अद्वैतशारदा

आनन्दगिरिटीका (प्रश्न)

प्रथमः प्रश्नः

आथर्वणे ब्रह्मा देवा­ना­मि­त्या­दि­म­न्त्रै­रे­वाऽऽ­त्म­त­त्त्वस्य निर्णी­त­त्वा­त्त­त्रैव ब्राह्मणेन तदभिधानं पुन­रु­क्त­मि­त्या­शङ्क्य तस्यैवेह विस्तरेण प्राणो­पा­स­ना­दि­सा­ध­न­सा­हि­त्ये­ना­भि­धा­नान्न पौनरुक्त्यमिति वद­न्ब्रा­ह्म­ण­म­व­ता­र­यति –
मन्त्रेति ।

विस्तरेति ।
मन्त्रे हि द्वे विद्ये वेदितव्ये परा चैवापरा चेत्युक्त्वा तत्रा­प­र­र्ग्वे­दा­द्य­भि­धे­ये­त्यु­क्तम् । सा च विद्या कर्म­रू­पो­पा­स­ना­रूपा च । तत्र द्वितीया द्विती­य­तृ­ती­य­प्र­श्नाभ्यां विव्रीयते । आद्या कर्मकाण्डे विवृतेति नेह विव्रीयते । उभयोः फलं तु ततो वैराग्यार्थं प्रथमप्रश्ने स्पष्टीक्रियते । परविद्या चाथ परा यया तदक्षरमधिगम्यत इत्युपक्रम्य कृत्स्नेन मुण्डकेन प्रतिपादिता । तत्रापि यथा सुदी­प्ता­दि­त्या­दि­म­न्त्र­द्व­यो­क्ता­र्थस्य विस्तरार्थं चतुर्थः प्रश्नः । प्रणवो धनु­रि­त्य­त्रो­क्त­प्र­ण­वो­पा­स­न­वि­व­र­णार्थं पञ्चमः प्रश्नः । एतस्माज्जायते प्राण इत्यादिना शेषेण मुण्ड­के­नो­क्त­स्या­र्थस्य स्पष्टीकरणार्थः षष्ठः प्रश्न इतीदं ब्राह्मणं तद्वि­स्त­रा­नु­वा­दी­त्यर्थः । अत एव विष­य­प्र­यो­ज­ना­दिकं तत्रैवोक्तमिति नेह पुनरुच्यत इति बोध्यम् ।

आख्यायिकाया ब्रह्म­च­र्य­त­प­आ­दि­सा­ध­न­वि­धानं पुरा­क­ल्प­स्व­रू­पेण प्रयोजनान्तरं चास्तीत्याह –
ब्रह्म­च­र्या­दि­सा­ध­नेति ।

सौर्यायणीति
सौर्यायणिरिति वक्तव्ये दैर्घ्यं छान्दसमित्यर्थः ।

युवप्रत्यय इति ।
कत्य(त)स्य युवापत्ये विवक्षिते फक्प्रत्यये तस्याऽऽ­य­न्ना­देशे च कात्यायन इति सिध्यतीत्यर्थः ।

ब्रह्मपराणां पुन­र्ब्र­ह्मा­न्वे­ष­ण­म­यु­क्त­मि­त्यत आह –
अपरं ब्रह्मेति ।
नन्व­प­र­ब्र­ह्मा­न्वे­ष­णे­नैव पुरु­षा­र्थ­सिद्धेः किं पर­ब्र­ह्मा­न्वे­ष­णे­ने­त्या­श­ङ्कते ।

किं तदिति ।
तस्य कोऽतिशय इत्यर्थः ।

तस्यानित्यत्वेन तत्प्रा­प्ते­र­प्य­नि­त्य­हे­तु­त्वे­ना­पु­रु­षा­र्थ­त्वा­त्प­र­स्यैव नित्य­त्वा­त्त­त्प्रा­प्ते­स्त­ज्ज्ञा­न­मा­त्र­सा­ध्य­त्वे­नापि नित्यत्वाच्च तस्यै­वा­न्वे­ष­णी­य­त्व­मिति पर­स्व­रू­प­क­थ­ने­नाऽऽह –
यदिति ।

पर­ब्र­ह्मा­न्वे­ष­मा­णानां कोऽतिशय इत्यत आह –
तत्प्रा­प्त्य­र्थ­मिति ।
तत्प्रा­प्त्यर्थं तदधिगमाय तदन्वेषणं कुर्वन्तो यथाकामं यतिष्याम इत्ये­व­म­भि­प्रा­ये­णे­त्य­न्वयः ।

समिदिति ।
समिद्ग्रहणं यथायोग्यं दन्त­का­ष्ठा­द्यु­प­हा­रो­प­ल­क्ष­णा­र्थम् ॥ १ ॥

तथाऽपीत्यस्य तपसेत्यतः पूर्वमन्वयः । विशेषत इत्यस्य पूर्व­त्रा­प्य­न्वयः । निष्कृ­ष्ट­म­र्थ­माह –
यद्विषय इति ।

अज्ञा­ना­द्य­र्थ­त्वा­भावे हेतुमाह –
प्रश्नेति ।
अत्रे­ति­श­ब्दोऽ­ध्या­हार्यः । सर्वप्रश्नानां निर्ण­या­द­ज्ञा­ना­द्य­स­म्भ­वा­दि­त्यर्थः ॥ २ ॥

परं ब्रह्मा­न्वे­ष­माणा इत्यु­प­क्रा­न्तेऽ­स्मि­न्ब्र­ह्म­प्र­क­रणे प्रजा­प­ति­क­र्तृ­क­प्र­जा­सृ­ष्टि­वि­ष­य­प्र­श्न­प्र­त्यु­क्त्यो­र­स­ङ्ग­ति­मा­शङ्क्य प्रश्न­प्र­त्यु­क्ति­रू­पायाः श्रुते­स्ता­त्प­र्य­माह –
अपरविद्येति ।
तेषामसौ विरजो ब्रह्मलोक इति समु­च्चि­त­का­र्यस्य ब्रह्म­लो­क­स्या­थो­त्त­रे­णेति तद्ग­ते­र्दे­व­या­न­मा­र्गस्य चेह वक्ष्य­मा­ण­त्वा­दि­त्यर्थः । इदमुपलक्षणं केवलकर्मणां चेत्यपि द्रष्टव्यम् । केव­ल­क­र्म­का­र्य­स्यापि चन्द्रलोकस्य तद्गतेः पितृयाणस्य च ’ तेषामेवैष ब्रह्मलोकः ’ ’प्रजाकामा दक्षिणं प्रतिपद्यन्ते ’ इति वक्ष्य­मा­ण­त्वा­दिति । यद्यपीदमपि पर­ब्र­ह्म­जि­ज्ञा­सा­व­स­रेऽ­स­ङ्ग­त­मेव तथाऽपि केव­ल­क­र्म­का­र्या­त्स­मु­च्चि­त­क­र्म­का­र्याच्च विरक्तस्यैव तत्राधिकार इति ततो वैरा­ग्या­र्थ­मि­द­मु­च्यते । यद्यपि मुखतः सृष्टिः प्रतीयते तथाऽपि तदुक्तौ प्रयो­ज­ना­भा­वा­त्सृ­ष्ट्यु­क्ति­व्या­जेन पर­वि­द्या­फ­ल­मे­वा­त्रो­च्यत इति भावः । प्रश्न इति प्रतिवचनं चेत्यपि द्रष्टव्यं ताभ्यामेव तदुक्तेरिति ॥ ३ ॥

तस्मै स होवाचेति प्रतिज्ञातं विशेषतो दर्शयति –
तदपाकरणायेति ।
आद्यस्य सन्नित्यस्य प्रजाकामः सन्नित्यन्वयः ।

यथोक्तकारीति ।
ज्ञान­क­र्म­स­मु­च्च­य­का­री­त्यर्थः ।

तद्भावभावित इति ।
प्रजापतिरहं सर्वा­त्मे­त्यु­पा­स­न­का­ली­न­प्र­जा­प­ति­भा­व­ना­युक्त इत्यर्थः । पूर्व­क­ल्पी­य­त­द्भा­व­भा­वित एतत्कल्पादौ हिर­ण्य­ग­र्भा­त्मना निर्वृतः प्रजापतिः सन्प­श्चा­त्प्र­जा­कामः संस्तपो जन्मान्तरभावितं ज्ञानं श्रुति­प्र­का­शि­ता­र्थ­वि­ष­य­म­त­प्य­ता­न्वा­लो­च­य­च्चि­न्ता­दिना तत्सं­स्का­र­मु­द्बोध्य ज्ञान­मु­त्पा­दि­त­वा­नि­त्य­न्वयः ।

तत्र प्रथ­म­मा­दि­त्य­च­न्द्रो­त्पा­द­नेन तद्भावमापद्य पश्चा­च्च­न्द्रा­दि­त्य­सा­ध्य­सं­व­त्स­र­भा­व­मा­प­द्यै­व­मेव तद­व­य­वा­य­न­द्व­य­मा­स­प­क्षा­हो­रा­त्र­भा­व­मा­पद्य तत­स्त­त्सा­ध्य­व्री­ह्या­द्य­न्न­भावं रेतोभावं चाऽऽपद्य तेन रेतसा प्रजाः सृजेयमित्येवं निश्चित्य प्रथमं रयि­प्रा­ण­श­ब्दि­त­च­न्द्र­सू­र्य­द्व­न्द्व­मु­त्पा­दि­त­वा­नि­त्याह –
स एवमिति ।

रयिशब्देन धनवाचिना भोज्यजातं लक्षयित्वा भोज्यस्य सोम­कि­र­णा­मृ­त­यु­क्त­त्वा­त्त­द्द्वारा सोमो लक्ष्यत इत्याह –
रयिं चेति ।

एवं प्राणशब्देनापि । “अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणा­पा­न­स­मा­युक्तः पचाम्यन्नं चतुर्विधम्॥”(भ. गी. १५। १४) इति स्मृतेरग्नेः प्राण­स­म्ब­न्धा­द­ग्नि­र्भोक्ता लक्ष्यत इत्याह –
प्राणं चेति ।

अग्नी­षो­म­यो­र­ण्डा­न्त­र्ग­त­त्वे­ना­ण्डो­त्प­त्त्य­न­न्त­र­मु­त्प­त्ति­रि­त्या­श­ये­नाऽऽह –
अण्डोत्पत्तीति ।

उद्यन्तं वावाऽऽ­दि­त्य­म­ग्नि­र­नु­स­मा­रो­ह­तीति श्रुतेः सूर्या­ग्न्यो­रे­क­त्व­म­भि­प्रे­त्याग्निं सूर्यपदेनाऽऽह –
सूर्य­च­न्द्र­म­सा­विति॥ ४ ॥

रयिप्राणौ श्रुतिः स्वयमेव व्याचष्ट इत्याह –
तत्राऽऽदित्य इति ।

प्रजापतेरेव संव­त्स­रा­दि­प्र­जा­प­र्य­न्त­स्र­ष्टृत्वं वक्तुं रयिप्राणयोः संव­त्स­र­स्रष्ट्रोः प्रजा­प­त्यु­पा­दा­न­त्वा­त्प्र­जा­प­त्या­त्म­त्व­माह –
तदेतदेकमिति ।

कथ­मे­क­स्या­त्ताऽन्नं चेति भेद इत्याशङ्क्य तस्यैव गुण­भा­व­वि­व­क्ष­याऽऽ­न्नत्वं प्राधा­न्य­वि­व­क्षया चात्तृत्वमिति भेद इत्याह –
गुणेति ।
रयिप्राणयोः कथं प्रजा­प­त्या­त्म­त्व­मिति शङ्कते ।

कथमिति ।

तत्र रयेः सर्वा­त्म­क­त्वा­त्प्र­जा­प­ति­त्व­मि­त्याह –
रयिरिति ।
अमूर्तस्यापि वाय्वादेः केन­चि­द­द्य­मा­न­त्वा­द्र­यि­त्व­मि­त्यर्थः । ननु मूर्ता­मू­र्त­यो­र­त्र­न्न­यो­रु­भ­यो­रपि रयित्वेऽन्नमेव रयिरिति कथ­मु­क्त­मि­त्या­शङ्क्य मूर्ता­मू­र्त­त्व­वि­भा­ग­म­कृत्वा सर्वस्य गुण­भा­व­मा­त्र­वि­व­क्षया सर्वं रयिरित्युच्यते ।

यदोभे विभज्य गुणप्रधानभावेन विवक्ष्येते तदाऽमूर्तेन प्राणेन मूर्त­स्या­द्य­मा­न­त्वा­न्मू­र्त­स्यैव रयित्वमित्याह –
तस्मादिति ॥ ५ ॥

रयि­श­ब्दि­त­स्या­न्नस्य प्रजा­प­ति­त्वार्थं सर्वा­त्म­त्व­मुक्त्वा प्राणस्यापि तदर्थमेव सर्वा­त्म­त्व­मु­च्य­तेऽ­थाऽऽ­दित्य इति­वा­क्ये­ने­त्याह –
तथेत्यादिना ।
यच्चाऽद्यं तदपि प्राणोऽतोऽत्ता प्राणोऽपि सर्वमेवेति सर्वात्मक इत्यर्थः ।

स्वप्रकाशेनेति ।
स्वकीयप्रकाशेन स्वप्र­भ­ये­त्यर्थः ।

अन्तर्भूतानिति ।
यद्यपि प्राण­स्या­त्तृ­त्व­मुक्तं तथाऽपि रयिर्वा एत­त्स­र्व­मि­त्य­त्रा­मू­र्तस्य प्राणस्यापि गुण­भा­व­वि­व­क्ष­याऽ­न्न­त्व­मु­क्त­मिति तथोक्तम् ।

स्वात्मा­व­भा­स­रू­पे­ष्विति ।
स्वात्म­प्र­भा­रू­पेषु रश्मि­ष्वि­त्यर्थः ।

व्याप्तत्वादिति ।
सम्ब­द्ध­त्वा­दि­त्यर्थः ॥ ६ ॥

तस्य प्रत्यक्षत्वमाह –
स एष इति ।

वैश्वानर इति ।
नरा जीवा विश्वे च ते नराश्च विश्वानराः स एव वैश्वानरः सर्वजीवात्मक इत्यर्थः । विश्वरूपः सर्व­प्र­प­ञ्चा­त्मक इति भेदः ।

उक्तं वस्त्विति ।
आदित्यस्योक्तं माहा­त्म्य­मि­त्यर्थः ॥ ७ ॥

विश्व­रू­प­मि­त्या­दि­द्वि­ती­या­न्तानां सह­स्र­र­श्मि­रि­त्या­दि­प्र­थ­मा­न्तानां सामा­ना­धि­क­र­ण्ये­ना­न्व­या­यो­गा­द­ध्या­हारं कृत्वा वाक्यभेदेन व्याचष्टे –
स्वात्मा­न­मि­त्या­दिना ॥ ८ ॥

स मिथुनमुत्पादयत इत्युपक्रान्तं मिथुनमुपसंहरति –
यश्चासाविति ।
यश्चासौ चन्द्रमा यश्चामूर्तः प्राणस्तदेकं मिथुनं सर्वं सर्वा­त्म­क­मि­त्य­न्वयः ।

एतौ मे बहुधा प्रजाः करिष्यत इत्युक्तं तत्केन प्रकारेणेति पृच्छति –
कथमिति ।

रयिप्राणयोः संव­त्स­रा­दि­द्वारा प्रजा­स्र­ष्टृ­त्व­मि­त्याह –
उच्यत इति ।
तदेव मिथुनमेव संवत्सरः कालः ।

स च प्रजापतिः प्रजा­प­त्या­त्म­क­मि­थु­न­नि­र्व­र्त्य­त्वा­दि­त्याह –
तन्नि­र्व­र्त्य­त्वा­दिति ।

तदुपपादयति –
चन्द्रेति ।
चन्द्र­नि­र्व­र्त्या­स्ति­थय आदि­त्य­नि­र्व­र्त्या­न्य­हो­त्रा­णीति विभागः ।

तन्नि­र्व­र्त्य­त्वेऽपि कालस्य कथं तदा­त्म­क­ते­त्या­शङ्क्य कार्य­का­र­ण­यो­र­भे­दा­दि­त्याह –
तदनन्यत्वादिति ।

न केवलं तिथ्यादिद्वारा चन्द्रा­दि­नि­र्व­र्त्यत्वं संवत्सरस्य किं त्वय­न­द्व­य­द्वा­राऽ­पीति वक्तुं तस्यायने इत्यादिवाक्यं तत्प्र­श्न­पू­र्वकं व्याचष्टे –
तत्कथमिति ।
चन्द्रा­दि­त्य­नि­र्व­र्त्यत्वं कुतो हेत्व­न्त­रा­दि­त्यर्थः । केवलकर्मिणां लोका­न्वि­द­ध­द्द­क्षि­णेन याति । ज्ञान­यु­क्त­क­र्म­वतां लोका­न्वि­द­ध­दु­त्त­रेण यातीत्यन्वयः । सवि­ते­त्यु­प­ल­क्षणं चन्द्रस्यापि । ज्येष्ठा­दि­र्द­क्षि­णा­यनं मार्ग­शी­र्षा­दि­रु­त्त­रा­य­ण­मिति श्रुतिषु प्रसिद्धेः ततश्च कर्मिणां लोकान्विधातुं तयो­र्द­क्षि­णो­त्त­राभ्यां मार्गाभ्यां गम­ना­त्त­न्नि­मि­त्त­त्वा­च्चा­य­न­द्व­य­प्र­सि­द्धे­स्त­न्नि­र्व­र्त्यत्वं तयोरयनयोरिति तद्द्वारा संवत्सरस्यापि तन्नि­र्व­र्त्य­त्व­मि­त्यर्थः ।

चन्द्रादित्ययोः कथं लोक­वि­धा­य­क­त्व­मिति पृच्छति –
कथमिति ।

चन्द्रा­दि­त्य­नि­र्व­र्त्य­द­क्षि­णो­त्त­रा­य­ण­द्वारा लोकप्राप्तेः प्राप्यस्य लोकस्यापि चन्द्रा­दि­त्या­त्म­क­त्वाच्च तयो­स्त­द्वि­धा­य­क­त्व­मिति तद्ये ह वा इत्यादिवाक्येन परिहरति –
तत्तत्रेति ।

इष्टं चेति ।
अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम् । आतिथ्यं वैश्वदेवश्च इष्ट­मि­त्य­भि­धी­यते ॥ वापीकूपतडागादि देवतायतनानि च । अन्न­प्र­दा­न­मा­रामः पूर्त­मि­त्य­भि­धी­यते ॥ इति तयोर्भेदः ।

कृतमित्युपासत इति कृत­श­ब्दो­प­रि­त­न­मि­ति­श­ब्द­मि­ष्टा­पूर्ते इति पूर्त­श­ब्दो­प­र्या­कृ­ष्याऽऽ­दि­श­ब्द­प­र्या­य­तया व्याचष्टे –
इत्यादीति ।
दत्त­मा­दि­श­ब्दार्थः । कृतमेवोपासते कार्य­मे­वा­नु­ति­ष्ठ­न्ती­त्यर्थः । इदं च विशेषणं पुनरावृत्तौ हेतुतयोक्तम् ।

कृत­रू­पे­ष्टा­दि­ज­न्य­त्वा­च्च­न्द्र­स्यापि कृत­त्वे­ना­नि­त्य­त्वा­त्पु­न­रा­वृ­त्ति­रि­त्याह –
कृतरूपत्वादिति ।

पुनरावृत्तौ मन्त्रवाक्यं प्रमाणयति –
इमं लोकमिति ॥ ९ ॥

अथेति ।
मार्गा­न्त­रा­र­म्भा­र्थोऽ­थ­शब्दः ।

प्रजा­प­त्या­त्म­वि­ष­येति ।
तत्ता­दा­त्म्य­वि­ष­य­ये­त्यर्थः । आदित्यमभिजयन्त इति पूर्व­म­न्व­या­र्थ­मु­क्त­मि­दानीं व्याख्या­ना­र्थ­मिति द्रष्टव्यम् ।

सामान्यमिति ।
सम­ष्टि­रू­प­मि­त्यर्थः ।

विद्यावतामिति ।
कर्मा­न­धि­का­रि­णा­मत एव केव­लो­पा­स­न­व­ता­मि­त्यर्थः ।

कर्मिणां च ज्ञानवतामिति ।
समु­च्च­य­व­ता­मि­त्यर्थः ।

ननु केव­ल­क­र्मि­णा­म­प्या­दि­त्य­प्रा­प्ता­व­पु­न­रा­वृ­त्ति­र्भ­व­ष्य­ती­त्या­शङ्क्य तेषा­मा­दि­त्य­प्रा­प्ति­रेव नास्तीति वक्तुमित्येष इति वाक्यं व्याचष्टे –
इति यस्मादिति ।
तस्मा­त्ते­षा­मा­दि­त्य­प्रा­प्ति­र­ना­श­ङ्क्येति शेषः ।

यद्वा तस्यायने इत्यारभ्येत्येष निरोध इत्यन्तं श्रुति­वा­क्य­म­य­नयो रयि­प्रा­ण­रु­प­त्व­प्र­ति­पा­द­न­प­र­तया व्याख्येयम् । तथा हि । संवत्सरस्य रयि­प्रा­ण­मि­थु­न­नि­र्व­र्त्यत्वे रयिप्राणरूपत्वं च वक्तव्यं तत्कथमिति पृच्छति –
तत्कथमिति ।

तद­व­य­व­यो­र­य­न­यो­स्त­द्रू­पत्वं वक्तुं तयोः प्रथमं प्रसिध्दिमाह –
तस्येति ।

प्रसि­द्धि­मे­वाऽऽह –
याभ्यामिति ।

एवमपि कथं तयो­स्त­दा­त्म­क­त्व­मि­त्याह –
कथमिति ।

दक्षिणायनस्य रयित्वं वक्तुं कर्मिणां रयि­रू­प­च­न्द्र­नि­र्व­र्त­क­त्व­माह –
तत्तत्रेति ।

लोकमिति ।
सोमरूपं शरीरमित्यर्थः ।

तस्य कर्मकृतत्वं पुनरावृत्त्या साधयति –
कृतरूपत्वादिति ।

रयिरूपचन्द्रस्य दक्षिणायनद्वारा प्राप्य­त्वा­त्त­स्या­य­नस्य तदन्तर्भाव इति वक्तुं तस्य कर्मिभिः प्राप्यत्वमाह –
यस्मादिति ।

एवं च तस्य रयित्वं सिद्धमित्याह –
एष इति ।

पितृयाणोपलक्षित इति ।
तत्प्राप्य इत्यर्थः । ततश्च तद्वि­शे­ष­ण­स्या­य­न­स्यापि रयित्वमित्यर्थः ।

इदा­नी­मु­त्त­रा­य­णस्य प्राणत्वमाह –
अथेति ।
प्राण­रू­पा­दि­त्य­प्रा­प­क­त्वा­दु­त्त­रा­य­णस्य तस्यापि प्राणत्वमिति संवत्सरस्य रयि­प्रा­ण­मि­थु­ना­त्म­क­त्व­मिति तत्कार्यत्वं युक्तमिति भावः ।

अस्य कर्म­सा­ध्य­च­न्द्र­वै­ल­क्ष­ण्य­माह –
एतद्वा इति ।
इतरत्सर्वं समानम् ।

अस्मिन्नर्थ इति ।
संवत्सरस्वरूप इत्यर्थः ॥ १० ॥

इयं कल्पनेति ।
पञ्चधा कर्म­सा­ध्य­च­न्द्र­वै­ल­क्ष­ण्य­क­ल्प­ने­त्यर्थः ।

जनयितृत्वादिति ।
संव­त्स­रा­त्म­क­का­लस्य सर्व­ज­न­क­त्वा­दि­त्यर्थः ।

समा­ना­धि­क­र­ण­ब­हु­व्री­हि­तया व्याख्याय व्याधि­क­र­ण­ब­हु­व्री­हि­र्वे­त्याह –
आकरणं वेति ।

अवयविकरणमिति ।
अवयवित्वेन करणमित्यर्थः । पक्षद्वयेऽप्येक एवार्थः ।

द्युलोकादिति ।
आका­श­रू­पा­द­न्त­रि­क्ष­लो­का­दि­त्यर्थः । अन्यथा स्वर्ग­लो­का­त्प­रस्य चतुर्थत्वेन तृती­य­स्या­मि­त्य­न­न्व­या­पत्तेः ।

उदकवन्तमिति ।
आदित्याज्जायते वृष्टिरिति स्मृतेरित्यर्थः । अन्य इत्यस्य पूर्वा­र्ध­ग­ते­नाऽऽ­हु­रि­त्य­नेन संबन्धः । उ इति तुशब्दसमानार्थो निपातः । परे तु तमेव विच­क्ष­ण­मा­हु­रि­त्य­न्वयः ।

किमाहुरित्यत आह –
सप्तचक्र इति ।
तस्मिन्विचक्षणे सप्त­च­क्रा­द्या­त्मके सर्वमिदं जग­द­र्पि­त­मि­त्या­हु­रि­त्यर्थः ।

मतद्वयेऽपि कीदृशोऽर्थभेद इत्यत आह –
यदीति ।
पूर्वमत ऋतूनां पादत्वकल्पनया मासा­ना­म­व­य­व­त्व­क­ल्प­न­याऽऽ­दि­त्या­त्मना संवत्सरः काल एवोक्तः । द्वितीये तु हेमन्तशिशिरौ पृथक्कृत्य षण्णा­मृ­तू­ना­म­र­त्व­क­ल्प­नया संवत्सरस्य परि­व­र्त­न­गु­ण­यो­गेन चक्रत्वकल्पनया कालप्राधान्येन सर्वाश्रयत्वेन च स एवोक्तः । पक्षद्वयेऽपि गुणभेदेन कल्पनाभेदेन च भेदो न धर्मिभेद इत्यर्थः ॥ ११ ॥

कारणत्वे श्लोकोक्तं जगदाश्रयत्वं हेतुमाह –
यस्मिन्निति ।

संवत्सरस्यापि मासा­हो­रा­त्र­रू­प­व्य­ति­रे­के­णौ­ष­ध­व्या­दि­ज­न­क­त्वा­भा­वा­त्तस्य मासा­द्या­त्म­क­त्व­माह –
स एवेति ।

यथोक्तेति ।
संवत्सररूपो रयि­प्रा­ण­मि­थु­ना­त्मक इत्यर्थः ।

शुक्ल­कृ­ष्ण­यो­रु­भ­यो­रपि दर्श­पू­र्ण­मा­सा­दि­क­र्मा­नु­ष्ठा­न­द­र्श­ना­त्त­स्मा­देत ऋषय इत्यादि वाक्य­म­नु­प­प­न्न­मि­त्या­शङ्क्य शुक्लस्य प्राणा­त्म­क­त्व­ज्ञा­न­स्तु­ति­प­र­तया व्याचष्टे –
यस्मादिति ।
यस्मात्प्राणं सर्वमेव सर्वात्मकमेव पश्यन्ति यस्माच्च प्राणव्यतिरेकेण कृष्ण­प­क्ष­स्तैर्न दृश्यते तस्मादित्यन्वयः । प्राणस्य शुक्ल­प­क्षा­त्म­क­त्वा­त्कृ­ष्ण­प­क्षा­दि­स­र्व­ज­गतः प्राणा­त्म­त्वा­त्प्रा­ण­द्वारा कृष्णपक्षस्यापि शुक्लपक्षत्वे सति कृष्णे कुर्वन्तोऽपि प्रकाशात्मके शुक्ल एव कुर्वन्तीति शुक्लपक्षे प्राण­त्व­ज्ञा­नस्य स्तुतिरित्यर्थः ।

एत­त्स्तु­त्य­र्थ­मेव ज्ञान­र­हि­ता­न्नि­न्दति –
इतरे त्विति ।
ये तु सर्वात्मानं प्राणं न पश्य­न्त्य­ज्ञ­त्वा­त्तेषां शुक्लपक्षः प्राण­त्वे­ना­ज्ञा­य­मा­न­त्वा­द­ज्ञा­ना­त्मकः सन्कृ­ष्ण­प­क्ष­त्व­मा­प­द्य­तेऽतः शुक्ले कुर्व­न्तोऽ­प्य­द­र्श­ना­त्म­क­त्वा­त्प्र­का­श­र­हिते कृष्ण एव कुर्वन्तीति ते निन्द्यन्त इत्यर्थः ।

उक्तमर्थं श्रुत्यारूढं करोति –
इतर इति ॥ १२ ॥

रयिः पूर्ववदिति ।
रयिरन्नं चन्द्रमा इत्यर्थः ।

अह्नः प्राण­त्वो­क्ति­प्र­स­ङ्गा­दह्नि मैथुनं निषेधति –
प्राणमिति ।

प्रकृतमिति ।
कुतो ह वा इमाः प्रजाः प्रजायन्त इति पृष्टमित्यर्थः । पूर्वोक्तं सर्व­मे­त­दु­प­यो­गि­त­योक्तं न तु साक्षा­त्प्र­कृ­त­मिति भावः ॥ १३ ॥

एवं क्रमेणेति ।
रयि­प्रा­ण­सं­व­त्स­रा­दि­क्र­मेण परिणम्य व्रीह्या­द्या­त्मना व्यवस्थितः सन्नन्नं वै प्रजा­प­ति­र­न्ना­त्मको जातः प्रजा­प­ति­रि­त्य­न्वयः ।

कथमिति ।
अन्नरूपत्वेऽपि तस्य कथं प्रजा­ज­न­क­त्व­मि­त्यर्थः ।

तत इति ।
भक्षि­ता­द­न्ना­दि­त्यर्थः ।

रेत इति ।
शोणि­त­स्या­प्यु­प­ल­क्षणं तुल्यत्वादिति ॥ १४ ॥

प्रजा­प­ति­व्र­ता­च­र­ण­मा­त्रेण नादृष्टफलं चन्द्रलोकः प्राप्यते मूर्खाणामपि प्रसङ्गादत आह –
इष्टापूर्तेति ।
चान्द्रमसो ब्रह्मलोक इत्यपरब्रह्मणः प्रजा­प­ते­रं­श­त्वा­द्र­यि­रू­पस्य चन्द्रस्य ब्रह्म­लो­क­त्व­मि­त्यर्थः ।

इष्टादिकारिणां तपआदिकमपि चन्द्र­लो­क­प्रा­प्त्य­र्थ­म­पे­क्षि­त­मि­त्यत आह –
येषां तप इति ॥ १५ ॥

तेषामसौ विरज इत्यादिवाक्यं व्याचष्टे –
यस्त्विति ।

उत्तरायण इति ।
तेन प्राप्य इत्यर्थः । प्राणा­त्म­भा­वोऽ­प­र­ब्र­ह्म­त­याऽ­व­स्था­न­मि­त्यर्थः ।

असौ केषां तेषामिति ।
तेषामसौ विरज इत्यत्र तेषामित्यनेन केषां निर्देश इति प्रश्नार्थः ।

न येषु जिह्ममित्यत्र जिह्मादिशब्दं व्यति­रे­क­प्र­द­र्श­नेन व्याचष्टे –
यथेत्यादिना ।

मायाग्रहणं तादृशानां दोषा­णा­मु­प­ल­क्ष­ण­मिति वदन्वाक्यार्थं सङ्गृह्य दर्शयति –
मायेत्येवमिति ।
भिक्षुष्विति पर­म­हं­स­व्य­ति­रि­क्तानां कुटीचकादीनां ग्रहणम् । तेषां ब्रह्मलोकादपि विरक्तत्वेन तत्रा­न­र्थि­त्वात् ।

इतिशब्दार्थमाह –
इत्येषेति ॥ १६ ॥