अद्वैतशारदा

आनन्दगिरिटीका (प्रश्न)

तृतीयः प्रश्नः

एवं प्रजा­प­ति­त्वा­त्तृ­त्वा­दि­गु­ण­जातं निर्धार्य प्राण­स्यो­त्प­त्त्यादि निर्धा­र­यं­स्त­दु­पा­सनां विधातुं प्रश्ना­न्त­र­म­व­ता­र­यति –
अथेति ।
वैद­र्भि­प्र­श्ना­न­न्त­र­मि­त्यर्थः ।

प्राणैरिति ।
यैर्वा­गा­दि­प्रा­णै­रा­का­शा­दि­भिश्च प्राणस्य तत्त्वमुपलब्धं तैरित्यर्थः ।

प्राणस्य पूर्वो­क्त­म­हि­म­त्वा­दे­वो­त्प­त्ति­श­ङ्का­भा­वा­त्कुत इति प्रश्ना­नु­प­प­त्ति­मा­श­ङ्क्याऽऽह –
अपि संहतत्वादिति ।
अने­का­त्म­क­त्वा­त्सा­व­य­व­त्वा­दि­त्यर्थः ।

शरीरग्रहणमिति ।
शरीरप्रवेश इत्यर्थः ।

प्रातिष्ठत इति ।
आङ्प्र­श्ले­षा­द्दी­र्घ­त्वम् ॥ १ ॥

विषमेति ।
विषमं दुर्घटं यथा तथा प्रश्नार्ह इत्यर्थः ।

अतिप्रश्नानिति ।
त्वदन्येषां प्रश्ना­न­ति­क्रा­न्ता­न­न्य­दी­य­प्र­श्ना­गो­च­रा­न्सू­क्ष्म­प्र­श्ना­न्प्र­ष्ट­व्या­र्था­नि­त्यर्थः ।

अतिशयेनेति ।
अप­र­ब्र­ह्मा­पे­क्ष­याऽ­ति­श­यि­त­मु­ख्य­ब्र­ह्म­वि­दसि त्वमिति प्रोत्साहार्थं स्तौतीति भावः ॥ २ ॥

“दिव्यो ह्यमूर्तः पुरुषः, अक्षरात्परतः परः”(मु. उ. २ । १ । २) “एतस्माज्जायते प्राणः”(मु. उ. २ । १ । ३) इति मन्त्रावत्र संवादयितुं तद्ग­त­वि­शे­ष­णा­न्याह –
परस्मादिति ।

अत्र दृष्टान्त इति ।
तस्या­नृ­त­त्वार्थं दृष्टान्त उच्यत इत्यर्थः ।

छायेति ।
प्रति­बि­म्बा­दि­रू­पे­त्यर्थः ।

एतस्मिन्निति ।
प्रकृते जनक आत्मनि ब्रह्मणीत्यर्थः ।

कथ­मा­या­ती­त्य­स्यो­त्त­र­माह –
मनोकृतेनेति ।
संधिरार्षः ।

तदेव सक्त इति ।
अस्य कर्मिणो मनो यस्मिन्फले निषक्तं संसक्त आसक्तः संस्तदेव फलं कर्मणा सहैतीति श्रुतौ च शरीरग्रहणं कर्म­सा­ध्य­मु­क्त­मि­त्यर्थः ॥ ३ ॥

आत्मानां वा प्रवि­भ­ज्ये­त्य­स्यो­त्तरं दृष्टान्तेनाऽऽह –
यथेति ।

इतरानिति ।
इत­रां­श्च­क्षु­रा­दी­न्य­था­स्था­न­म­क्ष्या­दि­गो­ल­क­स्थाने सन्निधत्ते सन्निधापयति । आत्म­भे­दा­न्मु­ख्य­प्रा­णस्य वृत्ति­भे­दा­न्प्रा­णा­पा­ना­दी­न्पा­य्वा­दिषु नियुङ्क्त इति । अत्र श्रुत्या नेत्रादीनां चक्षु­रा­दि­स्था­नानां स्पष्ट­त्वा­त्तानि नोक्तानीति द्रष्टव्यम् ॥ ४ ॥
यः कुर्वंस्तिष्ठति तं सन्निधत्ते विनियुङ्क्त इत्यर्थः ।

मध्य इति ।
प्राणा­पा­न­यो­र्मध्ये या नाभिस्तस्यां समानः प्रति­ति­ष्ठ­ती­त्य­न्वयः ।

समा­न­श­ब्दा­र्थ­मुक्तं श्रुत्यारूढं करोति –
एष हीति ।

आत्माग्नाविति ।
आत्मनि शरी­रेऽ­ग्नि­र्जा­ठ­रा­ग्नि­स्त­स्मि­न्नि­त्यर्थः ।

एवं हुतपदबलादन्नस्य हविष्ट्वं जाठ­रा­ग्ने­रा­ह­व­नी­यत्वं प्रक्षेपस्य होमत्वं चोक्त्वा शीर्ष­ण्य­स­प्त­द्वा­रा­न्नि­र्ग­तानां ज्ञाना­ना­म­र्चिष्ट्वं वक्तुं तस्मादेता इति वाक्यं व्याचष्टे –
तस्मादिति ।

प्राप्तादिति ।
अग्ने­रौ­द­र्या­द्धेतोः प्राप्त­प­रि­पा­का­द­न्न­र­सा­द­न्न­ना­डी­द्वारा देहं प्राप्तं नाडीस्थानं हृदयं प्राप्ता­द­न्न­र­सा­दिति शेषः । दर्शनद्वयं श्रवणद्वयं घ्राणद्वयं मुखं चैकं रसनमिति सप्तार्चिषः । जाठ­रा­ग्नि­पा­क­ज­न्या­न्न­र­स­ब­लेन दर्शनादीनां प्रवृत्तेस्तेषु तदर्चिष्ट्वारोप इत्यर्थः ॥ ५ ॥

व्यानस्य नाडीरूपं स्थानं दर्शयितुं नाडी­ना­मु­त्प­त्ति­स्थानं वक्तुमाह –
हृदीत्यादिना ।
हृदयस्य लिङ्गा­त्म­स्था­न­त्वोक्तेः । प्रयोजनं तु केचिद्योगिनो नाभिकन्दस्य नाड्यु­त्प­त्ति­स्था­नत्वं वदन्ति तन्निराकरणं, तत्रैव लिङ्गात्मनः सञ्चरणार्था नाड्यः । नाडीभिः प्रत्य­व­सृ­प्ये­त्या­दि­श्रुतेः । ततश्च लिङ्गात्मनो हृदयस्थानत्वे तत्स­ञ्चा­र­मा­र्ग­भू­त­ना­डी­ना­मपि तदे­वो­त्प­त्ति­स्था­न­म­न्यथा प्रदे­शा­न्त­र­स्थ­ना­डीनां तन्मा­र्ग­त्वा­यो­गा­द्वा­स­प्त­ति­स­ह­स्राणि हृद­या­त्पु­री­त­त­म­भि­प्र­ति­ष्ठन्त इति श्रुतेश्चेति ।

लिङ्ग­श­री­र­स्याऽऽ­त्म­त्व­मा­त्मो­पा­धि­त्वेन तद्योगादित्याह –
आत्मना संयुक्त इति ।

यस्मा­ल्लि­ङ्गात्मा हृदि वर्तते तत्स­ञ्चा­र­मा­र्ग­भू­त­ना­डी­ना­मपि तदेव स्थानमित्याह –
अत्रेति ।
नाडीनां शरीरविधारकत्वेन प्रसिद्धत्वं वक्तुमेतदिति विशेषम् । तस्य स्पष्ट­त्वा­द्भाष्ये न व्याख्यातम् ।

एकैकस्या नाड्याः शाखानाड्यः शतं शतं भवतीत्याह –
तासामिति ।
ततश्च शतोत्तरमयुतं शाखानाड्य इत्यर्थः ।

शाखानाडीनां च प्रत्येकं द्व्यधि­क­स­प्त­ति­स­ह­स्राणि प्रतिशाखानाड्यः सन्तीत्याह –
पुनरपीति ।

सप्ततिरितिपदस्य सङ्ख्या­प्र­धा­नत्वे सहस्राणीत्यस्य तेन सामा­ना­धि­क­र­ण्या­यो­गा­त्ष­ष्ठ्य­न्त­तया व्याचष्टे –
सहस्राणामिति ।

प्रतिशाखेति ।
प्रतिशाखाभ्यो निर्गता अल्पशाखाः प्रतिशाखाः ।

द्वास­प्त­ति­रि­त्यत्र वीप्सार्थमाह –
प्रतिप्रतीति ।
प्रति­प्र­ति­ना­डी­श­त­मि­त्य­न­न्त­र­मे­कै­कस्या इत्यनुषङ्गः । तथा च प्रति­प्र­ति­ना­डी­श­त­मे­कै­कस्या नाड्याः प्रति­शा­खा­ना­डीनां द्वास­प्त­ति­स­ह­स्राणि भवन्तीत्यर्थः । तथा च मूल­शा­खा­प्र­ति­शा­खा­नाड्यो मिलित्वा द्वासप्ततिकोटयो द्वास­प्त­ति­ल­क्षाणि दशसहस्रं च शतद्वयमेका च भवन्तीति द्रष्टव्यम् ।

एवं नाडीरुक्त्वा व्यानस्य तत्स्थानत्वमाह –
आस्त्विति ।

सूक्ष्मासु नाडीषु विद्यमानस्य व्यानस्य कथं व्याप­क­त्व­मि­त्या­शङ्क्य नाडीनां सर्व­दे­ह­व्या­प्ते­स्त­त्स्थ­स्यापि व्यानस्य तद्वारा व्याप्तिरित्याह –
आदित्यादिवेति ।
यथाऽऽ­दि­त्या­द्वि­नि­र्गत्य रश्मयः सर्वतो गतास्तथा हृद­या­त्स­र्व­तो­गा­मिन्यो नाड्यस्ताभिरिति योज्यम् ।

सामान्येन सर्व­श­री­र­व्या­प्ता­वपि विशेषस्थानमाह –
सन्धीति ।

प्राणेति ।
उच्छ्वा­स­नि­श्वा­सयोः प्राणा­पा­न­वृ­त्त्यो­र­भावे व्यान­वृ­त्ति­रु­द्भ­व­ती­त्यर्थः ।

वीर्यवदिति ।
अथ यः प्राणापानयोः सन्धिः स व्यान इत्युक्त्वा यानि वीर्यवन्ति कर्मणि बलवता पुरुषेण साध्यानि धनुरायमनादीनि तान्य­प्रा­ण­न्न­न­पा­न­न्क­रो­तीति श्रुत्य­न्त­रो­क्ते­रि­त्यर्थः ॥ ६ ॥

इदानीमुदानस्य स्थानं वदन्केनोत्क्रमत इत्यस्योत्तरमाह –
या त्विति ।

उभाभ्यां सम­प्र­धा­ना­भ्या­मिति ।
अनेन पुण्याधिक्ये देवलोकं पापाधिक्ये नरकलोकं नयतीति पूर्वं व्याख्यातं भवति ॥ ७ ॥

कथं बाह्यमभिधत्ते कथ­म­ध्या­त्म­मि­त्य­स्यो­त्त­र­माह –
आदित्य इति ।

या देवता प्रसिद्धेति ।
अग्निदेवता पृथिव्येव यस्याऽऽ­य­त­न­म­ग्नि­र्लोक इति श्रुते­र­ग्नि­स­म्ब­द्धा­व­ग­मा­दि­त्यर्थः ।

अव­ष्ट­भ्ये­त्य­न­न्त­र­म­ध्या­हा­रेण वाक्यं पूरयति –
अध एवापकर्षणेनेति ।
वृत्तार्थं स्तम्भा­दे­रू­र्ध्व­मु­खेन निखातस्य परितो विद्य­मा­न­र­ज्जु­भि­रध एवापकर्षणेन पतनाभाववदध एवापकर्षणेन शरीरस्य पतनाभावः सिध्यतीत्यर्थः ।

अनुग्रहमिति ।
शरी­र­धा­र­ण­ल­क्ष­ण­मि­त्यर्थः ।

अन्यथेति ।
पृथिवीदेवताया विधारणाकरणे गुरु­त्वा­द­पा­ने­नाध आकर्षणाच्च सावकाशे भूम्या­दि­प­त­न­प्र­ति­ब­न्ध­का­भा­व­स्थले पतेदित्यर्थः ।

अन्तरा यदाकाश इति वाक्यं व्याचष्टे –
यदेतदिति ।

यदिति क्लीबत्वं छान्दसमित्याह –
य आकाश इति ।

मञ्चस्थवदिति ।
मञ्चाः क्रोशन्तीत्यत्र मञ्चशब्देन मञ्चस्था यथा लक्ष्यन्ते तथाऽऽकाशशब्देन तत्स्थो वायुर्लक्ष्यत इत्यर्थः ।

स समान इति ।

सामा­ना­धि­क­र­ण्य­म­नु­ग्रा­ह्या­नु­ग्रा­ह­क­यो­र­भे­दो­प­चा­रा­दि­त्याह –
समानमनुगृह्णान इति ।

एव­मु­त्त­र­त्रा­प्य­नु­ग्रहे हेतुमाह –
समानस्येति ।
शरी­रा­न्त­रा­का­श­स्थत्वं समानस्य द्यावा­पृ­थि­वि­व्य­न्त­रा­का­श­स्थत्वं बाह्य­वा­यो­रि­त्य­न्त­रा­का­श­स्थत्वं तयो­स्तु­ल्य­मि­त्यर्थः ।

वायुर्व्यान इत्यत्र त्वन्त­रा­का­श­स्थत्वं विशेषरहितं वायुसामान्येन समुच्चीयत इति न पूर्वाभेद इत्याह –
सामान्येनेति ॥ ८ ॥

तेजो ह वा इति वाक्यं व्याचष्टे –
यद्बाह्यमिति ।

पूर्व­मा­दि­त्या­त्मकं विशेषतेज उक्तमत्र तेजः­सा­मा­न्य­मु­च्यत इति न पौन­रु­क्त्य­मि­त्याह –
सामान्यं तेज इति ।
एवमादित्यादिना रूपेण मुख्यप्राणस्य प्राणा­पा­न­स­मा­नो­दा­न­व्या­ना­नु­ग्रा­ह­क­त्वो­क्त्याऽ­ध्यात्मं प्राणा­दि­वृ­त्त्य­नु­ग्रा­ह­क­त्व­मु­क्तम् । आदि­त्या­ग्न्या­का­श­सा­मा­न्य­वा­यु­ते­जो­रूपी सन्बा­ह्य­म­धि­दै­व­मा­दि­त्या­दिकं धारयतीत्युक्तम् । तद्रू­पे­णा­व­स्था­न­मेव तद्धारणं प्राणा­पा­ना­द्य­नु­ग्र­हेण चक्षु­रा­द्य­नु­ग्र­हो­क्ते­स्त­द्वारा तद्ग्रा­ह्या­धि­भू­त­वि­धा­र­क­त्व­मु­क्तम् । स प्राण­स्त­च्चक्षुः सोऽपानः सा वाक्स व्यान­स्त­च्छ्रोत्रं स समानस्तन्मनः स उदानः स वायुरिति श्रुत्यन्तरे चक्षुरादीनां प्राणा­द्या­त्म­त्वो­क्ते­श्च­क्षु­रा­द्य­नु­ग्रा­ह­क­त्वोक्त्या चक्षु­रा­दि­रू­पा­ध्या­त्म­वि­धा­र­कत्वं चोक्तमिति कथं बाह्यमभिधत्ते कथ­म­ध्या­त्म­मि­त्य­स्यो­त्त­र­मु­क्त­मिति द्रष्टव्यम् ।

तेजस उदा­न­वा­य्व­नु­ग्रा­ह­कत्वं व्यति­रे­क­प्र­द­र्श­नेन साधयति –
यस्मादिति ।
तस्मा­त्ते­जः­स्व­भाव उत्क्रा­न्ति­कृ­द­प्यु­दा­न­वा­यु­र्बा­ह्य­ते­जो­नु­गृ­हीतः सन्नेव शरीरे वर्तते तस्मा­ज्जी­व­जी­व­न­हे­तु­क­र्मो­प­रमे बाह्य­ते­जोऽ­नु­ग्र­हा­भा­वे­नो­प­शा­न्त­तेजा मुमू­र्षु­र्भ­व­ती­त्य­न्वयः ।

स्वाभाविकमिति ।
जाठराग्निकृतं हस्तादिना स्वशरीरस्पर्शे सत्यु­ष्ण­त्वे­नो­प­ल­भ्य­मानं तेज इत्यर्थः । भवत्युत्पद्यत इति भवः शरीरमित्यर्थः ।

शरी­रा­न्त­र­प्र­ति­प­त्ति­रा­त्म­नोऽ­क्रि­यस्य न भवतीति शङ्कते –
कथमिति ।

इन्द्रि­यो­पा­धि­व­शा­दि­त्याह –
सहेति ।
मनसि सम्प­द्य­मा­नै­रि­न्द्रियैः सह शरीरान्तरं प्रतिपद्यत इति पूर्वेणान्वयः ॥ ९ ॥

उक्त­श­री­रा­न्त­र­प्रा­प्ति­मे­वो­त्क्रा­न्ति­क्र­म­प्र­द­र्श­नेन स्पष्टीकर्तुं यच्चित्त इत्यादि वाक्यं तद­पे­क्षि­ता­ध्या­हारं कुर्व­न्व्या­चष्टे –
मरणेति ।

यच्चित्त इति ।
यदेव देव­ति­र्य­गा­दि­श­रीरं सम्यगिति चित्ते यस्य स यच्चित्त इत्यर्थः ।

प्राणं प्रत्यागमनं लोकव्यवहारेण प्रथयति –
तदेति ।
तेजसा तेजोऽ­नु­गृ­ही­त­यो­दा­न­वृ­त्त्ये­त्यर्थः ।

एवम्भूतो भोक्त्रु­दा­न­सं­युक्तः प्राणः कं नय­ती­त्य­पे­क्षायां तमेव भोक्तारं नयतीति वद­न्वा­क्या­र्थ­माह –
स एवमिति ।
एवकारस्य तमेवेत्यन्वयः ।

यथा­स­ङ्क­ल्पि­त­मिति ।
कर्म­ज्ञा­ना­दि­सा­ध­ना­नु­ष्ठा­न­द­शायां सङ्कल्पितं मरणकाले वासनारूपेण पुनरभिव्यक्तं लोकं देवा­दि­श­री­र­मि­त्यर्थः ॥ १० ॥

एवं प्राणस्वरूपं निर्धार्य तदुपासनं विधत्ते –
यः कश्चिदिति ।
उत्प­त्त्या­दि­भि­र्य­थो­क्त­वि­शे­ष­णै­र्वि­शि­ष्टम् । आत्मनः प्राणो जायते, मनःकृताभ्यां धर्माधर्माभ्यां शरीरं गृह्णाति । आत्मानं च पञ्चधा विभज्य पायूपस्थयोरपानं स्वस्वरूपं प्राणं चक्षुः­श्रो­त्रियोः, नाभौ समानम्, नाडीसमूहे व्यानम्, उदानं च सुषुम्नायां स्थापयति । उदा­ने­नो­त्क्रा­मति, बाह्यैः प्राणा­पा­न­व्या­न­स­मा­नो­दा­ना­नु­ग्रा­ह­कै­रा­दि­त्य­पृ­थि­वी­दे­व­ता­का­श­वा­यु­ते­जो­रू­पै­र­धि­दै­व­मा­दि­त्या­दि­क­मा­दि­त्या­दि­कृ­ता­नु­ग्र­है­र­ध्यात्मं चक्षु­र्वा­क्श्रो­त्र­म­न­स्त्व­क्च­क्षु­रा­दि­ग्रा­ह्य­म­धि­भूतं च धारयति । स एवोदानवृत्त्या भोक्त्रा च युक्तो भोक्तारं लोकान्तरं नयति । स एव च वरिष्ठः प्रजापतिरत्ता चेत्येवं प्राणं वेदेत्यर्थः ।

ऐहि­क­फ­ल­मु­क्त्वाऽऽ­मु­ष्मि­क­फ­ल­माह –
पतित इति ।

अमृतत्वं च नात्र मुख्यं किन्तु प्राण­सा­यु­ज्य­मे­वे­त्याह –
प्राणेति ।
इदं तु कामिनः, निष्कामस्य तु चित्तैकाग्र्यम् । तच्छुद्धिद्वारा मुख्य­मे­वा­मृ­तत्वं भवतीति द्रष्टव्यम् ॥ ११ ॥

आयतिमिति ।
आयातिमित्यर्थः । ह्रस्वत्वं छान्दसम् ॥ १२ ॥