आनन्दगिरिटीका (मुण्डक)
तृतीयं मुण्डकम्: प्रथमः खण्डः
प्राधान्येनेति ।
अपूर्वत्वेन तात्पर्यविषयतयेत्यर्थः । द्वा सुपर्णेत्यादौ द्विवचनस्याऽऽकारश्छान्दसः । जीवस्याज्ञत्वेन नियम्यत्वेन योग्यत्वादीश्वरस्य सर्वज्ञत्वेन नियामकत्वशक्तियोगाच्छोभनमुचितं पतनं नियम्यनियामकभावगमनं ययोस्तौ शोभनपतनौ ।
पक्षिसामान्याद्वेति ।
वृक्षाश्रयणादिश्रवणादित्यर्थः। ऊर्ध्वमुत्कृष्टं ब्रह्म मूलमधिष्ठानमस्येत्यूर्ध्वमूलोऽवाञ्चः प्राणादयः शाखा इवास्येत्यवाक्शाखः । श्वः स्थानं नियन्तुमस्य न शक्यमित्यश्वत्थः । अव्यक्तमव्याकृतं मूलमुपादानमन्वयि तस्मात्प्रभवतीति तथोक्तो यावदज्ञानभावीत्यर्थः । अविद्याकामकर्मवासनानामाश्रयो लिङ्गमुपाधिर्यस्याऽऽत्मनः स जीवस्तथोक्तः स चेश्वरश्च तावित्यर्थः । सत्त्वं मायाख्यमुपाधिरस्येति सत्त्वोपाधिः। ज्ञानात्मकस्यामलसत्त्वराशेरिति ह्युक्तम् ॥ ३.१.१ ॥
आवरणं विक्षेपश्च द्वयमविद्यायाः कार्यम् । तत्रेश्वरभावाप्रतिपत्तिरनीशावरणं शोचतीति विक्षेपस्तदुभयहेतुरनिर्वाच्यमज्ञानं मोहः तेन विशिष्टोऽनेकैरनर्थप्रकारैरहं करोमीत्यादिभिरविवेकतया तादात्म्यापन्नतयेत्यर्थः । आजवमनवरतं जवीभावं निकृष्टभावं लक्षणया लघुभावं कर्मवायुप्रेरिततया जवीभावं क्षैप्र्यमापन्नः पूर्ववदित्यभेदेनेत्यर्थः ॥३.१.२॥३.१.३॥
आत्मनि रतिरात्मरतिस्तत्पुरुषः सैव क्रियाऽस्यास्तीत्यात्मरतिक्रियावानिति मतुबेवैकः प्रतीयते कथमुक्तं बहुव्रीहिमतुबर्थयोरन्यतरोऽतिरिच्यत इति । सत्यमसमासपाठे द्वयोरर्थवत्त्वमासीत्समासपाठे त्वन्यतरो मतुबतिरिच्यते विशिष्यते बाह्यक्रियानिवृत्तिलाभादित्यर्थः । एकदेशिव्याख्यामुद्भाव्य निराचष्टे –
केचित्त्वित्यादिना ।
अनेन वचनेन ज्ञानकर्मसमुच्चयप्रतिपादनं क्रियत इत्येतदसत्प्रलपितमेवेति योजना ॥३.१.४॥
सम्यग्ज्ञानसहकारीणीति ।
अत्र सम्यग्ज्ञानशब्देन वस्तुविषयावगतिफलावसानं वाक्यार्थज्ञानमुच्यते अवगतिफलस्य स्वकार्येऽविद्यानिवृत्तौ सहकार्यपेक्षासम्भवात् । अतोऽपरिपक्वज्ञानस्य सत्यादीनां च परिपक्वविद्यालाभाय समुच्चय इष्यत एव । नैतावता भास्कराभिमतसिद्धिः । परिपक्वविद्यायाः सहकार्यपेक्षायां मानाभावात् । ततः कर्मासंश्लेषश्रवणाद्देवादीनां कर्मविहीनानां मुक्तिश्रवणाच्चेति ॥३.१.५॥
कुहकं परवञ्चनम् । अन्तरन्यथा गृहीत्वा बहिरन्यथा प्रकाशनं माया । शाठ्यं विभवानुसारेणाप्रदानम् । अहङ्कारो मिथ्याभिमानः । दम्भो धर्मध्वजित्वम् । अनृतमयथादृष्टभाषणम् । एतैर्दोषैर्वर्जिता इत्यर्थः ॥३.१.६॥
सत्यस्य निधानं यदुक्तं तत्पुनर्विशेष्यत इत्याह –
किं तत्किंधर्मकं च तदिति ॥३.१.७॥
ज्ञानप्रसादेनेति ।
अत्र ज्ञायतेऽर्थोऽनेनेति व्युत्पत्त्या बुद्धिरुच्यते । ध्यायमानो ज्ञानप्रसादं लभते । ज्ञानप्रसादेनाऽऽत्मानं पश्यतीति क्रमो द्रष्टव्यः। संशयादिमलरहितस्य प्रमाण्ज्ञानस्यैव तत्त्वसाक्षात्कारहेतुत्वाद्ध्यानक्रियायाः प्रमितिसाधनत्वाप्रसिद्धेरित्यर्थः ॥३.१.८॥
बौद्धादेश्चित्तादौ चेतनत्वभ्रमदर्शनाच्चित्तं स्वस्मिन्स्वसंसर्गिणि च चैतन्याभिव्यञ्जकत्वे स्वभावत एव योग्यम् । ततश्चित्ते परमात्मनोऽभिव्यक्तिसम्भवाच्चेतसा ज्ञेयत्वमुच्यत इति संभावनार्थमाह –
प्राणैः सहेन्द्रियैश्चित्तमेति ।
ओतं चैतन्येन सर्वस्व तर्हि चित्ते किमिति ब्रह्म स्वत एवापरोक्षं न भवतीत्यत आह –
यस्मिंश्च चित्त इति ॥३.१.९॥
सगुणविद्याफलमपि निर्गुणविद्यास्तुतये प्ररोचनार्थमुच्यते –
यं यमिति ॥३.१.१०॥
इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां तृतीयमुण्डके प्रथमः खण्डः ॥३.१॥ ॥३.२.१॥
परमार्थतत्त्वविज्ञानादिति ।
विषयेषु यथास्थितदोषदर्शनात्पर्याप्तकामः क्षीणरागो विरुद्धलक्षणयाऽऽत्मकामस्याऽऽत्मबुभुत्सयैव वशीकृतचित्तस्य विषयेभ्यः कामा निवृत्ता एव भवन्तीत्यर्थः । सामर्थ्यादवगम्यते स्वहेतुविनाशात्पुनः कामा न जायन्त इति । जातानां ज्ञानं विनाऽपि क्षयसम्भवादित्यर्थः ॥३.२.२॥
न बहुना श्रुतेनेति ।
उपनिषद्विचारव्यतिरिक्तेनेत्यर्थः । तेन वरणेनेति कथं व्याख्यातं यत्तदोर्भिन्नार्थत्वं? साधनविवक्षायाः प्रस्तुतत्वादित्यर्थं ब्रूमः । परमात्माऽस्मीत्यभेदानुसंधानं वरणम् । तेन वरणेनैष आत्मा लभ्यो भवति । बहिर्मुखेन तु शतशोऽपि श्रवणादौ क्रियमाणे न लभ्यते । अतः परमात्माऽस्मीत्यभेदानुसंधानं परमात्मभजनं पुरस्कृत्यैव श्रवणादि सम्पादनीयमिति भावः । अथवाऽयमेव परमात्मानं वृणुते तेन परमात्मना मुमुक्षुरूपव्यवस्थितेन वरणेनाभेदानुसंधानलक्षणेन प्रार्थनेन कृत्वा लभ्यः परमात्मैव मुमुक्षुरूपव्यवस्थित इत्यभेदानुसंधानेनैव लभ्यो न कर्मणेत्यर्थ ॥३.२.३॥
वीर्यमिति(मत्र) मिथ्याज्ञानानभिभाव्यतालक्षणोऽतिशयः । आलिङ्गादिति कथम्? इन्द्रजनकगार्गीप्रभृतीनामप्यात्मलाभश्रवणात् । सत्यम् । संन्यासो नाम सर्वत्यागात्मकस्तेषामपि स्वत्वाभिमानाभावादस्त्येवाऽऽन्तरः संन्यासो बाह्यं तु लिङ्गमविवक्षितम् ॥ “न लिङ्गं धर्मकारणम्”(मनु. ६-६६) इति स्मरणात् नैष्कर्म्यसाहित्यं तु विवक्षितम् ॥३.२.४॥३.२.५॥
प्रदीपस्य वर्तिकृतावच्छेदध्वंसे यथा तेजःसामान्यतापत्तिस्तद्वदित्याह –
प्रदीपनिर्वाणवदिति ।
पदं पादन्यासप्रतिबिम्बं च । न दृश्येताभावादेवेत्यर्थः ।
अध्वस्विति ।
संसाराध्वनां पारयिष्णवःपारयितुं समापयितुमिच्छन्तीति समाप्तिकामा अनध्वगा भवन्तीत्यर्थः ।
तर्कतोऽपीहैव मोक्षो वक्तव्य इत्याह –
देशपरिच्छिन्नः हीत्यादिना ॥३.२.६॥
स्वाः प्रतिष्ठाः प्रति गता भवन्तीति भूतांशानां भौतिकानां च महाभूतेषु लयो दर्शितः ।
अन्त्यप्रश्नेति ।
ब्राह्मणग्रन्थे षष्ठप्रश्ने प्राणाद्या याः कलाः पठिता इत्यर्थः । मायामयमहाभूतानामंशावष्टब्धैर्जीवाविद्यामयभूतसूक्ष्मैः प्रातिस्विकैरदृष्टसहकृतैः प्रातिस्विकाः प्राणादय आरभ्यन्ते । ते च कर्माक्षिप्तैर्देवैः सूर्यादिभिरधिष्ठीयन्ते । कर्मणो भोगेनावसाने ते देवाः । स्वस्थानं गच्छन्ति ।
यच्च प्रातिस्विकं स्वाविद्याकार्यं तच्च सर्वं ब्रह्मैव संपद्यत इत्याह –
यानि चेत्यादिना ॥३.२.७॥ ॥३.२.८॥३.२.९॥
एतद्ग्रन्थद्वारकविद्याप्रदानेऽयं विधिराथर्वणिकानामिति प्रकृतपरामर्शकादेतच्धब्दादवगम्यते ग्रन्थद्वारेण विद्यायाः प्रकृतत्वसम्भवान्न सर्वत्र ब्रह्मविद्यासंप्रदानमिति सूचयन्नाह –
एतां ब्रह्मविद्यां वदेतेति ॥३.२.१०॥ ॥३.२.११॥
इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां तृतीयमुण्डके द्वितीयः खण्डः ॥३.२॥
इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्यटीकायां तृतीयं मुण्डकं समाप्तम् ॥३॥