आनन्दगिरिटीका (प्रश्न)
तृतीयः प्रश्नः
एवं प्रजापतित्वात्तृत्वादिगुणजातं निर्धार्य प्राणस्योत्पत्त्यादि निर्धारयंस्तदुपासनां विधातुं प्रश्नान्तरमवतारयति –
अथेति ।
वैदर्भिप्रश्नानन्तरमित्यर्थः ।
प्राणैरिति ।
यैर्वागादिप्राणैराकाशादिभिश्च प्राणस्य तत्त्वमुपलब्धं तैरित्यर्थः ।
प्राणस्य पूर्वोक्तमहिमत्वादेवोत्पत्तिशङ्काभावात्कुत इति प्रश्नानुपपत्तिमाशङ्क्याऽऽह –
अपि संहतत्वादिति ।
अनेकात्मकत्वात्सावयवत्वादित्यर्थः ।
शरीरग्रहणमिति ।
शरीरप्रवेश इत्यर्थः ।
प्रातिष्ठत इति ।
आङ्प्रश्लेषाद्दीर्घत्वम् ॥ १ ॥
विषमेति ।
विषमं दुर्घटं यथा तथा प्रश्नार्ह इत्यर्थः ।
अतिप्रश्नानिति ।
त्वदन्येषां प्रश्नानतिक्रान्तानन्यदीयप्रश्नागोचरान्सूक्ष्मप्रश्नान्प्रष्टव्यार्थानित्यर्थः ।
अतिशयेनेति ।
अपरब्रह्मापेक्षयाऽतिशयितमुख्यब्रह्मविदसि त्वमिति प्रोत्साहार्थं स्तौतीति भावः ॥ २ ॥
“दिव्यो ह्यमूर्तः पुरुषः, अक्षरात्परतः परः”(मु. उ. २ । १ । २) “एतस्माज्जायते प्राणः”(मु. उ. २ । १ । ३) इति मन्त्रावत्र संवादयितुं तद्गतविशेषणान्याह –
परस्मादिति ।
अत्र दृष्टान्त इति ।
तस्यानृतत्वार्थं दृष्टान्त उच्यत इत्यर्थः ।
छायेति ।
प्रतिबिम्बादिरूपेत्यर्थः ।
एतस्मिन्निति ।
प्रकृते जनक आत्मनि ब्रह्मणीत्यर्थः ।
कथमायातीत्यस्योत्तरमाह –
मनोकृतेनेति ।
संधिरार्षः ।
तदेव सक्त इति ।
अस्य कर्मिणो मनो यस्मिन्फले निषक्तं संसक्त आसक्तः संस्तदेव फलं कर्मणा सहैतीति श्रुतौ च शरीरग्रहणं कर्मसाध्यमुक्तमित्यर्थः ॥ ३ ॥
आत्मानां वा प्रविभज्येत्यस्योत्तरं दृष्टान्तेनाऽऽह –
यथेति ।
इतरानिति ।
इतरांश्चक्षुरादीन्यथास्थानमक्ष्यादिगोलकस्थाने सन्निधत्ते सन्निधापयति । आत्मभेदान्मुख्यप्राणस्य वृत्तिभेदान्प्राणापानादीन्पाय्वादिषु नियुङ्क्त इति । अत्र श्रुत्या नेत्रादीनां चक्षुरादिस्थानानां स्पष्टत्वात्तानि नोक्तानीति द्रष्टव्यम् ॥ ४ ॥
यः कुर्वंस्तिष्ठति तं सन्निधत्ते विनियुङ्क्त इत्यर्थः ।
मध्य इति ।
प्राणापानयोर्मध्ये या नाभिस्तस्यां समानः प्रतितिष्ठतीत्यन्वयः ।
समानशब्दार्थमुक्तं श्रुत्यारूढं करोति –
एष हीति ।
आत्माग्नाविति ।
आत्मनि शरीरेऽग्निर्जाठराग्निस्तस्मिन्नित्यर्थः ।
एवं हुतपदबलादन्नस्य हविष्ट्वं जाठराग्नेराहवनीयत्वं प्रक्षेपस्य होमत्वं चोक्त्वा शीर्षण्यसप्तद्वारान्निर्गतानां ज्ञानानामर्चिष्ट्वं वक्तुं तस्मादेता इति वाक्यं व्याचष्टे –
तस्मादिति ।
प्राप्तादिति ।
अग्नेरौदर्याद्धेतोः प्राप्तपरिपाकादन्नरसादन्ननाडीद्वारा देहं प्राप्तं नाडीस्थानं हृदयं प्राप्तादन्नरसादिति शेषः । दर्शनद्वयं श्रवणद्वयं घ्राणद्वयं मुखं चैकं रसनमिति सप्तार्चिषः । जाठराग्निपाकजन्यान्नरसबलेन दर्शनादीनां प्रवृत्तेस्तेषु तदर्चिष्ट्वारोप इत्यर्थः ॥ ५ ॥
व्यानस्य नाडीरूपं स्थानं दर्शयितुं नाडीनामुत्पत्तिस्थानं वक्तुमाह –
हृदीत्यादिना ।
हृदयस्य लिङ्गात्मस्थानत्वोक्तेः । प्रयोजनं तु केचिद्योगिनो नाभिकन्दस्य नाड्युत्पत्तिस्थानत्वं वदन्ति तन्निराकरणं, तत्रैव लिङ्गात्मनः सञ्चरणार्था नाड्यः । नाडीभिः प्रत्यवसृप्येत्यादिश्रुतेः । ततश्च लिङ्गात्मनो हृदयस्थानत्वे तत्सञ्चारमार्गभूतनाडीनामपि तदेवोत्पत्तिस्थानमन्यथा प्रदेशान्तरस्थनाडीनां तन्मार्गत्वायोगाद्वासप्ततिसहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्त इति श्रुतेश्चेति ।
लिङ्गशरीरस्याऽऽत्मत्वमात्मोपाधित्वेन तद्योगादित्याह –
आत्मना संयुक्त इति ।
यस्माल्लिङ्गात्मा हृदि वर्तते तत्सञ्चारमार्गभूतनाडीनामपि तदेव स्थानमित्याह –
अत्रेति ।
नाडीनां शरीरविधारकत्वेन प्रसिद्धत्वं वक्तुमेतदिति विशेषम् । तस्य स्पष्टत्वाद्भाष्ये न व्याख्यातम् ।
एकैकस्या नाड्याः शाखानाड्यः शतं शतं भवतीत्याह –
तासामिति ।
ततश्च शतोत्तरमयुतं शाखानाड्य इत्यर्थः ।
शाखानाडीनां च प्रत्येकं द्व्यधिकसप्ततिसहस्राणि प्रतिशाखानाड्यः सन्तीत्याह –
पुनरपीति ।
सप्ततिरितिपदस्य सङ्ख्याप्रधानत्वे सहस्राणीत्यस्य तेन सामानाधिकरण्यायोगात्षष्ठ्यन्ततया व्याचष्टे –
सहस्राणामिति ।
प्रतिशाखेति ।
प्रतिशाखाभ्यो निर्गता अल्पशाखाः प्रतिशाखाः ।
द्वासप्ततिरित्यत्र वीप्सार्थमाह –
प्रतिप्रतीति ।
प्रतिप्रतिनाडीशतमित्यनन्तरमेकैकस्या इत्यनुषङ्गः । तथा च प्रतिप्रतिनाडीशतमेकैकस्या नाड्याः प्रतिशाखानाडीनां द्वासप्ततिसहस्राणि भवन्तीत्यर्थः । तथा च मूलशाखाप्रतिशाखानाड्यो मिलित्वा द्वासप्ततिकोटयो द्वासप्ततिलक्षाणि दशसहस्रं च शतद्वयमेका च भवन्तीति द्रष्टव्यम् ।
एवं नाडीरुक्त्वा व्यानस्य तत्स्थानत्वमाह –
आस्त्विति ।
सूक्ष्मासु नाडीषु विद्यमानस्य व्यानस्य कथं व्यापकत्वमित्याशङ्क्य नाडीनां सर्वदेहव्याप्तेस्तत्स्थस्यापि व्यानस्य तद्वारा व्याप्तिरित्याह –
आदित्यादिवेति ।
यथाऽऽदित्याद्विनिर्गत्य रश्मयः सर्वतो गतास्तथा हृदयात्सर्वतोगामिन्यो नाड्यस्ताभिरिति योज्यम् ।
सामान्येन सर्वशरीरव्याप्तावपि विशेषस्थानमाह –
सन्धीति ।
प्राणेति ।
उच्छ्वासनिश्वासयोः प्राणापानवृत्त्योरभावे व्यानवृत्तिरुद्भवतीत्यर्थः ।
वीर्यवदिति ।
अथ यः प्राणापानयोः सन्धिः स व्यान इत्युक्त्वा यानि वीर्यवन्ति कर्मणि बलवता पुरुषेण साध्यानि धनुरायमनादीनि तान्यप्राणन्ननपानन्करोतीति श्रुत्यन्तरोक्तेरित्यर्थः ॥ ६ ॥
इदानीमुदानस्य स्थानं वदन्केनोत्क्रमत इत्यस्योत्तरमाह –
या त्विति ।
उभाभ्यां समप्रधानाभ्यामिति ।
अनेन पुण्याधिक्ये देवलोकं पापाधिक्ये नरकलोकं नयतीति पूर्वं व्याख्यातं भवति ॥ ७ ॥
कथं बाह्यमभिधत्ते कथमध्यात्ममित्यस्योत्तरमाह –
आदित्य इति ।
या देवता प्रसिद्धेति ।
अग्निदेवता पृथिव्येव यस्याऽऽयतनमग्निर्लोक इति श्रुतेरग्निसम्बद्धावगमादित्यर्थः ।
अवष्टभ्येत्यनन्तरमध्याहारेण वाक्यं पूरयति –
अध एवापकर्षणेनेति ।
वृत्तार्थं स्तम्भादेरूर्ध्वमुखेन निखातस्य परितो विद्यमानरज्जुभिरध एवापकर्षणेन पतनाभाववदध एवापकर्षणेन शरीरस्य पतनाभावः सिध्यतीत्यर्थः ।
अनुग्रहमिति ।
शरीरधारणलक्षणमित्यर्थः ।
अन्यथेति ।
पृथिवीदेवताया विधारणाकरणे गुरुत्वादपानेनाध आकर्षणाच्च सावकाशे भूम्यादिपतनप्रतिबन्धकाभावस्थले पतेदित्यर्थः ।
अन्तरा यदाकाश इति वाक्यं व्याचष्टे –
यदेतदिति ।
यदिति क्लीबत्वं छान्दसमित्याह –
य आकाश इति ।
मञ्चस्थवदिति ।
मञ्चाः क्रोशन्तीत्यत्र मञ्चशब्देन मञ्चस्था यथा लक्ष्यन्ते तथाऽऽकाशशब्देन तत्स्थो वायुर्लक्ष्यत इत्यर्थः ।
स समान इति ।
सामानाधिकरण्यमनुग्राह्यानुग्राहकयोरभेदोपचारादित्याह –
समानमनुगृह्णान इति ।
एवमुत्तरत्राप्यनुग्रहे हेतुमाह –
समानस्येति ।
शरीरान्तराकाशस्थत्वं समानस्य द्यावापृथिविव्यन्तराकाशस्थत्वं बाह्यवायोरित्यन्तराकाशस्थत्वं तयोस्तुल्यमित्यर्थः ।
वायुर्व्यान इत्यत्र त्वन्तराकाशस्थत्वं विशेषरहितं वायुसामान्येन समुच्चीयत इति न पूर्वाभेद इत्याह –
सामान्येनेति ॥ ८ ॥
तेजो ह वा इति वाक्यं व्याचष्टे –
यद्बाह्यमिति ।
पूर्वमादित्यात्मकं विशेषतेज उक्तमत्र तेजःसामान्यमुच्यत इति न पौनरुक्त्यमित्याह –
सामान्यं तेज इति ।
एवमादित्यादिना रूपेण मुख्यप्राणस्य प्राणापानसमानोदानव्यानानुग्राहकत्वोक्त्याऽध्यात्मं प्राणादिवृत्त्यनुग्राहकत्वमुक्तम् । आदित्याग्न्याकाशसामान्यवायुतेजोरूपी सन्बाह्यमधिदैवमादित्यादिकं धारयतीत्युक्तम् । तद्रूपेणावस्थानमेव तद्धारणं प्राणापानाद्यनुग्रहेण चक्षुराद्यनुग्रहोक्तेस्तद्वारा तद्ग्राह्याधिभूतविधारकत्वमुक्तम् । स प्राणस्तच्चक्षुः सोऽपानः सा वाक्स व्यानस्तच्छ्रोत्रं स समानस्तन्मनः स उदानः स वायुरिति श्रुत्यन्तरे चक्षुरादीनां प्राणाद्यात्मत्वोक्तेश्चक्षुराद्यनुग्राहकत्वोक्त्या चक्षुरादिरूपाध्यात्मविधारकत्वं चोक्तमिति कथं बाह्यमभिधत्ते कथमध्यात्ममित्यस्योत्तरमुक्तमिति द्रष्टव्यम् ।
तेजस उदानवाय्वनुग्राहकत्वं व्यतिरेकप्रदर्शनेन साधयति –
यस्मादिति ।
तस्मात्तेजःस्वभाव उत्क्रान्तिकृदप्युदानवायुर्बाह्यतेजोनुगृहीतः सन्नेव शरीरे वर्तते तस्माज्जीवजीवनहेतुकर्मोपरमे बाह्यतेजोऽनुग्रहाभावेनोपशान्ततेजा मुमूर्षुर्भवतीत्यन्वयः ।
स्वाभाविकमिति ।
जाठराग्निकृतं हस्तादिना स्वशरीरस्पर्शे सत्युष्णत्वेनोपलभ्यमानं तेज इत्यर्थः । भवत्युत्पद्यत इति भवः शरीरमित्यर्थः ।
शरीरान्तरप्रतिपत्तिरात्मनोऽक्रियस्य न भवतीति शङ्कते –
कथमिति ।
इन्द्रियोपाधिवशादित्याह –
सहेति ।
मनसि सम्पद्यमानैरिन्द्रियैः सह शरीरान्तरं प्रतिपद्यत इति पूर्वेणान्वयः ॥ ९ ॥
उक्तशरीरान्तरप्राप्तिमेवोत्क्रान्तिक्रमप्रदर्शनेन स्पष्टीकर्तुं यच्चित्त इत्यादि वाक्यं तदपेक्षिताध्याहारं कुर्वन्व्याचष्टे –
मरणेति ।
यच्चित्त इति ।
यदेव देवतिर्यगादिशरीरं सम्यगिति चित्ते यस्य स यच्चित्त इत्यर्थः ।
प्राणं प्रत्यागमनं लोकव्यवहारेण प्रथयति –
तदेति ।
तेजसा तेजोऽनुगृहीतयोदानवृत्त्येत्यर्थः ।
एवम्भूतो भोक्त्रुदानसंयुक्तः प्राणः कं नयतीत्यपेक्षायां तमेव भोक्तारं नयतीति वदन्वाक्यार्थमाह –
स एवमिति ।
एवकारस्य तमेवेत्यन्वयः ।
यथासङ्कल्पितमिति ।
कर्मज्ञानादिसाधनानुष्ठानदशायां सङ्कल्पितं मरणकाले वासनारूपेण पुनरभिव्यक्तं लोकं देवादिशरीरमित्यर्थः ॥ १० ॥
एवं प्राणस्वरूपं निर्धार्य तदुपासनं विधत्ते –
यः कश्चिदिति ।
उत्पत्त्यादिभिर्यथोक्तविशेषणैर्विशिष्टम् । आत्मनः प्राणो जायते, मनःकृताभ्यां धर्माधर्माभ्यां शरीरं गृह्णाति । आत्मानं च पञ्चधा विभज्य पायूपस्थयोरपानं स्वस्वरूपं प्राणं चक्षुःश्रोत्रियोः, नाभौ समानम्, नाडीसमूहे व्यानम्, उदानं च सुषुम्नायां स्थापयति । उदानेनोत्क्रामति, बाह्यैः प्राणापानव्यानसमानोदानानुग्राहकैरादित्यपृथिवीदेवताकाशवायुतेजोरूपैरधिदैवमादित्यादिकमादित्यादिकृतानुग्रहैरध्यात्मं चक्षुर्वाक्श्रोत्रमनस्त्वक्चक्षुरादिग्राह्यमधिभूतं च धारयति । स एवोदानवृत्त्या भोक्त्रा च युक्तो भोक्तारं लोकान्तरं नयति । स एव च वरिष्ठः प्रजापतिरत्ता चेत्येवं प्राणं वेदेत्यर्थः ।
ऐहिकफलमुक्त्वाऽऽमुष्मिकफलमाह –
पतित इति ।
अमृतत्वं च नात्र मुख्यं किन्तु प्राणसायुज्यमेवेत्याह –
प्राणेति ।
इदं तु कामिनः, निष्कामस्य तु चित्तैकाग्र्यम् । तच्छुद्धिद्वारा मुख्यमेवामृतत्वं भवतीति द्रष्टव्यम् ॥ ११ ॥
आयतिमिति ।
आयातिमित्यर्थः । ह्रस्वत्वं छान्दसम् ॥ १२ ॥