आनन्दगिरिटीका (प्रश्न)
द्वितीयः प्रश्नः
प्रश्नान्तरस्य प्रथमप्रश्नेन सङ्गतिमाह –
प्राणोऽत्तेति ।
अवधारयितव्यमिति ।
अत्ता विश्वस्य सत्पतिरित्यत्तृत्वस्यैषोऽग्निस्तपतीत्यारभ्यारा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् । प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायस इत्यादिना च प्रजापतित्वस्योत्तरत्र वक्ष्यमाणत्वादित्यर्थः । इदमुपलक्षणं पूर्वं गतिश्रवणेन विरक्तस्यापि चित्तैकाग्र्यं विना वक्ष्यमाणात्मज्ञानासिद्धेस्तदर्थं मन्दानां फलविशेषार्थं च प्राणोपासनार्थं प्रश्नद्वयारम्भः । तत्रापि श्रेष्ठत्वात्तृत्वप्रजापतित्वादिगुणनिर्धारणार्थं द्वितीयः प्रश्नः । तदुत्पत्त्यादिनिर्धारणपूर्वकं तदुपासनविधानार्थं तृतीयः प्रश्नः इत्यपि द्रष्टव्यम् ।
प्रजाशब्देन शरीरमेव गृह्यते न जीवस्तस्य प्राणधारकत्वेन तद्धार्यत्वाभावादित्याह –
शरीरेति ।
विभक्तानामिति निर्धारणे षष्ठी ।
स्वमाहात्म्यख्यापनमिति ।
अवकाशदानादिकमाकाशादीनां माहात्म्यं तस्य ख्यापनं तस्य लोकान्प्रति प्रकटनं तत्प्रकाशयन्ते कुर्वन्तीत्यर्थः । पाकं पचतीतिवत् । अवकाशदानादिकं स्वस्वकार्यं सर्वलोकप्रकटनं यथा तथा कतरे कुर्वन्तीत्यर्थः ॥ १ ॥
एष देव इति ।
वक्ष्यमाणाभिवदनादिव्यवहारसिद्ध्यर्थं चेतनत्वं सम्भावयितुं देव इति विशेषणम् “अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्”(ब्र.सू. २।१।५) इति न्यायेनाऽऽकाशाद्यभिमानिदेवताग्रहणार्थम् । तच्च विशेषणं वाय्वादिष्वपि सर्वत्र सम्बध्यते ।
वाग्ग्रहणं कर्मेन्द्रियोपलक्षणार्थं चक्षुरादिग्रहणं ज्ञानेन्द्रियोपलक्षणार्थमिति मत्वाऽऽह –
कर्मेन्द्रियेति ।
कार्यलक्षणाः शरीराकारेण परिणता आकाशादयः । करणलक्षणानीन्द्रियाणि ।
माहात्म्यमिति ।
आकाशादीनामवकाशदानादिरूपं शरीरधारणैकदेशात्मकं प्रकाश्यं स्वकार्यं प्रकाश्य सर्वलोकप्रकटं यथा तथा कृत्वाऽभिवदन्ति, अभितः सर्वतः कृत्स्नं शरीरधारणं प्रत्येकं वयमेव कुर्म इति वदन्तीत्यर्थः ।
बाणमिति ।
वबयोरभेदद्वाति कुत्सितं गन्धं वहतीति वा, विनाशं गच्छतीति वा देशाद्देशान्तरं गच्छतीति वा बणं बणमेव बाणं कार्यकरणसंघातं शरीरमित्यर्थः ॥ २ ॥
कथमेतदिति ।
एतदहमेवैतदित्याद्युक्तम् । एवं यथाभूतं कथमित्यर्थः ॥ ३ ॥
उत्क्रान्तवानिवेति ।
अत्यन्तोत्क्रान्त्यभावादिवशब्दः ।
निरपेक्ष इति ।
स्वयमेवेत्यर्थः ।
दृष्टान्तेनेति ।
तद्यथेति वक्ष्यमाणेनेत्यर्थः ॥ ४ ॥
सूर्यः सन्निति ।
तपतीत्यनुषङ्गः सन्तापयतीत्यर्थः ।
आवहप्रवहादीति ।
आवहादयः सप्त वायुगुणास्तथाभूतः सन्मेघाञ्ज्योतिश्चक्रादींश्च वहतीति शेषः । एष देवः पृथिवी सन्सर्वस्य जगतो धारयिता रयिश्चन्द्रः सन्सर्वं पुष्णातीत्यर्थः ॥ ५ ॥
श्रद्धादीति ।
प्राणाच्छ्रद्धां खं वायुर्ज्योतिराप इत्यादिना वक्ष्यमाणषोडशकलात्मक इत्यर्थः ।
ब्रह्म चेति ।
ब्राह्मणजातिरित्यर्थः ।
चब्दार्थमाह –
यज्ञादीति ।
अधिकृतं सर्वमेवेत्यन्वयः ॥ ६ ॥
किञ्चेति ।
यः प्रजापतिर्विराट्सोऽपि त्वमेवेत्यन्वयः । पितुर्गर्भे रेतोरूपेण मातुर्गर्भे पुत्ररूपेण यश्चरति पश्चात्तयोरेव प्रतिरूपः सन्सदृशः सन्यः प्रजायते स त्वमेव प्रजायस इत्यन्वयः ।
प्रतिशब्दार्थ उक्तः –
प्रतिरूपः सन्निति ।
ननु प्राणस्य पुत्ररूपत्वमेवोक्तं न तु पितृमातृरूपत्वं तत्कस्मादत आह –
प्रजापतित्वादेवेति ।
तस्य सर्वात्मत्वादित्यर्थः ।
निष्कृष्टार्थमाह –
सर्वदेहेति ।
अत्रापि निष्कृष्टार्थमाह –
भोक्ता हीति ।
अतस्तवैवेत्यतःशब्दाध्याहारेण योज्यम् ॥ ७ ॥
हविषां प्रापयितृतम इति ।
वह्निशब्दो वहनाद्वह्निरिति यौगिक इत्यर्थः ।
प्रथमा भवतीति ।
यज्ञादिदैवकर्मणि प्रथमं नान्दीमुखश्राद्धस्यावश्यकर्तव्यत्वात्सा प्रथमेत्यर्थः । ऋष गताविति धातोर्ज्ञानार्थत्वादृषिशब्दस्य ज्ञानजनकचक्षुराद्यर्थत्वमित्यर्थः ।
अङ्गीरसभूतानामिति ।
प्राणाभावेऽङ्गानां शोषदर्शनात्तेषामङ्गिरसत्वमित्यर्थः । मुख्यप्राणस्याथर्वत्त्वं श्रुत्याऽभिहितं यद्यपि तथाऽपि चक्षुरादीनामपि तदंशत्वादथर्वशब्दार्थत्वमिति भावः ॥ ८ ॥
इहेन्द्रशब्देन परमेश्वरत्वमुच्यते मघवानित्यनेन त्विन्द्र उक्त इति भेदमाह –
इन्द्रः परमेश्वर इति ।
वीर्येण संहारसामर्थ्येनेत्यर्थः ।
सौम्येनेति ।
विष्ण्वादिरूपेणेत्यर्थः ॥ ९ ॥
असंस्कृत इति ।
संस्कारहीनो व्रात्य इति स्मृतेरित्यर्थः ।
अनेन स्वतःशुद्धत्वं विवक्षितमित्याह –
स्वभावत एवेति ।
मातरिश्वेति ।
मातरिश्व न इत्यत्र नलोपश्छान्दस इत्यर्थः ।
वायोस्त्वमिति ।
पितेत्यनुषङ्गः ।
अस्मिन्व्याख्याने वायुमात्रपितृत्वादस्मदादिसर्वपितृत्वमनुक्तं स्यादत आह –
अतश्चेति ।
अस्मदादिसर्वजनकत्वाद्वायोस्तज्जनकस्याऽऽकाशात्मनः प्राणस्य सर्वजनकत्वं सिद्धमित्यर्थः ॥१०-११ ॥
वाचि प्रतिष्ठितेति ।
वाच्यमानरूपा तनूः प्रतिष्ठिता । श्रोत्रे व्यानरूपा । चक्षुषि प्राणरूपा । मनसि समानरूपा । स प्राणस्तच्चक्षुः स व्यानस्तच्छ्रोत्रं सोऽपानः सा वाक्स समानस्तन्मन इति श्रुतेरित्यर्थः ।
उत्क्रमणेनेति ।
प्राणोत्क्रमणे सत्यपानाद्यात्मिका वागादिरूपा तनूरशिवा कार्यायोग्या स्यादित्यर्थः ॥ १२ ॥
ब्राह्म्य इति ।
ऋगादिमन्त्ररूपा ब्राह्म्यः श्रियः । ऋचः सामानि यजूंषि । सा हि श्रीरमृता सतामिति श्रुतेः । क्षात्र्यः प्रसिद्धा धनाद्यैश्वर्यरूपाः ।
अस्मिन्प्रश्ने निर्धारितं गुणं सङ्गृह्याऽऽह –
इत्येवमिति ।
इदं वरिष्ठत्वादेरुपलक्षणम् ॥ १३ ॥