुतस्तस्मिन्नानात्वं नावकल्पते तथापि यथासामर्थ्यं मायाबलमवलम्ब्य काल्पिनिकं नानात्वमनुसृत्य नमस्कारक्रिया प्रचयादिप्रयोजनवती प्रामाणिकैरभिप्रेतेत्यर्थः।
श्लोकस्य तात्पर्यमाह –
शास्त्रेति ।
यदि परमार्थतत्त्वं शास्त्रस्याऽऽदाविवान्तेऽपि नमस्क्रियते तदा तस्याऽऽद्यन्तमध्येष्वनुसन्धेयतया स्तुतिः सिध्यति । तेन तदर्थमादाविवावसानेऽपि प्रह्वीभावस्तद्विषयश्लोकेनोपदिश्यते। तथा च प्रतिपाद्यस्य ब्रह्मणो महामहिमत्वं समधिगतमित्यर्थः।
दुर्दर्शत्वमुक्तं व्यनक्ति –
अस्तीति ।
सर्वेषामेव यथोक्ते परमार्थतत्त्वे प्रवेशानुपपत्तिमाशङ्क्य सम्प्रदायरहितानां तथात्वेऽपि तद्वतां मैवमित्याह –
अकृतेति ।
कौटस्थ्यादिसिद्ध्यर्थं व्याख्यातमेव पदत्रयमनुवदति –
अजमिति ।
उक्तं वेदान्तैकगम्यं तत्त्वं द्वैताभावोपलक्षितमित्याह –
ईदृगिति ।
यथोक्तं ब्रह्म ज्ञात्वा ज्ञानसामर्थ्याद् ब्रह्मीभूतश्चेदाचार्यस्तर्हि कथं तस्मै नमस्कर्तुं प्रवर्तते।
न हि परिपूर्णं वस्तु वस्तुतो व्यवहारगोचरतामाचरतीत्याशङ्क्याऽऽह –
अव्यवहार्यमिति ।
परमार्थतो व्यवहारागोचरत्वेऽपि परमार्थतत्त्वस्य मायाशक्तिमनुसृत्य व्यवहारगोचरतां परिकल्प्य नमस्कारक्रिया तस्मिन् प्रयोजनवशादाश्रितेत्यर्थः॥१००॥
इदानीं भाष्यकारोपि भष्यपरिसमाप्तौ शास्त्रप्रतिपादितपरदेवतातत्त्वमनुस्मृत्य तन्नमस्काररूपं मङ्गलाचरणमाचरति –
अजमपीति ।
यद्ब्रह्माशेषोपनिषत्प्रसिद्धं सर्वथा परिच्छेदरहितं तदहं प्रत्यग्भूतं नमस्ये [नतोऽस्मि] तद्विषयं प्रह्वीभावं करोमीति सम्बन्धः।
प्रणामप्रयोजनमाह –
प्रणतेति ।
ये हि प्रणता ब्रह्मणि प्रह्वीभूतास्तन्निष्ठास्तिष्ठन्ति तेषां यदविद्यातत्कार्यात्मकं भयं तदाचार्योपदेशजनितबुद्धिवृत्तिफलकारूढं ब्रह्मैव हन्ति। न खलु जडा बुद्धिवृत्तिर्वस्तुसामर्थ्यमन्तरेणाज्ञानं सकार्यपमनेतुमलम्। बुद्धीद्धो बोधो बोधेद्धा वा बुद्धिरुक्तं फलमादधातीत्यर्थः।
तस्यैव ब्रह्मणः सम्प्रति तटस्थलक्षणं विवक्षति –
अजमित्यादिना ।
यद्यपि जन्मादिसर्वविक्रियाशून्यं वस्तुतो ब्रह्मकूटस्थमास्थीयते तथाऽपि तदैश्वर्येण तदीयशक्त्यात्मकेनानिर्वाच्याज्ञानवैभवेन योगादाकाशादिकार्यात्मना जन्मसम्बन्धं प्राप्य जगतो निदानमिति व्यपदेशभाग्भवति। तथा च श्रुतिसूत्रयोर्ब्रह्मणो जगत्कारणत्वं प्रसिद्धमित्यर्थः।
यद्यपि चेदं ब्रह्म कूटस्थतया विभुतया च गतिवर्जितमवतिष्ठते तथाऽपि यथोक्ताज्ञानमाहात्म्यात् कार्यब्रह्मतां प्राप्य गतिमत्तां गन्तव्यतां बादर्यधिकरणन्यायेन प्रतिपद्यते, तदाह –
अगति चेति ।
यद्यपि चेदं ब्रह्म वस्तुतो निरस्तसमस्तनानात्वमेकरसमद्वितीयमुपनिषद्भिरभ्युपगम्यते तथाऽपि जीवो जगदीश्वरश्चेत्येतद् यदनाद्यनिर्वाच्याविद्यावशादनेकमिव प्रतिभातीत्याह –
एकमिति ।
केषां दृष्ट्या पुनरनेकत्वं ब्रह्मणोऽवगम्यते तदाह –
विविधेति ।
विविधाश्च ते विषयधर्माश्च तद्ग्राहितया मुग्धं विपर्यस्तं विवेकविकलमीक्षणं येषां तेषां दृष्ट्या ब्रह्मणोऽनेकत्वधीर्न तु तत्त्वतः, शास्त्रदृष्ट्या तु तस्मिन्नेकत्वमेव प्रामाणिकमित्यर्थः॥१॥
सम्प्रति ग्रन्थप्रणयनप्रयोजनप्रदर्शनपूर्वकं परमगुरूनागमशास्त्रस्य व्याख्यातस्य प्रणेतृत्वेन व्यवस्थितान् प्रणमति –
प्रज्ञेति ।
यो हि कारुण्यादिदं ज्ञानाख्यममृतं भूतहेतोस्तदुपकारार्थमुद्दधार तं परमगुरुं नतोऽस्मीति सम्बन्धः। अमुमिति तस्य पुरोदेशे सन्निहितत्वेनापरोक्षत्वं सूचितम्।
परमगुरुत्वं पूज्यानामपि गुरूणामतिशयेन पूज्यत्वादाचार्यस्य समधिगतमित्याह –
पूज्येति ।
नमस्कारप्रक्रियां प्रकटयति –
पादपातैरिति ।
पादौ तदीयौ पादौ, तयोः स्वकीयस्योत्तमाङ्गस्य पाता भूयो भूयो नम्रीभावास्तैरिति यावत्।
आचार्यो ज्ञानाख्यममृतं कथंभूतमुद्धृतवानित्यपेक्षायामुक्तम् –
अन्तरस्थमिति ।
कस्यान्तरस्थमिति विवक्षायामाह –
वेदेति ।
कथमित्यत्राऽऽह –
प्रज्ञेति ।
मेधासहिता प्रज्ञैव वैशाखो मन्थास्तस्य वेधो वेधनं क्षेपणं तेन क्षुभितो विलोडितो जलनिधिर्वेदनामा तस्यान्तरेऽभ्यन्तरे स्थितमिदममृतमिति यावत्।
उक्तस्य ज्ञानामृतस्य प्रसिद्धादमृतादवान्तरवैषम्यमादर्शयति –
अमरैरिति ।
यद्धि भगवता नारायणेन क्षीरसागरान्तरवस्थितममृतं समुद्धृतं तदेव कथञ्चिदमरा लेभिरे। इदं तु तैरनायासलभ्यं न भवति। ज्ञानसामग्रीसम्पन्नैरेव लभ्यत्वादित्यर्थः।
यदि कारुण्यादिदममृतमाचार्येण वेदोदधेर्भूतोपकारार्थमुद्धृतं कथं तर्हि कारुण्यं तस्य प्रादुरभूदित्याशङ्क्याऽऽह –
भूतानिति ।
योऽयं समुद्रवद् दुरुत्तारः संसारस्तस्मिन्नविरतमनवरतं सन्ततमेव यानि जननानि विग्रहभेदग्रहणानि तान्येव ग्राहा जलचरास्तैर्घोरे क्रूरे भयङ्करे मग्नानि भग्नसङ्कल्पानि परवशानि भूतान्युपलभ्य कारुण्यमाचार्यस्य प्रादुरासीत्। ततश्चेदममृतमुद्धृत्य भूतेभ्यो दत्त्वा तानि रक्षितवानित्यर्थः॥२॥
अथाधुना स्वगुरुभक्तेर्विद्याप्राप्तावन्तरङ्गत्वमङ्गीकृत्य तदीयपादसरसीरुहयुगलं प्रणमति –
यत्प्रज्ञेति ।
तेषामस्मद्गुरूणां पादौ सर्वभावैर्वाङ्मनोदेहानां प्रह्वीभावैर्नमस्ये सम्रीभवामीति सम्बन्धः। तौ च जगतः सर्वस्यापि पावनीयौ पवित्रतया पवित्रत्वमापाद्य निर्वृणाते। तौ च स्वसम्बन्धिनां सर्वेषां भवः संसारस्तत्प्रयुक्तं भयं स्वकारणेन सहापनुद्य पुरुषार्थपरिसमाप्तिं कुर्वाते।
तानेव गुरून्विशिनष्टि –
यत्प्रज्ञेति ।
मे मम स्वान्तमन्तःकरणं तस्मिन् मोहो व्याकुलताहेतुरविवेकस्तस्य कारणं यदनाद्यज्ञानं तद्येषां प्रज्ञैवाऽऽलोकस्तस्य भा दीप्तिस्तया प्रतिहति विनाशमगमद् गतवत् तत्पादाविति सम्बन्धः।
न केवलमज्ञानमेवाऽऽचार्यप्रसादादपगच्छत्तुच्छीभवति, किं तु तत्कार्यमनर्थजातमपि कारणनिवृत्तौ स्थितिमलभमानमाभासीभवतीत्याह –
मज्जोन्मज्जमिति ।
असकृदनेकशो देवतिर्यगादियोनिषु योऽयमुपजनो नानाविधदेहभेदसंग्रहोऽसावेवोदन्वानुदधिस्तस्मिन्नतित्रासने भयावहे कदाचिद् यथोक्तमज्ञानं कार्यरूपेण मज्जदनभिव्यक्तमवतिष्ठते तदेव चावस्थाविशेषे तद्रूपेणोन्मज्जदभिव्यक्तमनर्थकरं परिवर्तते। तदेवमतिक्रूरे संसारसागरे परिवर्तमानमज्ञानं सकार्यमाचार्यप्रसादादपनीतमासीदित्यर्थः।
न केवलमेकस्य ममैव यथोक्तफलप्राप्तिराचार्यप्रसादादाविरभूत् किं तु तच्चरनपरिचर्यापरायणानामन्येषामपि भूयसामित्याह –
यत्पादाविति ।
येषां गुरूणां पादद्वयमाश्रितानामन्येषामपि शिष्याणां तदीयशश्रूषाप्रणयिमनीषाजुषां श्रुतिर्मनननिदिध्यासनसहकृतं श्रवणज्ञानम्। शमः शान्तिरिन्द्रियोपरतिः। विनयोऽवनतिरनौद्धत्यम्। तेषां प्राप्तिरग्र्या श्रेष्ठा प्रतिष्ठिता सिध्यति। यस्मादमोघा सफला श्रवणादीनां प्राप्तिस्तस्मादग्र्यत्वं तस्यां सम्भाव्यते । तदेवमाचार्यप्रसादादात्मनोऽन्येषां च वहूनां पुरुषार्थपरिसमाप्तिसम्भवादाचार्यपरिचरणं पुरुषार्थकामैराचरणीयमित्यर्थः॥३॥
विष्णुं कृष्णं स्वमायाविरचितविविधद्वैतवर्गं निसर्गादुत्खातानर्थसार्थं निरवधिमधुरं सच्चिदेकस्वभावम्।
आज्ञायाऽऽत्मानमेकं विधिमुखविमुखं नेति नेतीति गीतं वन्दे वाचां धियां चापदमपि जगतामास्पदं कल्पितानाम्॥१॥
गौडपादीयभाष्यस्य व्याख्या व्याख्यातृसंमता।
संमिता निर्मिता सेयमर्पिता पुरुषोत्तमे॥२॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानविरचितायां गौडपादीयभाष्यटीकायामलातशान्त्याख्यं चतुर्थप्रकरणम्॥