अद्वैतशारदा

आनन्दगिरिटीका (प्रश्न)

द्वितीयः प्रश्नः

प्रश्नान्तरस्य प्रथमप्रश्नेन सङ्गतिमाह –
प्राणोऽत्तेति ।

अवधारयितव्यमिति ।
अत्ता विश्वस्य सत्प­ति­रि­त्य­त्तृ­त्व­स्यै­षोऽ­ग्नि­स्त­प­ती­त्या­र­भ्यारा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् । प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायस इत्यादिना च प्रजा­प­ति­त्व­स्यो­त्त­रत्र वक्ष्य­मा­ण­त्वा­दि­त्यर्थः । इदमुपलक्षणं पूर्वं गतिश्रवणेन विरक्तस्यापि चित्तैकाग्र्यं विना वक्ष्य­मा­णा­त्म­ज्ञा­ना­सि­द्धे­स्त­दर्थं मन्दानां फलविशेषार्थं च प्राणोपासनार्थं प्रश्न­द्व­या­रम्भः । तत्रापि श्रेष्ठ­त्वा­त्तृ­त्व­प्र­जा­प­ति­त्वा­दि­गु­ण­नि­र्धा­र­णार्थं द्वितीयः प्रश्नः । तदु­त्प­त्त्या­दि­नि­र्धा­र­ण­पू­र्वकं तदु­पा­स­न­वि­धा­नार्थं तृतीयः प्रश्नः इत्यपि द्रष्टव्यम् ।

प्रजाशब्देन शरीरमेव गृह्यते न जीवस्तस्य प्राणधारकत्वेन तद्धा­र्य­त्वा­भा­वा­दि­त्याह –
शरीरेति ।
विभक्तानामिति निर्धारणे षष्ठी ।

स्वमा­हा­त्म्य­ख्या­प­न­मिति ।
अव­का­श­दा­ना­दि­क­मा­का­शा­दीनां माहात्म्यं तस्य ख्यापनं तस्य लोकान्प्रति प्रकटनं तत्प्रकाशयन्ते कुर्व­न्ती­त्यर्थः । पाकं पचतीतिवत् । अवकाशदानादिकं स्वस्वकार्यं सर्वलोकप्रकटनं यथा तथा कतरे कुर्व­न्ती­त्यर्थः ॥ १ ॥

एष देव इति ।
वक्ष्य­मा­णा­भि­व­द­ना­दि­व्य­व­हा­र­सि­द्ध्यर्थं चेतनत्वं सम्भावयितुं देव इति विशेषणम् “अभि­मा­नि­व्य­प­दे­शस्तु विशे­षा­नु­ग­ति­भ्याम्”(ब्र.सू. २।१।५) इति न्याये­नाऽऽ­का­शा­द्य­भि­मा­नि­दे­व­ता­ग्र­ह­णा­र्थम् । तच्च विशेषणं वाय्वादिष्वपि सर्वत्र सम्बध्यते ।

वाग्ग्रहणं कर्मे­न्द्रि­यो­प­ल­क्ष­णार्थं चक्षुरादिग्रहणं ज्ञाने­न्द्रि­यो­प­ल­क्ष­णा­र्थ­मिति मत्वाऽऽह –
कर्मेन्द्रियेति ।
कार्यलक्षणाः शरीराकारेण परिणता आकाशादयः । कर­ण­ल­क्ष­णा­नी­न्द्रि­याणि ।

माहात्म्यमिति ।
आका­शा­दी­ना­म­व­का­श­दा­ना­दि­रूपं शरी­र­धा­र­णै­क­दे­शा­त्मकं प्रकाश्यं स्वकार्यं प्रकाश्य सर्वलोकप्रकटं यथा तथा कृत्वाऽ­भि­व­दन्ति, अभितः सर्वतः कृत्स्नं शरीरधारणं प्रत्येकं वयमेव कुर्म इति वदन्तीत्यर्थः ।

बाणमिति ।
वबयोरभेदद्वाति कुत्सितं गन्धं वहतीति वा, विनाशं गच्छतीति वा देशाद्देशान्तरं गच्छतीति वा बणं बणमेव बाणं कार्यकरणसंघातं शरीरमित्यर्थः ॥ २ ॥

कथमेतदिति ।
एत­द­ह­मे­वै­त­दि­त्या­द्यु­क्तम् । एवं यथाभूतं कथमित्यर्थः ॥ ३ ॥

उत्क्रान्तवानिवेति ।
अत्य­न्तो­त्क्रा­न्त्य­भा­वा­दि­व­शब्दः ।

निरपेक्ष इति ।
स्वयमेवेत्यर्थः ।

दृष्टान्तेनेति ।
तद्यथेति वक्ष्य­मा­णे­ने­त्यर्थः ॥ ४ ॥

सूर्यः सन्निति ।
तपतीत्यनुषङ्गः सन्ता­प­य­ती­त्यर्थः ।

आवहप्रवहादीति ।
आवहादयः सप्त वायु­गु­णा­स्त­था­भूतः सन्मे­घा­ञ्ज्यो­ति­श्च­क्रा­दींश्च वहतीति शेषः । एष देवः पृथिवी सन्सर्वस्य जगतो धारयिता रयिश्चन्द्रः सन्सर्वं पुष्णातीत्यर्थः ॥ ५ ॥

श्रद्धादीति ।
प्राणा­च्छ्रद्धां खं वायुर्ज्योतिराप इत्यादिना वक्ष्य­मा­ण­षो­ड­श­क­ला­त्मक इत्यर्थः ।

ब्रह्म चेति ।
ब्राह्म­ण­जा­ति­रि­त्यर्थः ।

चब्दार्थमाह –
यज्ञादीति ।
अधिकृतं सर्व­मे­वे­त्य­न्वयः ॥ ६ ॥

किञ्चेति ।
यः प्रजा­प­ति­र्वि­रा­ट्सोऽपि त्वमेवेत्यन्वयः । पितुर्गर्भे रेतोरूपेण मातुर्गर्भे पुत्ररूपेण यश्चरति पश्चात्तयोरेव प्रतिरूपः सन्सदृशः सन्यः प्रजायते स त्वमेव प्रजायस इत्यन्वयः ।

प्रतिशब्दार्थ उक्तः –
प्रतिरूपः सन्निति ।

ननु प्राणस्य पुत्र­रू­प­त्व­मे­वोक्तं न तु पितृमातृरूपत्वं तत्कस्मादत आह –
प्रजापतित्वादेवेति ।
तस्य सर्वा­त्म­त्वा­दि­त्यर्थः ।

निष्कृ­ष्टा­र्थ­माह –
सर्वदेहेति ।

अत्रापि निष्कृ­ष्टा­र्थ­माह –
भोक्ता हीति ।
अत­स्त­वै­वे­त्य­तः­श­ब्दा­ध्या­हा­रेण योज्यम् ॥ ७ ॥

हविषां प्रापयितृतम इति ।
वह्निशब्दो वहनाद्वह्निरिति यौगिक इत्यर्थः ।

प्रथमा भवतीति ।
यज्ञा­दि­दै­व­क­र्मणि प्रथमं नान्दी­मु­ख­श्रा­द्ध­स्या­व­श्य­क­र्त­व्य­त्वात्सा प्रथमेत्यर्थः । ऋष गताविति धातो­र्ज्ञा­ना­र्थ­त्वा­दृ­षि­श­ब्दस्य ज्ञान­ज­न­क­च­क्षु­रा­द्य­र्थ­त्व­मि­त्यर्थः ।

अङ्गी­र­स­भू­ता­ना­मिति ।
प्राणा­भा­वेऽ­ङ्गानां शोष­द­र्श­ना­त्ते­षा­म­ङ्गि­र­स­त्व­मि­त्यर्थः । मुख्य­प्रा­ण­स्या­थ­र्वत्त्वं श्रुत्याऽभिहितं यद्यपि तथाऽपि चक्षुरादीनामपि तदं­श­त्वा­द­थ­र्व­श­ब्दा­र्थ­त्व­मिति भावः ॥ ८ ॥

इहेन्द्रशब्देन पर­मे­श्व­र­त्व­मु­च्यते मघवानित्यनेन त्विन्द्र उक्त इति भेदमाह –
इन्द्रः परमेश्वर इति ।
वीर्येण संहा­र­सा­म­र्थ्ये­ने­त्यर्थः ।

सौम्येनेति ।
विष्ण्वा­दि­रू­पे­णे­त्यर्थः ॥ ९ ॥

असंस्कृत इति ।
संस्कारहीनो व्रात्य इति स्मृतेरित्यर्थः ।

अनेन स्वतःशुद्धत्वं विवक्षितमित्याह –
स्वभावत एवेति ।

मातरिश्वेति ।
मातरिश्व न इत्यत्र नलोपश्छान्दस इत्यर्थः ।

वायोस्त्वमिति ।
पितेत्यनुषङ्गः ।

अस्मि­न्व्या­ख्याने वायु­मा­त्र­पि­तृ­त्वा­द­स्म­दा­दि­स­र्व­पि­तृ­त्व­म­नुक्तं स्यादत आह –
अतश्चेति ।
अस्म­दा­दि­स­र्व­ज­न­क­त्वा­द्वा­यो­स्त­ज्ज­न­क­स्याऽऽ­का­शा­त्मनः प्राणस्य सर्वजनकत्वं सिद्धमित्यर्थः ॥१०-११ ॥

वाचि प्रतिष्ठितेति ।
वाच्यमानरूपा तनूः प्रतिष्ठिता । श्रोत्रे व्यानरूपा । चक्षुषि प्राणरूपा । मनसि समानरूपा । स प्राण­स्त­च्चक्षुः स व्यान­स्त­च्छ्रोत्रं सोऽपानः सा वाक्स समानस्तन्मन इति श्रुतेरित्यर्थः ।

उत्क्रमणेनेति ।
प्राणोत्क्रमणे सत्य­पा­ना­द्या­त्मिका वागादिरूपा तनूरशिवा कार्यायोग्या स्यादित्यर्थः ॥ १२ ॥

ब्राह्म्य इति ।
ऋगादिमन्त्ररूपा ब्राह्म्यः श्रियः । ऋचः सामानि यजूंषि । सा हि श्रीरमृता सतामिति श्रुतेः । क्षात्र्यः प्रसिद्धा धना­द्यै­श्व­र्य­रूपाः ।

अस्मिन्प्रश्ने निर्धारितं गुणं सङ्गृह्याऽऽह –
इत्येवमिति ।
इदं वरि­ष्ठ­त्वा­दे­रु­प­ल­क्ष­णम् ॥ १३ ॥