अद्वैतशारदा

आनन्दगिरिटीका (मुण्डक)

प्रथमं मुण्डकम्: प्रथमः खण्डः

यदक्षरं परं ब्रह्म विद्या­ग­म्य­म­ती­रि­तम् ।
यस्मिञ्ज्ञाते भवेज्ज्ञातं सर्वं तत्स्यामसंशयम् ॥१॥

ब्रह्मो­प­नि­ष­द्ग­र्भो­प­नि­ष­दाद्या अथर्वणवेदस्य बह्व्य उपनिषदः सन्ति । तासां शारी­र­केऽ­नु­प­यो­गि­त्वे­ना­व्या­चि­ख्या­सि­त­त्वा­द­दृ­श्य­त्वा­दि­गु­णको धर्मोक्ते (ब्र० १।२।२१) रित्या­द्य­धि­क­र­णो­प­यो­गि­तया मुण्डकस्य व्याचि­ख्या­सि­तस्य प्रतीकमादत्ते –
ब्रह्मा­दे­वा­ना­मि­त्या­द्या­थ­र्व­णो­प­नि­ष­दिति ।
व्याचि­ख्या­सि­तेति शेषः । नन्वि­य­मु­प­नि­ष­न्म­न्त्र­रूपा मन्त्राणां चेषे त्वेत्यादीनां कर्मसंबन्धेनैव प्रयोजनवत्त्वम् । एतेषां च मन्त्राणां कर्मसु विनि­यो­ज­क­प्र­मा­णा­नु­प­ल­म्भेन तत्सं­ब­न्धा­सं­भ­वा­न्नि­ष्प्र­यो­ज­न­त्वा­द्व्या­चि­ख्या­सि­तत्वं न संभवतीति शङ्क­मा­न­स्यो­त्त­रम् । सत्यं कर्म­सं­ब­न्धा­भा­वेऽपि ब्रह्म­वि­द्या­प्र­का­श­न­सा­म­र्थ्या­द्वि­द्यया संबन्धो भविष्यति ।

ननु विद्यायाः पुरु­ष­क­र्तृ­क­त्वा­त्त­त्प्र­का­श­क­त्वेऽस्या उपनिषदोऽपि पौरु­षे­य­त्व­प्र­स­ङ्गा­त्पा­क्षि­क­पु­रु­ष­दो­ष­ज­त्व­श­ङ्क­याऽ­प्रा­मा­ण्या­द्व्या­चि­ख्या­सि­तत्वं नोपपद्यत इत्याशङ्क्याऽऽह –
अस्याश्चेति ।
विद्यायाः सम्प्र­दा­य­प्र­व­र्तका एव पुरुषा न तूत्प्रेक्षया निर्मातारः। सम्प्र­दा­य­क­र्तृ­त्व­मपि नाधुनातनं येनानाश्वासः स्यात् किन्त्व­ना­दि­पा­र­म्प­र्या­ग­तम्। ततोऽ­ना­दि­प्र­सि­द्ध­ब्र­ह्म­वि­द्या­प्र­का­श­न­स­म­र्थो­प­नि­षदः पुरुषसम्बन्धः सम्प्र­दा­य­क­र्तृ­त्व­पा­र­म्प­र्य­ल­क्षण एव तमा­दा­वे­वाऽऽ­हे­त्यर्थः ।

विद्या­स­म्प्र­दा­य­क­र्तृ­त्व­मेव पुरुषाणाम् । यथा विद्यायाः पुरु­ष­स­म्ब­न्ध­स्त­थै­वो­प­नि­ष­दोऽपि यदि पुरुषसम्बन्धो विवक्षितः पौरु­षे­य­त्व­प­रि­हा­राय तर्हि तथा­भू­त­स­म्ब­न्धा­भि­धा­य­के­ना­न्येन भवितव्यं स्वयमेव स्वस­म्ब­न्धा­भि­धा­य­कत्वे स्ववृ­त्ति­प्र­स­ङ्गा­दि­त्या­श­ङ्क्याऽऽह –
स्वयमेव स्तुत्यर्थमिति ।

विद्यास्तुतौ तात्पर्यान्न स्ववृत्तिर्दोष इत्यर्थः। स्तुतिर्वा किमर्थत्यत आह –
श्रोतृबुद्धीति ।
प्रवर्तेरन्निति पाठो युक्तः । वृतु­धा­तो­रा­त्म­ने­प­दि­त्वात् ।

विद्याया यत्प्रयोजनं तदेवास्या उपनिषदोऽपि प्रयोजनं भवि­ष्य­ती­त्य­भि­प्रेत्य विद्यायाः प्रयो­ज­न­सं­ब­न्ध­माह –
प्रयोजनेन त्विति ।

संसा­र­का­र­ण­नि­वृ­त्ति­र्ब्र­ह्म­वि­द्या­फलं चेत्त­र्ह्य­प­र­वि­द्य­यैव तन्निवृत्तेः संभवान्न तदर्थं ब्रह्म­वि­द्या­प्र­का­श­को­पी­न­ष­द्व्या­ख्या­त­व्ये­त्या­श­ङ्क्याऽऽह –
अत्र चेति ।
संसा­र­का­र­ण­म­वि­द्या­दि­दो­ष­स्त­न्नि­व­र्त­क­त्व­म­प­र­वि­द्यायाः कर्मात्मिकायाः न संभवत्यविरोधात् । न हि शतशोऽपि प्राणायामं कुर्वतः शुक्तिदर्शनं विना तद­वि­द्या­नि­वृ­त्ति­र्दृ­श्यते । ततोऽपरविद्यायाः संसा­र­का­र­णा­वि­द्या­नि­व­र्त­कत्वं नास्तीति स्वयमेवोक्त्वा ब्रह्म­वि­द्या­मा­हेति संबन्धः ।

किञ्च पर­म­पु­रु­षा­र्थ­सा­ध­न­त्वेन ब्रह्मविद्यायाः परविद्यात्वं निकृ­ष्ट­सं­सा­र­फ­ल­त्वेन च कर्मविद्याया अपरविद्यात्वम् । ततः समा­ख्या­ब­ला­द­प­र­वि­द्याया मोक्ष­सा­ध­न­त्वा­भा­वोऽ­व­ग­म्यत इत्य­भि­प्रे­त्याऽऽह –
परापरेति ।

यच्चाऽऽहुः कर्मजडाः केव­ल­ब्र­ह्म­वि­द्यायाः कर्तृ­सं­स्का­र­त्वेन कर्मा­ङ्ग­त्वा­त्स्वा­त­न्त्रेण पृरु­षा­र्थ­सा­ध­नत्वं नास्तीति तद­न­न्त­र­श्रु­त्यैव निराकृतमित्याह –
तथा पर­प्रा­प्ति­सा­ध­न­मिति ।
ब्रह्मविद्यायाः कर्माङ्गत्वे कर्मणो निन्दा न स्यात् । न खल्वङ्गविधानाय प्रधानं विनिन्द्यते । अत्र तु सर्व­सा­ध्य­सा­ध­न­नि­न्दया तद्वि­ष­य­वै­रा­ग्या­भि­धा­न­पू­र्वकं परप्राप्तिसाधनं ब्रह्मविद्यामाह – अतो ब्रह्मविद्यायाः स्वप्र­धा­न­त्वा­त्त­त्प्र­का­श­को­प­नि­षदां न कर्तुः स्त्वाव­क­त्व­मि­त्यर्थः।

यद्युपनिषदां स्वत­न्त्र­ब्र­ह्म­वि­द्या­प्र­का­श­कात्वं स्यात्तार्हि तदध्येतॄणां सर्वेषामेव किमिति ब्रह्मविद्या न स्यादि­त्या­श­ङ्क्याऽऽह –
गुरु­प्र­सा­द­ल­भ्या­मिति ।
गुर्व­नु­ग्र­हा­दि­सं­स्का­रा­भा­वा­त्स­र्वेषां यद्यपि न भविष्यति तथाऽपि विशि­ष्टा­धि­का­रिणां भविष्यतीति भावः ।

ननु स्वतन्त्रा चेद्ब्र­ह्म­विद्या तर्हि प्रयोजनसाधनं न स्यात् सुख­दुः­ख­प्रा­प्ति­प­रि­हा­रयोः प्रवृ­त्ति­नि­वृ­त्ति­सा­ध्य­ता­व­ग­मा­त्त­त्राऽऽह –
प्रयोजनं चेति ।
स्मरणमात्रेण विस्मृ­त­सु­व­र्ण­लाभे सुख­प्रा­प्ति­प्र­सिद्धेः रज्जु­त­त्त्व­ज्ञा­न­मा­त्राच्च सर्प­ज­न्य­भ­य­क­म्पा­दि­दुः­ख­नि­वृ­त्ति­प्र­सि­द्धेश्च न प्रवृ­त्ति­नि­वृ­त्ति­सा­ध्यत्वं प्रयो­ज­न­स्यै­का­न्ति­कम् । अतो विश्रब्धं श्रुतिः प्रयोजनसंबन्धं विद्याया असकृद्ब्रवीति । तस्मा­त्त­त्प्र­का­श­को­प­नि­षदो व्याख्येयत्वं संभवतीत्यर्थः ।

यच्चाऽऽ­हु­रे­क­दे­शिनः स्वाध्या­या­ध्य­य­न­वि­धे­र­र्था­व­बो­ध­फ­लस्य त्रैव­र्णि­का­धि­का­र­त्वा­द­धी­तो­प­नि­ष­ज्जन्ये ब्रह्म­ज्ञा­नेऽ­स्त्येव सर्वेषामधिकारः । ततः सर्वा­श्र­म­क­र्म­स­मु­च्चि­तैव ब्रह्मविद्या मोक्षसाधनमिति तत्राऽऽह –
ज्ञानमात्र इति।
सर्व­स्व­त्या­गा­त्म­क­सं­न्या­स­नि­ष्ठैव परब्रह्मविद्या मोक्षसाधनमिति वेदो दर्शयति। तादृ­श­सं­न्या­सिनां च कर्मसाधनस्य स्वस्याभावान्न कर्मसम्भवः। आश्रमधर्मोऽपि शम­द­मा­द्यु­प­बृं­हि­त­वि­द्या­भ्या­स­नि­ष्ठ­त्व­मेव । तेषां शौचाचमनादिरपि तत्त्वतो नाऽऽश्रमधर्मो लोक­सं­ग्र­हा­र्थ­त्वात् । ज्ञाना­भ्या­से­नै­वा­पा­व­न­त्व­नि­वृत्तेः । “न हि ज्ञानेन सदृशं पवित्रमिह विद्यते”(भ. गी. ४। ३८) इति स्मरणात्। त्रिष­व­ण­स्ना­न­वि­ध्या­दे­र­ज्ञ­सं­न्या­सि­वि­ष­य­त्वात्। अतः कर्मनिवृत्त्यैव साहित्यं ज्ञानस्य न कर्मणेत्यर्थः ।

इतश्च न कर्मसमुच्चिता विद्या मोक्ष­सा­ध­न­मि­त्याह –
विद्या­क­र्म­वि­रो­धाच्चेति ।
अकर्तृं ब्रह्मैवास्मीति करोमि चेति स्फुटो व्याघात इत्यर्थः ।

यदा ब्रह्मा­त्मै­कत्वं विस्मरति तदो­त्प­न्न­वि­द्योऽपि करिष्यति ततः समुच्चयः संभाव्यत इति न वाच्यमित्याह –
विद्याया इति ।

ननु गृह­स्था­ना­म­ङ्गि­रः­प्र­भृ­तीनां विद्या­सं­प्र­दा­य­प्र­व­र्त­क­त्व­द­र्श­ना­द्गृ­ह­स्था­श्र­म­क­र्मभिः समुच्चयो लिङ्गादवगम्यत इत्याशङ्क्याऽह –
यत्त्विति ।
लिङ्गस्य न्यायो­प­बृं­हि­त­स्यैव गम­क­त्वा­ङ्गी­का­रा­त्स­मु­च्चये च न्याया­भा­वा­त्प्र­त्युत विरोधदर्शनान्न लिङ्गेन समुच्चयसिद्धिः । संप्र­दा­य­प्र­व­र्त­कानां च गार्ह­स्थ्य­स्याऽऽ­भा­स­मा­त्र­त्वा­त्त­त्त्वा­नु­सं­धा­नेन मुहु­र्मु­हु­र्बा­धात् । “यस्य मे चास्ति सर्वत्र यस्य मे नास्ति किञ्चन। मिथिलायां प्रदीप्तायां न मे किञ्चन दह्यते॥” इत्यु­द्गा­र­द­र्श­ना­त्क­र्मा­भा­सेन न समुच्चयः स्यात्तत्र च विधिर्न दृश्यत इति भावः ।

साधितं व्याख्ये­य­त्व­मु­प­सं­ह­रति –
एवमिति ।

ग्रन्थे कथ­मु­प­नि­ष­च्छ­ब्द­प्र­योग इति शङ्क्या­या­मु­प­नि­ष­च्छ­ब्द­वा­च्य­वि­द्या­र्थ­त्वा­ल्ला­क्ष­णिक इति दर्शयितुं विद्याया उप­नि­ष­च्छ­ब्दा­र्थ­त्व­माह –
य इमामिति ।
आत्मभावेनेति । प्रेमा­स्प­द­त­ये­त्यर्थः । अनर्थंपूगं क्लेशसमूहं निशातयति शिथि­ली­क­रो­त्य­प­रि­प­क्व­ज्ञा­ना­द्द्वि­त्रै­र्ज­न्म­भि­र्मो­क्ष­सं­भ­वा­दि­त्यर्थः।
“ज्ञानमप्रतिमं यस्य वैराग्यं च जगत्पतेः ।
ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम् ॥”वायुपुराणम्
(वायुपुराणम् १।१।३)
इति स्मर­णा­द्ध­र्म­ज्ञा­न­वै­रा­ग्यै­श्वर्यैः सर्वा­न­न्या­न­ति­क्रम्य वर्तत इति परिवृढत्वं सिद्धमित्यर्थः।
“योऽसा­व­ती­न्द्रि­योऽ­ग्राह्यः सूक्ष्मोऽ­व्यक्तः सनातनः ।
सर्व­भू­त­म­योऽ­चिन्त्यः स एष स्वयमुद्बभौ ॥”
(मनु. १-७)
“स्वयमुद्भूतः शुक्र­शो­णि­त­सं­यो­ग­म­न्त­रे­णाऽऽ­दि­र्भूतः” इति स्मृतेः। स्वातन्त्र्यं गम्यते इत्यर्थः। वाक्यो­त्थ­बु­द्धि­वृ­त्त्य­भि­व्यक्तं ब्रह्मैव ब्रह्मविद्या ।

तच्च ब्रह्म सर्वा­भि­व्य­ञ्ज­कम्। ततः सर्वविद्यानां व्यञ्ज­क­त­याऽऽ­श्री­यत इति सर्व­वि­द्या­श्र­याऽ­थवा सर्वविद्यानां प्रतिष्ठा परि­स­मा­प्ति­र्भ­वति यस्या­म­मु­त्प­न्नायां ज्ञात­व्या­भा­वात्सा सर्व­वि­द्या­प्र­ति­ष्ठे­त्याह –
सर्व­वि­द्या­वेद्यं वेति ॥१.१.१॥१.१.२॥

प्रश्नबीजमाह –
एकस्मिन्निति ।

उपा­दा­ना­त्का­र्यस्य पृथ­क्स­त्त्वा­भा­वा­दु­पा­दाने ज्ञाते तत्कार्यं ततः पृथङनास्तीति ज्ञातं भवतीति सामा­न्य­व्या­प्ति­स्त­द्ब­लाद्वा पप्रच्छेत्याह –
अथवेति ।

प्रश्ना­क्ष­रा­ञ्ज­स्य­मा­क्षिप्य समाधत्ते –
नन्वविदिते हीत्यादिना ।
किमस्ति तदिति प्रयो­गेऽ­क्ष­र­बा­हु­ल्ये­नाऽऽ­यासः स्यात्त­द्भी­रु­तया कस्मि­न्नि­त्य­क्ष­रा­ञ्जस्ये लाघवात्प्रश्न इत्यर्थः ॥१.१.३॥१.१.४॥

कल्पः सूत्रग्रन्थः । अनुष्ठेयक्रमः कल्प इत्यर्थः । अविद्याया अपगम एव पर­प्रा­प्ति­रु­प­च­र्यते । अविद्यापगमश्च ब्रह्मा­व­ग­ति­रे­वेति व्याख्या­त­म­स्मा­भि­र्ज्ञा­तोऽ­र्थ­स्त­ज्ज्ञ­प्ति­र्वाऽ­वि­द्या­नि­वृ­त्ति­रि­त्ये­त­द्व्या­ख्या­ना­व­सरे । अतोऽ­धि­ग­म­श­ब्दोऽत्र प्राप्तिपर्याय एवेत्याह —
न च परप्राप्तेरिति ।

साङ्गानां वेदा­ना­म­प­र­वि­द्या­त्वे­नो­प­न्या­सा­त्ततः पृथ­क्क­र­णा­द्वे­द­बा­ह्य­तया ब्रह्मविद्यायाः परत्वं न संभ­व­ती­त्या­क्षि­पति –
नन्विति ।
“या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः”(मनु. १२-९५) इति स्मृतेः कुदृ­ष्टि­त्वा­द­नु­पा­देया स्यादित्यर्थः । विद्याया वेदबाह्यत्वे तद­र्था­ना­मु­प­नि­ष­दा­म­प्यृ­ग्वे­दा­दि­बा­ह्यत्वं प्रस­ज्ये­ते­त्यर्थः । वेदबाह्यत्वेन पृथक्करणं न भवति ।

किंतु वैदिकस्यापि ज्ञानस्य वस्तुविषयस्य शब्द­रा­श्य­ति­रे­का­भि­प्रा­ये­णे­त्याह –
न वेद्यविषयेति ॥१.१.५॥

कर्म­ज्ञा­ना­द्वि­ल­क्ष­ण­त्वा­भि­प्रा­येण च पृथवकरणमित्याह –
यथा विधिविषय इति ।

अप्रा­प्त­प्र­ति­षे­ध­प्र­स­ङ्गान्न प्रधानपरत्वमपि शङ्कनीयमिति मत्वाऽऽह –
यः सर्वज्ञ इपि ।

अगुणत्वादिति ।
उप­स­र्ज­न­र­हि­त­त्वा­दि­त्यर्थः । सर्वा­त्म­क­त्वा­च्चेति । हेय­स्या­ति­रि­क्त­स्या­भा­वा­च्चे­त्यर्थः ॥१.१.६॥

ब्रह्म न कारणं सहा­य­शू­न्य­त्वा­त्कु­ला­ल­मा­त्र­व­दि­त्य­स्या­नै­का­न्ति­क­त्व­मु­क्त­मू­र्ण­ना­भि­दृ­ष्टा­न्तेन । ब्रह्म जगतो नोपादानं तदा­भि­न्न­त्वा­त्स्व­रू­प­स्ये­वे­त्य­नु­मा­ना­न्त­र­स्या­नै­का­न्ति­क­त्व­माह –
यथा च पृथिव्यामिति ।
जगन्न ब्रह्मोपादानकं तद्वि­ल­क्ष­ण­त्वात् । यद्यद्विलक्षणं तत्तदुपादनकं न भवति । यथा घटो न तन्तूपादनक इति ।

अस्य व्यभिचारार्थमाह –
यथा च सत इति ।

एकस्मिन्नपि दृष्टान्ते सर्वा­नु­मा­ना­ना­म­नै­क­न्ति­कत्वं योजयितुं शक्यमिति शङ्कमानं प्रत्याह –
अने­क­दृ­ष्टा­न्तेति ॥१.१.७॥

इर्श्व­र­त्वो­पा­धि­भूतं मायातत्वं महाभूतादिरूपेण सर्व­जी­वै­रु­प­ल­भ्यत इति सर्व­सा­धा­र­ण्येऽपि कथं जाय­तेऽ­ना­दि­सि­द्ध­त्वा­दि­त्या­श­ङ्क्याऽऽह –
व्याचि­की­र्षि­तेति ।
कर्मा­पू­र्व­स­म­वा­यि­भूत सूक्ष्म­म­व्या­कृ­त­मिति केचित् । तन्न तस्य प्रतिजीवं भिन्न­त्वा­दी­श्व­र­त्वो­पा­धि­त्वा­सं­भ­वात् । सामान्यरूपेण संभवेऽपि पृथि­व्या­दि­सा­मा­न्यानां बहुत्वात् । प्रकृ­ता­वे­क­त्व­श्रु­ति­व्या­को­पा­पा­ता­ज्जा­ड्य­म­हा­मा­या­रू­पे­णै­कत्व संभवेऽपि न कर्मा­पू­र्व­स­म­वा­यि­त्वम् । तस्या­का­र­क­त्वा­द्बु­द्ध्या­दी­ना­मेव कार­क­त्वा­भि­धा­नात् । कारकावयवेष्वेव क्रिया­स­म­वा­या­भ्यु­प­ग­मात् ।

किंच न कार्यस्य स्वका­र­ण­प्र­कृ­तित्वं दृष्टमिति भूत­सू­क्ष्म­स्या­प­ञ्ची­कृ­त­भू­त­प्र­कृ­तित्वं न स्यात् । तस्मा­न्म­हा­भू­त­स­र्गा­दि­सं­स्का­रा­स्पदं गुणत्रयसाम्यं माया­त­त्त्व­म­व्या­कृ­ता­दि­श­ब्द­वा­च्य­मि­हा­भ्यु­प­ग­न्त­व्यम् । पूर्व­स्मि­न्कल्पे हिर­ण्य­ग­र्भ­प्रा­प्ति­नि­मित्तं प्रकृष्टं ज्ञानं कर्म च येनानुष्ठितं तदनुग्रहाय मायोपाधिक ब्रह्म हिर­ण्य­ग­र्भा­व­स्था­का­रेण विवर्तते । स च जीव­स्त­द­व­था­भि­मानी हिरण्यगर्भ उच्यत इत्य­भि­प्रे­त्याऽऽह –
ब्रह्मण इति ।
ज्ञानशक्तिभिः क्रिया­श­क्ति­भि­श्चा­धि­ष्ठितं विशिष्टं जगद्व्यष्टिरूपं तस्य साधारणः समष्टिरूपः सूत्रसंज्ञक इत्यर्थः । मनआख्यमिति समष्टिरूपं विवक्षितम् । व्यष्टिरूपस्य लोक­सृ­ष्ट्यु­त्त­र­का­ल­त्वात् ॥१.१.८॥

वक्ष्य­मा­णा­र्थ­मिति ।
वक्ष्य­मा­ण­स्या­विद्या विव­र­ण­प्र­क­र­ण­स्याऽ­र­म्भा­र्थ­मु­क्त­प­र­वि­द्या­सू­त्रा­र्थो­प­सं­हार इत्यर्थः ।

सामान्येनेति ।
समष्टिरूपेण माया­ख्ये­नो­पा­धि­ने­त्यर्थः ।

विशेषेणेति ।
व्यष्टि­रू­पे­णा­वि­द्या­ख्ये­नो­पा­धि­नाऽ­न­न्त­जी­व­भा­व­मा­पन्नः स एव सर्वं स्वोपा­धि­त­त्सं­सृष्टं च वेत्ती­त्य­धि­दै­व­म­ध्यात्मं च तत्त्वाभेदः सूत्रितः । स्रष्टृत्वं प्रजापतीनां तपसा प्रसिद्धम् । तद्व­द्ब्र­ह्म­णोऽपि स्रष्ट्रत्वे तपोनुष्ठानं वक्तव्यम् ।

ततः संसारित्वं प्रस­ज्ये­ते­त्या­श­ङ्क्याऽऽह –
यस्यज्ञानमयमिति ।
सत्त्व­प्र­धा­न­मा­याया ज्ञानाख्यो विका­र­स्त­दु­पा­धिकं ज्ञानविकारं सृज्य­मा­न­स­र्व­प­दा­र्था­भि­ज्ञ­त्व­ल­क्षणं तपो न तु क्लेशरूपं प्रजा­प­ती­ना­मि­त्यर्थः ॥१.१.९॥
इति मुण्ड­को­प­नि­ष­द्भा­ष्य­टी­कायां प्रथममुण्डके प्रथमः खण्डः ॥१.१॥

अना­दि­रु­पा­दा­न­रू­पे­णा­नन्तो ब्रह्म­ज्ञा­ना­त्प्रा­ग­न्ता­सं­भ­वा­त्प्र­त्येकं शरी­रि­भि­र्हा­तव्यो दुःख­रू­प­त्वा­दि­त्य­नेन यदा­हु­रे­क­जी­व­वा­दिन एकं चैत­न्य­मे­क­यै­वा­वि­द्यया बद्धं संसरति । तदेव कदाचिन्मुच्यते नास्मदादीनां बन्धमोक्षौ स्त इति तदपास्तं भवति । श्रुति­ब­हि­ष्कृ­त­त्वात् । सुषुप्तेऽपि क्रिया­का­र­क­फ­ल­भे­दस्य प्रहाणं भवति । बुद्धि­पू­र्व­क­प्र­हा­णस्य ततो विशेषमाह –
सामस्त्येनेति ।
स्वोपा­ध्य­वि­द्या­का­र्य­स्या­वि­द्या­प्र­हा­णेऽऽ­त्य­न्ति­क­प्र­हाणं विद्या­फ­ल­मि­त्यर्थः । अमरोऽपक्षयरहितः । अमृतो नाशरहित इत्यर्थः ।

अपरविद्यायाः परविद्यायाश्च विषयौ प्रदर्श्य पूर्व­म­प­र­वि­द्याया विषयप्रदर्शने श्रुते­र­भि­प्रा­य­माह –
पूर्वं तावदिति ।

यदि­ष्ट­सा­ध­न­त­याऽ­नि­ष्ट­सा­ध­न­तया वा वेदेन बोध्यते कर्म तस्यासति प्रतिबन्धे तत्सा­ध­न­त्वा­व्य­भि­चारः सत्यत्वं न स्वरू­पा­बा­ध्यत्वं 'प्लवा ह्येत' इत्यादिना निन्दि­त­त्वा­त्स्व­रू­प­बा­ध्य­त्वेऽपि चार्थ­क्रि­या­सा­मर्थ्यं स्वप्न­का­मि­न्या­मिव घटत इत्य­भि­प्रे­त्याऽऽह –
तदेतत्सत्यमिति ।
ऋग्वेदविहितः पदार्थो हौत्रम् । यजुर्वेदविहित आध्वर्यवम् । सामवेदविहित औद्गात्रम् । तद्रूपायां त्रेता­या­मि­त्यर्थः । सत्यकामा मोक्षकामा इति समु­च्च­या­भि­प्रा­येण व्याख्या­न­म­यु­क्तम् । ’एष वः पन्थाः सुकृतस्य लोके’ इति स्वर्ग्य­फ­ल­सा­ध­न­त्व­वि­ष­य­वा­क्य­शे­ष­वि­रो­धा­दिति ॥१.२.१॥

आहवनीयस्य दाक्ष­णो­त्त­र­पा­र्श्व­यो­रा­ज्य­भा­गा­वि­ज्येते अग्नये स्वाहा सोमाय (स्याहे­ति)स्वा­हेति दर्शपूर्णरमासे । तयोर्मध्येऽन्ये यागा अनुष्ठीयन्ते । तन्म­ध्य­मा­वा­प­स्था­न­मु­च्यते । अगी­ग्न­हो­त्रा­हु­त्यो­र्द्वित्वं प्रसिद्धम् । सूर्याय स्वाहा प्रजापतये स्वाहेति प्रातः । अग्नये स्वाहा प्रजापतये स्वाहेति सायम् । तत्क­थ­म­ग्नि­होत्रं प्रक्र­म्याऽऽ­हु­ती­रिति बहुवचनं तत्राऽऽह –
अनेकाहेति ।
अनेकेष्वहःसु प्रयो­गा­नु­ष्ठा­नानि तद­पे­क्ष­ये­त्यर्थः ॥१.२.२॥

दर्श­स्या­ग्नि­हो­त्रा­ङ्गत्वे प्रमा­णा­भा­वा­त्कथं तद­क­र­ण­म­ग्नि­हो­त्रस्य विप­त्ति­रि­त्या­शङ्क्य याव­ज्जी­व­चो­द­ना­व­शा­द­ग्नि­हो­त्रि­णोऽ­व­श्य­क­र्त­व्य­त्वा­त्त­द­क­रणं भवे­द्वि­प­त्ति­रि­त्य­भि­प्रेत्य विशेषणम् । शरदादिषु नूतनान्नेन कर्तव्यमाग्रयणं कर्म । अद­र्शा­दि­व­द­वै­श्व­दे­व­मिति विशेषणम् । वैश्व­दे­व­स्या­ग्नि­हो­त्रा­न­ङ्ग­त्वेऽ­प्या­व­श्य­क­त्वा­दि­त्यर्थः । पिण्डोदकदानेन पित्रादीनां त्रयाणामुपकरोति यजमानः पुत्रादीनां च त्रयाणां ग्रासादिदानेन। ततो मध्यवर्तिना यजमानेन संबध्यमानाः पूर्वे त्रय उत्तरे च त्रयो गृह्यन्त इत्याह –
पिण्डदानादीति ॥१.२.३॥ ॥१.२.४॥१.२.५॥

आहुतयो यजमानं वहन्तीति संबन्धः ॥१.२.६॥

रूप्यते निरूप्यते यदाश्रयतया यज्ञस्ते यज्ञरूपाः ॥१.२.७॥

स्वयमेवेति तत्त्व­द­र्श्यु­प­दे­शा­न­पे­क्ष­तया स्वम­नो­र­थे­नै­वे­त्यर्थः ॥१.२.८॥१.२.९॥

कं सुख न भवतीत्यकं दुःखं तन्न विद्यते यस्मिन्नसौ नाकः ॥१.२.१०॥

केवलकर्मिणां फलमुक्त्वा सगु­ण­ब्र­ह्म­ज्ञा­न­स­हि­ता­श्र­म­क­र्मिणां फलं संसारगोचरमेव दर्शयति –
ये पुनस्तद्विपरीता ज्ञानयुक्ता इत्यादिना ।
अरण्ये स्त्रीज­ना­सं­कीर्णे देशे ।

मुक्तानामिहैव सर्वकामप्रविलयं सर्वात्मभावं च दर्शयन्ति श्रुतयः । ब्रह्म­लो­क­प्रा­प्तिस्तु देशपरिच्छिन्नं फलं ततो न मोक्ष इत्याह –
इहैवति ।
ब्रह्मा चतुर्मुखः । विश्वसृजः प्रजापतयो मरीचिप्रभृतयः । धर्मो यमः । महान्सूत्रात्मा । अव्यक्तं त्रिगुणात्मिका प्रकृतिः । सात्त्विकीं सत्त्व­प­रि­णा­म­ज्ञा­न­स­हि­त­क­र्म­फ­ल­भू­ता­मि­त्यर्थः ॥१.२.११॥

ऐहिककर्मफलस्य पुत्रा­दे­र्ना­श­वि­षयं प्रत्यक्षं विमतमनित्यं कृत­क­त्वा­द्घ­ट­व­दि­त्य­नु­मा­न­मा­मु­ष्मि­क­ना­श­वि­ष­यम् । तद्यथेह कर्मचितो लोकः क्षीयत इत्या­द्या­ग­मा­स्तै­र­नि­त्य­त्वेन सर्वा­त्म­नाऽ­व­धा­र्ये­त्यर्थः ।
“नैतादृशं ब्राह्म­ण­स्यास्ति वित्तं यथैकता समता सत्यता च ।
शीलं स्थिति­र्द­ण्ड­नि­धा­न­मा­र्जवं ततस्ततश्चोपरमः क्रियाभ्यः ॥”
(पुत्रगीता-३७)
इति­स्मृ­ते­र्ब्रा­ह्म­ण­स्यै­वा­धि­कार इत्यर्थः । कूटस्थेन परि­णा­म­र­हि­ते­ना­च­लेन स्पन्दरहितेन ध्रुवेण प्रय­त्न­र­हि­ते­ना­ह­मर्थी । समित्पाणिरिति विनयोपलक्षणम् ॥ १.२.१२ ॥

अक्षरणादिति।
अव­य­वा­न्य­था­भा­व­ल­क्ष­ण­प­रि­णा­म­शू­न्य­त्वात् ।

अक्षतत्वादिति ।
अक्ष­य­त्वा­च्चेति। अश­री­र­त्वा­द्वि­का­र­शू­न्य­त्वा­दि­त्यर्थः ॥१३॥
इति मुण्ड­को­प­नि­ष­द्भा­ष्य­टी­कायां प्रथममुण्डके द्वितीयः खण्डः ॥१.२॥
इत्य­थ­र्व­वे­दी­य­मु­ण्ड­को­प­नि­ष­द्भा­ष्य­टी­कायां प्रथममुण्डकं समाप्तम्॥१॥