अद्वैतशारदा

आनन्दगिरिटीका (प्रश्न)

पञ्चमः प्रश्नः

एवं चतु­र्थ­प्र­श्ने­नो­त्त­मा­धि­का­रिणः पदा­र्थ­शो­ध­न­पू­र्व­क­वा­क्या­र्थ­ज्ञा­ने­ना­क्ष­र­प्रा­प्ति­मु­क्त्वाऽ­त्रा­न­धि­का­रिणो मन्दवैराग्यवत ओमित्येवं ध्यायत आत्मानं प्रणवो धनु­रि­त्या­दि­म­न्त्र­सू­चितं ब्रह्म­लो­क­प्रा­प्ति­द्वारा क्रमे­णा­क्ष­र­प्रा­प्त्य­र्थ­मो­ङ्का­रो­पा­सनं वक्तुं पञ्च­म­प्र­श्न­म­व­ता­र­यति –
अथ हैनमिति ।

इदानीमिति ।
गार्ग्य­प्र­श्न­नि­र्ण­या­न­न्त­र­मि­त्यर्थः ।

परेति ।
अप­र­ब्र­ह्म­लो­क­प्रा­प्ति­क्र­मेण पर­ब्र­ह्म­लो­क­प्रा­प्ति­सा­ध­न­त्वे­ने­त्यर्थः ।

तदद्भुतमिवेति ।
तदिति क्रियाविशेषणं तादृ­श­म­भि­ध्या­न­मिति, तेन विशे­ष­णे­ना­द्भु­तत्वं दुष्करत्वं भातीत्यर्थः ।

अभिध्यानेन तत्पूर्वकालीने प्रत्याहारधारणे सूचिते इत्याह –
बाह्येति ।
भक्त्याऽऽ­द­रे­णो­प­चा­रे­णै­वाऽऽ­वे­शित आरोपितो ब्रह्मभावो यस्मिन्नोङ्कारे तस्मि­न्स­मा­हि­त­चित्तः इत्यन्वयः । अनेन धारणोक्ता ।

ध्यान­श­ब्दा­र्थ­माह –
आत्मेति ।
सन्तानाविच्छेद इत्य­वि­च्छि­न्न­स­न्तान इत्यर्थः । प्रत्ययान्तरेण विजा­ती­य­प्र­त्य­ये­ना­खि­ली­कृ­तोऽ­न­न्त­रितः ।

चित्त­स्याऽऽ­त्म­वि­ष­य­स्यैव सत एकदेशेन विक्षेपं वारयति –
निर्वातेति ।

ध्यानेनैव यमादिसाधनजातमपि सूचितमित्याह –
सत्येति ।

कत­म­मि­ति­ड­त­म­चोऽर्थं बहुषु निर्धारणं दर्शयति –
अनेके हीति ।
ओङ्काराभिध्यानं ध्यान­त्वा­द्द­ह­रा­द्यु­पा­स­न­व­द­प­र­प्रा­प्ति­सा­ध­न­मे­वोत पर­प्रा­प्ति­सा­ध­न­म­पीति प्रष्टु­र­भि­प्रायः ॥ १ ॥

तदभिप्रायज्ञः पिप्प­ला­दोऽ­प­रा­ल­म्ब­न­तया ध्यानं चेद­प­र­प्रा­प्ति­मा­त्र­सा­धनं परालम्बनत्वेन चेत्क्रमेण पर­प्रा­प्ति­सा­ध­न­मि­त्यु­त्त­र­माह –
एतद्वा इति ।

एत­द्य­च्छ­ब्द­यो­र्न­पुं­स­क­यो­रो­ङ्का­र­वि­शे­ष­ण­त्वा­यो­गा­द्ब्र­ह्म­वि­शे­ष­ण­त्व­माह –
एतद्ब्रह्मेति ।

किं तद्ब्रह्मेत्यत आह –
परं चेति ।
यदेतत्परं चापरं च ब्रह्मास्ति तदुभयमोङ्कार इति वाक्यान्वय इत्यर्थः । न चैवं ब्रह्मो­द्दे­शे­नो­ङ्का­र­त्व­वि­धाने ब्रह्म­ण्यो­ङ्का­र­दृष्टिः प्रसज्येतेति शङ्क्यम् । ब्रह्म­दृ­ष्टि­रु­त्क­र्षा­दिति न्यायेन लोकेषु सामो­पा­सी­ते­त्या­दा­विव निकृष्ट ओङ्कार एव ब्रह्मदृष्टिः सिध्यतीति भावः ।

तयो­र्भे­दा­त्क­थ­मै­क्य­मि­त्या­श­ङ्क्यो­प­चा­रा­दि­त्याह –
ओङ्का­र­प्र­ती­क­त्वा­दिति ।
अनेन सामा­ना­धि­क­र­ण्ये­नो­ङ्का­रस्य प्रती­क­त्व­मु­प­दि­श्यत इति भावः ।

ननु किं प्रतीकोपदेशेन साक्षादेव ब्रह्मा­भि­धी­य­ता­मत आह –
परं हीति ।

शब्दादीति ।
शब्दादिभिः साक्षा­द्बो­ध­ना­न­र्ह­मि­त्यर्थः । आदि­श­ब्दे­ना­नु­मा­नादि गृह्यते ।

प्रवृ­त्ति­नि­मि­त्तस्य धर्मस्य लिङ्गस्य चाभावादिति तत्र हेतुमाह –
सर्वेति ।
न शक्य­मि­त्य­व­गा­हि­तु­मि­त्य­न्वयः ।

तर्ही­न्द्रि­यै­र्म­नसा वा तद्ग्र­होऽ­स्त्वि­त्यत आह –
अतीन्द्रियेति ।
मन­से­ती­न्द्रि­यै­र्वे­त्यपि द्रष्टव्यम् ।

तर्हि तथा­वि­ध­स्यो­ङ्का­रेऽ­प्या­वे­शा­स­म्भ­वा­त्कि­ञ्चि­द्वि­शे­ष­मा­रो­प्याऽऽ­वेशो वक्तव्यः । अत एव सूर्या­न्त­र्ग­तत्वं विशेषं वक्ष्यति ओङ्का­र­ता­दात्म्यं च तत्कथं निर्विशेषलाभोऽत आह –
ओङ्कारे त्विति ।

प्रसीदतीति ।
तदुपासनेन चित्तस्य नैर्मल्ये सति निर्विशेषं स्वयमेव प्रकाशत इत्यर्थः ।

तत्र मानमाह –
शास्त्रेति ।
अन्यथा पर­ब्र­ह्मा­र्थि­न­स्त­दु­क्ति­वै­य­र्थ्या­दि­त्यर्थः ।

तथाऽपरं चेति ।
प्रसी­द­ती­त्य­न्वयः ।

तस्मादिति ।
प्रती­क­त्वा­दि­त्यर्थः ।

तस्मादेवं विद्वानिति ।
ब्रह्म­त्वा­द्ब्र­ह्म­त्वा­र्ह­मिति विद्वानित्यर्थः । एते­नै­वे­त्य­न­न्त­र­मा­य­त­ने­नाऽऽ­ल­म्ब­ने­नेति पदद्वयं प्रमादतो गलितमिति द्रष्टव्यम् ।

तस्य पदस्य पिण्डितार्थमाह –
ओङ्कारेति ।
न त्वेत­च्छ­ब्दा­र्थ­क­थ­न­मे­त­दिति द्रष्टव्यम् ।

अभि­ध्या­न­स्याऽऽ­य­त­न­त्वा­भा­वा­दि­ती­त­रो­पा­स­ना­व­द­स्या­प्यु­पा­स­न­त्वा­त्प­र­प्रा­प­कत्वं न सम्भवतीत्यत आह –
नेदिष्ठमिति ।
मनआद्यपेक्षयेदं नेदिष्ठं समी­प­व­र्त्य­न्त­रङ्गं श्रेष्ठ­मा­ल­म्ब­न­मे­त­दा­ल­म्बनं श्रेष्ठ­मे­त­दा­ल­म्बनं पर­मि­त्या­दि­श्रु­ते­रि­त्यर्थः ॥ २ ॥

नेदिष्ठत्वमेव संस्तु­व­न्नु­त्त­र­वा­क्येण साधयति –
स यदीति ।
विकलस्यापि फल­ज­न­क­त्वा­न्ने­दि­ष्ठ­त्व­मि­त्यर्थः ।

सकलेति ।
अका­रा­दि­मा­त्रा­त्र­या­त्मक ओङ्कारः स चोपासितव्य इति न जानाति किं त्वका­र­मा­त्र­मु­पा­सि­तव्यं जानातीत्यर्थः । तथाऽ­प्ये­क­दे­श­ज्ञा­न­वै­गु­ण्य­तया दुर्गतिं न गच्छति किं तर्ह्यो­ङ्का­रा­भि­ध्या­न­प्र­भा­वा­त्त­दे­क­दे­श­ध्या­न­प्र­भा­वा­द्वि­शि­ष्टा­मेव गतिं गच्छतीत्यन्वयः ।

तात्प­र्या­र्थ­मु­क्त्वे­दा­नी­म­क्ष­रा­र्थ­माह –
यद्यप्येवमिति ।
यदिशब्दो यद्यपीत्यर्थे व्याख्यातः । एवं च स तेनैवेत्यतः प्राक्तथाऽपीति पदं द्रष्टव्यम् ।

एकमात्रमिति ।
एक­मा­त्रा­त्म­क­मो­ङ्का­र­म­का­र­मि­त्यर्थः । एक­मा­त्रा­वि­शि­ष्टे­त्य­त्रा­प्ये­क­मा­त्रा­त्व­वि­शि­ष्टे­त्यर्थः ।

ओङ्कारेति ।
तदवयवेत्यर्थः । एक­मा­त्रा­प्र­धा­न­प्र­धा­नी­भू­त­मा­त्रा­द्वयं कृत्स्न­मो­ङ्का­र­मिति केचि­द्व्या­च­क्षते । दीपिकायां वाचस्पत्ये चाका­र­मा­त्र­मि­त्येवं व्याख्यातम् ।

सम्भोधित इति ।
तन्मा­त्रा­ध्या­नेन तन्मा­त्रा­सा­क्षा­त्का­र­वा­नि­त्यर्थः ।

पृथिव्यां किमभिसम्पद्यत इति कर्माऽऽ­का­ङ्क्षते ।
किमिति ।

मनु­ष्य­लो­क­मि­ति­प­द­मि­हा­कृ­ष्यऽऽ­काङ्क्षां पूरयति –
मनुष्यलोकमिति ।
मनु­ष्य­श­री­र­मि­त्यर्थः ।

पृथिव्यां मनुष्यलोकस्यैव निय­मा­त्त­दु­क्ति­वै­य­र्थ्य­मत आह –
अनेकानि हीति ।
पश्वादीनि हीत्यर्थः ।

तर्हि तस्य नियमेन कथं मनु­ष्य­त्व­प्रा­प्ति­रत आह –
तत्र तमिति ।

ऋग्वेदरूपा हीति ।
पृथिव्यकारः स ऋग्वेद इति श्रुतेरकारस्य तद्रू­प­त्व­मि­त्यर्थः । अभि­ध्या­ताऽ­का­र­रूपा मात्रा ऋग्वे­द­रू­पे­त्य­न्वयः ।

तेनेति ।
येन­र्ग्वे­द­रू­पत्वं तस्य तेनर्चो मनु­ष्य­लो­क­मु­प­न­यन्त इत्यर्थः ।

वीतश्रद्ध इति ।
श्रद्धाविरहितः सन्नित्यर्थः ।

योगभ्रष्ट इति ।
एकदेशज्ञानविकल इत्यर्थः । अनेन न हि कल्या­ण­कृ­त्क­श्चि­दिति गीतावाक्यसंवादः सूचितः ॥ ३ ॥

द्विमात्रेण विशिष्टमिति ।
द्विती­य­मा­त्र­त्वेन विशिष्टमोङ्कारं तद्ग­त­मु­का­र­मि­त्यर्थः । न तु मात्रा­द्व­य­म­का­रस्य पूर्व­मे­वो­क्त­त्वा­दत एव द्विती­य­मा­त्रा­रू­प­मिति वक्ष्यति । श्रुतौ तृतीया द्वितीयार्थे, ओङ्का­र­म­भि­ध्या­यी­ते­त्यु­प­क्र­मा­दिति भावः । अत्राभिध्यानं तादा­त्म्या­भि­मा­न­प­र्य­न्त­मिति वक्तुं मनसि सम्पद्यत इति वाक्यं तत्र साक्षा­न्म­नः­स­म्पत्तेः ।

साधनत्वेन वा फलत्वेन वाऽन­न्व­या­न्म­नः­श­ब्देन तत्प­रि­णा­म­स्व­प्ना­दि­ल­क्ष­ण­द्वारा स्वप्न­य­जु­रा­द्या­त्म­त्वेन श्रुत्यन्तरे श्रुतोङ्कार एव लक्ष्यत इत्याह –
स्वप्नात्मक इति ।
उकारे सम्प­त्ति­प­र्य­न्त­म­भि­ध्यानं यः करोतीति वाक्यार्थ इत्यर्थः । अत्र केचित्स यदीत्यादिर्यः पुनरित्यन्तं न स्तुतिः । किं तूक्तफलायाकारे विश्वा­भि­न्न­वि­रा­डु­पा­स­न­मु­कारे तैज­सा­भि­न्न­हि­र­ण्य­ग­र्भो­पा­सनं च विव­क्षि­त­मि­त्याहुः । तन्मते मनः­श­ब्दे­ना­ण्ड­प­रि­णा­म­स्व­प्ना­भि­मानी हिरण्यगर्भ उच्यत इति वक्तुं स्वप्नात्मक इत्या­दि­वि­शे­ष­णा­नीति बोध्यम् । दीपिकायां तु मात्राद्वयस्य मिलितस्योपासनं मनसि सम्पत्तिश्च मनस्यैकाग्रतया चिन्तनमिति च व्याख्यातम् ॥ ४ ॥

एवमोङ्कारं स्तुत्वा तदुपासनं परब्रह्मविषयं विधत्ते –
यः पुनरिति ।

विज्ञा­न­वि­शि­ष्टे­नेति ।
विज्ञा­न­वि­ष­यी­कृ­ते­ने­त्यर्थः । मात्रा­त्र­या­त्म­क­ज्ञा­ने­नेति यावत् । पूर्ववदत्रापि त्रिमा­त्रे­णे­त्यत्र तृतीया मात्रा मकार उच्यत इति भ्रमं वार­यि­तु­मो­मि­त्ये­ते­नै­वा­क्ष­रे­णे­त्यु­क्तम् ।

पूर्वत्र तत्त­न्मा­त्रा­प्र­धान ओङ्कार एवोच्यत इति मत इहैवेदं विशेषणमनुपपन्नं पूर्व­त्रा­प्यो­ङ्का­र­स्यै­वो­क्त­त्वा­दिति तन्म­त­म­नु­प­प­न्न­मिव भातीति त्रिमात्रेणेति तृती­या­श्र­व­णा­दो­ङ्कारो न प्रतीकं तथा सति विषयत्वेन कर्मतया द्वितीया स्यात्किं त्वभि­ध्या­य­क­त्वेन करणत्वमेव तृतीयाबलादिति भ्रमं वारयति –
प्रतीकेनेति ।
तस्य कर्मत्वेऽपि कार­क­त्वे­ना­भि­ध्या­न­क्रि­या­नि­र्व­र्त­क­त्वेन हेतु­त्वा­त्त­न्मा­त्र­वि­व­क्षया तृतीयोपपद्यत इत्यर्थः ।

एवं व्याख्याने हेतुमाह –
प्रतीकत्वेनेति ।

अभेदेति ।
प्रतीकत्वे ह्यधि­ष्ठा­ना­ध्य­स्य­मा­न­स्यो­स्ता­दा­त्म्या­रो­पा­द­भे­द­श्र­व­ण­मु­प­प­द्यते करणत्वे तु न तदुपपद्यत इत्यर्थः ।

अनेकश इति ।
ओङ्का­र­म­भि­ध्या­यीत स यद्ये­क­मा­त्र­म­भि­ध्या­यी­तेति द्विवारं श्रुतेत्यर्थः । अन्यथेत्यस्य बाध्ये­ते­त्य­ने­ना­न्वयः ।

अथ यदि द्विमात्रेण यः पुनरेतं त्रिमात्रेणेति च तृतीयाऽपि द्विवारं श्रुता हेतुत्वापेक्षया करणत्वेन स्वरसा च कार­क­वि­भ­क्ति­त्वा­त्त­त­स्तस्या अपि बाधो न युक्त इति शङ्कते –
यद्यपीति ।

द्विती­या­द्व­य­स्यापि कर्मत्वे स्वार­स्या­दु­प­क्र­म­स्थ­त्वाच्च तस्यैव प्राबल्यमित्याह –
तथाऽपीति ।

प्रकृतेति ।
प्रक्र­मा­नु­रो­धा­दि­त्यर्थः । किञ्च द्विती­या­द्व­य­मु­क्ता­भे­द­श्रुतिः । एते­नै­वाऽऽ­य­त­ने­नै­क­त­र­म­न्वेति ।

आय­त­ने­नै­वा­न्वे­ती­त्या­ल­म्ब­न­वा­च्या­य­त­न­श्रु­ति­द्वयं चेति बहु­श्रु­त्य­नु­रो­धेन तृतीयाद्वयं त्याज्यमित्याह –
त्यजेदेकमिति ।

तृतीयमात्रारूप इति ।
यद्यपि मात्रा­त्र­य­ध्या­ना­न्मा­त्रा­त्र­य­रू­पि­त्व­मेव तस्य तथाऽपि तृतीयमात्राया एवे­हा­सा­धा­र­ण्या­त्त­त्प्रा­धा­न्येन निर्देश इति बोध्यम् । तृतीयमात्ररूप इति सप्तम्यन्तपाठे तत्सूर्यविशेषणं मका­र­स्याऽऽ­दि­त्या­त्म­क­त्वा­दिति ।

हिरण्यगर्भस्य जीव­घ­न­त्व­म­ना­ग­ता­वे­क्ष­ण­न्या­ये­नो­प­पा­द­यति –
स हिरण्यगर्भ इति ।

लिङ्गरूपेणेति ।
समष्टिलिङ्गरूपेणेत्यर्थः ।

तस्मिन्हीति ।
सम­ष्टि­लि­ङ्गा­त्मनि हिरण्यगर्भे व्यष्टि­लि­ङ्गा­भि­मा­निनः सर्वे जीवा गोत्वसामान्ये खण्डमुण्डादय इव संहता इत्यर्थः ।

इदानीं वाक्यं योजयति –
स विद्वानिति ।
स विद्वानिदानीं ध्यायमानः पश्चा­द्ब्र­ह्म­लोकं प्राप्तः । तत्र ब्रह्मलोके स्थाव­र­ज­ङ्ग­मेभ्यः परा­ज्जी­व­घ­ना­त्परं पुरुषं पश्यति ततो मुक्तो भवतीत्यन्वयः ॥ ५ ॥

तत्र यः पुन­रे­त­मि­त्या­दि­नो­क्तेऽर्थे आद्यं मन्त्रं योजयति –
तिस्र इति ।

मृत्युगोचर इति ।
प्रत्येकं ब्रह्मदृष्टिं च विना तदुपासकानां मृत्य्व­न­ति­क्र­मा­दि­त्यर्थः ।

ब्रह्मदृष्ट्या संश्लिष्टत्वेन च सम्भूय च प्रयु­क्ता­श्चे­न्नायं दोष इत्याह –
किञ्चेति ।

जाग्रदिति ।
जाग्रत्पुरुषो वैश्वानराभिन्नो विश्वस्तस्थानं स्थूलशरीरं जागरितं च । स्वप्नपुरुषस्तु हिर­ण्य­ग­र्भा­भि­न्न­स्तै­ज­स­स्त­त्स्थानं लिङ्गशरीरं स्वप्नश्च । सुषु­प्ता­वी­श्व­रात्मा प्राज्ञ­स्त­त्स्था­न­म­व्या­कृतं सुषुप्तिश्च । तेषा­म­का­रा­दि­ता­दा­त्म्येन यदभिध्यानं तल्लक्षणासु योगक्रियासु प्रयु­क्ता­स्व­न्यो­न्य­सक्ता अन­वि­प्र­यु­क्ता­स्तिस्रो मात्राः प्रयु­क्ता­श्चेन्न कम्पत इत्यन्वयः । अनेन सर्वात्मके परब्रह्मणीश्वर ओङ्काराभेदेन ध्यानमुक्तम् ।

यथोक्तेति ।
तिस्रो मात्रा इति श्लोकोक्तविभाग इत्यर्थः ।

कुतो वेति ।
चलनं विक्षेपः स्वस्य सर्वात्मत्वेन स्वव्य­ति­रि­क्ता­भा­वा­च्च­लनं न सम्भवतीति कुतो हेतोः कस्मिन्वा विषये चलेदित्यर्थः ॥ ६ ॥

अप­र­ब्र­ह्म­प्रा­प्त्यर्थं य ओङ्कारः प्रयुक्तस्तेनैव न पृथक्प्रयुक्तः परमपि प्राप्नोति ब्रह्मलोक उत्प­न्न­नि­र्वि­शे­ष­ब्र­ह्म­सा­क्षा­त्का­रे­णो­क्त­स्यो­ङ्का­रस्य क्रम­मु­क्ति­फ­ल­त्वा­दि­त्याह –
तेनैवेति ।
येनापरमन्वेति तेनैव पर­म­प्य­न्वे­ती­त्ये­व­का­रा­र्थम् इत्यर्थः । तद­प्यो­ङ्का­रे­णे­त्या­य­त­न­वि­शे­ष­णार्थं पुन­रो­ङ्का­र­ग्र्ह­ण­मिति न पुनरुक्तिरिति बोध्यम् ॥ ७ ॥