अद्वैतशारदा

आनन्दगिरिटीका (मुण्डक)

द्वितीयं मुण्डकम्: प्रथमः खण्डः

द्वे विद्ये वेदितव्ये इत्यु­प­न्य­स्या­प­र­वि­द्या­मा­द्य­मु­ण्ड­केन प्रपञ्च्य परविद्यां सूत्रितां प्रपञ्चयितं द्विती­य­मु­ण्ड­का­रम्भ इत्याह –
अपरविद्याया इत्यादिना।

कर्मणोऽपि प्राक्स­त्य­त्व­मुक्तं तद्वदिदं सत्यत्वं न मन्तव्यमित्याह –
यद­प­र­वि­द्या­वि­ष­य­मिति ।
विषीयते विशेष्यते विद्याऽनेनेति व्युत्पत्त्या विषयशब्दस्य वस्तु­प­र­त्वा­न्न­पुं­स­क­लि­ङ्गत्वं परमार्थतः सल्ल­क्ष­ण­त्वा­द­त्य­न्ता­बा­ध्य­त्वा­दि­त्यर्थः ।

अत्य­न्त­प­रो­क्ष­त्वा­दिति ।
शास्त्रै­क­ग­म्य­त्वात्।

अपू­र्व­व­द्ब्र­ह्मणः प्रत्यक्षत्वं न सम्भवति साक्षा­त्का­रा­धीनं च कैवल्यं ततः कथं नाम सत्यमक्षरं प्रत्य­क्ष­व­त्प्र­ति­प­द्ये­र­न्मु­मु­क्षव इत्यभिप्रेत्य जीव­ब्र­ह्म­णो­रे­कत्वे दृष्टान्तमाह –
यथा सुदीप्तादिति ।
एकत्वे सति प्रत्य­ग्रू­प­स्या­प­रो­क्ष­त्वा­द्ब्र­ह्म­णोऽपि प्रत्यक्षत्वं भविष्यति घटै­क­दे­श­प्र­त्य­क्षत्वे घट­प्र­त्य­क्ष­व­दि­त्यर्थः । यथा विभ­क्त­दे­शा­व­च्छि­न्न­त्वेन विस्फु­लि­ङ्गे­ष्व­व­य­व­त्वा­दि­व्य­व­हारः स्वतः पुन­र­ग्न्या­त्म­त्व­मे­वो­ष्ण­प्र­का­श­त्वा­वि­शे­षा­त्तथा चिद्रू­प­त्वा­वि­शे­षा­ज्जी­वानां स्वतो ब्रह्म­त्व­मे­वे­त्यर्थः ॥२.१.१॥

अक्षरस्यापि जीवो­त्प­त्ति­प्र­ल­य­न­मि­त्त­त्व­मौ­पा­धि­क­मु­क्त­मे­क­त्व­सि­द्ध्य­र्थम् । तत्त्वतस्तु निमि­त्त­नै­म­त्ति­क­भा­वोऽपि नास्तीत्याह –
नाम­रू­प­बी­ज­भू­ता­दिति ।
देहापेक्षया यद्बाह्यमान्तरं च प्रसिद्धं तेन सह तत्तादात्म्येन तदधिष्ठानतया वा वर्तत इति सबाह्याभ्यन्तरः । अत एव सर्वा­त्म­त्वा­द्व्य­ति­रि­क्त­नि­मि­त्त­भा­वा­दज इत्यर्थः ।

जायतेऽस्ति वर्धते विप­रि­ण­म­तेऽ­प­क्षी­यते विन­श्य­ती­त्ये­व­मा­दि­भा­व­वि­क­रणां निषेधे तात्प­र्य­म­ज­श­ब्द­स्याऽऽह –
सर्व­भा­व­वि­का­रा­णा­मिति ।

जीवानां प्राणा­दि­म­त्त्वा­त्त­दा­त्मत्वे ब्रह्मणोऽपि प्राणादिमत्त्वं प्राप्तं तन्निवर्तयति –
यद्यपीत्यादिना ।
स्मृति­सं­श­या­द्य­ने­क­ज्ञा­नेषु शक्ति­वि­शे­षोऽ­स्या­स्तीति तथोक्तं नामरूपयोर्बीजं ब्रह्म तस्योपाधितया लक्षितं शुद्धस्य कार­ण­त्वा­नु­प­पत्त्या गमितं स्वरूपमस्येति तथोक्तम् ।

तस्मा­दु­पा­धि­रू­पा­त्त­द्वि­शि­ष्ट­रू­पाच्च परतोऽक्षरात्पर इति सम्बन्धः कथं माया­त­त्त्व­स्या­क्ष­रस्य पर­त्व­मि­त्या­का­ङ्क्षा­या­माह –
सर्वकार्येति ।
कार्यं ह्यपरं प्रसिद्धम् तत्कारणत्वेन गम्य­मा­न­त्वा­न्मा­या­तत्त्वं परम् । यौक्ति­क­बा­धा­द­नि­र्वा­च्य­त्वेऽपि स्वरू­पो­च्छे­दा­भा­वा­द­क्ष­रम् । तदुक्तं गीतायाम् –
“क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ।
उत्तमः पुरुषस्त्वन्यः पर­मा­त्मे­त्यु­दा­हृतः”(भ. गी. १५ । १६) इति ॥२.१.२॥

यदेव चैतन्यं निरुपाधिकं शुद्धमविकल्पं ब्रह्म यत्त­त्त्व­ज्ञा­ना­ज्जी­वानां कैवल्यं तदेव माया­प्र­ति­बि­म्ब­त­रू­पेण कारणं भवतीत्याह –
यस्मा­दे­त­स्मा­दे­वेति ।

प्राणो­त्प­त्ते­रूर्ध्वं तर्हि सप्राणत्त्वं परमात्मनो भवि­ष्य­ती­ति­श­ङ्का­नि­वृ­त्त्यर्थं श्रुत्य­न्त­र­प्र­सिद्धं प्राणस्य विशेषणमाह –
अविद्याविषय इति ।

नामधेय इति ।
वाङ्मात्रो न वस्तुवृत्त इत्यर्थः । प्राणादीनां पाठ­क्र­मोऽ­य­म­र्थ­क्र­मेण बाध्यते । “गताः कलाः पञ्चदश प्रतिष्ठाः”(मु. उ. ३ । २ । ७) इति भूतेषु लयश्रवणेन प्राणानां भौति­क­त्वा­व­ग­मा­द्भू­तो­त्प­त्य­न­न्तरं प्राणो­त्प­त्ति­र्द्र­ष्ट­व्येति । अभि­मु­ख­मा­ग­च्छ­न्वा­यु­रा­वहः पुरतो गच्छन्प्रवह इत्यादिभेदः । शब्द­स्प­र्श­रू­प­र­स­गन्धा उत्तरोत्तरस्य गुणा येषां तानि तथोक्तानि । यथा शुक्ल­त­न्त्व­व­स्था­प­न्ना­द­न्व­यि­का­र­णा­ज्जा­य­मानः (पटं)पटः शुक्लगुणो जायते तथाऽऽ­का­शा­व­स्था­प­न्ना­द्ब्र­ह्मणो जायमानो वायुराकाशगुणेन शब्देनान्वितो जायते । तथैव वायु­भा­वा­प­न्ना­द्ब्र­ह्म­णोऽ­ग्नि­स्त­द्गु­णे­ना­न्वितो जायत इति द्रष्टव्यम् । ननु सूक्ष्माणि भूतानि प्रथ­म­मु­त्प­द्यन्ते । अनन्तरं तासां त्रिवृतं त्रिवृ­त­मे­कै­का­म­क­रो­दिति पञ्ची­क­र­णो­प­ल­क्ष­णार्थं त्रिवृ­त्क­र­ण­श्रुतेः पञ्चा­त्म­क­त्व­म­व­ग­म्यते । तत एकैकस्य भूतस्य पञ्चगुणवत्त्वं वर्णितमन्यत्र कथमिह पञ्ची­क­र­ण­म­ना­दृत्य प्रथमसर्ग एवाऽऽ­का­श­स्यै­क­गु­णत्वं वायोर्हि द्विगुण्त्वं तेज­स­स्त्रि­गु­ण­त्व­मि­त्या­द्यु­च्यते । सत्यम् । भूतसर्गे तात्प­र्या­भा­व­द्यो­त­नाय प्रक्रियान्तरं न विरुध्यते । न ह्येत­त्प्र­ति­बद्धं किञ्चित्फलं श्रूयते । अत एव गुणगुणिभावोऽपि न वैशेषिकपक्षवदिह विवक्षितः । किंतु राहोः शिर इति­व­द्व्य­प­दे­श­मा­त्रम् । विस्तरेण त्वन­त्य­का­र्य­प­र्यन्तं तेन तेनाऽऽकारेण ब्रह्मैव विवर्तत इति प्रपञ्च्यते ततोऽ­ति­रि­क्त­स्या­णु­मा­त्र­स्या­सं­भ­वा­त्त­स्मि­न्वि­ज्ञाते सर्वमिदं विज्ञातं भवतीति प्रद­र्श­ना­र्थ­मि­त्यर्थः ॥२.१.३॥

सर्वेषां भूतानामिति ।
पञ्चमहाभूतानाम् । अन्तरात्मा स्थूल­प­ञ्च­भू­त­श­रीरो हि विराडित्यर्थः। पञ्चा­ग्नि­द्वा­रेण । द्युप­र्ज­न्य­पृ­थि­वी­पु­रु­ष­यो­षित्सु पञ्च­स्व­ग्नि­दृष्टेः श्रुत्य­न्त­र­चो­दि­त­त्वा­त्त­द्द्वा­रे­णे­त्यर्थः ॥२.१.४॥२.१.५॥

पाञ्चभक्तिकमिति ।
हिङ्का­र­प्र­स्ता­वो­द्गी­थ­प्र­ति­हा­र­नि­ध­नाख्याः पञ्च भक्तयोऽवयवा यस्य तत्तथोक्तम् । साप्तभक्तिकमिति । हिङ्का­र­प्र­स्ता­वा­द्यु­द्गी­थ­प्र­ति­हा­रो­प­द्र­व­नि­ध­नाख्याः सप्त भक्तयो यस्य तत्तथोक्तम् । स्तोभोऽ­र्थ­शून्यो वर्णः । विश्व­जि­त्स­र्व­मे­धयोः सर्वस्वदक्षिणा । अत एकां गामारभ्य सर्वस्वान्ता दक्षिणा भवन्तीत्यर्थः ॥२.१.६॥

तपश्च कर्माङ्गमिति ।
पयोव्रतं ब्राह्मणस्य यवागू राज­न्य­स्याऽऽ­मिक्षा वैश्य­स्ये­त्या­दि­वि­हितं स्वतन्त्रं कृच्छ्र चान्द्रा­य­णा­दी­त्यर्थः ॥२.१.७॥

आत्मयाजिनामति ।
सकलमिदमहं च पर­मा­त्मै­वे­ति­भा­व­ना­पू­र्वकं पर­मे­श्व­रा­रा­ध­न­बुद्ध्या ये यजन्ति तेषामित्यर्थः ॥२.१.८॥

यत्पृष्टं कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति तन्निरूपितम् । सर्वमिदं परमात्मनो जायते । अतस्तावन्मात्रं सर्वं तस्मिन्विज्ञाते विज्ञातं भव­ती­त्य­वि­द्या­क्ष­य­फ­ला­भि­धा­ने­नो­प­सं­हृ­त­मिति ॥२.१.९॥२.१.१०॥
इति मुण्ड­को­प­नि­ष­द्भा­ष्य­टी­कायां द्वितीयमुण्डके प्रथमः खण्डः ॥ २.१ ॥

अधुना यस्य सकृ­दु­प­दे­श­मा­त्रे­णा­द्वि­तीयं ब्रह्मा­स्मी­ति­वा­क्या­र्थ­ज्ञानं न भवतीति तस्यो­पा­या­नु­ष्ठा­नेन भवि­त­व्य­मि­त्य­भि­प्रे­त्याऽऽह –
अरूपं सदक्षरमिति ।

वाक्यार्थस्यैव पुनः पुनर्भावना युक्त्यनुसंधानं चोपाय इत्याह –
उच्यत इति ।
आविःशब्दो निपातः प्रकाशवाची । ब्रह्म विश्वो­प­ल­ब्ध्या­त्मना प्रकाशमानमेव सदेति भावयेदित्यर्थः । अन्यैरप्युक्तम् –
“यदस्ति यद्भाति तदात्मरूपं नान्यत्ततो भाति न चान्यदस्ति ।
स्वभा­व­सं­वि­त्प्र­ति­भाति केवलं ग्राह्यं ग्रहीतेति मृषैव कल्पना ॥” इति ।

संनिहितमिति ।
सर्वेषां प्राणिनां हृदये स्थितं वागाद्युपाधिभिः शब्दा­दी­न्यु­प­ल­भ­मा­न­व­द्ब्र­ह्मैव जीव­भा­व­मा­प­न्न­म­व­भा­सते । ततः स्वतोऽपरोक्षं चेति सदा स्मरेदित्यर्थः ।

सर्वमिदं कार्यं परिछिन्नं च सास्पदं कार्य­त्वा­त्प­रि­च्छि­न्न­त्वाच्च घटादिवत्ततः सर्वास्पदं यत्तदेव माया­स्प­द­मा­त्म­भू­त­मिति युक्त्य­नु­स­न्धा­न­माह –
महत्पदमिति ॥२.२.१॥

घटा­दि­व­दा­दि­त्या­दे­र्ज­ड­त्वेपि यद्दी­प्ति­मत्त्वं वैचित्र्यं तदनुपपत्त्याऽपि तत्कारणं संभावनीयमित्याह –
किञ्च यदर्चिमदिति ।

अर्चि­म­त्त्वा­दा­दि­त्या­दि­व­दि­न्द्रि­य­ग्रा­ह्यत्वं प्राप्तं निषेधयति –
यदणुभ्य इति ।

पर­मा­णु­प­रि­मा­णत्वं तर्हि स्यादति नाऽऽश­ङ्क­नी­य­मि­त्याह –
चशब्दादिति ।

स्थूल­त्वा­त्त­र्ह्य­न्या­धारं स्यादिति नाऽऽश­ङ्क­नी­य­मि­त्याह –
यस्मिल्ँलोका इति ।

प्राणा­दि­प्र­वृ­त्ति­श्चे­त­ना­धि­ष्ठा­न­नि­ब­न्धना जड­प्र­वृ­त्ति­त्वा­द्र­था­दि­प्र­वृ­त्ति­व­च्चि­द्भेदे च प्रमा­णा­भा­वा­दे­क­चै­त­न्य­मा­त्र­म­स्मीति विचारयेदत्याह –
तदे­त­त्स­र्वा­श्र­य­मिति ।
प्राणा­द्य­धि­ष्ठा­न­त्वा­त्प्रा­णा­दि­लक्ष्य आत्मा द्रष्टव्यः ॥२.२.२॥

विचारासमर्थस्य प्रणवमवलम्ब्य ब्रह्मा­त्मै­कत्वे चित्तसमाधानं क्रममुक्तिफलं दर्श­यि­तु­मु­प­क्र­मते –
कथं वेद्ध­व्य­मि­त्या­दिना ।
प्रणवो ब्रह्मे­त्य­भि­ध्या­यत उप­सं­हृ­त­क­र­ण­ग्रा­मस्य प्रणवोपरक्तं यच्चै­त­न्य­प्र­ति­बिम्बं स्फुरति स आत्मे­त्य­नु­स­न्धानं प्रणवे शरसन्धानं तस्य चित्प्र­ति­बि­म्बस्य बिम्बै­क्या­नु­स­न्धानं लक्ष्यवेधः ॥२.२.३॥२.२.४॥

उत्तरग्रन्थस्य पौनरुक्त्यं परिहरति –
अक्षरस्यैव दुर्ल­क्ष्य­त्वा­दिति ।

ससाधनं सर्वं कर्म परि­त्य­ज्याऽऽ­त्मैव ज्ञातव्य इत्यत्रैव हेतुमाह –
अमृतस्येति।
धनुषाऽऽयुधेन लक्ष्यत इति तल्लक्षण आत्मै­क­त्व­सा­क्षा­त्कार इत्यर्थः ॥२.२.५॥

कर्म­स­ङ्गि­ज­न­स­ङ्गत्या कर्मश्रद्धा विषयश्रद्धा च वाक्या­र्थ­ज्ञा­न­स्या­व­ग­माय गत्यन्ततायाः प्रतिबन्धको विघ्नः स मा भूदित्याशंसनम् । न तु वाक्यार्थावगतौ निष्पन्नायां फल­प्रा­प्ते­र्वि­घ्न­श­ङ्काऽ­स्ती­त्य­भि­प्रे­त्याऽऽह –
परस्तादिति ।
मदु­प­दे­शा­दू­र्ध्व­मि­त्यर्थः ॥२.२.६॥

सर्वे­श्व­र­त्व­म­नो­म­य­त्वा­दि­गु­ण­वि­शि­ष्ट­ब्र­ह्मणो हृदयपुण्डरीके ध्यानं च क्रममुक्तिफलं मन्दब्रह्मविदो विधीयत इति दर्शयितुमाह –
योऽसौ तमसः पर­स्ता­दि­त्या­दिना ॥२.२.७॥

अस्य पर­मा­त्म­ज्ञा­न­स्येति ।
जीव­न्मु­क्ति­फ­ल­स्या­द्वै­त­वा­क्या­र्था­व­ग­मस्य क्रममुक्तिफलस्य चोपा­स­न­स्ये­त्यर्थ: । अवि­द्या­वा­स­ना­प्र­चयो भिद्यत इति कोऽर्थ: । किं बुद्धौ विद्य­मा­ना­या­म­वि­द्या­दि­भेदो ज्ञानफलं किंवा तन्निवृत्तौ । नाऽऽद्यः । सत्युपादाने कार्य­स्या­त्य­न्तो­च्छे­दा­सं­भ­वात् । न द्वितीयः । ज्ञान­स्या­ज्ञा­ने­नै­व­सा­क्षा­द्वि­रो­ध­प्र­सिद्धेः । किञ्च । बुद्धिरप्यनादिः सादिर्वा । नाऽद्यः । “एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च”(मु. उ. २ । १ । ३) इति­श्रु­ति­वि­रो­धात् । नान्त्यः । प्रलये ब्रह्मज्ञानं विनैव बुद्धे­र्ना­श­सं­भ­वा­त्त­दा­न­र्थ­क्य­प्र­स­ङ्गात् । सादित्वे च बुद्वेरुपादानं साक्षाद्ब्रह्म चेत्तन्नाशं विनाऽ­त्य­न्तो­च्छेदो न स्यात् । माया चेत्सा दृष्टगतज्ञानेन नोच्छेदमर्हति । लौकि­क­मा­या­वि­ग­त­मा­याया द्रष्टृ­ग­त­ज्ञा­ने­नो­च्छे­दा­द­र्श­नात् । किञ्च । बुद्धेरुच्छेदो न तस्याः फलं स्वना­श­स्या­फ­ल­त्वात् । नऽऽत्मनः । तस्य बुद्वि­प्र­स­ङ्गा­भा­वेन तदु­च्छे­द­स्या­फ­ल­त्वात् । किञ्चाऽऽ­त्म­नोऽ­वि­द्या­द्य­ना­श्र­य­त्वा­भि­धानं श्रुतिविरुद्धं प्रक्रमे– अविद्यायामन्तरे वर्तमाना इति श्रवणादुपसंहारे च – “अनीशया शोचति मुह्यमानः”(मु. उ. ३ । १ । २) इति श्रवणात् । बुद्धि­ग­त­मे­वा­वि­द्या­द्या­त्म­न्य­ध्य­स्यत इति चेदध्यस्यत इति कोऽर्थः । निक्षिप्यते भ्रान्त्या दृश्यते वा । नाऽऽद्यः । अन्य­ध­र्म­स्या­न्यत्र निक्षे­पा­स­म्भ­वात् । भ्रान्त्या चेत्केन दृश्यते । न तावदात्मना तस्या­वि­द्या­श्र­य­त्वा­न­ङ्गी­का­रात् । न बुद्ध्या । बुद्धे­रा­त्म­वि­ष­य­त्वा­स­म्भ­वेन तद्ग­त­द­र्श­ना­स­म्भ­वात् । तद्भ्रान्तेश्च स्वाश्रयगतेन तत्त्वानुभवेन निव­र्त्य­त्व­प्र­सि­द्धे­र्बु­द्धे­र­नु­भ­वा­श्र­य­त्व­प्र­स­ङ्गात् । तस्मान्नास्य भाष्यस्य सम्यगर्थं पश्याम इति चेदुच्यते। चित्त­न्त्राऽ­ना­दि­र­नि­र्वा­च्याऽ­विद्या चैतन्यमवच्छिद्य स्वाव­च्छि­न्न­चै­त­न्यस्य बुध्द्या­दि­ता­दा­त्म्य­रू­पेण विवर्तते । तस्याश्च ब्रह्मा­त्म­ता­सा­क्षा­त्का­र­नि­व­र्त्य­रू­पा­ङ्गी­का­रा­त्त­न्नि­वृत्तौ तदु­त्थ­हृ­द­य­ग्र­न्थि­भेदः श्रुत्योच्यते । भाष्यकारीयं च बुद्ध्या­श्र­य­त्वा­भि­धा­न­म­ह­ङ्का­र­वि­शे­ष­ण­त्वे­ना­वि­द्या­दे­र्व्या­हा­रि­का­भि­प्रा­ये­णाऽऽ­त्मा­ना­श्र­य­त्वा­भि­धानं चाऽऽत्मनो निर्वि­का­र­त्वा­भि­प्रा­यम् । बाधि­ता­नु­वृ­त्तिश्च प्रकटार्थे प्रादर्शीति जीवन्मुक्तिर्न विरुध्यते ॥२.२.८॥२.२.९॥

भातीति णिज­र्था­ध्या­हा­रेण व्याख्यातम् । तस्य भासा सर्वमिदं विभातीत्यस्य ब्रह्मणः स्वतो भारूपत्वे तात्पर्यं कथयति –
यत एव तदेव ब्रह्म भाति चेति ॥ २.२.१०॥

उप­सं­हा­र­म­न्त्रस्य तात्पर्यमाह –यत्त­ज्ज्यो­तिषां ज्योतिरिति तेन ब्रह्मणा विविधं क्रियत इति तद्विकारं सर्वं जगत्सर्वं ब्रह्मैवेति बाधायां सामानाधिकरण्यं योऽयं स्थाणुः पुमा­न­सा­वि­ति­व­द­न्व­य­व्य­ति­रे­का­भा­व­प­रि­हा­रेण तावन्मात्रत्वं बोध्यते ॥२.२.११॥
इत्य­थ­र्व­वे­दी­य­मु­ण्ड­को­प­नि­ष­द्भा­ष्य­टी­कायां द्वितीयमुण्डके द्वितीयः खण्डः ॥२.२॥
इत्य­थ­र्व­वे­दी­य­मु­ण्ड­को­प­नि­ष­द्भा­ष्य­टी­कायां द्वितीयं मुण्डकं समाप्तम् ॥२॥