आनन्दगिरिटीका (प्रश्न)
प्रथमः प्रश्नः
आथर्वणे ब्रह्मा देवानामित्यादिमन्त्रैरेवाऽऽत्मतत्त्वस्य निर्णीतत्वात्तत्रैव ब्राह्मणेन तदभिधानं पुनरुक्तमित्याशङ्क्य तस्यैवेह विस्तरेण प्राणोपासनादिसाधनसाहित्येनाभिधानान्न पौनरुक्त्यमिति वदन्ब्राह्मणमवतारयति –
मन्त्रेति ।
विस्तरेति ।
मन्त्रे हि द्वे विद्ये वेदितव्ये परा चैवापरा चेत्युक्त्वा तत्रापरर्ग्वेदाद्यभिधेयेत्युक्तम् । सा च विद्या कर्मरूपोपासनारूपा च । तत्र द्वितीया द्वितीयतृतीयप्रश्नाभ्यां विव्रीयते । आद्या कर्मकाण्डे विवृतेति नेह विव्रीयते । उभयोः फलं तु ततो वैराग्यार्थं प्रथमप्रश्ने स्पष्टीक्रियते । परविद्या चाथ परा यया तदक्षरमधिगम्यत इत्युपक्रम्य कृत्स्नेन मुण्डकेन प्रतिपादिता । तत्रापि यथा सुदीप्तादित्यादिमन्त्रद्वयोक्तार्थस्य विस्तरार्थं चतुर्थः प्रश्नः । प्रणवो धनुरित्यत्रोक्तप्रणवोपासनविवरणार्थं पञ्चमः प्रश्नः । एतस्माज्जायते प्राण इत्यादिना शेषेण मुण्डकेनोक्तस्यार्थस्य स्पष्टीकरणार्थः षष्ठः प्रश्न इतीदं ब्राह्मणं तद्विस्तरानुवादीत्यर्थः । अत एव विषयप्रयोजनादिकं तत्रैवोक्तमिति नेह पुनरुच्यत इति बोध्यम् ।
आख्यायिकाया ब्रह्मचर्यतपआदिसाधनविधानं पुराकल्पस्वरूपेण प्रयोजनान्तरं चास्तीत्याह –
ब्रह्मचर्यादिसाधनेति ।
सौर्यायणीति ।
सौर्यायणिरिति वक्तव्ये दैर्घ्यं छान्दसमित्यर्थः ।
युवप्रत्यय इति ।
कत्य(त)स्य युवापत्ये विवक्षिते फक्प्रत्यये तस्याऽऽयन्नादेशे च कात्यायन इति सिध्यतीत्यर्थः ।
ब्रह्मपराणां पुनर्ब्रह्मान्वेषणमयुक्तमित्यत आह –
अपरं ब्रह्मेति ।
नन्वपरब्रह्मान्वेषणेनैव पुरुषार्थसिद्धेः किं परब्रह्मान्वेषणेनेत्याशङ्कते ।
किं तदिति ।
तस्य कोऽतिशय इत्यर्थः ।
तस्यानित्यत्वेन तत्प्राप्तेरप्यनित्यहेतुत्वेनापुरुषार्थत्वात्परस्यैव नित्यत्वात्तत्प्राप्तेस्तज्ज्ञानमात्रसाध्यत्वेनापि नित्यत्वाच्च तस्यैवान्वेषणीयत्वमिति परस्वरूपकथनेनाऽऽह –
यदिति ।
परब्रह्मान्वेषमाणानां कोऽतिशय इत्यत आह –
तत्प्राप्त्यर्थमिति ।
तत्प्राप्त्यर्थं तदधिगमाय तदन्वेषणं कुर्वन्तो यथाकामं यतिष्याम इत्येवमभिप्रायेणेत्यन्वयः ।
समिदिति ।
समिद्ग्रहणं यथायोग्यं दन्तकाष्ठाद्युपहारोपलक्षणार्थम् ॥ १ ॥
तथाऽपीत्यस्य तपसेत्यतः पूर्वमन्वयः । विशेषत इत्यस्य पूर्वत्राप्यन्वयः । निष्कृष्टमर्थमाह –
यद्विषय इति ।
अज्ञानाद्यर्थत्वाभावे हेतुमाह –
प्रश्नेति ।
अत्रेतिशब्दोऽध्याहार्यः । सर्वप्रश्नानां निर्णयादज्ञानाद्यसम्भवादित्यर्थः ॥ २ ॥
परं ब्रह्मान्वेषमाणा इत्युपक्रान्तेऽस्मिन्ब्रह्मप्रकरणे प्रजापतिकर्तृकप्रजासृष्टिविषयप्रश्नप्रत्युक्त्योरसङ्गतिमाशङ्क्य प्रश्नप्रत्युक्तिरूपायाः श्रुतेस्तात्पर्यमाह –
अपरविद्येति ।
तेषामसौ विरजो ब्रह्मलोक इति समुच्चितकार्यस्य ब्रह्मलोकस्याथोत्तरेणेति तद्गतेर्देवयानमार्गस्य चेह वक्ष्यमाणत्वादित्यर्थः । इदमुपलक्षणं केवलकर्मणां चेत्यपि द्रष्टव्यम् । केवलकर्मकार्यस्यापि चन्द्रलोकस्य तद्गतेः पितृयाणस्य च ’ तेषामेवैष ब्रह्मलोकः ’ ’प्रजाकामा दक्षिणं प्रतिपद्यन्ते ’ इति वक्ष्यमाणत्वादिति । यद्यपीदमपि परब्रह्मजिज्ञासावसरेऽसङ्गतमेव तथाऽपि केवलकर्मकार्यात्समुच्चितकर्मकार्याच्च विरक्तस्यैव तत्राधिकार इति ततो वैराग्यार्थमिदमुच्यते । यद्यपि मुखतः सृष्टिः प्रतीयते तथाऽपि तदुक्तौ प्रयोजनाभावात्सृष्ट्युक्तिव्याजेन परविद्याफलमेवात्रोच्यत इति भावः । प्रश्न इति प्रतिवचनं चेत्यपि द्रष्टव्यं ताभ्यामेव तदुक्तेरिति ॥ ३ ॥
तस्मै स होवाचेति प्रतिज्ञातं विशेषतो दर्शयति –
तदपाकरणायेति ।
आद्यस्य सन्नित्यस्य प्रजाकामः सन्नित्यन्वयः ।
यथोक्तकारीति ।
ज्ञानकर्मसमुच्चयकारीत्यर्थः ।
तद्भावभावित इति ।
प्रजापतिरहं सर्वात्मेत्युपासनकालीनप्रजापतिभावनायुक्त इत्यर्थः । पूर्वकल्पीयतद्भावभावित एतत्कल्पादौ हिरण्यगर्भात्मना निर्वृतः प्रजापतिः सन्पश्चात्प्रजाकामः संस्तपो जन्मान्तरभावितं ज्ञानं श्रुतिप्रकाशितार्थविषयमतप्यतान्वालोचयच्चिन्तादिना तत्संस्कारमुद्बोध्य ज्ञानमुत्पादितवानित्यन्वयः ।
तत्र प्रथममादित्यचन्द्रोत्पादनेन तद्भावमापद्य पश्चाच्चन्द्रादित्यसाध्यसंवत्सरभावमापद्यैवमेव तदवयवायनद्वयमासपक्षाहोरात्रभावमापद्य ततस्तत्साध्यव्रीह्याद्यन्नभावं रेतोभावं चाऽऽपद्य तेन रेतसा प्रजाः सृजेयमित्येवं निश्चित्य प्रथमं रयिप्राणशब्दितचन्द्रसूर्यद्वन्द्वमुत्पादितवानित्याह –
स एवमिति ।
रयिशब्देन धनवाचिना भोज्यजातं लक्षयित्वा भोज्यस्य सोमकिरणामृतयुक्तत्वात्तद्द्वारा सोमो लक्ष्यत इत्याह –
रयिं चेति ।
एवं प्राणशब्देनापि । “अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्॥”(भ. गी. १५। १४) इति स्मृतेरग्नेः प्राणसम्बन्धादग्निर्भोक्ता लक्ष्यत इत्याह –
प्राणं चेति ।
अग्नीषोमयोरण्डान्तर्गतत्वेनाण्डोत्पत्त्यनन्तरमुत्पत्तिरित्याशयेनाऽऽह –
अण्डोत्पत्तीति ।
उद्यन्तं वावाऽऽदित्यमग्निरनुसमारोहतीति श्रुतेः सूर्याग्न्योरेकत्वमभिप्रेत्याग्निं सूर्यपदेनाऽऽह –
सूर्यचन्द्रमसाविति॥ ४ ॥
रयिप्राणौ श्रुतिः स्वयमेव व्याचष्ट इत्याह –
तत्राऽऽदित्य इति ।
प्रजापतेरेव संवत्सरादिप्रजापर्यन्तस्रष्टृत्वं वक्तुं रयिप्राणयोः संवत्सरस्रष्ट्रोः प्रजापत्युपादानत्वात्प्रजापत्यात्मत्वमाह –
तदेतदेकमिति ।
कथमेकस्यात्ताऽन्नं चेति भेद इत्याशङ्क्य तस्यैव गुणभावविवक्षयाऽऽन्नत्वं प्राधान्यविवक्षया चात्तृत्वमिति भेद इत्याह –
गुणेति ।
रयिप्राणयोः कथं प्रजापत्यात्मत्वमिति शङ्कते ।
कथमिति ।
तत्र रयेः सर्वात्मकत्वात्प्रजापतित्वमित्याह –
रयिरिति ।
अमूर्तस्यापि वाय्वादेः केनचिदद्यमानत्वाद्रयित्वमित्यर्थः । ननु मूर्तामूर्तयोरत्रन्नयोरुभयोरपि रयित्वेऽन्नमेव रयिरिति कथमुक्तमित्याशङ्क्य मूर्तामूर्तत्वविभागमकृत्वा सर्वस्य गुणभावमात्रविवक्षया सर्वं रयिरित्युच्यते ।
यदोभे विभज्य गुणप्रधानभावेन विवक्ष्येते तदाऽमूर्तेन प्राणेन मूर्तस्याद्यमानत्वान्मूर्तस्यैव रयित्वमित्याह –
तस्मादिति ॥ ५ ॥
रयिशब्दितस्यान्नस्य प्रजापतित्वार्थं सर्वात्मत्वमुक्त्वा प्राणस्यापि तदर्थमेव सर्वात्मत्वमुच्यतेऽथाऽऽदित्य इतिवाक्येनेत्याह –
तथेत्यादिना ।
यच्चाऽद्यं तदपि प्राणोऽतोऽत्ता प्राणोऽपि सर्वमेवेति सर्वात्मक इत्यर्थः ।
स्वप्रकाशेनेति ।
स्वकीयप्रकाशेन स्वप्रभयेत्यर्थः ।
अन्तर्भूतानिति ।
यद्यपि प्राणस्यात्तृत्वमुक्तं तथाऽपि रयिर्वा एतत्सर्वमित्यत्रामूर्तस्य प्राणस्यापि गुणभावविवक्षयाऽन्नत्वमुक्तमिति तथोक्तम् ।
स्वात्मावभासरूपेष्विति ।
स्वात्मप्रभारूपेषु रश्मिष्वित्यर्थः ।
व्याप्तत्वादिति ।
सम्बद्धत्वादित्यर्थः ॥ ६ ॥
तस्य प्रत्यक्षत्वमाह –
स एष इति ।
वैश्वानर इति ।
नरा जीवा विश्वे च ते नराश्च विश्वानराः स एव वैश्वानरः सर्वजीवात्मक इत्यर्थः । विश्वरूपः सर्वप्रपञ्चात्मक इति भेदः ।
उक्तं वस्त्विति ।
आदित्यस्योक्तं माहात्म्यमित्यर्थः ॥ ७ ॥
विश्वरूपमित्यादिद्वितीयान्तानां सहस्ररश्मिरित्यादिप्रथमान्तानां सामानाधिकरण्येनान्वयायोगादध्याहारं कृत्वा वाक्यभेदेन व्याचष्टे –
स्वात्मानमित्यादिना ॥ ८ ॥
स मिथुनमुत्पादयत इत्युपक्रान्तं मिथुनमुपसंहरति –
यश्चासाविति ।
यश्चासौ चन्द्रमा यश्चामूर्तः प्राणस्तदेकं मिथुनं सर्वं सर्वात्मकमित्यन्वयः ।
एतौ मे बहुधा प्रजाः करिष्यत इत्युक्तं तत्केन प्रकारेणेति पृच्छति –
कथमिति ।
रयिप्राणयोः संवत्सरादिद्वारा प्रजास्रष्टृत्वमित्याह –
उच्यत इति ।
तदेव मिथुनमेव संवत्सरः कालः ।
स च प्रजापतिः प्रजापत्यात्मकमिथुननिर्वर्त्यत्वादित्याह –
तन्निर्वर्त्यत्वादिति ।
तदुपपादयति –
चन्द्रेति ।
चन्द्रनिर्वर्त्यास्तिथय आदित्यनिर्वर्त्यान्यहोत्राणीति विभागः ।
तन्निर्वर्त्यत्वेऽपि कालस्य कथं तदात्मकतेत्याशङ्क्य कार्यकारणयोरभेदादित्याह –
तदनन्यत्वादिति ।
न केवलं तिथ्यादिद्वारा चन्द्रादिनिर्वर्त्यत्वं संवत्सरस्य किं त्वयनद्वयद्वाराऽपीति वक्तुं तस्यायने इत्यादिवाक्यं तत्प्रश्नपूर्वकं व्याचष्टे –
तत्कथमिति ।
चन्द्रादित्यनिर्वर्त्यत्वं कुतो हेत्वन्तरादित्यर्थः । केवलकर्मिणां लोकान्विदधद्दक्षिणेन याति । ज्ञानयुक्तकर्मवतां लोकान्विदधदुत्तरेण यातीत्यन्वयः । सवितेत्युपलक्षणं चन्द्रस्यापि । ज्येष्ठादिर्दक्षिणायनं मार्गशीर्षादिरुत्तरायणमिति श्रुतिषु प्रसिद्धेः ततश्च कर्मिणां लोकान्विधातुं तयोर्दक्षिणोत्तराभ्यां मार्गाभ्यां गमनात्तन्निमित्तत्वाच्चायनद्वयप्रसिद्धेस्तन्निर्वर्त्यत्वं तयोरयनयोरिति तद्द्वारा संवत्सरस्यापि तन्निर्वर्त्यत्वमित्यर्थः ।
चन्द्रादित्ययोः कथं लोकविधायकत्वमिति पृच्छति –
कथमिति ।
चन्द्रादित्यनिर्वर्त्यदक्षिणोत्तरायणद्वारा लोकप्राप्तेः प्राप्यस्य लोकस्यापि चन्द्रादित्यात्मकत्वाच्च तयोस्तद्विधायकत्वमिति तद्ये ह वा इत्यादिवाक्येन परिहरति –
तत्तत्रेति ।
इष्टं चेति ।
अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम् । आतिथ्यं वैश्वदेवश्च इष्टमित्यभिधीयते ॥ वापीकूपतडागादि देवतायतनानि च । अन्नप्रदानमारामः पूर्तमित्यभिधीयते ॥ इति तयोर्भेदः ।
कृतमित्युपासत इति कृतशब्दोपरितनमितिशब्दमिष्टापूर्ते इति पूर्तशब्दोपर्याकृष्याऽऽदिशब्दपर्यायतया व्याचष्टे –
इत्यादीति ।
दत्तमादिशब्दार्थः । कृतमेवोपासते कार्यमेवानुतिष्ठन्तीत्यर्थः । इदं च विशेषणं पुनरावृत्तौ हेतुतयोक्तम् ।
कृतरूपेष्टादिजन्यत्वाच्चन्द्रस्यापि कृतत्वेनानित्यत्वात्पुनरावृत्तिरित्याह –
कृतरूपत्वादिति ।
पुनरावृत्तौ मन्त्रवाक्यं प्रमाणयति –
इमं लोकमिति ॥ ९ ॥
अथेति ।
मार्गान्तरारम्भार्थोऽथशब्दः ।
प्रजापत्यात्मविषयेति ।
तत्तादात्म्यविषययेत्यर्थः । आदित्यमभिजयन्त इति पूर्वमन्वयार्थमुक्तमिदानीं व्याख्यानार्थमिति द्रष्टव्यम् ।
सामान्यमिति ।
समष्टिरूपमित्यर्थः ।
विद्यावतामिति ।
कर्मानधिकारिणामत एव केवलोपासनवतामित्यर्थः ।
कर्मिणां च ज्ञानवतामिति ।
समुच्चयवतामित्यर्थः ।
ननु केवलकर्मिणामप्यादित्यप्राप्तावपुनरावृत्तिर्भवष्यतीत्याशङ्क्य तेषामादित्यप्राप्तिरेव नास्तीति वक्तुमित्येष इति वाक्यं व्याचष्टे –
इति यस्मादिति ।
तस्मात्तेषामादित्यप्राप्तिरनाशङ्क्येति शेषः ।
यद्वा तस्यायने इत्यारभ्येत्येष निरोध इत्यन्तं श्रुतिवाक्यमयनयो रयिप्राणरुपत्वप्रतिपादनपरतया व्याख्येयम् । तथा हि । संवत्सरस्य रयिप्राणमिथुननिर्वर्त्यत्वे रयिप्राणरूपत्वं च वक्तव्यं तत्कथमिति पृच्छति –
तत्कथमिति ।
तदवयवयोरयनयोस्तद्रूपत्वं वक्तुं तयोः प्रथमं प्रसिध्दिमाह –
तस्येति ।
प्रसिद्धिमेवाऽऽह –
याभ्यामिति ।
एवमपि कथं तयोस्तदात्मकत्वमित्याह –
कथमिति ।
दक्षिणायनस्य रयित्वं वक्तुं कर्मिणां रयिरूपचन्द्रनिर्वर्तकत्वमाह –
तत्तत्रेति ।
लोकमिति ।
सोमरूपं शरीरमित्यर्थः ।
तस्य कर्मकृतत्वं पुनरावृत्त्या साधयति –
कृतरूपत्वादिति ।
रयिरूपचन्द्रस्य दक्षिणायनद्वारा प्राप्यत्वात्तस्यायनस्य तदन्तर्भाव इति वक्तुं तस्य कर्मिभिः प्राप्यत्वमाह –
यस्मादिति ।
एवं च तस्य रयित्वं सिद्धमित्याह –
एष इति ।
पितृयाणोपलक्षित इति ।
तत्प्राप्य इत्यर्थः । ततश्च तद्विशेषणस्यायनस्यापि रयित्वमित्यर्थः ।
इदानीमुत्तरायणस्य प्राणत्वमाह –
अथेति ।
प्राणरूपादित्यप्रापकत्वादुत्तरायणस्य तस्यापि प्राणत्वमिति संवत्सरस्य रयिप्राणमिथुनात्मकत्वमिति तत्कार्यत्वं युक्तमिति भावः ।
अस्य कर्मसाध्यचन्द्रवैलक्षण्यमाह –
एतद्वा इति ।
इतरत्सर्वं समानम् ।
अस्मिन्नर्थ इति ।
संवत्सरस्वरूप इत्यर्थः ॥ १० ॥
इयं कल्पनेति ।
पञ्चधा कर्मसाध्यचन्द्रवैलक्षण्यकल्पनेत्यर्थः ।
जनयितृत्वादिति ।
संवत्सरात्मककालस्य सर्वजनकत्वादित्यर्थः ।
समानाधिकरणबहुव्रीहितया व्याख्याय व्याधिकरणबहुव्रीहिर्वेत्याह –
आकरणं वेति ।
अवयविकरणमिति ।
अवयवित्वेन करणमित्यर्थः । पक्षद्वयेऽप्येक एवार्थः ।
द्युलोकादिति ।
आकाशरूपादन्तरिक्षलोकादित्यर्थः । अन्यथा स्वर्गलोकात्परस्य चतुर्थत्वेन तृतीयस्यामित्यनन्वयापत्तेः ।
उदकवन्तमिति ।
आदित्याज्जायते वृष्टिरिति स्मृतेरित्यर्थः । अन्य इत्यस्य पूर्वार्धगतेनाऽऽहुरित्यनेन संबन्धः । उ इति तुशब्दसमानार्थो निपातः । परे तु तमेव विचक्षणमाहुरित्यन्वयः ।
किमाहुरित्यत आह –
सप्तचक्र इति ।
तस्मिन्विचक्षणे सप्तचक्राद्यात्मके सर्वमिदं जगदर्पितमित्याहुरित्यर्थः ।
मतद्वयेऽपि कीदृशोऽर्थभेद इत्यत आह –
यदीति ।
पूर्वमत ऋतूनां पादत्वकल्पनया मासानामवयवत्वकल्पनयाऽऽदित्यात्मना संवत्सरः काल एवोक्तः । द्वितीये तु हेमन्तशिशिरौ पृथक्कृत्य षण्णामृतूनामरत्वकल्पनया संवत्सरस्य परिवर्तनगुणयोगेन चक्रत्वकल्पनया कालप्राधान्येन सर्वाश्रयत्वेन च स एवोक्तः । पक्षद्वयेऽपि गुणभेदेन कल्पनाभेदेन च भेदो न धर्मिभेद इत्यर्थः ॥ ११ ॥
कारणत्वे श्लोकोक्तं जगदाश्रयत्वं हेतुमाह –
यस्मिन्निति ।
संवत्सरस्यापि मासाहोरात्ररूपव्यतिरेकेणौषधव्यादिजनकत्वाभावात्तस्य मासाद्यात्मकत्वमाह –
स एवेति ।
यथोक्तेति ।
संवत्सररूपो रयिप्राणमिथुनात्मक इत्यर्थः ।
शुक्लकृष्णयोरुभयोरपि दर्शपूर्णमासादिकर्मानुष्ठानदर्शनात्तस्मादेत ऋषय इत्यादि वाक्यमनुपपन्नमित्याशङ्क्य शुक्लस्य प्राणात्मकत्वज्ञानस्तुतिपरतया व्याचष्टे –
यस्मादिति ।
यस्मात्प्राणं सर्वमेव सर्वात्मकमेव पश्यन्ति यस्माच्च प्राणव्यतिरेकेण कृष्णपक्षस्तैर्न दृश्यते तस्मादित्यन्वयः । प्राणस्य शुक्लपक्षात्मकत्वात्कृष्णपक्षादिसर्वजगतः प्राणात्मत्वात्प्राणद्वारा कृष्णपक्षस्यापि शुक्लपक्षत्वे सति कृष्णे कुर्वन्तोऽपि प्रकाशात्मके शुक्ल एव कुर्वन्तीति शुक्लपक्षे प्राणत्वज्ञानस्य स्तुतिरित्यर्थः ।
एतत्स्तुत्यर्थमेव ज्ञानरहितान्निन्दति –
इतरे त्विति ।
ये तु सर्वात्मानं प्राणं न पश्यन्त्यज्ञत्वात्तेषां शुक्लपक्षः प्राणत्वेनाज्ञायमानत्वादज्ञानात्मकः सन्कृष्णपक्षत्वमापद्यतेऽतः शुक्ले कुर्वन्तोऽप्यदर्शनात्मकत्वात्प्रकाशरहिते कृष्ण एव कुर्वन्तीति ते निन्द्यन्त इत्यर्थः ।
उक्तमर्थं श्रुत्यारूढं करोति –
इतर इति ॥ १२ ॥
रयिः पूर्ववदिति ।
रयिरन्नं चन्द्रमा इत्यर्थः ।
अह्नः प्राणत्वोक्तिप्रसङ्गादह्नि मैथुनं निषेधति –
प्राणमिति ।
प्रकृतमिति ।
कुतो ह वा इमाः प्रजाः प्रजायन्त इति पृष्टमित्यर्थः । पूर्वोक्तं सर्वमेतदुपयोगितयोक्तं न तु साक्षात्प्रकृतमिति भावः ॥ १३ ॥
एवं क्रमेणेति ।
रयिप्राणसंवत्सरादिक्रमेण परिणम्य व्रीह्याद्यात्मना व्यवस्थितः सन्नन्नं वै प्रजापतिरन्नात्मको जातः प्रजापतिरित्यन्वयः ।
कथमिति ।
अन्नरूपत्वेऽपि तस्य कथं प्रजाजनकत्वमित्यर्थः ।
तत इति ।
भक्षितादन्नादित्यर्थः ।
रेत इति ।
शोणितस्याप्युपलक्षणं तुल्यत्वादिति ॥ १४ ॥
प्रजापतिव्रताचरणमात्रेण नादृष्टफलं चन्द्रलोकः प्राप्यते मूर्खाणामपि प्रसङ्गादत आह –
इष्टापूर्तेति ।
चान्द्रमसो ब्रह्मलोक इत्यपरब्रह्मणः प्रजापतेरंशत्वाद्रयिरूपस्य चन्द्रस्य ब्रह्मलोकत्वमित्यर्थः ।
इष्टादिकारिणां तपआदिकमपि चन्द्रलोकप्राप्त्यर्थमपेक्षितमित्यत आह –
येषां तप इति ॥ १५ ॥
तेषामसौ विरज इत्यादिवाक्यं व्याचष्टे –
यस्त्विति ।
उत्तरायण इति ।
तेन प्राप्य इत्यर्थः । प्राणात्मभावोऽपरब्रह्मतयाऽवस्थानमित्यर्थः ।
असौ केषां तेषामिति ।
तेषामसौ विरज इत्यत्र तेषामित्यनेन केषां निर्देश इति प्रश्नार्थः ।
न येषु जिह्ममित्यत्र जिह्मादिशब्दं व्यतिरेकप्रदर्शनेन व्याचष्टे –
यथेत्यादिना ।
मायाग्रहणं तादृशानां दोषाणामुपलक्षणमिति वदन्वाक्यार्थं सङ्गृह्य दर्शयति –
मायेत्येवमिति ।
भिक्षुष्विति परमहंसव्यतिरिक्तानां कुटीचकादीनां ग्रहणम् । तेषां ब्रह्मलोकादपि विरक्तत्वेन तत्रानर्थित्वात् ।
इतिशब्दार्थमाह –
इत्येषेति ॥ १६ ॥