आनन्दगिरिटीका (मुण्डक)
द्वितीयं मुण्डकम्: प्रथमः खण्डः
द्वे विद्ये वेदितव्ये इत्युपन्यस्यापरविद्यामाद्यमुण्डकेन प्रपञ्च्य परविद्यां सूत्रितां प्रपञ्चयितं द्वितीयमुण्डकारम्भ इत्याह –
अपरविद्याया इत्यादिना।
कर्मणोऽपि प्राक्सत्यत्वमुक्तं तद्वदिदं सत्यत्वं न मन्तव्यमित्याह –
यदपरविद्याविषयमिति ।
विषीयते विशेष्यते विद्याऽनेनेति व्युत्पत्त्या विषयशब्दस्य वस्तुपरत्वान्नपुंसकलिङ्गत्वं परमार्थतः सल्लक्षणत्वादत्यन्ताबाध्यत्वादित्यर्थः ।
अत्यन्तपरोक्षत्वादिति ।
शास्त्रैकगम्यत्वात्।
अपूर्ववद्ब्रह्मणः प्रत्यक्षत्वं न सम्भवति साक्षात्काराधीनं च कैवल्यं ततः कथं नाम सत्यमक्षरं प्रत्यक्षवत्प्रतिपद्येरन्मुमुक्षव इत्यभिप्रेत्य जीवब्रह्मणोरेकत्वे दृष्टान्तमाह –
यथा सुदीप्तादिति ।
एकत्वे सति प्रत्यग्रूपस्यापरोक्षत्वाद्ब्रह्मणोऽपि प्रत्यक्षत्वं भविष्यति घटैकदेशप्रत्यक्षत्वे घटप्रत्यक्षवदित्यर्थः । यथा विभक्तदेशावच्छिन्नत्वेन विस्फुलिङ्गेष्ववयवत्वादिव्यवहारः स्वतः पुनरग्न्यात्मत्वमेवोष्णप्रकाशत्वाविशेषात्तथा चिद्रूपत्वाविशेषाज्जीवानां स्वतो ब्रह्मत्वमेवेत्यर्थः ॥२.१.१॥
अक्षरस्यापि जीवोत्पत्तिप्रलयनमित्तत्वमौपाधिकमुक्तमेकत्वसिद्ध्यर्थम् । तत्त्वतस्तु निमित्तनैमत्तिकभावोऽपि नास्तीत्याह –
नामरूपबीजभूतादिति ।
देहापेक्षया यद्बाह्यमान्तरं च प्रसिद्धं तेन सह तत्तादात्म्येन तदधिष्ठानतया वा वर्तत इति सबाह्याभ्यन्तरः । अत एव सर्वात्मत्वाद्व्यतिरिक्तनिमित्तभावादज इत्यर्थः ।
जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते विनश्यतीत्येवमादिभावविकरणां निषेधे तात्पर्यमजशब्दस्याऽऽह –
सर्वभावविकाराणामिति ।
जीवानां प्राणादिमत्त्वात्तदात्मत्वे ब्रह्मणोऽपि प्राणादिमत्त्वं प्राप्तं तन्निवर्तयति –
यद्यपीत्यादिना ।
स्मृतिसंशयाद्यनेकज्ञानेषु शक्तिविशेषोऽस्यास्तीति तथोक्तं नामरूपयोर्बीजं ब्रह्म तस्योपाधितया लक्षितं शुद्धस्य कारणत्वानुपपत्त्या गमितं स्वरूपमस्येति तथोक्तम् ।
तस्मादुपाधिरूपात्तद्विशिष्टरूपाच्च परतोऽक्षरात्पर इति सम्बन्धः कथं मायातत्त्वस्याक्षरस्य परत्वमित्याकाङ्क्षायामाह –
सर्वकार्येति ।
कार्यं ह्यपरं प्रसिद्धम् तत्कारणत्वेन गम्यमानत्वान्मायातत्त्वं परम् । यौक्तिकबाधादनिर्वाच्यत्वेऽपि स्वरूपोच्छेदाभावादक्षरम् । तदुक्तं गीतायाम् –
“क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ।
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः”(भ. गी. १५ । १६) इति ॥२.१.२॥
यदेव चैतन्यं निरुपाधिकं शुद्धमविकल्पं ब्रह्म यत्तत्त्वज्ञानाज्जीवानां कैवल्यं तदेव मायाप्रतिबिम्बतरूपेण कारणं भवतीत्याह –
यस्मादेतस्मादेवेति ।
प्राणोत्पत्तेरूर्ध्वं तर्हि सप्राणत्त्वं परमात्मनो भविष्यतीतिशङ्कानिवृत्त्यर्थं श्रुत्यन्तरप्रसिद्धं प्राणस्य विशेषणमाह –
अविद्याविषय इति ।
नामधेय इति ।
वाङ्मात्रो न वस्तुवृत्त इत्यर्थः । प्राणादीनां पाठक्रमोऽयमर्थक्रमेण बाध्यते । “गताः कलाः पञ्चदश प्रतिष्ठाः”(मु. उ. ३ । २ । ७) इति भूतेषु लयश्रवणेन प्राणानां भौतिकत्वावगमाद्भूतोत्पत्यनन्तरं प्राणोत्पत्तिर्द्रष्टव्येति । अभिमुखमागच्छन्वायुरावहः पुरतो गच्छन्प्रवह इत्यादिभेदः । शब्दस्पर्शरूपरसगन्धा उत्तरोत्तरस्य गुणा येषां तानि तथोक्तानि । यथा शुक्लतन्त्ववस्थापन्नादन्वयिकारणाज्जायमानः (पटं)पटः शुक्लगुणो जायते तथाऽऽकाशावस्थापन्नाद्ब्रह्मणो जायमानो वायुराकाशगुणेन शब्देनान्वितो जायते । तथैव वायुभावापन्नाद्ब्रह्मणोऽग्निस्तद्गुणेनान्वितो जायत इति द्रष्टव्यम् । ननु सूक्ष्माणि भूतानि प्रथममुत्पद्यन्ते । अनन्तरं तासां त्रिवृतं त्रिवृतमेकैकामकरोदिति पञ्चीकरणोपलक्षणार्थं त्रिवृत्करणश्रुतेः पञ्चात्मकत्वमवगम्यते । तत एकैकस्य भूतस्य पञ्चगुणवत्त्वं वर्णितमन्यत्र कथमिह पञ्चीकरणमनादृत्य प्रथमसर्ग एवाऽऽकाशस्यैकगुणत्वं वायोर्हि द्विगुण्त्वं तेजसस्त्रिगुणत्वमित्याद्युच्यते । सत्यम् । भूतसर्गे तात्पर्याभावद्योतनाय प्रक्रियान्तरं न विरुध्यते । न ह्येतत्प्रतिबद्धं किञ्चित्फलं श्रूयते । अत एव गुणगुणिभावोऽपि न वैशेषिकपक्षवदिह विवक्षितः । किंतु राहोः शिर इतिवद्व्यपदेशमात्रम् । विस्तरेण त्वनत्यकार्यपर्यन्तं तेन तेनाऽऽकारेण ब्रह्मैव विवर्तत इति प्रपञ्च्यते ततोऽतिरिक्तस्याणुमात्रस्यासंभवात्तस्मिन्विज्ञाते सर्वमिदं विज्ञातं भवतीति प्रदर्शनार्थमित्यर्थः ॥२.१.३॥
सर्वेषां भूतानामिति ।
पञ्चमहाभूतानाम् । अन्तरात्मा स्थूलपञ्चभूतशरीरो हि विराडित्यर्थः। पञ्चाग्निद्वारेण । द्युपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चस्वग्निदृष्टेः श्रुत्यन्तरचोदितत्वात्तद्द्वारेणेत्यर्थः ॥२.१.४॥२.१.५॥
पाञ्चभक्तिकमिति ।
हिङ्कारप्रस्तावोद्गीथप्रतिहारनिधनाख्याः पञ्च भक्तयोऽवयवा यस्य तत्तथोक्तम् । साप्तभक्तिकमिति । हिङ्कारप्रस्तावाद्युद्गीथप्रतिहारोपद्रवनिधनाख्याः सप्त भक्तयो यस्य तत्तथोक्तम् । स्तोभोऽर्थशून्यो वर्णः । विश्वजित्सर्वमेधयोः सर्वस्वदक्षिणा । अत एकां गामारभ्य सर्वस्वान्ता दक्षिणा भवन्तीत्यर्थः ॥२.१.६॥
तपश्च कर्माङ्गमिति ।
पयोव्रतं ब्राह्मणस्य यवागू राजन्यस्याऽऽमिक्षा वैश्यस्येत्यादिविहितं स्वतन्त्रं कृच्छ्र चान्द्रायणादीत्यर्थः ॥२.१.७॥
आत्मयाजिनामति ।
सकलमिदमहं च परमात्मैवेतिभावनापूर्वकं परमेश्वराराधनबुद्ध्या ये यजन्ति तेषामित्यर्थः ॥२.१.८॥
यत्पृष्टं कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति तन्निरूपितम् । सर्वमिदं परमात्मनो जायते । अतस्तावन्मात्रं सर्वं तस्मिन्विज्ञाते विज्ञातं भवतीत्यविद्याक्षयफलाभिधानेनोपसंहृतमिति ॥२.१.९॥२.१.१०॥
इति मुण्डकोपनिषद्भाष्यटीकायां द्वितीयमुण्डके प्रथमः खण्डः ॥ २.१ ॥
अधुना यस्य सकृदुपदेशमात्रेणाद्वितीयं ब्रह्मास्मीतिवाक्यार्थज्ञानं न भवतीति तस्योपायानुष्ठानेन भवितव्यमित्यभिप्रेत्याऽऽह –
अरूपं सदक्षरमिति ।
वाक्यार्थस्यैव पुनः पुनर्भावना युक्त्यनुसंधानं चोपाय इत्याह –
उच्यत इति ।
आविःशब्दो निपातः प्रकाशवाची । ब्रह्म विश्वोपलब्ध्यात्मना प्रकाशमानमेव सदेति भावयेदित्यर्थः । अन्यैरप्युक्तम् –
“यदस्ति यद्भाति तदात्मरूपं नान्यत्ततो भाति न चान्यदस्ति ।
स्वभावसंवित्प्रतिभाति केवलं ग्राह्यं ग्रहीतेति मृषैव कल्पना ॥” इति ।
संनिहितमिति ।
सर्वेषां प्राणिनां हृदये स्थितं वागाद्युपाधिभिः शब्दादीन्युपलभमानवद्ब्रह्मैव जीवभावमापन्नमवभासते । ततः स्वतोऽपरोक्षं चेति सदा स्मरेदित्यर्थः ।
सर्वमिदं कार्यं परिछिन्नं च सास्पदं कार्यत्वात्परिच्छिन्नत्वाच्च घटादिवत्ततः सर्वास्पदं यत्तदेव मायास्पदमात्मभूतमिति युक्त्यनुसन्धानमाह –
महत्पदमिति ॥२.२.१॥
घटादिवदादित्यादेर्जडत्वेपि यद्दीप्तिमत्त्वं वैचित्र्यं तदनुपपत्त्याऽपि तत्कारणं संभावनीयमित्याह –
किञ्च यदर्चिमदिति ।
अर्चिमत्त्वादादित्यादिवदिन्द्रियग्राह्यत्वं प्राप्तं निषेधयति –
यदणुभ्य इति ।
परमाणुपरिमाणत्वं तर्हि स्यादति नाऽऽशङ्कनीयमित्याह –
चशब्दादिति ।
स्थूलत्वात्तर्ह्यन्याधारं स्यादिति नाऽऽशङ्कनीयमित्याह –
यस्मिल्ँलोका इति ।
प्राणादिप्रवृत्तिश्चेतनाधिष्ठाननिबन्धना जडप्रवृत्तित्वाद्रथादिप्रवृत्तिवच्चिद्भेदे च प्रमाणाभावादेकचैतन्यमात्रमस्मीति विचारयेदत्याह –
तदेतत्सर्वाश्रयमिति ।
प्राणाद्यधिष्ठानत्वात्प्राणादिलक्ष्य आत्मा द्रष्टव्यः ॥२.२.२॥
विचारासमर्थस्य प्रणवमवलम्ब्य ब्रह्मात्मैकत्वे चित्तसमाधानं क्रममुक्तिफलं दर्शयितुमुपक्रमते –
कथं वेद्धव्यमित्यादिना ।
प्रणवो ब्रह्मेत्यभिध्यायत उपसंहृतकरणग्रामस्य प्रणवोपरक्तं यच्चैतन्यप्रतिबिम्बं स्फुरति स आत्मेत्यनुसन्धानं प्रणवे शरसन्धानं तस्य चित्प्रतिबिम्बस्य बिम्बैक्यानुसन्धानं लक्ष्यवेधः ॥२.२.३॥२.२.४॥
उत्तरग्रन्थस्य पौनरुक्त्यं परिहरति –
अक्षरस्यैव दुर्लक्ष्यत्वादिति ।
ससाधनं सर्वं कर्म परित्यज्याऽऽत्मैव ज्ञातव्य इत्यत्रैव हेतुमाह –
अमृतस्येति।
धनुषाऽऽयुधेन लक्ष्यत इति तल्लक्षण आत्मैकत्वसाक्षात्कार इत्यर्थः ॥२.२.५॥
कर्मसङ्गिजनसङ्गत्या कर्मश्रद्धा विषयश्रद्धा च वाक्यार्थज्ञानस्यावगमाय गत्यन्ततायाः प्रतिबन्धको विघ्नः स मा भूदित्याशंसनम् । न तु वाक्यार्थावगतौ निष्पन्नायां फलप्राप्तेर्विघ्नशङ्काऽस्तीत्यभिप्रेत्याऽऽह –
परस्तादिति ।
मदुपदेशादूर्ध्वमित्यर्थः ॥२.२.६॥
सर्वेश्वरत्वमनोमयत्वादिगुणविशिष्टब्रह्मणो हृदयपुण्डरीके ध्यानं च क्रममुक्तिफलं मन्दब्रह्मविदो विधीयत इति दर्शयितुमाह –
योऽसौ तमसः परस्तादित्यादिना ॥२.२.७॥
अस्य परमात्मज्ञानस्येति ।
जीवन्मुक्तिफलस्याद्वैतवाक्यार्थावगमस्य क्रममुक्तिफलस्य चोपासनस्येत्यर्थ: । अविद्यावासनाप्रचयो भिद्यत इति कोऽर्थ: । किं बुद्धौ विद्यमानायामविद्यादिभेदो ज्ञानफलं किंवा तन्निवृत्तौ । नाऽऽद्यः । सत्युपादाने कार्यस्यात्यन्तोच्छेदासंभवात् । न द्वितीयः । ज्ञानस्याज्ञानेनैवसाक्षाद्विरोधप्रसिद्धेः । किञ्च । बुद्धिरप्यनादिः सादिर्वा । नाऽद्यः । “एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च”(मु. उ. २ । १ । ३) इतिश्रुतिविरोधात् । नान्त्यः । प्रलये ब्रह्मज्ञानं विनैव बुद्धेर्नाशसंभवात्तदानर्थक्यप्रसङ्गात् । सादित्वे च बुद्वेरुपादानं साक्षाद्ब्रह्म चेत्तन्नाशं विनाऽत्यन्तोच्छेदो न स्यात् । माया चेत्सा दृष्टगतज्ञानेन नोच्छेदमर्हति । लौकिकमायाविगतमायाया द्रष्टृगतज्ञानेनोच्छेदादर्शनात् । किञ्च । बुद्धेरुच्छेदो न तस्याः फलं स्वनाशस्याफलत्वात् । नऽऽत्मनः । तस्य बुद्विप्रसङ्गाभावेन तदुच्छेदस्याफलत्वात् । किञ्चाऽऽत्मनोऽविद्याद्यनाश्रयत्वाभिधानं श्रुतिविरुद्धं प्रक्रमे– अविद्यायामन्तरे वर्तमाना इति श्रवणादुपसंहारे च – “अनीशया शोचति मुह्यमानः”(मु. उ. ३ । १ । २) इति श्रवणात् । बुद्धिगतमेवाविद्याद्यात्मन्यध्यस्यत इति चेदध्यस्यत इति कोऽर्थः । निक्षिप्यते भ्रान्त्या दृश्यते वा । नाऽऽद्यः । अन्यधर्मस्यान्यत्र निक्षेपासम्भवात् । भ्रान्त्या चेत्केन दृश्यते । न तावदात्मना तस्याविद्याश्रयत्वानङ्गीकारात् । न बुद्ध्या । बुद्धेरात्मविषयत्वासम्भवेन तद्गतदर्शनासम्भवात् । तद्भ्रान्तेश्च स्वाश्रयगतेन तत्त्वानुभवेन निवर्त्यत्वप्रसिद्धेर्बुद्धेरनुभवाश्रयत्वप्रसङ्गात् । तस्मान्नास्य भाष्यस्य सम्यगर्थं पश्याम इति चेदुच्यते। चित्तन्त्राऽनादिरनिर्वाच्याऽविद्या चैतन्यमवच्छिद्य स्वावच्छिन्नचैतन्यस्य बुध्द्यादितादात्म्यरूपेण विवर्तते । तस्याश्च ब्रह्मात्मतासाक्षात्कारनिवर्त्यरूपाङ्गीकारात्तन्निवृत्तौ तदुत्थहृदयग्रन्थिभेदः श्रुत्योच्यते । भाष्यकारीयं च बुद्ध्याश्रयत्वाभिधानमहङ्कारविशेषणत्वेनाविद्यादेर्व्याहारिकाभिप्रायेणाऽऽत्मानाश्रयत्वाभिधानं चाऽऽत्मनो निर्विकारत्वाभिप्रायम् । बाधितानुवृत्तिश्च प्रकटार्थे प्रादर्शीति जीवन्मुक्तिर्न विरुध्यते ॥२.२.८॥२.२.९॥
भातीति णिजर्थाध्याहारेण व्याख्यातम् । तस्य भासा सर्वमिदं विभातीत्यस्य ब्रह्मणः स्वतो भारूपत्वे तात्पर्यं कथयति –
यत एव तदेव ब्रह्म भाति चेति ॥ २.२.१०॥
उपसंहारमन्त्रस्य तात्पर्यमाह –यत्तज्ज्योतिषां ज्योतिरिति तेन ब्रह्मणा विविधं क्रियत इति तद्विकारं सर्वं जगत्सर्वं ब्रह्मैवेति बाधायां सामानाधिकरण्यं योऽयं स्थाणुः पुमानसावितिवदन्वयव्यतिरेकाभावपरिहारेण तावन्मात्रत्वं बोध्यते ॥२.२.११॥
इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां द्वितीयमुण्डके द्वितीयः खण्डः ॥२.२॥
इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां द्वितीयं मुण्डकं समाप्तम् ॥२॥