अद्वैतशारदा

आनन्दगिरिटीका (प्रश्न)

चतुर्थः प्रश्नः

एवं कर्म­वि­द्या­ग­ति­श्र­व­णेन विरक्तस्य प्राणविद्यया चित्तै­का­ग्र्य­त­च्छु­द्धि­म­तोऽत एव साधनचतुष्टयवतो मुख्याधिकारिणः पर­वि­द्यो­क्त्यर्थं प्रश्न­त्र­य­मा­र­भते –
अथ हैनमिति ।

पूर्व­वि­द्य­यै­वा­मृ­त­त्वो­क्ते­रु­त्त­र­प्र­श्ना­रम्भो व्यर्थ इत्यत आह –
प्रश्नत्रयेणेति ।

संसारमिति ।
अतो न तन्मु­ख्य­म­मृ­त­त्व­मि­त्यर्थः ।

तस्य संसारत्वे व्याकृतत्वं हेतुमाह –
व्याकृतविषयमिति ।
व्याकृताश्रयं तद­न्त­र्ग­त­मि­त्यर्थः ।

साध्य­सा­ध­न­ल­क्ष­ण­मिति ।
साध्य­सा­ध­न­स­म्ब­न्धेन लक्ष्य­तेऽ­भि­व्य­जत उत्पद्यत इति तथा । यद्वाऽ­प­र­ब्र­ह्मणः प्राणस्य साध्य­सा­ध­नो­भ­या­त्म­क­त्वाद्वा तथा । तस्मा­द­नि­त्य­मि­त्य­तोऽपि संसा­र­त्व­मि­त्यर्थः ।

वक्ष्यमाण आत्मा तु न तथेत्याह –
असाध्येत्यादिना ।

अती­न्द्रि­य­वि­ष­य­मिति ।
इन्द्रि­य­वि­ष­य­त्व­म­ति­क्रा­न्त­मि­त्य­व्या­कृ­त­म­का­र्य­मि­त्यर्थः ।

तत्र हेतुः –
अप्राणमिति ।
प्राणागोचरत्वेन तदा­त्म­क­क­र्मे­न्द्रि­या­गो­च­रत्वं मनोगोचरत्वेन ज्ञाने­न्द्रि­या­गो­च­र­त्व­मु­क्तम् ।

सुखरूपतामाह –
शिवमिति ।

निवृ­त्ता­न­र्थ­त्व­माह –
शान्तमिति ।

तत्र भाव­वि­का­र­र­हि­तत्वं हेतुमाह –
अविकृतमिति ।
अने­नो­त्प­त्ति­प­रि­णा­म­वृ­द्धयो निषिद्धाः । अक्ष­र­मि­त्य­प­क्ष­य­वि­नाशौ निषिद्धौ । उत्पत्तिनिषेधेन तद­न­न्त­र­भा­व्य­स्तित्वं निषिद्धम् । अत्र सर्वत्र हेतुः ।

सत्यमिति ।
काल­त्र­येऽ­प्ये­क­रू­प­मि­त्यर्थः ।

तत्र “अथ परा यया तद­क्ष­र­म­धि­ग­म्यते”(मु. उ. १ । १ । ५) इत्यादि वाक्यं मानमाह –
पर­वि­द्या­ग­म्य­मिति ।

दिव्यो ह्यमूर्तः पुरुष इति मन्त्रमप्याह –
पुरुषाख्यमिति ।

कथं पुरुषशब्दोदितं पूर्णत्वं बाह्या­भ्य­न्त­र­व­स्तु­भे­दा­दत आह –
सबाह्येति ।
स एव बाह्या­भ्य­न्त­रा­त्म­क­स्त­द्व्य­ति­रे­केण तदुभयं नास्तित्यर्थः ।

प्रश्नत्रयमिति ।
यद्यपि पञ्चमः प्रश्नोऽ­प­र­वि­द्या­वि­षय एव प्रण­वो­पा­स­न­वि­ष­य­त्वा­त्त­थाऽपि तस्य क्रम­मु­क्ति­फ­ल­त्वेन निर्वि­शे­षा­त्म­न्येव सवि­शे­ष­ब्र­ह्म­प्रा­प्ति­द्वारा पर्यवसनात्सोऽपि परविषय एवेति भावः ।

एवं सामान्येन प्रश्न­त्र­य­स्यापि सम्बन्धमुक्त्वा चतुर्थप्रश्नस्य प्राति­स्वि­क­स­म्ब­न्ध­माह –
तत्रेति ।
यस्मादित्यस्य किंलक्षणं वा तदक्षरमिति तच्छब्देनान्वयः ।

उक्तमिति ।
यथा सुदी­प्ता­त्पा­व­का­द्वि­स्फु­लिङ्गाः सहस्रशः प्रभवन्ते सरू­पा­स्त­थाऽ­क्ष­रा­द्वि­विधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्तीति मन्त्रे­णे­त्यर्थः ।

एतद्विवक्षयेति ।
मन्त्रो­क्ता­र्थ­वि­स्ता­रा­नु­वा­दि­त्वा­दस्य ब्राह्मणस्येति भावः । अत्रा­क्ष­र­स्व­रू­प­स्यैव विव­क्षि­त­त्वा­त्त­न्नि­र्ण­यार्थं कानि स्वप­न्ती­त्या­दि­प्रश्नो जागरितादिनां धर्मि­वि­शे­ष­नि­र्धा­र­णार्थः, अन्यथा तेषा­मा­त्म­ध­र्म­त्व­श­ङ्कायां तन्नि­र्वि­शे­ष­त्व­नि­र्ण­या­सिद्धेः । भावानां स्वरू­प­वि­भा­गा­दि­वि­वक्षा तु ताः पुनः पुनरुदयतः प्रचरन्तीति दृष्टा­न्त­ब­ला­द्य­त्रै­की­भा­व­स्ततो विभागेन निर्ग­म­न­मि­त्य­क्षर एकीभूतानां पृथि­व्या­दि­का­र्य­क­र­णा­ना­म­क्ष­रा­द्वि­भा­ग­प्र­ती­ते­स्ता­व­न्मा­त्रेण भाष्य उक्तेति द्रष्टव्यम् । तत्राऽऽ­द्य­प्र­श्नेन जागरितस्य धर्मी पृष्टः । स्वप्ने यस्य व्यापारोपरमे जागरितं नास्ति स तस्य धर्म इति निश्चेतुं शक्यत्वात् । द्विती­ये­ना­व­स्था­त्र­येऽपि शरीररक्षणं कस्य धर्म इति पृष्टम् । जाग्र­तोऽ­नु­प­र­त­व्या­पा­रस्य प्राणस्य देह­र­क्ष­क­त्वो­प­पत्तेः । तृतीयेन स्वप्नस्य धर्मी पृष्टः । चतुर्थेन सुषुप्तिधर्मी, सुख­म­ह­म­स्वा­प्स­मिति सुप्तोत्थितस्य परामर्शे सुखस्य सुषु­प्ति­स­म्ब­न्धा­व­ग­मात् । पञ्च­म­प्र­श्ने­ना­व­स्था­त्र­य­वि­नि­र्मु­क्त­म­व­स्था­त्र­य­प­र्य­व­सा­न­भू­मि­रूपं तुरीयमक्षरं पृष्टमिति विवेकः ।

कार्येति ।
कार्यं शरीरं प्राणो वा, करणानि मनआदीनि ।

पदार्थानुक्त्वा वाक्यार्थं पिण्डीकृत्याऽऽह –
तत्किमिति ।
तत्पदं पूर्वापरयोः सम्बध्यते ।

प्रसन्नमिति ।
विष­य­स­म्प­र्क­का­लु­ष्य­रा­हि­त्यम् ।

निरायासेति ।
निरायासेन विक्षे­पा­भा­व­मा­त्रेण लक्ष्य­तेऽ­भि­व्य­ज्यते निर्वा­त­स्था­पि­त­दी­पा­लो­क­व­द­ना­बाधं विनाशरहितं सत्य­मा­त्म­स्व­रू­प­मि­त्यर्थः ।

एतदिति ।
सुषुप्ते प्रकाशमानं सुख­म­ह­म­स्वा­प्स­मि­ति­प­रा­म­र्श­मू­ल­भू­त­मि­त्यर्थः ।

तस्मिन्काल इति ।
यद्यपि पञ्चमेन प्रश्नेन तुरीयं पृच्छ्यते न सुषु­प्ति­स्त­थाऽपि संसारदशायां सर्वो­पा­धि­र­हि­त­तु­री­या­व­स्था­भा­वेन विवेकत एव तस्य प्रद­र्श­नी­य­त्वा­त्त­त्सु­षु­प्ता­व­ज्ञाने सत्य­पी­त­रो­पा­धि­रा­हि­त्येन तत्रैव सर्वो­पा­धि­वि­वे­क­क­र­णेन तुरी­य­प्र­द­र्श­नस्य सुकरत्वात्तस्मिन्काले तुरी­य­प्र­द­र्श­नार्थं सर्व­स­म्प्र­ति­ष्ठो­क्तेति –

सम्यगेकीभूता इति ।
तदा­त्म­भा­व­प्राप्त्या विलयं गता इत्यर्थः ।

मधुनि रसवदिति ।
यथा नानापुष्परसा मधुन्येकी भवन्ति तद्वदित्यर्थः ।

विवे­का­भा­व­मा­त्रेण दृष्टा­न्ता­वुक्तौ, तत्र सर्वात्मना लयाभावादित्याह –
विवेकानर्हा इति ।
पूर्वं विवेकानर्हाः सन्तः पञ्चा­त्स­म्प्र­ति­ष्ठिता इत्यर्थः । न चानेनापि प्रश्ने­ना­वि­द्या­वा­स­ना­भि­र­वि­विक्तः सौषुप्त एव पृष्ट इति शङ्क्यम् । पर आत्मन्यक्षरे सम्प्रतिष्ठन्त इति वक्ष्य­मा­ण­त्वा­त्सु­षुप्ते चाज्ञान एव सम्प्र­ति­ष्ठा­ना­देष हि द्रष्टे­त्या­द्य­ज्ञा­न­प्र­ति­बि­म्बि­तस्य भोक्तुरपि सम्प्रतिष्ठाया अभि­धा­स्य­मा­न­त्वा­द­च्छा­य­मि­त्य­ज्ञा­ना­भा­वो­क्तेश्च तुरीयमेव पृष्टमिति भावः । ननु कार्य­का­र­ण­व्य­ति­रिक्ते सम्प्र­ति­ष्ठा­ना­धि­क­रणे सामान्येन कस्मिंश्चिदवगते कस्मि­न्स­म्प्र­ति­ष्ठिता इति विशेषप्रश्नो घटते । न च तस्यावगतिरस्ति । न च सम्प्र­ति­ष्ठा­नस्य साधिकरणत्वेन सामा­न्ये­ना­धि­क­र­णा­व­ग­ति­र­स्तीति वाच्यम् । तत्त­दु­पा­दा­ना­ना­मे­वा­चे­त­नानां तदधिकरणत्वेन तदतिरिक्तस्य चेत­न­स्या­सि­द्धि­रिति शङ्कते ।

नन्विति ।
दात्रं नाम सस्यादिलवणार्थः शस्त्रविशेषः ।

स्वात्मनीति ।
सोपादान इत्यर्थः ।

सुषु­प्त­पु­रु­षाणां करणानामिति ।
सुषु­प्त­पु­रु­षाणां यानि करणानि तेषामित्यर्थः । एष हि द्रष्टेत्यादिना पुरु­षा­णा­म­प्ये­की­भा­वस्य वक्ष्य­मा­ण­त्वाद्वा पुरु­षा­णा­मि­त्यु­क्तम् । अस्मिन्पक्षे करणानां चेति चकारो द्रष्टव्यः । प्रष्टुः शङ्कायाः कुतः प्राप्ति­रि­त्य­न्वयः ।

संहतानां परार्थत्वेन व्यापृ­त­त्वा­त्सं­ह­त­त्वेन हेतुना परस्मिंश्चेतने सामान्येनावगते प्रष्टु­र्वि­शे­ष­प्रश्नो युक्त इत्याह –
युक्तैव त्विति ।
स्वाम्यर्थानि सङ्घा­ता­भि­मा­न्य­र्था­नी­त्यर्थः ।

आशङ्कानुरूप इति ।
मनसि विद्य­मा­ना­श­ङ्का­नु­रूपो वाचिकः प्रश्न इत्यर्थः ।

अत्र सम्प्र­ति­ष्ठा­न­वि­शिष्ट आत्मा न पृष्टः किन्तु तदुपलक्षितः केवल आत्मा पृष्ट इति व्याक्य­ता­त्प­र्य­माह –
अत्र त्विति ।
भवन्तीत्यनन्तरं पृष्टमिति शेषः ॥ १ ॥

यत्त्वया पृष्टं तच्छृ­ण्वि­त्य­न्वयः । तस्यैवार्कस्य ता मरीचय इत्यन्वयः ।
विकीर्यन्त इति ।
दशदिक्षु क्षिप्यन्त इत्यर्थः ।

स्वप्नेऽपि चक्षु­रा­दि­व्या­पा­रो­प­ल­ब्धे­रे­की­भा­वोऽ­सिद्ध इत्याशङ्क्य वास­ना­म­ये­न्द्रि­य­व्या­प­रो­प­ल­ब्धा­वपि बाह्य­श­ब्दा­दि­श्र­व­णा­दि­व्या­पा­रा­भा­वेन तं साधयितुं तेनेति वाक्यं व्याख्याति –
यस्मादिति ।
श्रोत्रा­दी­ना­मे­की­भावो नाम स्वस्वव्यापारं विहाय मन­स्त­न्त्र­त­याऽ­व­स्था­न­मात्रं न तु मुख्यमेकत्वं तेषां मनः­प्र­कृ­ति­क­त्वा­भा­वे­ना­प्र­कृतौ तद­नु­प­प­त्ते­रि­त्य­भि­प्रे­त्ये­व­कारः प्रयुक्तः ।

नेयायत इति ।
इणो गत्यर्थस्य यङन्तस्य रूपमेतन्न गच्छतीत्यर्थः ॥ २ ॥

कानि स्वपन्तीत्यस्य सविषयाणि बाह्यकारणानि स्वप­न्त्यु­प­र­म­न्तेऽ­त­स्ते­षा­मेव जागरणं धर्म इत्यु­त्त­र­मुक्त्वा कानि जाग्र­ती­त्य­स्यो­त्त­र­माह –
सुप्तवत्स्विति ।

प्राणा­ना­म­ग्नित्वं गौणमित्याह –
अग्नय इवेति ।

अपानस्य गार्हपत्यत्वे यद्गा­र्ह­प­त्या­त्प्र­णी­यते प्रणयनादितीदं वाक्यं व्यवहितापि हेतुत्वेन योजयति –
यस्मादिति ।

प्रणयनादिति पदं गार्ह­प­त्य­वि­शे­ष­ण­मि­त्याह –
प्रणयनो गार्हपत्य इति ।

तत्सदृशमाहवनीयः प्राण इति वाक्यं सादृ­श्या­भि­ध्या­न­पूर्वं व्याचष्टे –
तथेति ।
गार्ह­प­त्य­त्वे­नो­क्तेऽ­पा­नेऽ­न्त­र्ग­च्छति सति बहि­र्ग­च्छ­न्प्रा­ण­स्ततो निर्गच्छत इव लक्ष्यत इति प्राण आवहनीय इत्यर्थः ।

परित्यक्तं व्यानोऽ­न्वा­हा­र्य­प­चन इति वाक्यमिदानीं व्याचष्टे –
व्यानस्त्विति ।
छान्दोग्ये गाय­त्री­वि­द्यायां तस्य वा एतस्य हृदयस्य पञ्च देवसुषय इत्युपक्रम्याथ योऽस्य दक्षिणः सुषिः स व्यान­स्त­च्छ्रो­त्र­मि­त्य­नेन व्यानस्य दक्षिणसुषितो निर्ग­म­न­मु­क्त­मि­त्य­स्या­ना­हा­र्य­प­च­न­सा­दृश्यं दक्षि­ण­दि­क्स­म्ब­न्धित्वं व्यानस्येति व्यानोऽ­न्वा­हा­र्य­प­चन इत्यर्थः ॥ ३ ॥

अत्र चेति ।
अग्निहोत्रस्य होता होमस्य कर्ता, ऋत्विगुच्यते उत्तरवाक्येनेति शेषः ।

अत्रो­च्छ्वा­स­नि­श्वा­स­यो­रा­हु­ति­त्वस्य पूर्व­म­सि­द्ध­त्वेन सिद्ध­व­न्नि­र्दे­शा­यो­गात्स समान इति तच्छ­ब्दा­न­न्व­याच्च वाक्यत्रयं कृत्वाऽ­न्व­य­त्र­येण योजयति –
यद्यस्मादिति ।
उच्छ्वा­स­नि­श्वा­सा­वि­त्य­न­न्त­र­मा­हुती इति पदं भाष्येऽ­ध्या­हृ­त्यै­ता­वु­च्छ्वा­स­निः­श्वा­सा­वा­हुती आह­व­नी­या­धि­क­र­णा­ग्नि­हो­त्रा­हु­तीव द्वित्व­सा­म्या­दे­वे­त्ये­कोऽ­न्वयः । अनन्तरं भाष्ये तुशब्दश्चार्थे । श्रुतिगत इति­श­ब्द­स्त­स्मा­दि­त्यर्थे । यस्मादेतावाहुती यस्माच्चैतौ समं नयति शरीरस्थितिभावाय साम्येन नयति प्रवर्तयति यो वायु­र्य­थाऽ­ग्नि­होत्रे होम­क­र्ताऽऽ­हु­ति­द्व­य­मा­ह­व­नीयं प्रति समं नयति प्रापयति तद्व­त्त­स्मा­दा­हु­त्यो­र्ने­तृ­त्वात्स वायुर्होतेति यच्छ­ब्द­हो­तृ­श­ब्दा­ध्या­हा­रेण द्वितीयोऽन्वयः । कोऽसौ वायुरिति तद्विशेषप्रश्ने स होता वायुः स समान इति तृतीयोऽन्वय इति विभागः ।

ननु प्राणाग्नय इत्यत्र सर्वेषां प्राणा­ना­म­ग्नि­त्वोक्तेः कथमिह समानस्य होतृत्वमुच्यत इत्या­श­ङ्क्यो­क्तम् –
अग्नि­स्था­नी­योऽ­पीति ।
अग्नि­त्वे­नो­क्तोऽ­पीति भावः ।

होता चेति ।
चकारोऽवधारणे, होतैवेत्यर्थः । आहु­ति­ने­तृ­त्वा­द्धो­तृत्वे स्थितेऽ­ग्नि­त्वो­क्ति­श्छ­त्रि­न्या­ये­ना­ग्न्य­न­ग्नि­स­मु­दाये लाक्ष­णि­की­त्यर्थः ।

अव­स्था­त्र­य­व­र्ति­ना­मु­च्छ्वा­स­नि­श्वा­स­प्रा­णानां चाग्नि­हो­त्रा­व­य­व­त्व­स­म्पा­दा­नस्य नोपासनं प्रयोजनं निर्वि­शे­षा­त्म­प्र­क­र­ण­त्वा­त्त­द्वि­ध्य­द­र्श­नाच्च, किं त्विन्द्रि­या­ण्यु­प­र­मन्ते प्राणा जाग्रतीत्येवं त्वम्प­दा­र्थ­शो­ध­न­रू­पस्य ज्ञानस्य स्तुतिरेवेत्याह –
अतश्चेति ।

सर्वदेति ।
वाजसनेयके हि वाक्चितः प्राण­श्चि­त­श्च­क्षु­श्चित इत्यादिना सर्व­प्रा­ण­व्या­पा­रेषु प्रत्ये­क­म­ग्नि­चि­त­त्व­दृष्टिं विधा­यै­व­न्दृ­ष्टि­मतः सर्वाणि भूतान्तस्य स्वापकालेऽपि चयनं कुर्वन्तीति सा दृष्टिः स्तुता तद्व­दि­हा­पी­त्यर्थः ।

अत्र हीति ।
अत्र मनो यजमानः कल्प्यत इति व्यवहितान्वयः ।

तत्कल्पनायां हेतुद्वयमाह –
यजमानवदिति ।
हेतुद्वयं साधयति ।

जाग्रत्स्विति ।
अत्र स्वप्नकाले विषयान्करणानि चोपसंहृत्य मनो जागर्ति, प्राधान्येन स्वव्यापारं कुर्वद्वर्तते । अग्निहोत्रफलं स्वर्गं जिगमिषुर्यजमान इव सुषुप्तिकाले स्वर्गरूपब्रह्म जिगमिषु च मन इत्यन्वयः । भाष्ये यजमान इत्य­न­न्त­र­मि­व­शब्दो द्रष्टव्यः । हवावशब्देन तत्प्र­सि­द्ध­मि­त्यु­क्तम् ।

इष्टेति ।
उदा­न­नि­मि­त्त­क­म­र­णा­न्तरं यागा­दि­फ­ल­प्रा­प्ते­स्तस्य तन्नि­मि­त्त­त्वा­त्का­रणे कार्यो­प­चा­रा­दु­दान इष्टफलत्वेन कल्प्यत इत्यर्थः । न केवलं मरणद्वारा याग­फ­ल­प्रा­प­क­त्व­मु­दा­नस्य किं त्वेत­स्यै­वाऽऽ­न­न्द­स्या­न्यानि भूतानि मात्रा­मु­प­जी­व­न्तीति श्रुतेः सर्वयागफलानामपि ब्रह्मा­त्म­क­त्वा­त्त­द्ब्र­ह्म­प्रा­प­क­त्वा­दपि ।

अह­र­ह­रि­ष्ट­फ­ल­प्रा­प­क­त्व­मु­दा­न­स्येति प्रश्नपूर्वकमाह –
कथमिति ।

स्वर्गमिवेति ।
स्वर्ग­मे­वे­त्यर्थः । स्वर्ग­या­ग­फ­ला­त्म­क­स्व­रू­प­मेव ब्रह्माक्षरं गमयतीत्यर्थः । यद्य­प्य­ह­र­ह­र्ब्र­ह्म­प्रा­प्तिर्न यागसाध्या यागरहितानामपि तत्प्रा­प्ते­स्त­थाऽपि ब्रह्मण एव सर्वयागफलत्वेन तत्प्रा­प­क­स्यो­दा­न­स्ये­ष्ट­फ­ल­प्रा­प­क­त्व­म­स्तीति भावः । न चोदानस्य कथं तत्प्रा­प­क­त्व­मिति शङ्क्यम् । तस्य सुषु­म्ना­ना­डी­चा­रि­त्वेन स मनस्तन्नाडीं प्रवे­श­यं­स्त­द्गतं ब्रह्म प्राप­य­ती­त्यु­प­पत्तेः ॥ ४ ॥

ननु गार्हपत्यो वा एषोऽपान इत्यारभ्य मनो ह वाव यजामान इत्यन्तेन ग्रन्थेन विद्वानकर्मी न भवतीति स्तूयत इत्यु­क्त­म­स्त्वेवं तत्रा­ग्नि­हो­त्रा­दि­क­र्म­प्र­ती­ते­रु­दा­नस्य याग­फ­ल­स्था­नी­य­त्वो­क्तेस्तु न तत्फलत्वं तत्र कर्माप्रतीतेरत आह –
एवं विदुष इति ।

विद्वत्तेति ।
श्रोत्रादीनि स्वप्न उपरमन्ते प्राणा एव जाग्र­ती­त्ये­वं­रूपा विद्येत्यर्थः । अस्याश्च विद्याया जागरणं श्रोत्रा­दि­बा­ह्ये­न्द्रि­य­धर्मः शरीररक्षणं प्राणधर्मो नाऽऽत्मधर्म इत्येवं त्वम्प­दा­र्थ­वि­वे­क­रू­प­त्वा­त्स्तो­त­व्य­त्वो­प­पत्तिः । अत एव प्राण­ज­ग­र­ण­स्या­वि­द्व­त्सा­धा­र­ण­त्वा­त्कथं विद्वत्तास्तुतिरित्यपि शङ्का निरस्ता तस्यै­व­म्भू­त­वि­वे­का­भा­वा­दिति ।

ननु विद्या­प्र­क­र­ण­त्वा­दस्य विदुषः श्रोत्रा­द्यु­प­र­मा­दिकं सर्वं भवतीति विधीयतां किं स्तुत्ये­त्या­शङ्क्य विद्व­द­वि­द्व­त्सा­धा­र­ण्येन स्वयमेव भवतो न विधेयत्वमित्याह –
न हीति ।

विद्व­त्ता­स्तु­ति­रे­वेति ।
श्रोत्रादिकं परे देवे मनस्येकी भवति प्राणाग्नयो जाग्रतीत्यत्र पदार्थविवेकरूपं ज्ञानं विवक्षितं तज्ज्ञानं गार्हपत्यो वा एषोऽपान इत्यादिना स्यूयत उक्त­प्र­का­रे­णे­त्यर्थः ।

तृती­य­प्र­श्नो­त्त­र­त्वेन कतर एष इत्यादि सर्वः पश्यन्तीत्यन्तं व्याचष्टे यदिति। कतर इति। अत्रेति श्रौतं गृहीत्वा व्याचष्टे –
उप­र­ते­ष्वि­त्या­दि­नाऽ­न्त­राल इत्यन्तेन ।

अनेकेति ।
विष­य­वि­ष­या­द्य­ने­क­भा­व­ग­म­न­मि­त्यर्थः । इदं च मह­त्व­व्या­ख्या­नम् ।

स्वप्न­द्र­ष्टु­र्जी­वस्य स्वातन्त्र्ये वक्तव्ये देव­श­ब्दि­त­म­न­स­स्त­दुक्तिः स्वप्नो मनोधर्मो नाऽऽत्मधर्मम् आत्मनि तु तदारोपमात्रं लोकस्येति ख्यापनार्थेति शङ्का­प­रि­हा­रा­भ्या­माह –
नन्विति ।

मनउपाधिकृतमिति ।
बाह्ये­न्द्रि­य­यु­क्त­म­न­उ­पा­धि­कृतं जागरणं केवलमनउपाधिकृतः स्वप्न इत्यर्थः । स्वप्नस्य धीश­ब्द­वा­च्य­म­नः­प­रि­णा­म­त्वात् । स्वप्नो भूत्वेति श्रुतौ सामा­ना­धि­क­र­ण्य­नि­र्देश इति द्रष्टव्यम् । नन्वियं श्रुति­र्वि­भू­त्य­नु­भ­वेन मनः­स्वा­तन्त्र्यं वक्तुं न शक्नोति श्रुत्य­न्त­र­वि­रो­धा­पत्तेः । अतोऽत्र देवशब्देन क्षेत्रज्ञ एवोच्यते । तस्यैव स्वतः स्वात­न्त्र्य­मिति शङ्कते ।

मन इति ।

स्वय­ञ्ज्यो­ति­ष्ट्व­मिति ।
स्वय­ञ्ज्यो­ति­ष्ट्व­बो­ध­क­श्रु­ति­रि­त्यर्थः । अन्यथा द्वितीयसत्वेऽपि दीपादीनामिव वास्तवस्य तस्य बाधा­भा­वा­दि­त्यत्र किं मनसः सत्त्वे ज्योतिरन्तरस्य मनसो विद्य­मा­न­त्वा­दा­त्मनः स्वयं­ज्यो­ति­ष्ट्व­बो­धनं न शक्यमिति श्रुतेः कार्यस्य बोधनस्य बाधोऽभिप्रेत उत तद्बो­ध­न­रू­प­का­र्य­सि­ध्यर्थं मनसोऽभावोऽपि विवक्षितः श्रुतौ । ततश्च तत्सत्त्वे श्रुत्यर्थबाध इति वा । नाऽऽद्यः ।

मनसि सत्यप्येवं तर्हीति वक्ष्यमाणरीत्या मनसो दृश्यत्वेन ज्योति­ष्ट्वा­यो­गे­नाऽऽ­त्मन एव स्वयं­ज्यो­ति­ष्ट्वस्य बोधयितुं शक्यत्वादित्याह –
तन्नेति ।

न द्वितीयः, तदानीं मनसोऽभावस्तु श्रुत्यर्थम् एव न भवतीत्याह –
श्रुत्यर्थेति ।

आत्मनि ज्योति­ष्ट्व­बो­ध­ना­त्म­क­व्य­व­हा­रस्य प्राका­श्या­दि­सा­पे­क्ष­त्वा­त्त­स्मि­न्स­त्येव तद्बोधसाधने मनआदौ च सत्येव तद्बोधयितुं शक्यते नान्यथेति मनआद्यभावो न श्रुतौ विवक्षितः, तथा सति तद्बो­ध­ना­श­क्ते­रि­त्याह –
यस्मादिति ।

तत्र मानमाह –
यत्र वेति ।

द्वितीयाभावे व्यवहारो नास्तीत्यत्रापि मानमाह –
मात्रेति ।
दृश्यं मात्राशब्दार्थः । असंसर्ग इति च्छेदः । दृश्यासंसर्गे सुषुप्तौ विशे­ष­वि­ज्ञा­ना­भा­वोक्त्या द्वितीयाभावे व्यवहारो नास्तीत्यर्थः ।

अतो न द्वितीयः कल्पः सम्भवतीत्याह –
अत इति ।

ननु यदि स्वयं­ज्यो­ति­ष्ट्व­बो­ध­नार्थं मनआद्यभावो नापेक्षितो जागरितेऽपि तर्हि तद्बो­ध­न­स­म्भ­वा­द­त्रेति स्वप्न­वा­चि­वि­शे­ष­ण­म­न­र्थ­क­मिति शङ्कते –
नन्विति ।
किं विशे­ष­ण­ब­ला­न्म­न­सोऽ­भावः सिषाधयिषितः उत विशेषणस्य गतिमात्रं पृच्छ्यते । नाऽऽद्यः ।

मन­सोऽ­भा­वा­ङ्गी­का­रेऽ­प्य­न्त­र्हृ­द­या­का­शस्य तत्कृ­त­प­रि­च्छे­दस्य च श्रुति­सि­द्ध­त्वेन त्वन्मतेऽपि तत्र स्वयं­ज्यो­ति­ष्ट्व­बो­ध­ना­स­म्भ­वा­द्वि­शे­ष­णा­न­र्थक्यं तुल्यमित्याह –
अत्रोच्यत इति ।
परि­च्छे­दोऽ­धि­कोऽ­त्रेति तरपः प्रयोगः ।

स्वयं­ज्यो­ति­ष्ट्व­मिति ।
तद्बो­ध­न­मि­त्यर्थः ।

यथाश्रुते वास्तवस्य तस्य बाध­स्या­ना­श­ङ्क्य­त्वा­दिति । यद्यपि स्वप्नेऽ­न्त­र्हृ­द­या­का­श­स­त्त्वा­त्स­म्य­क्स्व­यं­ज्यो­तिष्ट्वं बोधयितुं न शक्यमिति दोष­स्तु­ल्य­स्त­थाऽपि स्वप्ने मनसोऽभावेन तद्बो­ध­न­प्र­ति­ब­न्ध­क­स्या­भा­वा­द­दू­र­वि­प्र­क­र्षेण स्वयं­ज्यो­तिष्ट्वं स्वप्ने बोधयितुं शक्यमिति तद्वि­शे­ष­ण­म­र्थ­व­दिति शङ्कते –
सत्यमिति ।
स्यादित्यन्तरं तथाऽपीति शेषः ।

केवलतयेति ।
मन­सोऽ­भा­वे­ने­त्यर्थः ।

भारस्येति
प्रति­ब­न्ध­क­स्ये­त्यर्थः । शेषबोधनं तु सुषुप्ते भवि­ष्य­ती­त्य­भि­प्रायः । एवं तर्हि सुषुप्ते सर्व­स्या­प्य­भा­व­मा­श्रित्य सम्यग्बोधनं विवक्षणीयं न च तत्सम्भवति ।

तत्रापि बहु­प्र­ति­ब­न्ध­कस्य विद्य­मा­न­त्वा­दि­त्याह –
न तत्रापीति ।
सुषु­प्तेऽ­पी­त्यर्थः ।

तत्रापीति ।
स्वप्नेऽ­पी­त्यर्थः ।

सुषुप्ते चेत्स­र्व­भा­रा­प­नयः स्यात्तदा स्वप्नेऽ­र्ध­भा­रा­प­न­या­भि­प्रायो वर्णयितुं शक्यते न च तदस्ति । अतोऽत्रेति विशेषणं तदाऽ­प्य­न­र्थ­क­मि­त्यर्थः । तर्हि विशेषणस्य गतिर्वक्तव्येति द्वितीयं शङ्कते –
कथं तर्हीति ।

अत्रैष देवः स्वप्ने महि­मा­न­म­नु­भ­व­ती­त्य­थ­र्व­शा­खा­वा­क्या­र्थ­क­थ­ना­व­सरे काण्व­श्रु­ति­ग­त­वि­शे­ष­णस्य गतिर्न वक्तव्या प्रकृ­ता­नु­प­यो­गा­दिति सिद्धा­न्त्ये­क­देशी कश्चिन्मन्दः शङ्कते –
अन्येति ।

सर्व­वे­दा­न्त­प्र­त्य­य­न्या­ये­ना­थ­र्व­श्रु­त्य­वि­रो­धे­नै­क­वा­क्य­तया श्रुत्यर्थस्य वर्ण­नी­य­त्वा­त्त­द­वि­रो­धोऽपि वक्तव्य इति पूर्ववाद्याह –
नार्थै­क­त्व­स्येति ।

तर्हि काण्व­श्रु­ति­र­र्था­भा­वा­त्त्य­ज्य­ता­मत आह –
श्रुते­र्य­था­र्थेति ।
स्वाध्या­योऽ­ध्ये­तव्य इत्य­ध्य­य­न­वि­धे­र­र्था­व­बो­ध­फ­ल­क­त्वा­त्तुल्यं च साम्प्र­दा­यि­क­मिति न्याया­च्चा­क्ष­र­मा­त्र­स्या­प्या­न­र्थ­क्या­यो­गा­दि­त्यर्थः ।

एवमेकदेशिनि दूषिते सिद्धा­न्त्यु­त्त­र­माह –
एवं तर्हीति ।

तर्ह्यादावेव मुख्यश्रुत्यर्थ उच्यतां किं पूर्वोक्तरीत्या पक्षा­न्त­रा­श­ङ्का­त­न्नि­रा­क­र­णा­भ्या­मि­त्या­शङ्क्य पाण्डि­त्या­भि­मा­न­वतो यथा­व­द­र्थ­बो­धेऽ­न­धि­का­रा­त्तस्य तद­भि­मा­ना­व­ता­र­चि­की­र्षया तदीयनानापक्षा निराकृता इति वक्तुं सर्वमभिमानं निर­स्ये­त्या­द्यु­क्तम् । स्वयं­ज्यो­ति­ष्ट्व­श्रु­ते­र­न­ति­श­ङ्क्य­त्वा­त्त­द्ब­ला­त्स्व­प्नादौ हृद­या­का­शा­दि­स­त्वेऽपि तत्स­म्ब­न्ध­प्र­ती­त्य­भा­वा­द्वि­द्य­मा­न­स्या­प्य­वि­द्य­मा­न­तु­ल्य­त्वे­नाऽऽ­त्मनः केव­ल­त्वा­त्प्र­का­श­द­र्श­नाच्च स्वय­ञ्ज्यो­ति­ष्ट्व­मिति बोधनीयं मन­सोऽ­भा­व­वा­दि­नाऽ­प्येवं मनसि सत्यपि तस्य वास­ना­म­य­ग­ज­तु­र­गा­दि­वि­ष­य­तया परि­णा­मा­द्दृ­श्य­त्वाच्च द्रष्टुस्ततो भेदेन विवेकतः श्रुत्या स्वप्रकाशत्वं बोध्यत इत्याह –
यथेत्यादिना ।

मनसीति ।
सत्यपीति शेषः ।

ननु मन­श्चे­द­वि­द्या­दि­नि­मि­त्त­व­शा­द्ग­ज­तु­र­गा­दि­रू­पे­णा­भि­व्य­क्त­वा­स­ना­व­त्तर्हि जाग्रतीव तस्याहन्तयैव प्रतीतिः स्यान्ने­द­न्त­याऽत आह –
कर्मनिमित्तेति ।
तथा प्रतीतिं विना स्वप्ने भोगासिद्धे स्वप्न­भो­ग­प्र­द­क­र्म­नि­मि­त्त­व­शा­ज्जा­ग्रति गजा­दी­ना­मि­द­न्त­याऽ­नु­भ­वेन तद्वासनानामपि तथैव अनुभवार्हत्वेन तद्वा­स­ना­रू­पा­वि­द्या­व­शाच्च वासनाश्रयस्य मनस इदन्तयैव वस्त्व­न्त­र­व­त्प्र­ती­ति­रि­त्यर्थः । इदं च विशेषणं मनसो विषयत्वेन विष­यि­त्वा­स­म्भ­वा­द्वि­ष­यिण आत्मन एव प्रका­श­रू­प­त्व­मिति वक्तुम् । जाग्र­त्या­दि­त्या­दि­का­र्य­ज्यो­तिषां चक्षु­रा­दि­क­र­ण­ज्यो­तिषां च सत्त्वेन तत्स­ङ्की­र्ण­त्वे­नाऽऽ­त्मनः स्वय­ञ्ज्यो­तिष्ट्वं दुर्बोधं स्वप्ने तु तद­भा­वा­त्सु­बो­ध­मिति वक्तुं सर्व­का­र्ये­त्यादि विशेषणम् । स्वप्न आदि­त्या­दि­का­र्य­क­र­ण­ज्यो­तिषां भासमानत्वेऽपि तेषां वास­ना­मा­त्र­त्वा­द्दृ­श्य­त्वाच्च विष­य­प्र­का­श­ना­सा­म­र्थ्य­मिति वक्तुं वासनाभ्य इत्यादि विशेषणम् । एतैश्च विशेषणैः स्वप्न एवैवम्भूते स्वयं­ज्यो­ति­ष्ट्वस्य बोधयितुं शक्य­त्वा­द­न्य­त्रा­स­म्भ­वा­द­त्रा­य­मि­ति­श्रुतौ स्वप्न­वि­शे­ष­ण­ग्र­ह­ण­म­र्थ­व­दि­त्यु­क्त­मिति द्रष्टव्यम् ।

स्वयं­ज्यो­ति­ष्ट्व­मिति ।
सिद्धमिति शेषः । अतः काण्वश्रुतौ स्वप्ने मन­सोऽ­भा­व­वि­व­क्षा­का­र­णा­भा­वेन तद्वि­रो­धा­भा­वा­दत्र देवशब्देन परे देवे मन­स्ये­की­भ­व­ती­त्यु­क्तम् ।

मन एवोच्यत इत्यु­क्त­मु­प­सं­ह­रति –
तस्मादिति ।

नन्वि­न्द्रि­या­णा­मु­प­र­त­त्वा­द्वि­ष­य­सं­ब­न्धा­भा­वा­त्कथं मनसो महिमानुभव इति शङ्कते –
कथमिति ।

पूर्वं ज्ञातस्यैव स्वप्ने ज्ञानात्तस्य वास­ना­मा­त्र­त्व­मतो नेन्द्रि­या­पे­क्षे­त्याह –
उच्यत इति ।

यदिति ।
यन्मित्रं पुत्रं वा पूर्वं दृष्टवांस्तदेव दृष्टं पुत्र­मि­त्रा­दि­वि­ष­य­वा­स­ना­स­मु­द्भूतं मित्रं पुत्रं वाऽविद्यया पश्यतीति दृष्ट­वा­नि­त्या­दि­प­दा­ध्या­हा­रेण वाक्यं योज्यम् । अन्यथा पुत्रमिति द्वितीयाया यच्छब्दस्य चानन्वयः स्यादिति । चक्षुरभावेन दर्श­ना­यो­गा­न्म­न्यत इत्युक्तम् ।

तथेति ।
अत्रापि योऽर्थः श्रुतस्तमेव श्रुत­म­र्थ­मि­त्य­ध्या­हा­रे­णैव श्रुतिर्योज्या । देशो नदीतीरादिः । दिक्प्रा­च्या­दि­रिति भावः । प्रत्यनुभूतं प्रतिवारमनुभूतं पुनः पुन­र­ने­क­दि­ने­ष्व­ने­क­स्व­प्ने­ष्व­नु­भ­व­ती­त्यर्थः ।

जन्मा­न्त­र­दृ­ष्ट­मिति व्याख्याने हेतुमाह –
अत्यन्तेति ।

अनुभूतं चेत्यस्य प्रत्य­नु­भू­त­मि­त्य­नेन पुन­रु­क्ति­मा­श­ङ्क्याऽऽह –
केवलेनेति ।
पूर्व­मि­न्द्रि­य­द्वा­र­का­नु­भव उक्त इत्य­पौ­न­रु­क्त्य­मि­त्यर्थः ।

सर्वदर्शने हेतुमाह –
सर्व इति ॥ ५ ॥

कस्यैतत्सुखं भव­ती­त्य­स्यो­त्तरं तदपेक्षितं वदन्नाह –
स यदेति ।

पित्ताख्येनेति ।
इदमुपलक्षणं चिद्रूपेण ब्रह्मण चेत्यपि द्रष्टव्यम् । तन्मनः प्राणमेवोपश्रयत इति श्रुत्यन्तरेण प्राणशब्दिते ब्रह्मणि तस्य लयाभिधानात् ।

तिरस्कृतेति ।
वासनाभिव्यक्तौ द्वारं स्वप्नभोगप्रदं कर्म यत्तत्तिरस्कृतं तत्रोपरतं भवति तेजः­श­ब्दि­त­ब्र­ह्म­चै­त­न्य­स­म्ब­न्धा­दि­त्यर्थः ।

रश्मय इति ।
वासना इत्यर्थः ।

अवि­शे­ष­वि­ज्ञा­नेति ।
सामा­न्य­चै­त­न्य­रू­पे­णे­त्यर्थः । चेत­ना­श­ब्दि­त­सा­मा­न्य­वृ­त्ति­रू­पेण वा ।

अनेन सुषु­प्त­मु­क्त­मि­त्याह –
तदेति ।

नन्वथैतत्सुखं भवतीत्ययुक्तं जन्यसुखस्य तदा­नी­म­स­म्भ­वा­त्स्व­रू­प­सु­खस्य पूर्वमपि समत्वेन तदा भव­ती­त्य­नु­प­प­त्ते­रि­त्या­शङ्क्य स्वरूपसुखमेव विशे­ष­वि­ज्ञा­न­रू­प­वि­क्षे­पा­भावे निर्वा­त­स्थ­दी­प­प्र­भा­व­त्स­म्य­क्प्र­का­शते तद­पे­क्ष­मे­त­द्व­च­न­मि­त्याह –
यद्विज्ञानमिति ।
विज्ञानरूपं स्वरू­प­सु­ख­मि­त्यर्थः ॥ ६ ॥

अने­नाऽऽ­न­न्द­म­य­को­श­श­ब्दि­त­म­न­भि­व्य­क्त­म­न­आ­दि­वा­स­ना­व­द­ज्ञानं सुषु­प्त­ध­र्मी­त्युक्तं पञ्च­म­प्र­श्न­स्यो­त्तरं तुरीयस्वरूपं विवे­क­सौ­क­र्या­द्वि­वि­च्या­त्रै­वो­च्यत इत्याह –
एतस्मिन्निति ।

अन्यथेति ।
पूर्वमन्यथा विभा­व्य­मा­न­मि­त्यर्थः ।

मात्रा­नु­प्र­वे­शे­नेति ।
मात्राणां विवे­क­तोऽ­क्ष­रेऽ­नु­प्र­वे­शे­ने­त्यर्थः ॥ ७ ॥

आपोमात्रा इत्यत्र विभ­क्त्य­लो­प­श्छा­न्दसः ।
स्थूलानि चेति ।
पञ्चीकृतानि चेत्यर्थः । ततश्च पञ्ची­क­र­ण­मे­त­त्छ्रु­ति­सि­द्ध­मि­त्यु­क्त­म­न्य­थाऽऽ­का­शा­का­श­मा­त्रयोः पृथ­गु­क्त्य­नु­प­प­त्ते­रिति । यद्यपि मन्तव्यादयो मन­आ­दि­च­तु­ष्ट­य­वि­षया अपि द्रष्ट­व्या­दि­वि­षया एव न पृथक्तथाऽपि मन्त­व्य­त्वा­दि­रू­पेण पृथगिति पृथङ्निर्दिष्टा इति द्रष्टव्यम् ।

प्रकाशविशिष्टा या त्वगिति ।
त्वगाश्रयं चर्म तत्प्र­का­श­नि­र्भास्यं च तदेवेत्यर्थः ।

पृथिवी चेत्यादिना विधारयितव्यं चेत्य­न्ते­नाऽऽ­त्म­व्य­ति­रिक्तं तदुपाधिभूतं सर्वं चोक्तमित्याह –
सर्वं हीति ॥ ८ ॥

एष हि द्रष्टे­त्या­दि­नो­प­हि­त­स्व­रू­प­मु­च्यत इत्याह –
अतः परमिति ।

द्रष्टेति ।
उपाधिकृतमपि द्रष्टृ­त्वा­दि­क­मु­पा­धि­व्य­ति­रि­क्तेऽ­नु­प­हित आत्मन्यारोपितं स्फटिके लौहि­त्य­व­द­स्ती­त्यु­पा­धि­भि­न्नोऽ­प्यात्मा द्रष्टे­त्या­दि­नोक्तः ।

विज्ञा­ना­त्मे­त्यत्र द्रष्टे­त्या­दा­विव कर्तृ­वा­च­क­तृ­चोऽ­भा­वाद्विज्ञानं यज्ञं तनुत इत्यादाविव बुद्धेरभिधाने पौन­रु­क्त्य­मा­श­ङ्क्याऽऽह –
विज्ञानमिति ।

करणभूतमिति ।
विज्ञानमय इत्या­दा­वि­त्यर्थः ।

एष हीति हिश­ब्द­श्च­श­ब्दा­र्थकः स च सम्प्रतिष्ठित इति क्रिय­नु­क­र्ष­णार्थ इति वद­न्द्र­ष्टु­रा­त्मनः पृथि­व्या­दि­व­त्स्व­रू­पे­णा­क्षरे लयो न सम्भ­व­ती­त्या­श­ङ्क्यो­पा­धि­लय उप­हि­त­रू­पा­भा­व­मे­वास्य लय इत्याह –
स चेति ॥ ९ ॥

एवं जाग्र­दा­दी­ना­म­न्य­ध­र्म­त्वोक्त्या शोधि­त­तु­र्या­त्मा­नु­वा­देन तस्या­क्ष­रै­क्या­भि­धा­न­पु­रः­सरं तज्ज्ञानस्य फलमुच्यत उत्त­र­वा­क्ये­ने­त्याह –
तदेकत्वेति ।
वक्ष्य­मा­ण­ल­क्ष­ण­म­क्षरं प्रतिपद्यत इत्येवंरूपं फलमाहेत्यन्वयः । उत्तरवाक्यमिति शेषः ।

उक्तमर्थः श्रुत्य­क्ष­रा­रू­ढ­माह –
एतदुच्यत इति ।

स इत्यस्यार्थमाह –
सर्वेति ।
अत्राधिकारिणो दुर्लभत्वं स यो ह वा इत्यनेनोक्तम् । स यः कश्चि­दे­वा­पू­र्व­व­त्त­द­च्छा­या­दि­वि­शे­ष­ण­म­क्षरं वेदयत इत्येकं वाक्यं समापनीयम् । यस्तु वेदयते स सर्वज्ञ इति वाक्यान्तरं कार्यमन्यथा यच्छ­ब्द­द्व­या­न­न्व­यात् । आद्य­वा­क्येऽ­च्छा­या­दि­वि­शे­ष­ण­त्र­येण कार­ण­सू­क्ष्म­स्थू­ल­श­री­र­त्र­य­नि­रा­क­र­णे­ना­व­स्था­त्र­य­नि­रा­क­र­णे­ना­व­स्था­त्र­य­रा­हि­त्य­म­नू­द्यते । लोहि­ता­दि­गु­ण­व­र्जि­त­मि­त्य­नेन तद्गु­ण­क­स्थू­ल­श­री­र­व­र्जि­त­मिति प्रतीतेः । शुभ्रमित्यनेन तमेव तुरीयमनूद्य तस्या­क्ष­र­सा­मा­ना­धि­क­र­ण्ये­नै­क्य­मु­क्त­मिति विवेकः ।

अत्रा­क्ष­र­मि­त्य­ने­ना­क्षरं पुरुषं वेद सत्यं स बाह्याभ्यन्तरो ह्यजोऽप्राणो ह्यमनाः शुभ्र इति मन्त्रोक्तानि सर्वाणि विशे­ष­णा­न्या­त्मो­प­ल­क्ष­णा­न्या­त्मो­प­ल­क्ष­णार्थं सङ्गृ­ही­ता­नी­त्याह –
सत्यमित्यादिना ।
यस्तु सर्व­त्या­गी­त्य­त्रापि वाक्ये वेदयत इत्यस्यानुषङ्गः । अत्र सर्वज्ञ इत्यनेन कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति प्रतिज्ञातं सर्व­वि­ज्ञा­न­मु­क्तम् ।

सर्वात्मत्वस्य ज्ञान­ज­न्य­त्वेऽ­नि­त्यत्वं स्यादत आह –
पूर्वमिति ।

एवं चाऽऽरो­प­नि­वृ­त्ति­द्वा­राऽ­भू­त­त­द्भावो विवक्षित इत्याह –
सर्वो भवतीति ॥ १० ॥

अग्न्यादिभिरिति ।
ततश्च चक्षुश्च द्रष्टव्यं चेत्यत्रापि चक्षु­रा­दि­भि­र्देवा अप्युपलक्षिताः इति व्याख्यातम् ॥ ११ ॥
इत्या­न­न्द­ज्ञा­न­वि­र­चि­त­प्र­श्नो­प­नि­ष­द्भा­ष्य­टी­कायां चतुर्थः प्रश्नः ॥ ४ ॥