आनन्दगिरिटीका (प्रश्न)
पञ्चमः प्रश्नः
एवं चतुर्थप्रश्नेनोत्तमाधिकारिणः पदार्थशोधनपूर्वकवाक्यार्थज्ञानेनाक्षरप्राप्तिमुक्त्वाऽत्रानधिकारिणो मन्दवैराग्यवत ओमित्येवं ध्यायत आत्मानं प्रणवो धनुरित्यादिमन्त्रसूचितं ब्रह्मलोकप्राप्तिद्वारा क्रमेणाक्षरप्राप्त्यर्थमोङ्कारोपासनं वक्तुं पञ्चमप्रश्नमवतारयति –
अथ हैनमिति ।
इदानीमिति ।
गार्ग्यप्रश्ननिर्णयानन्तरमित्यर्थः ।
परेति ।
अपरब्रह्मलोकप्राप्तिक्रमेण परब्रह्मलोकप्राप्तिसाधनत्वेनेत्यर्थः ।
तदद्भुतमिवेति ।
तदिति क्रियाविशेषणं तादृशमभिध्यानमिति, तेन विशेषणेनाद्भुतत्वं दुष्करत्वं भातीत्यर्थः ।
अभिध्यानेन तत्पूर्वकालीने प्रत्याहारधारणे सूचिते इत्याह –
बाह्येति ।
भक्त्याऽऽदरेणोपचारेणैवाऽऽवेशित आरोपितो ब्रह्मभावो यस्मिन्नोङ्कारे तस्मिन्समाहितचित्तः इत्यन्वयः । अनेन धारणोक्ता ।
ध्यानशब्दार्थमाह –
आत्मेति ।
सन्तानाविच्छेद इत्यविच्छिन्नसन्तान इत्यर्थः । प्रत्ययान्तरेण विजातीयप्रत्ययेनाखिलीकृतोऽनन्तरितः ।
चित्तस्याऽऽत्मविषयस्यैव सत एकदेशेन विक्षेपं वारयति –
निर्वातेति ।
ध्यानेनैव यमादिसाधनजातमपि सूचितमित्याह –
सत्येति ।
कतममितिडतमचोऽर्थं बहुषु निर्धारणं दर्शयति –
अनेके हीति ।
ओङ्काराभिध्यानं ध्यानत्वाद्दहराद्युपासनवदपरप्राप्तिसाधनमेवोत परप्राप्तिसाधनमपीति प्रष्टुरभिप्रायः ॥ १ ॥
तदभिप्रायज्ञः पिप्पलादोऽपरालम्बनतया ध्यानं चेदपरप्राप्तिमात्रसाधनं परालम्बनत्वेन चेत्क्रमेण परप्राप्तिसाधनमित्युत्तरमाह –
एतद्वा इति ।
एतद्यच्छब्दयोर्नपुंसकयोरोङ्कारविशेषणत्वायोगाद्ब्रह्मविशेषणत्वमाह –
एतद्ब्रह्मेति ।
किं तद्ब्रह्मेत्यत आह –
परं चेति ।
यदेतत्परं चापरं च ब्रह्मास्ति तदुभयमोङ्कार इति वाक्यान्वय इत्यर्थः । न चैवं ब्रह्मोद्देशेनोङ्कारत्वविधाने ब्रह्मण्योङ्कारदृष्टिः प्रसज्येतेति शङ्क्यम् । ब्रह्मदृष्टिरुत्कर्षादिति न्यायेन लोकेषु सामोपासीतेत्यादाविव निकृष्ट ओङ्कार एव ब्रह्मदृष्टिः सिध्यतीति भावः ।
तयोर्भेदात्कथमैक्यमित्याशङ्क्योपचारादित्याह –
ओङ्कारप्रतीकत्वादिति ।
अनेन सामानाधिकरण्येनोङ्कारस्य प्रतीकत्वमुपदिश्यत इति भावः ।
ननु किं प्रतीकोपदेशेन साक्षादेव ब्रह्माभिधीयतामत आह –
परं हीति ।
शब्दादीति ।
शब्दादिभिः साक्षाद्बोधनानर्हमित्यर्थः । आदिशब्देनानुमानादि गृह्यते ।
प्रवृत्तिनिमित्तस्य धर्मस्य लिङ्गस्य चाभावादिति तत्र हेतुमाह –
सर्वेति ।
न शक्यमित्यवगाहितुमित्यन्वयः ।
तर्हीन्द्रियैर्मनसा वा तद्ग्रहोऽस्त्वित्यत आह –
अतीन्द्रियेति ।
मनसेतीन्द्रियैर्वेत्यपि द्रष्टव्यम् ।
तर्हि तथाविधस्योङ्कारेऽप्यावेशासम्भवात्किञ्चिद्विशेषमारोप्याऽऽवेशो वक्तव्यः । अत एव सूर्यान्तर्गतत्वं विशेषं वक्ष्यति ओङ्कारतादात्म्यं च तत्कथं निर्विशेषलाभोऽत आह –
ओङ्कारे त्विति ।
प्रसीदतीति ।
तदुपासनेन चित्तस्य नैर्मल्ये सति निर्विशेषं स्वयमेव प्रकाशत इत्यर्थः ।
तत्र मानमाह –
शास्त्रेति ।
अन्यथा परब्रह्मार्थिनस्तदुक्तिवैयर्थ्यादित्यर्थः ।
तथाऽपरं चेति ।
प्रसीदतीत्यन्वयः ।
तस्मादिति ।
प्रतीकत्वादित्यर्थः ।
तस्मादेवं विद्वानिति ।
ब्रह्मत्वाद्ब्रह्मत्वार्हमिति विद्वानित्यर्थः । एतेनैवेत्यनन्तरमायतनेनाऽऽलम्बनेनेति पदद्वयं प्रमादतो गलितमिति द्रष्टव्यम् ।
तस्य पदस्य पिण्डितार्थमाह –
ओङ्कारेति ।
न त्वेतच्छब्दार्थकथनमेतदिति द्रष्टव्यम् ।
अभिध्यानस्याऽऽयतनत्वाभावादितीतरोपासनावदस्याप्युपासनत्वात्परप्रापकत्वं न सम्भवतीत्यत आह –
नेदिष्ठमिति ।
मनआद्यपेक्षयेदं नेदिष्ठं समीपवर्त्यन्तरङ्गं श्रेष्ठमालम्बनमेतदालम्बनं श्रेष्ठमेतदालम्बनं परमित्यादिश्रुतेरित्यर्थः ॥ २ ॥
नेदिष्ठत्वमेव संस्तुवन्नुत्तरवाक्येण साधयति –
स यदीति ।
विकलस्यापि फलजनकत्वान्नेदिष्ठत्वमित्यर्थः ।
सकलेति ।
अकारादिमात्रात्रयात्मक ओङ्कारः स चोपासितव्य इति न जानाति किं त्वकारमात्रमुपासितव्यं जानातीत्यर्थः । तथाऽप्येकदेशज्ञानवैगुण्यतया दुर्गतिं न गच्छति किं तर्ह्योङ्काराभिध्यानप्रभावात्तदेकदेशध्यानप्रभावाद्विशिष्टामेव गतिं गच्छतीत्यन्वयः ।
तात्पर्यार्थमुक्त्वेदानीमक्षरार्थमाह –
यद्यप्येवमिति ।
यदिशब्दो यद्यपीत्यर्थे व्याख्यातः । एवं च स तेनैवेत्यतः प्राक्तथाऽपीति पदं द्रष्टव्यम् ।
एकमात्रमिति ।
एकमात्रात्मकमोङ्कारमकारमित्यर्थः । एकमात्राविशिष्टेत्यत्राप्येकमात्रात्वविशिष्टेत्यर्थः ।
ओङ्कारेति ।
तदवयवेत्यर्थः । एकमात्राप्रधानप्रधानीभूतमात्राद्वयं कृत्स्नमोङ्कारमिति केचिद्व्याचक्षते । दीपिकायां वाचस्पत्ये चाकारमात्रमित्येवं व्याख्यातम् ।
सम्भोधित इति ।
तन्मात्राध्यानेन तन्मात्रासाक्षात्कारवानित्यर्थः ।
पृथिव्यां किमभिसम्पद्यत इति कर्माऽऽकाङ्क्षते ।
किमिति ।
मनुष्यलोकमितिपदमिहाकृष्यऽऽकाङ्क्षां पूरयति –
मनुष्यलोकमिति ।
मनुष्यशरीरमित्यर्थः ।
पृथिव्यां मनुष्यलोकस्यैव नियमात्तदुक्तिवैयर्थ्यमत आह –
अनेकानि हीति ।
पश्वादीनि हीत्यर्थः ।
तर्हि तस्य नियमेन कथं मनुष्यत्वप्राप्तिरत आह –
तत्र तमिति ।
ऋग्वेदरूपा हीति ।
पृथिव्यकारः स ऋग्वेद इति श्रुतेरकारस्य तद्रूपत्वमित्यर्थः । अभिध्याताऽकाररूपा मात्रा ऋग्वेदरूपेत्यन्वयः ।
तेनेति ।
येनर्ग्वेदरूपत्वं तस्य तेनर्चो मनुष्यलोकमुपनयन्त इत्यर्थः ।
वीतश्रद्ध इति ।
श्रद्धाविरहितः सन्नित्यर्थः ।
योगभ्रष्ट इति ।
एकदेशज्ञानविकल इत्यर्थः । अनेन न हि कल्याणकृत्कश्चिदिति गीतावाक्यसंवादः सूचितः ॥ ३ ॥
द्विमात्रेण विशिष्टमिति ।
द्वितीयमात्रत्वेन विशिष्टमोङ्कारं तद्गतमुकारमित्यर्थः । न तु मात्राद्वयमकारस्य पूर्वमेवोक्तत्वादत एव द्वितीयमात्रारूपमिति वक्ष्यति । श्रुतौ तृतीया द्वितीयार्थे, ओङ्कारमभिध्यायीतेत्युपक्रमादिति भावः । अत्राभिध्यानं तादात्म्याभिमानपर्यन्तमिति वक्तुं मनसि सम्पद्यत इति वाक्यं तत्र साक्षान्मनःसम्पत्तेः ।
साधनत्वेन वा फलत्वेन वाऽनन्वयान्मनःशब्देन तत्परिणामस्वप्नादिलक्षणद्वारा स्वप्नयजुराद्यात्मत्वेन श्रुत्यन्तरे श्रुतोङ्कार एव लक्ष्यत इत्याह –
स्वप्नात्मक इति ।
उकारे सम्पत्तिपर्यन्तमभिध्यानं यः करोतीति वाक्यार्थ इत्यर्थः । अत्र केचित्स यदीत्यादिर्यः पुनरित्यन्तं न स्तुतिः । किं तूक्तफलायाकारे विश्वाभिन्नविराडुपासनमुकारे तैजसाभिन्नहिरण्यगर्भोपासनं च विवक्षितमित्याहुः । तन्मते मनःशब्देनाण्डपरिणामस्वप्नाभिमानी हिरण्यगर्भ उच्यत इति वक्तुं स्वप्नात्मक इत्यादिविशेषणानीति बोध्यम् । दीपिकायां तु मात्राद्वयस्य मिलितस्योपासनं मनसि सम्पत्तिश्च मनस्यैकाग्रतया चिन्तनमिति च व्याख्यातम् ॥ ४ ॥
एवमोङ्कारं स्तुत्वा तदुपासनं परब्रह्मविषयं विधत्ते –
यः पुनरिति ।
विज्ञानविशिष्टेनेति ।
विज्ञानविषयीकृतेनेत्यर्थः । मात्रात्रयात्मकज्ञानेनेति यावत् । पूर्ववदत्रापि त्रिमात्रेणेत्यत्र तृतीया मात्रा मकार उच्यत इति भ्रमं वारयितुमोमित्येतेनैवाक्षरेणेत्युक्तम् ।
पूर्वत्र तत्तन्मात्राप्रधान ओङ्कार एवोच्यत इति मत इहैवेदं विशेषणमनुपपन्नं पूर्वत्राप्योङ्कारस्यैवोक्तत्वादिति तन्मतमनुपपन्नमिव भातीति त्रिमात्रेणेति तृतीयाश्रवणादोङ्कारो न प्रतीकं तथा सति विषयत्वेन कर्मतया द्वितीया स्यात्किं त्वभिध्यायकत्वेन करणत्वमेव तृतीयाबलादिति भ्रमं वारयति –
प्रतीकेनेति ।
तस्य कर्मत्वेऽपि कारकत्वेनाभिध्यानक्रियानिर्वर्तकत्वेन हेतुत्वात्तन्मात्रविवक्षया तृतीयोपपद्यत इत्यर्थः ।
एवं व्याख्याने हेतुमाह –
प्रतीकत्वेनेति ।
अभेदेति ।
प्रतीकत्वे ह्यधिष्ठानाध्यस्यमानस्योस्तादात्म्यारोपादभेदश्रवणमुपपद्यते करणत्वे तु न तदुपपद्यत इत्यर्थः ।
अनेकश इति ।
ओङ्कारमभिध्यायीत स यद्येकमात्रमभिध्यायीतेति द्विवारं श्रुतेत्यर्थः । अन्यथेत्यस्य बाध्येतेत्यनेनान्वयः ।
अथ यदि द्विमात्रेण यः पुनरेतं त्रिमात्रेणेति च तृतीयाऽपि द्विवारं श्रुता हेतुत्वापेक्षया करणत्वेन स्वरसा च कारकविभक्तित्वात्ततस्तस्या अपि बाधो न युक्त इति शङ्कते –
यद्यपीति ।
द्वितीयाद्वयस्यापि कर्मत्वे स्वारस्यादुपक्रमस्थत्वाच्च तस्यैव प्राबल्यमित्याह –
तथाऽपीति ।
प्रकृतेति ।
प्रक्रमानुरोधादित्यर्थः । किञ्च द्वितीयाद्वयमुक्ताभेदश्रुतिः । एतेनैवाऽऽयतनेनैकतरमन्वेति ।
आयतनेनैवान्वेतीत्यालम्बनवाच्यायतनश्रुतिद्वयं चेति बहुश्रुत्यनुरोधेन तृतीयाद्वयं त्याज्यमित्याह –
त्यजेदेकमिति ।
तृतीयमात्रारूप इति ।
यद्यपि मात्रात्रयध्यानान्मात्रात्रयरूपित्वमेव तस्य तथाऽपि तृतीयमात्राया एवेहासाधारण्यात्तत्प्राधान्येन निर्देश इति बोध्यम् । तृतीयमात्ररूप इति सप्तम्यन्तपाठे तत्सूर्यविशेषणं मकारस्याऽऽदित्यात्मकत्वादिति ।
हिरण्यगर्भस्य जीवघनत्वमनागतावेक्षणन्यायेनोपपादयति –
स हिरण्यगर्भ इति ।
लिङ्गरूपेणेति ।
समष्टिलिङ्गरूपेणेत्यर्थः ।
तस्मिन्हीति ।
समष्टिलिङ्गात्मनि हिरण्यगर्भे व्यष्टिलिङ्गाभिमानिनः सर्वे जीवा गोत्वसामान्ये खण्डमुण्डादय इव संहता इत्यर्थः ।
इदानीं वाक्यं योजयति –
स विद्वानिति ।
स विद्वानिदानीं ध्यायमानः पश्चाद्ब्रह्मलोकं प्राप्तः । तत्र ब्रह्मलोके स्थावरजङ्गमेभ्यः पराज्जीवघनात्परं पुरुषं पश्यति ततो मुक्तो भवतीत्यन्वयः ॥ ५ ॥
तत्र यः पुनरेतमित्यादिनोक्तेऽर्थे आद्यं मन्त्रं योजयति –
तिस्र इति ।
मृत्युगोचर इति ।
प्रत्येकं ब्रह्मदृष्टिं च विना तदुपासकानां मृत्य्वनतिक्रमादित्यर्थः ।
ब्रह्मदृष्ट्या संश्लिष्टत्वेन च सम्भूय च प्रयुक्ताश्चेन्नायं दोष इत्याह –
किञ्चेति ।
जाग्रदिति ।
जाग्रत्पुरुषो वैश्वानराभिन्नो विश्वस्तस्थानं स्थूलशरीरं जागरितं च । स्वप्नपुरुषस्तु हिरण्यगर्भाभिन्नस्तैजसस्तत्स्थानं लिङ्गशरीरं स्वप्नश्च । सुषुप्तावीश्वरात्मा प्राज्ञस्तत्स्थानमव्याकृतं सुषुप्तिश्च । तेषामकारादितादात्म्येन यदभिध्यानं तल्लक्षणासु योगक्रियासु प्रयुक्तास्वन्योन्यसक्ता अनविप्रयुक्तास्तिस्रो मात्राः प्रयुक्ताश्चेन्न कम्पत इत्यन्वयः । अनेन सर्वात्मके परब्रह्मणीश्वर ओङ्काराभेदेन ध्यानमुक्तम् ।
यथोक्तेति ।
तिस्रो मात्रा इति श्लोकोक्तविभाग इत्यर्थः ।
कुतो वेति ।
चलनं विक्षेपः स्वस्य सर्वात्मत्वेन स्वव्यतिरिक्ताभावाच्चलनं न सम्भवतीति कुतो हेतोः कस्मिन्वा विषये चलेदित्यर्थः ॥ ६ ॥
अपरब्रह्मप्राप्त्यर्थं य ओङ्कारः प्रयुक्तस्तेनैव न पृथक्प्रयुक्तः परमपि प्राप्नोति ब्रह्मलोक उत्पन्ननिर्विशेषब्रह्मसाक्षात्कारेणोक्तस्योङ्कारस्य क्रममुक्तिफलत्वादित्याह –
तेनैवेति ।
येनापरमन्वेति तेनैव परमप्यन्वेतीत्येवकारार्थम् इत्यर्थः । तदप्योङ्कारेणेत्यायतनविशेषणार्थं पुनरोङ्कारग्र्हणमिति न पुनरुक्तिरिति बोध्यम् ॥ ७ ॥