अद्वैतशारदा

आनन्दगिरिटीका (मुण्डक)

तृतीयं मुण्डकम्: प्रथमः खण्डः

प्राधान्येनेति ।
अपूर्वत्वेन तात्प­र्य­वि­ष­य­त­ये­त्यर्थः । द्वा सुपर्णेत्यादौ द्विव­च­न­स्याऽऽ­का­र­श्छा­न्दसः । जीवस्याज्ञत्वेन नियम्यत्वेन योग्य­त्वा­दी­श्व­रस्य सर्वज्ञत्वेन निया­म­क­त्व­श­क्ति­यो­गा­च्छो­भ­न­मु­चितं पतनं निय­म्य­नि­या­म­क­भा­व­ग­मनं ययोस्तौ शोभनपतनौ ।

पक्षि­सा­मा­न्या­द्वेति ।
वृक्षा­श्र­य­णा­दि­श्र­व­णा­दि­त्यर्थः। ऊर्ध्व­मु­त्कृष्टं ब्रह्म मूल­म­धि­ष्ठा­न­म­स्ये­त्यू­र्ध्व­मू­लोऽ­वाञ्चः प्राणादयः शाखा इवा­स्ये­त्य­वा­क्शाखः । श्वः स्थानं नियन्तुमस्य न शक्य­मि­त्य­श्वत्थः । अव्य­क्त­म­व्या­कृतं मूल­मु­पा­दा­न­म­न्वयि तस्मा­त्प्र­भ­व­तीति तथोक्तो याव­द­ज्ञा­न­भा­वी­त्यर्थः । अवि­द्या­का­म­क­र्म­वा­स­ना­ना­मा­श्रयो लिङ्ग­मु­पा­धि­र्य­स्याऽऽ­त्मनः स जीवस्तथोक्तः स चेश्वरश्च तावित्यर्थः । सत्त्वं माया­ख्य­मु­पा­धि­र­स्येति सत्त्वोपाधिः। ज्ञाना­त्म­क­स्या­म­ल­स­त्त्व­रा­शे­रिति ह्युक्तम् ॥ ३.१.१ ॥

आवरणं विक्षेपश्च द्वयमविद्यायाः कार्यम् । तत्रे­श्व­र­भा­वा­प्र­ति­प­त्ति­र­नी­शा­व­रणं शोचतीति विक्षे­प­स्त­दु­भ­य­हे­तु­र­नि­र्वा­च्य­म­ज्ञानं मोहः तेन विशि­ष्टोऽ­ने­कै­र­न­र्थ­प्र­का­रै­रहं करो­मी­त्या­दि­भि­र­वि­वे­क­तया तादा­त्म्या­प­न्न­त­ये­त्यर्थः । आजवमनवरतं जवीभावं निकृष्टभावं लक्षणया लघुभावं कर्म­वा­यु­प्रे­रि­त­तया जवीभावं क्षैप्र्य­मा­पन्नः पूर्व­व­दि­त्य­भे­दे­ने­त्यर्थः ॥३.१.२॥३.१.३॥

आत्मनि रति­रा­त्म­र­ति­स्त­त्पु­रुषः सैव क्रियाऽ­स्या­स्ती­त्या­त्म­र­ति­क्रि­या­वा­निति मतुबेवैकः प्रतीयते कथमुक्तं बहु­व्री­हि­म­तु­ब­र्थ­यो­र­न्य­त­रोऽ­ति­रि­च्यत इति । सत्यमसमासपाठे द्वयो­र­र्थ­व­त्त्व­मा­सी­त्स­मा­स­पाठे त्वन्यतरो मतुबतिरिच्यते विशिष्यते बाह्य­क्रि­या­नि­वृ­त्ति­ला­भा­दि­त्यर्थः । एक­दे­शि­व्या­ख्या­मु­द्भाव्य निराचष्टे –
केचि­त्त्वि­त्या­दिना ।
अनेन वचनेन ज्ञान­क­र्म­स­मु­च्च­य­प्र­ति­पा­दनं क्रियत इत्ये­त­द­स­त्प्र­ल­पि­त­मे­वेति योजना ॥३.१.४॥

सम्य­ग्ज्ञा­न­स­ह­का­री­णीति ।
अत्र सम्य­ग्ज्ञा­न­श­ब्देन वस्तु­वि­ष­या­व­ग­ति­फ­ला­व­सानं वाक्या­र्थ­ज्ञा­न­मु­च्यते अवगतिफलस्य स्वका­र्येऽ­वि­द्या­नि­वृत्तौ सह­का­र्य­पे­क्षा­स­म्भ­वात् । अतोऽ­प­रि­प­क्व­ज्ञा­नस्य सत्यादीनां च परि­प­क्व­वि­द्या­ला­भाय समुच्चय इष्यत एव । नैतावता भास्क­रा­भि­म­त­सिद्धिः । परि­प­क्व­वि­द्यायाः सह­का­र्य­पे­क्षायां मानाभावात् । ततः कर्मा­सं­श्ले­ष­श्र­व­णा­द्दे­वा­दीनां कर्मविहीनानां मुक्ति­श्र­व­णा­च्चेति ॥३.१.५॥

कुहकं परवञ्चनम् । अन्तरन्यथा गृहीत्वा बहिरन्यथा प्रकाशनं माया । शाठ्यं विभ­वा­नु­सा­रे­णा­प्र­दा­नम् । अहङ्कारो मिथ्याभिमानः । दम्भो धर्मध्वजित्वम् । अनृ­त­म­य­था­दृ­ष्ट­भा­ष­णम् । एतै­र्दो­षै­र्व­र्जिता इत्यर्थः ॥३.१.६॥

सत्यस्य निधानं यदुक्तं तत्पु­न­र्वि­शे­ष्यत इत्याह –
किं तत्किंधर्मकं च तदिति ॥३.१.७॥

ज्ञान­प्र­सा­दे­नेति ।
अत्र ज्ञाय­तेऽ­र्थोऽ­ने­नेति व्युत्पत्त्या बुद्धिरुच्यते । ध्यायमानो ज्ञानप्रसादं लभते । ज्ञान­प्र­सा­दे­नाऽऽ­त्मानं पश्यतीति क्रमो द्रष्टव्यः। संश­या­दि­म­ल­र­हि­तस्य प्रमा­ण्ज्ञा­न­स्यैव तत्त्व­सा­क्षा­त्का­र­हे­तु­त्वा­द्ध्या­न­क्रि­यायाः प्रमि­ति­सा­ध­न­त्वा­प्र­सि­द्धे­रि­त्यर्थः ॥३.१.८॥

बौद्धा­दे­श्चि­त्तादौ चेत­न­त्व­भ्र­म­द­र्श­ना­च्चित्तं स्वस्मि­न्स्व­सं­स­र्गिणि च चैत­न्या­भि­व्य­ञ्ज­कत्वे स्वभावत एव योग्यम् । ततश्चित्ते पर­मा­त्म­नोऽ­भि­व्य­क्ति­स­म्भ­वा­च्चे­तसा ज्ञेयत्वमुच्यत इति संभावनार्थमाह –
प्राणैः सहे­न्द्रि­यै­श्चि­त्त­मेति ।

ओतं चैतन्येन सर्वस्व तर्हि चित्ते किमिति ब्रह्म स्वत एवापरोक्षं न भवतीत्यत आह –
यस्मिंश्च चित्त इति ॥३.१.९॥

सगुणविद्याफलमपि निर्गु­ण­वि­द्या­स्तु­तये प्ररो­च­ना­र्थ­मु­च्यते –
यं यमिति ॥३.१.१०॥
इत्य­थ­र्व­वे­दी­य­मु­ण्ड­को­प­नि­ष­द्भा­ष्य­टी­कायां तृतीयमुण्डके प्रथमः खण्डः ॥३.१॥ ॥३.२.१॥

पर­मा­र्थ­त­त्त्व­वि­ज्ञा­ना­दिति ।
विषयेषु यथा­स्थि­त­दो­ष­द­र्श­ना­त्प­र्या­प्त­कामः क्षीणरागो विरु­द्ध­ल­क्ष­ण­याऽऽ­त्म­का­म­स्याऽऽ­त्म­बु­भु­त्स­यैव वशीकृतचित्तस्य विषयेभ्यः कामा निवृत्ता एव भवन्तीत्यर्थः । साम­र्थ्या­द­व­ग­म्यते स्वहे­तु­वि­ना­शा­त्पुनः कामा न जायन्त इति । जातानां ज्ञानं विनाऽपि क्षय­स­म्भ­वा­दि­त्यर्थः ॥३.२.२॥

न बहुना श्रुतेनेति ।
उप­नि­ष­द्वि­चा­र­व्य­ति­रि­क्ते­ने­त्यर्थः । तेन वरणेनेति कथं व्याख्यातं यत्त­दो­र्भि­न्ना­र्थत्वं? साधनविवक्षायाः प्रस्तु­त­त्वा­दि­त्यर्थं ब्रूमः । पर­मा­त्माऽ­स्मी­त्य­भे­दा­नु­सं­धानं वरणम् । तेन वरणेनैष आत्मा लभ्यो भवति । बहिर्मुखेन तु शतशोऽपि श्रवणादौ क्रियमाणे न लभ्यते । अतः पर­मा­त्माऽ­स्मी­त्य­भे­दा­नु­सं­धानं परमात्मभजनं पुरस्कृत्यैव श्रवणादि सम्पादनीयमिति भावः । अथवाऽयमेव परमात्मानं वृणुते तेन परमात्मना मुमु­क्षु­रू­प­व्य­व­स्थि­तेन वर­णे­ना­भे­दा­नु­सं­धा­न­ल­क्ष­णेन प्रार्थनेन कृत्वा लभ्यः परमात्मैव मुमु­क्षु­रू­प­व्य­व­स्थित इत्य­भे­दा­नु­सं­धा­ने­नैव लभ्यो न कर्मणेत्यर्थ ॥३.२.३॥

वीर्यमिति(मत्र) मिथ्या­ज्ञा­ना­न­भि­भा­व्य­ता­ल­क्ष­णोऽ­ति­शयः । आलिङ्गादिति कथम्? इन्द्र­ज­न­क­गा­र्गी­प्र­भृ­ती­ना­म­प्या­त्म­ला­भ­श्र­व­णात् । सत्यम् । संन्यासो नाम सर्व­त्या­गा­त्म­क­स्ते­षा­मपि स्वत्वा­भि­मा­ना­भा­वा­द­स्त्ये­वाऽऽ­न्तरः संन्यासो बाह्यं तु लिङ्ग­म­वि­व­क्षि­तम् ॥ “न लिङ्गं धर्मकारणम्”(मनु. ६-६६) इति स्मरणात् नैष्क­र्म्य­सा­हित्यं तु विवक्षितम् ॥३.२.४॥३.२.५॥

प्रदीपस्य वर्ति­कृ­ता­व­च्छे­द­ध्वंसे यथा तेजः­सा­मा­न्य­ता­प­त्ति­स्त­द्व­दि­त्याह –
प्रदी­प­नि­र्वा­ण­व­दिति ।
पदं पाद­न्या­स­प्र­ति­बिम्बं च । न दृश्ये­ता­भा­वा­दे­वे­त्यर्थः ।

अध्वस्विति ।
संसाराध्वनां पार­यि­ष्ण­वः­पा­र­यितुं समा­प­यि­तु­मि­च्छ­न्तीति समाप्तिकामा अनध्वगा भवन्तीत्यर्थः ।

तर्कतोऽपीहैव मोक्षो वक्तव्य इत्याह –
देशपरिच्छिन्नः हीत्यादिना ॥३.२.६॥

स्वाः प्रतिष्ठाः प्रति गता भवन्तीति भूतांशानां भौतिकानां च महाभूतेषु लयो दर्शितः ।
अन्त्यप्रश्नेति ।
ब्राह्मणग्रन्थे षष्ठप्रश्ने प्राणाद्या याः कलाः पठिता इत्यर्थः । माया­म­य­म­हा­भू­ता­ना­मं­शा­व­ष्ट­ब्धै­र्जी­वा­वि­द्या­म­य­भू­त­सूक्ष्मैः प्राति­स्वि­कै­र­दृ­ष्ट­स­ह­कृतैः प्रातिस्विकाः प्राणादय आरभ्यन्ते । ते च कर्मा­क्षि­प्तै­र्देवैः सूर्या­दि­भि­र­धि­ष्ठी­यन्ते । कर्मणो भोगेनावसाने ते देवाः । स्वस्थानं गच्छन्ति ।

यच्च प्रातिस्विकं स्वावि­द्या­कार्यं तच्च सर्वं ब्रह्मैव संपद्यत इत्याह –
यानि चेत्यादिना ॥३.२.७॥ ॥३.२.८॥३.२.९॥

एत­द्ग्र­न्थ­द्वा­र­क­वि­द्या­प्र­दा­नेऽयं विधि­रा­थ­र्व­णि­का­ना­मिति प्रकृ­त­प­रा­म­र्श­का­दे­त­च्ध­ब्दा­द­व­ग­म्यते ग्रन्थद्वारेण विद्यायाः प्रकृ­त­त्व­स­म्भ­वान्न सर्वत्र ब्रह्म­वि­द्या­सं­प्र­दा­न­मिति सूचयन्नाह –
एतां ब्रह्मविद्यां वदेतेति ॥३.२.१०॥ ॥३.२.११॥
इत्य­थ­र्व­वे­दी­य­मु­ण्ड­को­प­नि­ष­द्भा­ष्य­टी­कायां तृतीयमुण्डके द्वितीयः खण्डः ॥३.२॥
इत्य­थ­र्व­वे­दी­य­मु­ण्ड­को­प­नि­ष­द्भा­ष्य­टी­कायां तृतीयं मुण्डकं समाप्तम् ॥३॥