आनन्दगिरिटीका (प्रश्न)
चतुर्थः प्रश्नः
एवं कर्मविद्यागतिश्रवणेन विरक्तस्य प्राणविद्यया चित्तैकाग्र्यतच्छुद्धिमतोऽत एव साधनचतुष्टयवतो मुख्याधिकारिणः परविद्योक्त्यर्थं प्रश्नत्रयमारभते –
अथ हैनमिति ।
पूर्वविद्ययैवामृतत्वोक्तेरुत्तरप्रश्नारम्भो व्यर्थ इत्यत आह –
प्रश्नत्रयेणेति ।
संसारमिति ।
अतो न तन्मुख्यममृतत्वमित्यर्थः ।
तस्य संसारत्वे व्याकृतत्वं हेतुमाह –
व्याकृतविषयमिति ।
व्याकृताश्रयं तदन्तर्गतमित्यर्थः ।
साध्यसाधनलक्षणमिति ।
साध्यसाधनसम्बन्धेन लक्ष्यतेऽभिव्यजत उत्पद्यत इति तथा । यद्वाऽपरब्रह्मणः प्राणस्य साध्यसाधनोभयात्मकत्वाद्वा तथा । तस्मादनित्यमित्यतोऽपि संसारत्वमित्यर्थः ।
वक्ष्यमाण आत्मा तु न तथेत्याह –
असाध्येत्यादिना ।
अतीन्द्रियविषयमिति ।
इन्द्रियविषयत्वमतिक्रान्तमित्यव्याकृतमकार्यमित्यर्थः ।
तत्र हेतुः –
अप्राणमिति ।
प्राणागोचरत्वेन तदात्मककर्मेन्द्रियागोचरत्वं मनोगोचरत्वेन ज्ञानेन्द्रियागोचरत्वमुक्तम् ।
सुखरूपतामाह –
शिवमिति ।
निवृत्तानर्थत्वमाह –
शान्तमिति ।
तत्र भावविकाररहितत्वं हेतुमाह –
अविकृतमिति ।
अनेनोत्पत्तिपरिणामवृद्धयो निषिद्धाः । अक्षरमित्यपक्षयविनाशौ निषिद्धौ । उत्पत्तिनिषेधेन तदनन्तरभाव्यस्तित्वं निषिद्धम् । अत्र सर्वत्र हेतुः ।
सत्यमिति ।
कालत्रयेऽप्येकरूपमित्यर्थः ।
तत्र “अथ परा यया तदक्षरमधिगम्यते”(मु. उ. १ । १ । ५) इत्यादि वाक्यं मानमाह –
परविद्यागम्यमिति ।
दिव्यो ह्यमूर्तः पुरुष इति मन्त्रमप्याह –
पुरुषाख्यमिति ।
कथं पुरुषशब्दोदितं पूर्णत्वं बाह्याभ्यन्तरवस्तुभेदादत आह –
सबाह्येति ।
स एव बाह्याभ्यन्तरात्मकस्तद्व्यतिरेकेण तदुभयं नास्तित्यर्थः ।
प्रश्नत्रयमिति ।
यद्यपि पञ्चमः प्रश्नोऽपरविद्याविषय एव प्रणवोपासनविषयत्वात्तथाऽपि तस्य क्रममुक्तिफलत्वेन निर्विशेषात्मन्येव सविशेषब्रह्मप्राप्तिद्वारा पर्यवसनात्सोऽपि परविषय एवेति भावः ।
एवं सामान्येन प्रश्नत्रयस्यापि सम्बन्धमुक्त्वा चतुर्थप्रश्नस्य प्रातिस्विकसम्बन्धमाह –
तत्रेति ।
यस्मादित्यस्य किंलक्षणं वा तदक्षरमिति तच्छब्देनान्वयः ।
उक्तमिति ।
यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपास्तथाऽक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्तीति मन्त्रेणेत्यर्थः ।
एतद्विवक्षयेति ।
मन्त्रोक्तार्थविस्तारानुवादित्वादस्य ब्राह्मणस्येति भावः । अत्राक्षरस्वरूपस्यैव विवक्षितत्वात्तन्निर्णयार्थं कानि स्वपन्तीत्यादिप्रश्नो जागरितादिनां धर्मिविशेषनिर्धारणार्थः, अन्यथा तेषामात्मधर्मत्वशङ्कायां तन्निर्विशेषत्वनिर्णयासिद्धेः । भावानां स्वरूपविभागादिविवक्षा तु ताः पुनः पुनरुदयतः प्रचरन्तीति दृष्टान्तबलाद्यत्रैकीभावस्ततो विभागेन निर्गमनमित्यक्षर एकीभूतानां पृथिव्यादिकार्यकरणानामक्षराद्विभागप्रतीतेस्तावन्मात्रेण भाष्य उक्तेति द्रष्टव्यम् । तत्राऽऽद्यप्रश्नेन जागरितस्य धर्मी पृष्टः । स्वप्ने यस्य व्यापारोपरमे जागरितं नास्ति स तस्य धर्म इति निश्चेतुं शक्यत्वात् । द्वितीयेनावस्थात्रयेऽपि शरीररक्षणं कस्य धर्म इति पृष्टम् । जाग्रतोऽनुपरतव्यापारस्य प्राणस्य देहरक्षकत्वोपपत्तेः । तृतीयेन स्वप्नस्य धर्मी पृष्टः । चतुर्थेन सुषुप्तिधर्मी, सुखमहमस्वाप्समिति सुप्तोत्थितस्य परामर्शे सुखस्य सुषुप्तिसम्बन्धावगमात् । पञ्चमप्रश्नेनावस्थात्रयविनिर्मुक्तमवस्थात्रयपर्यवसानभूमिरूपं तुरीयमक्षरं पृष्टमिति विवेकः ।
कार्येति ।
कार्यं शरीरं प्राणो वा, करणानि मनआदीनि ।
पदार्थानुक्त्वा वाक्यार्थं पिण्डीकृत्याऽऽह –
तत्किमिति ।
तत्पदं पूर्वापरयोः सम्बध्यते ।
प्रसन्नमिति ।
विषयसम्पर्ककालुष्यराहित्यम् ।
निरायासेति ।
निरायासेन विक्षेपाभावमात्रेण लक्ष्यतेऽभिव्यज्यते निर्वातस्थापितदीपालोकवदनाबाधं विनाशरहितं सत्यमात्मस्वरूपमित्यर्थः ।
एतदिति ।
सुषुप्ते प्रकाशमानं सुखमहमस्वाप्समितिपरामर्शमूलभूतमित्यर्थः ।
तस्मिन्काल इति ।
यद्यपि पञ्चमेन प्रश्नेन तुरीयं पृच्छ्यते न सुषुप्तिस्तथाऽपि संसारदशायां सर्वोपाधिरहिततुरीयावस्थाभावेन विवेकत एव तस्य प्रदर्शनीयत्वात्तत्सुषुप्तावज्ञाने सत्यपीतरोपाधिराहित्येन तत्रैव सर्वोपाधिविवेककरणेन तुरीयप्रदर्शनस्य सुकरत्वात्तस्मिन्काले तुरीयप्रदर्शनार्थं सर्वसम्प्रतिष्ठोक्तेति –
सम्यगेकीभूता इति ।
तदात्मभावप्राप्त्या विलयं गता इत्यर्थः ।
मधुनि रसवदिति ।
यथा नानापुष्परसा मधुन्येकी भवन्ति तद्वदित्यर्थः ।
विवेकाभावमात्रेण दृष्टान्तावुक्तौ, तत्र सर्वात्मना लयाभावादित्याह –
विवेकानर्हा इति ।
पूर्वं विवेकानर्हाः सन्तः पञ्चात्सम्प्रतिष्ठिता इत्यर्थः । न चानेनापि प्रश्नेनाविद्यावासनाभिरविविक्तः सौषुप्त एव पृष्ट इति शङ्क्यम् । पर आत्मन्यक्षरे सम्प्रतिष्ठन्त इति वक्ष्यमाणत्वात्सुषुप्ते चाज्ञान एव सम्प्रतिष्ठानादेष हि द्रष्टेत्याद्यज्ञानप्रतिबिम्बितस्य भोक्तुरपि सम्प्रतिष्ठाया अभिधास्यमानत्वादच्छायमित्यज्ञानाभावोक्तेश्च तुरीयमेव पृष्टमिति भावः । ननु कार्यकारणव्यतिरिक्ते सम्प्रतिष्ठानाधिकरणे सामान्येन कस्मिंश्चिदवगते कस्मिन्सम्प्रतिष्ठिता इति विशेषप्रश्नो घटते । न च तस्यावगतिरस्ति । न च सम्प्रतिष्ठानस्य साधिकरणत्वेन सामान्येनाधिकरणावगतिरस्तीति वाच्यम् । तत्तदुपादानानामेवाचेतनानां तदधिकरणत्वेन तदतिरिक्तस्य चेतनस्यासिद्धिरिति शङ्कते ।
नन्विति ।
दात्रं नाम सस्यादिलवणार्थः शस्त्रविशेषः ।
स्वात्मनीति ।
सोपादान इत्यर्थः ।
सुषुप्तपुरुषाणां करणानामिति ।
सुषुप्तपुरुषाणां यानि करणानि तेषामित्यर्थः । एष हि द्रष्टेत्यादिना पुरुषाणामप्येकीभावस्य वक्ष्यमाणत्वाद्वा पुरुषाणामित्युक्तम् । अस्मिन्पक्षे करणानां चेति चकारो द्रष्टव्यः । प्रष्टुः शङ्कायाः कुतः प्राप्तिरित्यन्वयः ।
संहतानां परार्थत्वेन व्यापृतत्वात्संहतत्वेन हेतुना परस्मिंश्चेतने सामान्येनावगते प्रष्टुर्विशेषप्रश्नो युक्त इत्याह –
युक्तैव त्विति ।
स्वाम्यर्थानि सङ्घाताभिमान्यर्थानीत्यर्थः ।
आशङ्कानुरूप इति ।
मनसि विद्यमानाशङ्कानुरूपो वाचिकः प्रश्न इत्यर्थः ।
अत्र सम्प्रतिष्ठानविशिष्ट आत्मा न पृष्टः किन्तु तदुपलक्षितः केवल आत्मा पृष्ट इति व्याक्यतात्पर्यमाह –
अत्र त्विति ।
भवन्तीत्यनन्तरं पृष्टमिति शेषः ॥ १ ॥
यत्त्वया पृष्टं तच्छृण्वित्यन्वयः । तस्यैवार्कस्य ता मरीचय इत्यन्वयः ।
विकीर्यन्त इति ।
दशदिक्षु क्षिप्यन्त इत्यर्थः ।
स्वप्नेऽपि चक्षुरादिव्यापारोपलब्धेरेकीभावोऽसिद्ध इत्याशङ्क्य वासनामयेन्द्रियव्यापरोपलब्धावपि बाह्यशब्दादिश्रवणादिव्यापाराभावेन तं साधयितुं तेनेति वाक्यं व्याख्याति –
यस्मादिति ।
श्रोत्रादीनामेकीभावो नाम स्वस्वव्यापारं विहाय मनस्तन्त्रतयाऽवस्थानमात्रं न तु मुख्यमेकत्वं तेषां मनःप्रकृतिकत्वाभावेनाप्रकृतौ तदनुपपत्तेरित्यभिप्रेत्येवकारः प्रयुक्तः ।
नेयायत इति ।
इणो गत्यर्थस्य यङन्तस्य रूपमेतन्न गच्छतीत्यर्थः ॥ २ ॥
कानि स्वपन्तीत्यस्य सविषयाणि बाह्यकारणानि स्वपन्त्युपरमन्तेऽतस्तेषामेव जागरणं धर्म इत्युत्तरमुक्त्वा कानि जाग्रतीत्यस्योत्तरमाह –
सुप्तवत्स्विति ।
प्राणानामग्नित्वं गौणमित्याह –
अग्नय इवेति ।
अपानस्य गार्हपत्यत्वे यद्गार्हपत्यात्प्रणीयते प्रणयनादितीदं वाक्यं व्यवहितापि हेतुत्वेन योजयति –
यस्मादिति ।
प्रणयनादिति पदं गार्हपत्यविशेषणमित्याह –
प्रणयनो गार्हपत्य इति ।
तत्सदृशमाहवनीयः प्राण इति वाक्यं सादृश्याभिध्यानपूर्वं व्याचष्टे –
तथेति ।
गार्हपत्यत्वेनोक्तेऽपानेऽन्तर्गच्छति सति बहिर्गच्छन्प्राणस्ततो निर्गच्छत इव लक्ष्यत इति प्राण आवहनीय इत्यर्थः ।
परित्यक्तं व्यानोऽन्वाहार्यपचन इति वाक्यमिदानीं व्याचष्टे –
व्यानस्त्विति ।
छान्दोग्ये गायत्रीविद्यायां तस्य वा एतस्य हृदयस्य पञ्च देवसुषय इत्युपक्रम्याथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रमित्यनेन व्यानस्य दक्षिणसुषितो निर्गमनमुक्तमित्यस्यानाहार्यपचनसादृश्यं दक्षिणदिक्सम्बन्धित्वं व्यानस्येति व्यानोऽन्वाहार्यपचन इत्यर्थः ॥ ३ ॥
अत्र चेति ।
अग्निहोत्रस्य होता होमस्य कर्ता, ऋत्विगुच्यते उत्तरवाक्येनेति शेषः ।
अत्रोच्छ्वासनिश्वासयोराहुतित्वस्य पूर्वमसिद्धत्वेन सिद्धवन्निर्देशायोगात्स समान इति तच्छब्दानन्वयाच्च वाक्यत्रयं कृत्वाऽन्वयत्रयेण योजयति –
यद्यस्मादिति ।
उच्छ्वासनिश्वासावित्यनन्तरमाहुती इति पदं भाष्येऽध्याहृत्यैतावुच्छ्वासनिःश्वासावाहुती आहवनीयाधिकरणाग्निहोत्राहुतीव द्वित्वसाम्यादेवेत्येकोऽन्वयः । अनन्तरं भाष्ये तुशब्दश्चार्थे । श्रुतिगत इतिशब्दस्तस्मादित्यर्थे । यस्मादेतावाहुती यस्माच्चैतौ समं नयति शरीरस्थितिभावाय साम्येन नयति प्रवर्तयति यो वायुर्यथाऽग्निहोत्रे होमकर्ताऽऽहुतिद्वयमाहवनीयं प्रति समं नयति प्रापयति तद्वत्तस्मादाहुत्योर्नेतृत्वात्स वायुर्होतेति यच्छब्दहोतृशब्दाध्याहारेण द्वितीयोऽन्वयः । कोऽसौ वायुरिति तद्विशेषप्रश्ने स होता वायुः स समान इति तृतीयोऽन्वय इति विभागः ।
ननु प्राणाग्नय इत्यत्र सर्वेषां प्राणानामग्नित्वोक्तेः कथमिह समानस्य होतृत्वमुच्यत इत्याशङ्क्योक्तम् –
अग्निस्थानीयोऽपीति ।
अग्नित्वेनोक्तोऽपीति भावः ।
होता चेति ।
चकारोऽवधारणे, होतैवेत्यर्थः । आहुतिनेतृत्वाद्धोतृत्वे स्थितेऽग्नित्वोक्तिश्छत्रिन्यायेनाग्न्यनग्निसमुदाये लाक्षणिकीत्यर्थः ।
अवस्थात्रयवर्तिनामुच्छ्वासनिश्वासप्राणानां चाग्निहोत्रावयवत्वसम्पादानस्य नोपासनं प्रयोजनं निर्विशेषात्मप्रकरणत्वात्तद्विध्यदर्शनाच्च, किं त्विन्द्रियाण्युपरमन्ते प्राणा जाग्रतीत्येवं त्वम्पदार्थशोधनरूपस्य ज्ञानस्य स्तुतिरेवेत्याह –
अतश्चेति ।
सर्वदेति ।
वाजसनेयके हि वाक्चितः प्राणश्चितश्चक्षुश्चित इत्यादिना सर्वप्राणव्यापारेषु प्रत्येकमग्निचितत्वदृष्टिं विधायैवन्दृष्टिमतः सर्वाणि भूतान्तस्य स्वापकालेऽपि चयनं कुर्वन्तीति सा दृष्टिः स्तुता तद्वदिहापीत्यर्थः ।
अत्र हीति ।
अत्र मनो यजमानः कल्प्यत इति व्यवहितान्वयः ।
तत्कल्पनायां हेतुद्वयमाह –
यजमानवदिति ।
हेतुद्वयं साधयति ।
जाग्रत्स्विति ।
अत्र स्वप्नकाले विषयान्करणानि चोपसंहृत्य मनो जागर्ति, प्राधान्येन स्वव्यापारं कुर्वद्वर्तते । अग्निहोत्रफलं स्वर्गं जिगमिषुर्यजमान इव सुषुप्तिकाले स्वर्गरूपब्रह्म जिगमिषु च मन इत्यन्वयः । भाष्ये यजमान इत्यनन्तरमिवशब्दो द्रष्टव्यः । हवावशब्देन तत्प्रसिद्धमित्युक्तम् ।
इष्टेति ।
उदाननिमित्तकमरणान्तरं यागादिफलप्राप्तेस्तस्य तन्निमित्तत्वात्कारणे कार्योपचारादुदान इष्टफलत्वेन कल्प्यत इत्यर्थः । न केवलं मरणद्वारा यागफलप्रापकत्वमुदानस्य किं त्वेतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति श्रुतेः सर्वयागफलानामपि ब्रह्मात्मकत्वात्तद्ब्रह्मप्रापकत्वादपि ।
अहरहरिष्टफलप्रापकत्वमुदानस्येति प्रश्नपूर्वकमाह –
कथमिति ।
स्वर्गमिवेति ।
स्वर्गमेवेत्यर्थः । स्वर्गयागफलात्मकस्वरूपमेव ब्रह्माक्षरं गमयतीत्यर्थः । यद्यप्यहरहर्ब्रह्मप्राप्तिर्न यागसाध्या यागरहितानामपि तत्प्राप्तेस्तथाऽपि ब्रह्मण एव सर्वयागफलत्वेन तत्प्रापकस्योदानस्येष्टफलप्रापकत्वमस्तीति भावः । न चोदानस्य कथं तत्प्रापकत्वमिति शङ्क्यम् । तस्य सुषुम्नानाडीचारित्वेन स मनस्तन्नाडीं प्रवेशयंस्तद्गतं ब्रह्म प्रापयतीत्युपपत्तेः ॥ ४ ॥
ननु गार्हपत्यो वा एषोऽपान इत्यारभ्य मनो ह वाव यजामान इत्यन्तेन ग्रन्थेन विद्वानकर्मी न भवतीति स्तूयत इत्युक्तमस्त्वेवं तत्राग्निहोत्रादिकर्मप्रतीतेरुदानस्य यागफलस्थानीयत्वोक्तेस्तु न तत्फलत्वं तत्र कर्माप्रतीतेरत आह –
एवं विदुष इति ।
विद्वत्तेति ।
श्रोत्रादीनि स्वप्न उपरमन्ते प्राणा एव जाग्रतीत्येवंरूपा विद्येत्यर्थः । अस्याश्च विद्याया जागरणं श्रोत्रादिबाह्येन्द्रियधर्मः शरीररक्षणं प्राणधर्मो नाऽऽत्मधर्म इत्येवं त्वम्पदार्थविवेकरूपत्वात्स्तोतव्यत्वोपपत्तिः । अत एव प्राणजगरणस्याविद्वत्साधारणत्वात्कथं विद्वत्तास्तुतिरित्यपि शङ्का निरस्ता तस्यैवम्भूतविवेकाभावादिति ।
ननु विद्याप्रकरणत्वादस्य विदुषः श्रोत्राद्युपरमादिकं सर्वं भवतीति विधीयतां किं स्तुत्येत्याशङ्क्य विद्वदविद्वत्साधारण्येन स्वयमेव भवतो न विधेयत्वमित्याह –
न हीति ।
विद्वत्तास्तुतिरेवेति ।
श्रोत्रादिकं परे देवे मनस्येकी भवति प्राणाग्नयो जाग्रतीत्यत्र पदार्थविवेकरूपं ज्ञानं विवक्षितं तज्ज्ञानं गार्हपत्यो वा एषोऽपान इत्यादिना स्यूयत उक्तप्रकारेणेत्यर्थः ।
तृतीयप्रश्नोत्तरत्वेन कतर एष इत्यादि सर्वः पश्यन्तीत्यन्तं व्याचष्टे यदिति। कतर इति। अत्रेति श्रौतं गृहीत्वा व्याचष्टे –
उपरतेष्वित्यादिनाऽन्तराल इत्यन्तेन ।
अनेकेति ।
विषयविषयाद्यनेकभावगमनमित्यर्थः । इदं च महत्वव्याख्यानम् ।
स्वप्नद्रष्टुर्जीवस्य स्वातन्त्र्ये वक्तव्ये देवशब्दितमनसस्तदुक्तिः स्वप्नो मनोधर्मो नाऽऽत्मधर्मम् आत्मनि तु तदारोपमात्रं लोकस्येति ख्यापनार्थेति शङ्कापरिहाराभ्यामाह –
नन्विति ।
मनउपाधिकृतमिति ।
बाह्येन्द्रिययुक्तमनउपाधिकृतं जागरणं केवलमनउपाधिकृतः स्वप्न इत्यर्थः । स्वप्नस्य धीशब्दवाच्यमनःपरिणामत्वात् । स्वप्नो भूत्वेति श्रुतौ सामानाधिकरण्यनिर्देश इति द्रष्टव्यम् । नन्वियं श्रुतिर्विभूत्यनुभवेन मनःस्वातन्त्र्यं वक्तुं न शक्नोति श्रुत्यन्तरविरोधापत्तेः । अतोऽत्र देवशब्देन क्षेत्रज्ञ एवोच्यते । तस्यैव स्वतः स्वातन्त्र्यमिति शङ्कते ।
मन इति ।
स्वयञ्ज्योतिष्ट्वमिति ।
स्वयञ्ज्योतिष्ट्वबोधकश्रुतिरित्यर्थः । अन्यथा द्वितीयसत्वेऽपि दीपादीनामिव वास्तवस्य तस्य बाधाभावादित्यत्र किं मनसः सत्त्वे ज्योतिरन्तरस्य मनसो विद्यमानत्वादात्मनः स्वयंज्योतिष्ट्वबोधनं न शक्यमिति श्रुतेः कार्यस्य बोधनस्य बाधोऽभिप्रेत उत तद्बोधनरूपकार्यसिध्यर्थं मनसोऽभावोऽपि विवक्षितः श्रुतौ । ततश्च तत्सत्त्वे श्रुत्यर्थबाध इति वा । नाऽऽद्यः ।
मनसि सत्यप्येवं तर्हीति वक्ष्यमाणरीत्या मनसो दृश्यत्वेन ज्योतिष्ट्वायोगेनाऽऽत्मन एव स्वयंज्योतिष्ट्वस्य बोधयितुं शक्यत्वादित्याह –
तन्नेति ।
न द्वितीयः, तदानीं मनसोऽभावस्तु श्रुत्यर्थम् एव न भवतीत्याह –
श्रुत्यर्थेति ।
आत्मनि ज्योतिष्ट्वबोधनात्मकव्यवहारस्य प्राकाश्यादिसापेक्षत्वात्तस्मिन्सत्येव तद्बोधसाधने मनआदौ च सत्येव तद्बोधयितुं शक्यते नान्यथेति मनआद्यभावो न श्रुतौ विवक्षितः, तथा सति तद्बोधनाशक्तेरित्याह –
यस्मादिति ।
तत्र मानमाह –
यत्र वेति ।
द्वितीयाभावे व्यवहारो नास्तीत्यत्रापि मानमाह –
मात्रेति ।
दृश्यं मात्राशब्दार्थः । असंसर्ग इति च्छेदः । दृश्यासंसर्गे सुषुप्तौ विशेषविज्ञानाभावोक्त्या द्वितीयाभावे व्यवहारो नास्तीत्यर्थः ।
अतो न द्वितीयः कल्पः सम्भवतीत्याह –
अत इति ।
ननु यदि स्वयंज्योतिष्ट्वबोधनार्थं मनआद्यभावो नापेक्षितो जागरितेऽपि तर्हि तद्बोधनसम्भवादत्रेति स्वप्नवाचिविशेषणमनर्थकमिति शङ्कते –
नन्विति ।
किं विशेषणबलान्मनसोऽभावः सिषाधयिषितः उत विशेषणस्य गतिमात्रं पृच्छ्यते । नाऽऽद्यः ।
मनसोऽभावाङ्गीकारेऽप्यन्तर्हृदयाकाशस्य तत्कृतपरिच्छेदस्य च श्रुतिसिद्धत्वेन त्वन्मतेऽपि तत्र स्वयंज्योतिष्ट्वबोधनासम्भवाद्विशेषणानर्थक्यं तुल्यमित्याह –
अत्रोच्यत इति ।
परिच्छेदोऽधिकोऽत्रेति तरपः प्रयोगः ।
स्वयंज्योतिष्ट्वमिति ।
तद्बोधनमित्यर्थः ।
यथाश्रुते वास्तवस्य तस्य बाधस्यानाशङ्क्यत्वादिति । यद्यपि स्वप्नेऽन्तर्हृदयाकाशसत्त्वात्सम्यक्स्वयंज्योतिष्ट्वं बोधयितुं न शक्यमिति दोषस्तुल्यस्तथाऽपि स्वप्ने मनसोऽभावेन तद्बोधनप्रतिबन्धकस्याभावाददूरविप्रकर्षेण स्वयंज्योतिष्ट्वं स्वप्ने बोधयितुं शक्यमिति तद्विशेषणमर्थवदिति शङ्कते –
सत्यमिति ।
स्यादित्यन्तरं तथाऽपीति शेषः ।
केवलतयेति ।
मनसोऽभावेनेत्यर्थः ।
भारस्येति ।
प्रतिबन्धकस्येत्यर्थः । शेषबोधनं तु सुषुप्ते भविष्यतीत्यभिप्रायः । एवं तर्हि सुषुप्ते सर्वस्याप्यभावमाश्रित्य सम्यग्बोधनं विवक्षणीयं न च तत्सम्भवति ।
तत्रापि बहुप्रतिबन्धकस्य विद्यमानत्वादित्याह –
न तत्रापीति ।
सुषुप्तेऽपीत्यर्थः ।
तत्रापीति ।
स्वप्नेऽपीत्यर्थः ।
सुषुप्ते चेत्सर्वभारापनयः स्यात्तदा स्वप्नेऽर्धभारापनयाभिप्रायो वर्णयितुं शक्यते न च तदस्ति । अतोऽत्रेति विशेषणं तदाऽप्यनर्थकमित्यर्थः । तर्हि विशेषणस्य गतिर्वक्तव्येति द्वितीयं शङ्कते –
कथं तर्हीति ।
अत्रैष देवः स्वप्ने महिमानमनुभवतीत्यथर्वशाखावाक्यार्थकथनावसरे काण्वश्रुतिगतविशेषणस्य गतिर्न वक्तव्या प्रकृतानुपयोगादिति सिद्धान्त्येकदेशी कश्चिन्मन्दः शङ्कते –
अन्येति ।
सर्ववेदान्तप्रत्ययन्यायेनाथर्वश्रुत्यविरोधेनैकवाक्यतया श्रुत्यर्थस्य वर्णनीयत्वात्तदविरोधोऽपि वक्तव्य इति पूर्ववाद्याह –
नार्थैकत्वस्येति ।
तर्हि काण्वश्रुतिरर्थाभावात्त्यज्यतामत आह –
श्रुतेर्यथार्थेति ।
स्वाध्यायोऽध्येतव्य इत्यध्ययनविधेरर्थावबोधफलकत्वात्तुल्यं च साम्प्रदायिकमिति न्यायाच्चाक्षरमात्रस्याप्यानर्थक्यायोगादित्यर्थः ।
एवमेकदेशिनि दूषिते सिद्धान्त्युत्तरमाह –
एवं तर्हीति ।
तर्ह्यादावेव मुख्यश्रुत्यर्थ उच्यतां किं पूर्वोक्तरीत्या पक्षान्तराशङ्कातन्निराकरणाभ्यामित्याशङ्क्य पाण्डित्याभिमानवतो यथावदर्थबोधेऽनधिकारात्तस्य तदभिमानावतारचिकीर्षया तदीयनानापक्षा निराकृता इति वक्तुं सर्वमभिमानं निरस्येत्याद्युक्तम् । स्वयंज्योतिष्ट्वश्रुतेरनतिशङ्क्यत्वात्तद्बलात्स्वप्नादौ हृदयाकाशादिसत्वेऽपि तत्सम्बन्धप्रतीत्यभावाद्विद्यमानस्याप्यविद्यमानतुल्यत्वेनाऽऽत्मनः केवलत्वात्प्रकाशदर्शनाच्च स्वयञ्ज्योतिष्ट्वमिति बोधनीयं मनसोऽभाववादिनाऽप्येवं मनसि सत्यपि तस्य वासनामयगजतुरगादिविषयतया परिणामाद्दृश्यत्वाच्च द्रष्टुस्ततो भेदेन विवेकतः श्रुत्या स्वप्रकाशत्वं बोध्यत इत्याह –
यथेत्यादिना ।
मनसीति ।
सत्यपीति शेषः ।
ननु मनश्चेदविद्यादिनिमित्तवशाद्गजतुरगादिरूपेणाभिव्यक्तवासनावत्तर्हि जाग्रतीव तस्याहन्तयैव प्रतीतिः स्यान्नेदन्तयाऽत आह –
कर्मनिमित्तेति ।
तथा प्रतीतिं विना स्वप्ने भोगासिद्धे स्वप्नभोगप्रदकर्मनिमित्तवशाज्जाग्रति गजादीनामिदन्तयाऽनुभवेन तद्वासनानामपि तथैव अनुभवार्हत्वेन तद्वासनारूपाविद्यावशाच्च वासनाश्रयस्य मनस इदन्तयैव वस्त्वन्तरवत्प्रतीतिरित्यर्थः । इदं च विशेषणं मनसो विषयत्वेन विषयित्वासम्भवाद्विषयिण आत्मन एव प्रकाशरूपत्वमिति वक्तुम् । जाग्रत्यादित्यादिकार्यज्योतिषां चक्षुरादिकरणज्योतिषां च सत्त्वेन तत्सङ्कीर्णत्वेनाऽऽत्मनः स्वयञ्ज्योतिष्ट्वं दुर्बोधं स्वप्ने तु तदभावात्सुबोधमिति वक्तुं सर्वकार्येत्यादि विशेषणम् । स्वप्न आदित्यादिकार्यकरणज्योतिषां भासमानत्वेऽपि तेषां वासनामात्रत्वाद्दृश्यत्वाच्च विषयप्रकाशनासामर्थ्यमिति वक्तुं वासनाभ्य इत्यादि विशेषणम् । एतैश्च विशेषणैः स्वप्न एवैवम्भूते स्वयंज्योतिष्ट्वस्य बोधयितुं शक्यत्वादन्यत्रासम्भवादत्रायमितिश्रुतौ स्वप्नविशेषणग्रहणमर्थवदित्युक्तमिति द्रष्टव्यम् ।
स्वयंज्योतिष्ट्वमिति ।
सिद्धमिति शेषः । अतः काण्वश्रुतौ स्वप्ने मनसोऽभावविवक्षाकारणाभावेन तद्विरोधाभावादत्र देवशब्देन परे देवे मनस्येकीभवतीत्युक्तम् ।
मन एवोच्यत इत्युक्तमुपसंहरति –
तस्मादिति ।
नन्विन्द्रियाणामुपरतत्वाद्विषयसंबन्धाभावात्कथं मनसो महिमानुभव इति शङ्कते –
कथमिति ।
पूर्वं ज्ञातस्यैव स्वप्ने ज्ञानात्तस्य वासनामात्रत्वमतो नेन्द्रियापेक्षेत्याह –
उच्यत इति ।
यदिति ।
यन्मित्रं पुत्रं वा पूर्वं दृष्टवांस्तदेव दृष्टं पुत्रमित्रादिविषयवासनासमुद्भूतं मित्रं पुत्रं वाऽविद्यया पश्यतीति दृष्टवानित्यादिपदाध्याहारेण वाक्यं योज्यम् । अन्यथा पुत्रमिति द्वितीयाया यच्छब्दस्य चानन्वयः स्यादिति । चक्षुरभावेन दर्शनायोगान्मन्यत इत्युक्तम् ।
तथेति ।
अत्रापि योऽर्थः श्रुतस्तमेव श्रुतमर्थमित्यध्याहारेणैव श्रुतिर्योज्या । देशो नदीतीरादिः । दिक्प्राच्यादिरिति भावः । प्रत्यनुभूतं प्रतिवारमनुभूतं पुनः पुनरनेकदिनेष्वनेकस्वप्नेष्वनुभवतीत्यर्थः ।
जन्मान्तरदृष्टमिति व्याख्याने हेतुमाह –
अत्यन्तेति ।
अनुभूतं चेत्यस्य प्रत्यनुभूतमित्यनेन पुनरुक्तिमाशङ्क्याऽऽह –
केवलेनेति ।
पूर्वमिन्द्रियद्वारकानुभव उक्त इत्यपौनरुक्त्यमित्यर्थः ।
सर्वदर्शने हेतुमाह –
सर्व इति ॥ ५ ॥
कस्यैतत्सुखं भवतीत्यस्योत्तरं तदपेक्षितं वदन्नाह –
स यदेति ।
पित्ताख्येनेति ।
इदमुपलक्षणं चिद्रूपेण ब्रह्मण चेत्यपि द्रष्टव्यम् । तन्मनः प्राणमेवोपश्रयत इति श्रुत्यन्तरेण प्राणशब्दिते ब्रह्मणि तस्य लयाभिधानात् ।
तिरस्कृतेति ।
वासनाभिव्यक्तौ द्वारं स्वप्नभोगप्रदं कर्म यत्तत्तिरस्कृतं तत्रोपरतं भवति तेजःशब्दितब्रह्मचैतन्यसम्बन्धादित्यर्थः ।
रश्मय इति ।
वासना इत्यर्थः ।
अविशेषविज्ञानेति ।
सामान्यचैतन्यरूपेणेत्यर्थः । चेतनाशब्दितसामान्यवृत्तिरूपेण वा ।
अनेन सुषुप्तमुक्तमित्याह –
तदेति ।
नन्वथैतत्सुखं भवतीत्ययुक्तं जन्यसुखस्य तदानीमसम्भवात्स्वरूपसुखस्य पूर्वमपि समत्वेन तदा भवतीत्यनुपपत्तेरित्याशङ्क्य स्वरूपसुखमेव विशेषविज्ञानरूपविक्षेपाभावे निर्वातस्थदीपप्रभावत्सम्यक्प्रकाशते तदपेक्षमेतद्वचनमित्याह –
यद्विज्ञानमिति ।
विज्ञानरूपं स्वरूपसुखमित्यर्थः ॥ ६ ॥
अनेनाऽऽनन्दमयकोशशब्दितमनभिव्यक्तमनआदिवासनावदज्ञानं सुषुप्तधर्मीत्युक्तं पञ्चमप्रश्नस्योत्तरं तुरीयस्वरूपं विवेकसौकर्याद्विविच्यात्रैवोच्यत इत्याह –
एतस्मिन्निति ।
अन्यथेति ।
पूर्वमन्यथा विभाव्यमानमित्यर्थः ।
मात्रानुप्रवेशेनेति ।
मात्राणां विवेकतोऽक्षरेऽनुप्रवेशेनेत्यर्थः ॥ ७ ॥
आपोमात्रा इत्यत्र विभक्त्यलोपश्छान्दसः ।
स्थूलानि चेति ।
पञ्चीकृतानि चेत्यर्थः । ततश्च पञ्चीकरणमेतत्छ्रुतिसिद्धमित्युक्तमन्यथाऽऽकाशाकाशमात्रयोः पृथगुक्त्यनुपपत्तेरिति । यद्यपि मन्तव्यादयो मनआदिचतुष्टयविषया अपि द्रष्टव्यादिविषया एव न पृथक्तथाऽपि मन्तव्यत्वादिरूपेण पृथगिति पृथङ्निर्दिष्टा इति द्रष्टव्यम् ।
प्रकाशविशिष्टा या त्वगिति ।
त्वगाश्रयं चर्म तत्प्रकाशनिर्भास्यं च तदेवेत्यर्थः ।
पृथिवी चेत्यादिना विधारयितव्यं चेत्यन्तेनाऽऽत्मव्यतिरिक्तं तदुपाधिभूतं सर्वं चोक्तमित्याह –
सर्वं हीति ॥ ८ ॥
एष हि द्रष्टेत्यादिनोपहितस्वरूपमुच्यत इत्याह –
अतः परमिति ।
द्रष्टेति ।
उपाधिकृतमपि द्रष्टृत्वादिकमुपाधिव्यतिरिक्तेऽनुपहित आत्मन्यारोपितं स्फटिके लौहित्यवदस्तीत्युपाधिभिन्नोऽप्यात्मा द्रष्टेत्यादिनोक्तः ।
विज्ञानात्मेत्यत्र द्रष्टेत्यादाविव कर्तृवाचकतृचोऽभावाद्विज्ञानं यज्ञं तनुत इत्यादाविव बुद्धेरभिधाने पौनरुक्त्यमाशङ्क्याऽऽह –
विज्ञानमिति ।
करणभूतमिति ।
विज्ञानमय इत्यादावित्यर्थः ।
एष हीति हिशब्दश्चशब्दार्थकः स च सम्प्रतिष्ठित इति क्रियनुकर्षणार्थ इति वदन्द्रष्टुरात्मनः पृथिव्यादिवत्स्वरूपेणाक्षरे लयो न सम्भवतीत्याशङ्क्योपाधिलय उपहितरूपाभावमेवास्य लय इत्याह –
स चेति ॥ ९ ॥
एवं जाग्रदादीनामन्यधर्मत्वोक्त्या शोधिततुर्यात्मानुवादेन तस्याक्षरैक्याभिधानपुरःसरं तज्ज्ञानस्य फलमुच्यत उत्तरवाक्येनेत्याह –
तदेकत्वेति ।
वक्ष्यमाणलक्षणमक्षरं प्रतिपद्यत इत्येवंरूपं फलमाहेत्यन्वयः । उत्तरवाक्यमिति शेषः ।
उक्तमर्थः श्रुत्यक्षरारूढमाह –
एतदुच्यत इति ।
स इत्यस्यार्थमाह –
सर्वेति ।
अत्राधिकारिणो दुर्लभत्वं स यो ह वा इत्यनेनोक्तम् । स यः कश्चिदेवापूर्ववत्तदच्छायादिविशेषणमक्षरं वेदयत इत्येकं वाक्यं समापनीयम् । यस्तु वेदयते स सर्वज्ञ इति वाक्यान्तरं कार्यमन्यथा यच्छब्दद्वयानन्वयात् । आद्यवाक्येऽच्छायादिविशेषणत्रयेण कारणसूक्ष्मस्थूलशरीरत्रयनिराकरणेनावस्थात्रयनिराकरणेनावस्थात्रयराहित्यमनूद्यते । लोहितादिगुणवर्जितमित्यनेन तद्गुणकस्थूलशरीरवर्जितमिति प्रतीतेः । शुभ्रमित्यनेन तमेव तुरीयमनूद्य तस्याक्षरसामानाधिकरण्येनैक्यमुक्तमिति विवेकः ।
अत्राक्षरमित्यनेनाक्षरं पुरुषं वेद सत्यं स बाह्याभ्यन्तरो ह्यजोऽप्राणो ह्यमनाः शुभ्र इति मन्त्रोक्तानि सर्वाणि विशेषणान्यात्मोपलक्षणान्यात्मोपलक्षणार्थं सङ्गृहीतानीत्याह –
सत्यमित्यादिना ।
यस्तु सर्वत्यागीत्यत्रापि वाक्ये वेदयत इत्यस्यानुषङ्गः । अत्र सर्वज्ञ इत्यनेन कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति प्रतिज्ञातं सर्वविज्ञानमुक्तम् ।
सर्वात्मत्वस्य ज्ञानजन्यत्वेऽनित्यत्वं स्यादत आह –
पूर्वमिति ।
एवं चाऽऽरोपनिवृत्तिद्वाराऽभूततद्भावो विवक्षित इत्याह –
सर्वो भवतीति ॥ १० ॥
अग्न्यादिभिरिति ।
ततश्च चक्षुश्च द्रष्टव्यं चेत्यत्रापि चक्षुरादिभिर्देवा अप्युपलक्षिताः इति व्याख्यातम् ॥ ११ ॥
इत्यानन्दज्ञानविरचितप्रश्नोपनिषद्भाष्यटीकायां चतुर्थः प्रश्नः ॥ ४ ॥