अद्वैतशारदा

आनन्दगिरिटीका (प्रश्न)

षष्ठः प्रश्नः

गताः कालाः पञ्चदश प्रतिष्ठाः कर्मणि विज्ञानमयश्चेति मन्त्रे कर्मभिः सह षोडशकलानां पर­स्मिं­ल्ल­य­मुक्त्वा यथा नद्यः स्यन्दमाना इति मन्त्रेण दृष्टा­न्तो­क्ति­द्वारा पर­प्रा­प्ति­रुक्ता तन्म­न्त्र­यो­र्वि­स्त­रा­भि­धा­नार्थं षष्ठं प्रश्नमारभते –
अथ हैनमिति ।

तस्य पूर्वेण सङ्ग­ति­मु­क्ता­र्था­नु­वा­द­पू­र्व­क­माह –
समस्तमित्यादिना ।

अक्षरस्य कार­ण­त्व­सि­द्ध्यर्थं प्रलयेऽपि तस्मिन्नेव लयमाह –
सामर्थ्यादिति ।

लयाधारत्वेन कारणत्वमाह –
तत इति ।

तदुक्तेः प्रयोजनमाह –
जगत इति ।
यद्य­प्य­द्वि­ती­या­त्म­ज्ञा­ना­न्मु­क्तिर्न कार­ण­ज्ञा­ना­त्त­थाऽपि तस्य कारणत्वे तद्व्यतिरेकेण कार्या­भा­वा­त्त­द­द्वि­ती­य­त्व­ज्ञानं सिध्यतीति तादृ­शा­त्म­ज्ञा­ना­त्परं श्रेय इति । आत्मा वा इदमेक एव । स एतमेव पुरुषं ब्रह्म ततममपश्यत् । प्रज्ञानं ब्रह्म । स एतेन प्रज्ञे­नाऽऽ­त्म­नाऽ­मृतः समभवत् । सदे­वै­क­मे­वा­द्वि­ती­य­मि­त्यु­प­क्र­म्याऽऽ­चा­र्य­वा­न्पु­रुषो वेद, अथ सम्पत्स्ये, तमेवैकं जानथ । अमृतस्यैष सेतुः, अहं ब्रह्मास्मीति । तस्मा­त्त­त्स­र्व­म­भ­व­दि­त्या­दिषु निश्चि­त­मि­त्यर्थः ।

इहापि तादृ­गा­त्म­ज्ञा­ना­देव सर्वात्मभावः श्रेय उक्त इत्याह –
अनन्तरमिति ।

वृत्तमनूद्य वर्तिष्यमाणमाह –
वक्तव्यमिति ।

तदर्थोऽयमिति ।
तस्य शरी­रा­न्त­स्थ­त्वो­क्ति­द्वारा तस्य प्रत्य­गा­त्म­त्व­ज्ञा­ना­र्थ­मि­त्यर्थः ।

प्रश्नमिति ।
प्रष्ट­व्य­मि­त्यर्थः ।

अज्ञाने कारणमिति ।
अज्ञा­न­स­म्भा­व­नायां कारणमित्यर्थः ।

अप्रत्ययमिति ।
अवि­श्वा­स­मि­त्यर्थः ।

अन्यथा सन्तमिति ।
ज्ञानिनं सन्तमन्यथा कुर्व­न्न­ज्ञा­निनं कुर्व­न्ना­रो­प­य­न्नि­त्यर्थः ।

कथं ते नाव­क्ष्य­मि­त्य­नेन सूचितमर्थमाह –
अत इति ।

समूलो वा इत्यनेन सूचितमाह –
अनृतं चेति ।

स्वरूपेण शल्यत्वाभावादाह –
विज्ञेयत्वेनेति ।
यावज्जिज्ञासितं न ज्ञायते तावत्तद्धृदि शल्यवद्भासत इति शल्य­मि­वे­त्यु­क्तम् ॥ १ ॥

पुरुषस्य षोडशकलत्वं न साक्षा­त्सा­व­य­व­त्वेन किन्तु कलाजनकत्वेन तदु­पा­धि­म­त्त्वा­दिति वक्तुं यस्मिन्नेता इति वाक्यमिति तत्तात्पर्यमाह –
षोडशकलाभिरिति ।

ननु केवल आत्मा प्रदर्श्यतां किं वक्ष्य­मा­ण­क­लो­क्त्ये­त्यत आह –
तदुपाधीति ।

तथैव स प्रदर्शनीय इत्यत्र हेतुमाह –
अत्यन्तेति ।

अविद्याविषया इति ।
अविद्याधीना इत्यर्थः ।

कालत्रयेऽपि तासां चैत­न्य­रू­पा­धि­ष्ठा­ना­व्य­ति­रे­का­द्र­ज्जु­स­र्प­व­न्मृ­षा­त्व­मि­त्य­वि­द्या­वि­ष­यत्वं साधयति –
चैतन्येति ।

चैत­न्या­व्य­ति­रे­केण लक्ष्यमाणत्वं हेतुं विज्ञा­न­वा­दि­भ्रान्त्या दृढीकरोति –
अत एवेति ।
घृतं यथाऽ­ग्नि­सं­यो­गा­द्द्र­वा­वस्थां प्रतिपद्यत एव­म­ह­मा­का­र­मा­ल­य­वि­ज्ञा­न­मेव वास­ना­व­शा­द्वि­ष­या­का­रेण जायत इति वदतां तेषां भ्रमो विषयस्य चैत­न्या­व्य­ति­रेके प्रत्ययं गमयति, अन्यथा तथा­भ्र­मा­नु­प­प­त्ते­रि­त्यर्थः ।

विषयाणां चैत­न्या­व्य­ति­रे­केण प्रतीतिनियमादेव विष­य­वि­ज्ञा­न­रू­पेण चैतन्याभावे सुषुप्त्यादौ शून्यभ्रमो जातः केषाञ्चिदिति तदी­य­भ्रा­न्त्याऽपि चैत­न्या­व्य­ति­रि­क्त­प्र­तीतिं दृढी करोति –
तन्निरोध इति ।

चैत­न्य­स्या­नि­त्यस्य कला­रो­पा­धि­ष्ठा­नत्वं न सम्भवति कला­का­र्य­त्वा­दिति नैया­यि­क­प­क्षो­क्ति­व्या­जेन शङ्कते –
घटादीति ।

भूतधर्म इति ।
देहाकारेण संहतभूतधर्म इत्यर्थः ।

चैत­न्य­स्याऽऽ­रो­पा­धि­ष्ठा­न­त्व­सि­द्ध्यर्थं नित्यत्वमेकत्वं च वदं­स्ता­न्नि­रा­क­रोति –
अनपायेति ।

प्रत्यवभासत इति ।
नानात्वेन कार्यत्वेन चेति शेषः ।

सत्यं ज्ञानमिति ।
तथा च श्रुति­वि­रो­धात्ते पक्षा हेया इत्यर्थः ।

किञ्च ज्ञानकाले विषयाणां सद्भा­व­नि­य­मा­भा­वा­द्वि­ष­य­काले च ज्ञानस्य सद्भा­व­नि­य­मा­त्त­यो­र्भेदं इति विज्ञा­न­वा­दि­पक्षं निरा­कु­र्व­न्न­व्य­भि­चा­रा­देव ज्ञानस्य नित्यत्वं साध­य­न्नै­या­यि­का­दि­प­क्ष­मपि निराकरोति –
स्वरूपेति ।
घटज्ञानकाले घटा­भा­व­स­म्भ­वा­द्वि­ष­याणां ज्ञान­व्य­भि­चा­रित्वं ज्ञानस्य तु विष­य­का­लेऽ­व­श्य­म्भा­व­नि­य­मा­द­व्य­भि­चा­रि­त्व­मि­त्यर्थः । पटकाले घटज्ञानमपि नास्तीति घटज्ञानस्यापि पट­वि­ष­य­व्य­भि­चा­रित्वं तुल्य­मि­त्या­शङ्क्य स्वरू­पे­त्यु­क्तम् । ज्ञानस्य विष­य­वि­शि­ष्ट­त्व­रू­पे­णैव व्यभिचारः । विषयस्य तु स्वरूपेणैवेति विशेष इत्यर्थः ।

ज्ञान­स्या­व्य­भि­चा­रि­त्व­मु­प­पा­द­यति –
यथा यथेति ।

ननू­त्प­न्न­वि­न­ष्टा­दे­र्मे­रु­गु­हा­न्त­र्व­र्ति­न­श्चा­ज्ञा­य­मा­न­त्वा­ज्ज्ञा­न­स्यापि ज्ञेया­व्य­भि­चा­रोऽ­सिद्ध इत्याशङ्क्य तस्याज्ञाने तत्स­द्भा­वा­सि­द्धे­स्त­था­भू­त­प­दा­र्थोऽ­सिद्ध इत्याह –
वस्तुतत्त्वेति ।

अनुपपत्तिमेव दृष्टान्तेति स्फुटीकरोति –
रूपं चेति ।

ज्ञेयस्य ज्ञान­व्य­भि­चा­रित्वं ज्ञानकाले सत्त्व­नि­य­मा­भा­व­रूपं स्पष्टमित्याह –
व्यभिचरति त्विति ।
घटज्ञानकाले कदा­चि­द्घा­टा­भा­वा­दि­त्यर्थः ।

पटकाले घटज्ञानस्यापि व्यभिचारस्तुल्य इत्याशङ्क्य विशिष्टरूपेण व्यभिचारेऽपि स्वरू­पे­णा­व्य­भि­चारं पूर्व­व­त्सू­चि­त­माह –
न व्यभिचरतीति ।
ज्ञान­मि­त्य­स्ये­हा­प्य­नु­षङ्गः । पूर्ववाक्ये द्वितीयान्तमिह तु प्रथमान्तमिति विशेषः ।

भावादिति ।
स्वरू­पे­णे­त्यर्थः ।

ज्ञानस्य स्वरूपेण सत्तामेव ज्ञेयान्तरस्य ज्ञेयत्वादेव साधयति –
न हीति ।

स्वरू­पे­णा­प्य­भावं शङ्कते –
सुषुप्त इति ।
किं तदानीं ज्ञेयाभावेन ज्ञानाभावः साध्यत उत ज्ञान­स्या­द­र्श­ना­द्वाऽऽ­द्येऽपि ज्ञेयस्य व्यङ्ग्य­त्वा­त्त­द­भा­वा­द्व्य­ञ्ज­का­भाव इति वोत तयो­रै­क्या­दे­का­भाव इतराभाव इति ।

नाऽऽद्यो व्यभि­चा­रा­दि­त्याह –
न ज्ञेयेति ।

व्यङ्ग्य­ज्ञा­नै­क­क­ल्पस्य व्यङ्ग्या­भा­वेऽ­भाव उच्यत आलोकस्य प्रत्य­क्ष­सि­द्ध­त्वा­न्नै­व­मिति ज्ञाना­नु­मे­य­त्व­वा­दिनं प्रति दृष्टा­न्ता­न्त­र­माह –
न हीति ।

वैनाशिकमते विज्ञा­न­व्य­ति­रि­क्ता­का­लो­का­द्य­भा­वान्न तत्र व्यभिचार इति शङ्कते –
वैनाशिक इति ।

कल्पयत्येवेति
उक्त­व्य­भि­चा­र­स्थ­ला­भा­वेन व्यभि­चा­रा­भा­वा­दि­त्यर्थः ।

एवमपि ज्ञाना­भा­व­क­ल्प­कस्य ज्ञेयाभावस्य ज्ञान­म­ङ्गी­क्रि­यते न वा । आद्ये न ज्ञाना­भा­व­सि­द्धि­स्त­स्यै­वा­भा­व­ज्ञा­नस्य सत्त्वादित्याह –
येनेति ।
येन ज्ञेया­भा­व­ज्ञा­नेन तदभावं ज्ञानाभावं कल्पयेत्तस्य ज्ञानस्याभावः केन कल्प्यते न केनापि कल्पयितुं शक्य इत्यर्थः ।

न द्वितीय इत्याह –
तदभावस्यापीति ।
ज्ञेया­भा­व­स्या­प्य­ज्ञा­तस्य ज्ञाना­भा­व­क­ल्प­क­त्वा­स­म्भ­वा­द­वश्यं ज्ञेय­त्वा­त्त­ज्ञा­ना­भावे तदनुपपत्तेः कल्प­ना­नु­प­प­त्ते­र्ज्ञा­ना­न­ङ्गी­का­र­पक्षो न युक्त इत्यर्थः ।

आद्यकोटौ द्वितीयकल्पं शङ्कते –
ज्ञेयेति ।

वैना­शि­क­म­तेऽ­प्य­भा­वस्य ज्ञेय­त्वा­भ्यु­प­ग­मा­द्बु­द्धि­बोध्यं त्रया­द­न्य­त्सं­स्कृतं क्षणिकं च तदिति प्रति­स­ङ्ख्याऽ­प्र­ति­सङ्ख्या निरो­धा­का­श­रू­प­त्र­य­व्य­ति­रि­क्त­स्यैव क्षणिकत्वेन निरो­ध­श­ब्दि­त­स्या­भा­वस्य नित्य­त्वा­ङ्गी­का­रेण तद­वि­ज्ञा­न­स­न्त­ते­र्नि­त्य­त्वा­ङ्गी­का­रेण तदभिन्नस्य ज्ञानस्यापि सुषुप्ते सत्वं नित्यत्वं च प्राप्तमित्याह –
नाभावस्येति।
ज्ञान­स्या­भा­वा­भि­न्न­त्वे­ना­भा­व­त्व­मेव स्यान्न तु भावत्वेन सत्त्वं नित्यत्वं च स्यादि­त्या­श­ङ्क्या­भा­व­स्यापि ज्ञाना­भि­न्न­त्वेऽ­भा­व­त्व­मेव न स्यादित्य्याह -
तदभावस्येति ।
अनित्यत्वं च ज्ञानस्येति वाङ्मात्रमेव स्यादि­त्य­नु­षङ्गः । वाङ्मा­त्रे­णा­प्य­भा­व­स्या­भा­व­त्वेन ज्ञाना­नि­त्य­त्वेन चास्म­त्सि­द्धा­न्त­सि­द्धि­रि­त्या­शङ्क्य नाममात्रेण तेन वास्त­व­नि­त्य­त्वा­दि­वि­रो­धा­भा­वा­न्ना­स्माकं क्षतिरित्याह -
न चेति । अभावनामेति ।
अनित्यनामेत्यपि द्रष्टव्यम् । एत­द्दो­ष­प­रि­हा­रार्थं ज्ञेयस्यापि सतोऽभावस्य ज्ञानाभेदो नाङ्क्रीयत इति शङ्कते -
अथेति ।
तर्हि ज्ञेया­भि­न्न­त्वेन हेतुना सुषुप्ते ज्ञानाभावो न सिध्यति घटाद्यभावेन तज्ज्ञा­ना­भा­व­सि­द्धा­व­प्य­भा­व­ज्ञा­ना­भा­व­सि­द्धे­स्त­स्या­भि­न्न­त्वा­भा­वा­दि­त्याह -
न तर्हीति ।
यद्वाऽभावस्य ज्ञेयस्य ज्ञानाद्भेदे भावस्यापि तथात्वं स्याद्वि­शे­ष­हे­त्व­भा­वा­त्त­थाच न ज्ञेया­भा­वा­ज्ज्ञा­ना­भा­व­सि­द्धि­रि­त्याह -
न तर्हीति ।
ननु ज्ञेयस्य ज्ञान­व्य­ति­रि­क्त­म­ङ्गी­क्रि­यते तथाचाभावस्य ज्ञान­व्य­ति­रि­क्त­त्वा­द­भा­व­त्वा­दिकं सिध्यति । ज्ञानस्य तु न ज्ञेय­व्य­ति­रि­क्त­वम् । तथा च ज्ञेयाभावे ज्ञाना­भा­व­सि­द्धि­रिति निरुद्धगतिकः शङ्कते -
ज्ञेयमिति ।
ज्ञानस्य ज्ञेयाव्यतिरेके ज्ञेयस्यापि तद­व्य­ति­रे­का­व­श्यं­भा­वा­द­न्य­थो­भ­यो­र­त्य­न्त­भेद एव स्याद्भे­दा­भे­द­यो­र्वि­रो­धा­नु­प­प­त्ते­रिति दूषयति -
न शब्द­मा­त्र­त्वा­दिति ।
इदमुपलक्षणम् । ज्ञान­स्या­भा­वा­व्य­ति­रे­केण नित्यत्वादिकं च स्यादेवेत्यपि द्रष्टव्यम् । यद्ये­त­द्दो­ष­प­रि­हा­राय तस्यापि भेद एवाङ्गीक्रियते तर्हि न सुषुप्तौ ज्ञाना­भा­व­सि­द्धि­रि­त्यु­प­सं­ह­रति -
ज्ञेयव्यतिरेके त्विति ।
सुषुप्ते ज्ञान­स्या­द­र्श­ना­दे­वा­भाव इत्याद्ये द्वितीयं शङ्कते -
ज्ञेयाभाव इति ।

अस्तित्वमिति ।
तथा च ज्ञान­स्या­द­र्श­न­म­सिद्धं सुषुप्तेऽपि तद­ङ्गी­का­रा­दि­त्यर्थः ।

ननु ज्ञेयाभावेन तन्निरूप्यस्य ज्ञान­स्या­द­र्श­न­मि­त्यु­च्यते मया सुषुप्ते च स्वस्यैव स्वज्ञे­य­त्वा­ज्ज्ञा­न­द­र्श­न­मु­प­प­द्य­तेऽ­स्म­न्मते । त्वन्मते तु स्वज्ञे­य­त्वा­न­ङ्गी­का­रा­त्सु­षुप्ते चान्य­स्या­भा­वा­न्नि­रू­प­का­भा­वान्न ज्ञान­द­र्श­ना­स्ति­त्व­मु­प­प­द्यत इति शङ्कते –
तत्रापीति ।

अभावस्थले ज्ञान­ज्ञे­य­यो­र्भे­दस्य साधि­त­त्वा­त्त­द्दृ­ष्टा­न्तेन सर्वत्र ज्ञान­ज्ञे­य­यो­र्भे­द­सा­ध­नान्न स्वज्ञेयत्वं ज्ञानस्येत्याह –
न भेदस्येति ।
अभावरूपो ज्ञेयो विषयो यस्य तस्य ज्ञान­स्या­भा­व­रूपो यो ज्ञेय­स्त­द्व्य­ति­रे­का­दि­त्यर्थः ।

अभावस्थले भेदेऽपि न सर्व­त्रे­त्या­शङ्क्य न्यायस्य तुल्यत्वान्न तदन्यथा कर्तुं शक्यमित्याह –
न हीति ।

ज्ञानस्य स्वव्य­ति­रि­क्त­ज्ञे­य­त्व­नि­य­म­प­क्षेऽ­न­वस्थां वैनाशिकः शङ्कते –
ज्ञानस्येति ।

ज्ञेयस्य स्वव्य­ति­रि­क्त­ज्ञे­य­त्व­नि­य­मा­ङ्गी­का­रा­द­स्म­न्मते च ज्ञानस्य ज्ञेय­त्वा­न­ङ्गी­का­रान्न दोष इत्याह –
न तदिति ।
सर्वस्य वस्तुजातस्य विभागोऽसङ्करो ज्ञानं ज्ञानमेव न ज्ञेयं ज्ञेयमपि ज्ञेयमेव न कदाचिदपि ज्ञान­मि­त्ये­वं­रू­प­स्त­स्यो­प­प­त्ते­रि­त्यर्थः । अथवा द्विभा­गो­प­प­त्ते­रिति च्छेदः । ज्ञान­ज्ञे­य­रू­प­भा­ग­द्व­य­मेव राशि­द्व­य­मे­वाङ्गी क्रियते न तृतीयो ज्ञान­वि­ष­य­क­ज्ञा­न­रूपो भावराशिरङ्गी क्रियत इत्यर्थः ।

तामेवाऽऽह –
यदा हीति ।
यस्मिन्पक्षे ज्ञेयं सर्वं स्वव्य­ति­रि­क्तस्य कस्य­चि­ज्ज्ञा­नस्य ज्ञेय­मि­त्य­ङ्गी­क्रि­यत इति ज्ञेय­प­दा­वृत्त्या स्वव्य­ति­रि­क्त­स्ये­ति­प­दा­ध्या­हा­रेण च यदा हीति वाक्यं योज्यम् । अवैनाशिकैरिति च्छेदः ।

तद्विषय इति ।
ज्ञान­वि­ष­य­क­ज्ञा­ना­त्मक इत्यर्थः ।

तर्हि त्वत्पक्षे ज्ञानात्मकस्य ब्रह्मणः सर्वज्ञत्वं न स्यात्स्वेन स्वस्या­ज्ञा­ना­दिति शङ्कते –
ज्ञानस्येति ।

ज्ञातुं योग्यस्य सर्वस्याज्ञाने हि सर्व­ज्ञ­त्व­हानिः, अन्यथा शश­वि­षा­णा­दे­र­ज्ञा­ना­त्स­र्व­ज्ञत्वं कस्यापि मते न स्यादतो नास्मन्मते तस्य दोषस्य प्राप्तिः किन्तु वैनाशिकस्यैव, तेन ज्ञान­स्या­व­श्य­ज्ञे­य­त्वा­ङ्गी­का­रा­त्स्वेन स्वस्य ज्ञेयत्वस्य सिद्धं हीति पूर्वग्रन्थे दूषि­त­त्वा­द­न्य­ज्ञे­य­त्वस्य चान­ङ्गी­का­रा­त्स­र्व­ज्ञ­त्वा­यो­गा­दि­त्याह –
सोऽपीति ।

तर्हि तव मते कथं सर्व­ज्ञ­त्व­नि­र्वाह इत्या­श­ङ्क्या­स्म­न्मते तस्य मायिकत्वेन तदनिर्वाहेऽपि न दोष इत्याह –
किं तदिति ।
वस्तुतस्तु सर्वस्य व्यव­हा­र­हे­तु­ज्ञा­न­वत्वं सर्वज्ञत्वं तत्तु ज्ञानस्यापि स्वप्रकाशत्वेन स्वव्य­व­हा­र­हे­तु­त्वा­दस्ति ज्ञातुं योग्यं सर्वज्ञानाद्वा तदस्तीति भावः ।

पूर्वो­क्ता­न­व­स्था­दो­षोऽपि तस्यैवेत्याह –
अनवस्थेति ।

ननु तेन स्वेनैव ज्ञेय­त्वा­ङ्गी­का­रा­न्ना­न­व­स्थे­त्यत आह –
स्वात्मना चेति ।
सिद्धं हीत्यत्र स्वज्ञे­य­त्वा­स­म्भ­व­स्यो­क्त­त्वा­त्प­रि­शे­षा­द­न्य­ज्ञे­यत्वे तस्य तस्या­प्ये­व­मि­त्य­न­व­स्थाऽ­नि­वा­र्ये­त्यर्थः ।

ज्ञान­स्या­ज्ञे­यत्वे तद्व्य­व­हा­रा­सि­द्धि­र्ज्ञा­ना­न्त­र­ज्ञे­यत्वे चानवस्था तवापि स्यादिति शङ्कते –
समान एवेति ।

स्वप्रकाशत्वेन स्वव्य­व­हा­र­सि­द्धे­र्ज्ञा­न­भे­द­स्यै­वा­स्मा­भि­र­न­ङ्गी­का­रा­द­न­व­स्थायाः प्रसक्तिरेव नास्तीति परिहरति –
न ज्ञानस्येति ।

एकत्वपक्षे भेद­प्र­ती­ति­मु­प­पा­द­यति –
नामरूपेति ।

एवं च चैत­न्य­स्यै­क­त्वेन नित्य­त्वा­ज्ज­ग­द्भि­न्न­त्वेन तस्य सत्य­त्वा­च्चा­धि­ष्ठा­न­त्वो­प­प­त्ते­स्त­स्मि­न्क­ला­ना­म­ध्या­रोप आत्म­प्र­ति­प­त्त्य­र्थ­मि­हो­च्यत इत्याह –
तथा चेहेति ।
चैतन्यस्य नित्य­त्वे­ना­धि­ष्ठा­नत्वे सतीह श्रुताविदं कला­ना­म­ध्या­रो­प­ण­मु­च्यत इत्यर्थः ।

ननु चैतन्यस्य न नित्यत्वं परिच्छेदश्रुतेः परिच्छिन्नस्य च घटा­दि­व­द­नि­त्य­त्वा­दिति शङ्कते –
नन्विति ।

शरी­रा­न्तः­स्थत्वं प्रत्य­क्त्व­वि­व­क्ष­यो­च्यते न परि­च्छे­द­वि­व­क्षया तथा सत्यु­त्त­र­वा­क्य­वि­रो­धा­दि­त्याह –
नेति ।

अयोग्यत्वादपि सोऽर्थो न विवक्षित इत्याह –
कलेति ।
स्वोत्पत्तेः पूर्वं स्वस्या­भा­वा­त्त­त्का­ली­न­पु­रुषं परिच्छेत्तुं न शक्नोतीत्यर्थः ।

बीजकार्यस्य वृक्षस्य कार्यं फलं स्वका­र­ण­वृ­क्ष­का­रणं बीज­म­भ्य­न्त­री­क­रो­तीति दृष्टमिति नायोग्यत्वमिति शङ्कते –
बीज­वृ­क्षा­दि­व­दिति ।

तद्विवृणोति –
यथेति ।

दृष्टान्ते बीज­व्य­क्ति­भे­दा­द­वि­रो­धेऽ­पीह पुरु­ष­व्य­क्त्यै­क्या­त्का­र­ण­त्वा­भ्य­न्त­री­भा­व­यो­र्वि­रोध इत्याह –
नेति ।

ननु कार­णी­भू­त­बी­ज­स्यैव वृक्ष­फ­ल­त­द­न्त­र्ग­त­बी­ज­रू­पेण परिणामात्तयोः कार­ण­का­र्य­यो­र्बी­ज­यो­रै­क्य­मा­श­ङ्क्यै­व­मपि तस्य साव­य­व­त्वा­द्वृ­क्ष­व­त्फ­ला­का­रेण परिणतावयवेभ्यो भिन्नावयवानामेव तद­न्त­र्ग­त­बी­ज­रू­पेण परि­णा­मा­त्त­यो­र्भे­दे­नाऽऽ­धा­रा­धे­य­भावः स्यादिह तु निरवयवत्वान्न तथात्वमित्याह –
सावयवत्वाच्चेति ।

आद्यं हेतुं विवृणोति –
दृष्टान्त इति ।

श्रूयत इति ।
यस्मिन्नेताः षोडश कला इति यच्छ­ब्दो­क्त­स्यैव पुरु­ष­स्या­न्तः­श­रीरे सोम्य स पुरुष इति तच्छ­ब्दे­ना­भि­धा­ना­दि­त्यर्थः ।

द्वितीयं हेतुं विवृणोति –
बीजेति ।

निरवयवश्चेति ।
तथा चैकदेशेन कलादिरूपेण परिणाम एकदेशेन तत्रावस्थानं बीजवन्न सम्भवतीत्यर्थः ।

किञ्च कलानां सावयवत्वेन परि­च्छे­दा­त्पु­रु­षस्य तद्वि­प­री­त­त्वा­द­प­रि­च्छि­न्नस्य न परि­च्छि­न्ना­धा­र­कत्वं सम्भवतीत्याह –
सावयवाश्चेति ।

यद्वा सावयवत्वेन कार्यतया मृषा­त्वा­न्नि­र­व­य­व­तया पर­मा­र्थ­स­त्य­पु­रु­षा­धा­रत्वं नोपपद्यत इत्याह –
सावयवाश्चेति ।

नन्वा­का­श­का­र्य­श­रीर आका­श­स्या­प­रि­च्छि­न्न­स्या­भ्य­न्त­री­भावो दृष्ट इत्याशङ्क्य तस्यापि शरी­रा­का­रे­णा­व­स्था­न­मेव च्छिद्रा­दि­वि­शि­ष्ट­स्यैव शरीरत्वान्न तु तद­न्तः­स्थ­त्व­मि­त्याह –
एतेनेति ।

युक्त्यसहमपि वच­न­प्रा­मा­ण्या­द­ङ्गी­का­र्य­मिति शङ्कते –
किं दृष्टान्तेनेति ।

वचनस्यापि वस्तु­नोऽ­न्य­था­क­रणे साम­र्थ्या­भा­वा­द्व­स्तु­स्व­रू­पा­वि­रो­धे­नैव बोधकत्वादन्यथा विचा­र­वै­य­र्थ्या­द्वि­रु­द्धार्थो न बोधार्ह इत्याह –
वचनस्येति ।

तर्ह्यन्तःशरीर इति श्रुतेः कथ­मु­प­प­त्ति­रि­त्या­शङ्क्य पुरुषस्य शरीरोपादानत्वेन तदनुस्यूतस्य तद­न्त­र्ग­त­व­त्प्र­ती­ते­स्त­द­भि­प्रा­येयं श्रुतिरिति सदृष्टान्तमाह –
तस्मादिति ।

अण्डेति ।
अण्डकारणस्य व्योम्नो यथा तदनुस्यूतत्वेन तद­न्त­र्ग­त­त्व­प्र­ती­ति­स्त­द्व­दि­त्यर्थः ।

यद्वा लोकभ्रमसिद्धं परि­च्छि­न्न­त्व­म­नू­द्यते श्रुत्येत्याह –
उपलब्धीति ।

तत्रा­भि­व्य­क्तेर्वा तद­न्त­र्ग­त­त्व­व्य­प­देश इत्याह –
उपलभ्यते चेति ॥ २ ॥

ननु यस्मिन्नेताः षोडश कलाः प्रभ­व­न्ती­त्य­ने­ना­ध्या­रो­प­स्यो­क्त­त्वात्स ईक्षामित्यादिना पुनः सृष्टि­क­थ­न­म­धि­क­मि­त्यत आह –
यस्मिन्निति ।

अत इति ।
क्रम­प्र­ति­प­त्त्यर्थं स ईक्षा­मि­त्या­द्यु­च्यत इत्यर्थः । तत्प्र­ति­प­त्तिश्च कलो­त्प­त्ति­प्र­ति­प­त्ति­सौ­क­र्यार्थं विपर्ययेण तु क्रमोऽत उपपद्यते चेति न्यायेन कार्यस्य स्वस्व­का­र­ण­क्र­मे­णा­प­वा­द­सौ­क­र्यार्थं चेत्यर्थः ।

ईक्षणोक्तेः प्रयोजनमाह –
चेतनेति ।

सृष्टीति ।
सृष्टिः प्राणादेः सृष्टिः, तस्या उत्क्रान्त्यादि फलं, क्रमः प्राणा­च्छ्र­द्धा­मि­त्या­द्यु­क्ता­न­न्त­र्यम् । आदिशब्देन लोकेषु नाम चेत्या­धा­रा­धे­य­वि­शेषो गृह्यते ।

नन्वी­क्ष­णोक्त्या न चेत­न­पू­र्व­क­त्व­सि­द्धि­र्न्या­येन चेत­न­स्या­क­र्तृ­त्वे­ना­हे­तु­त्वेऽ­चे­त­नस्य प्रधा­ना­दे­र्वि­क्रि­या­व­त्वेन हेतुत्वे च सती­क्ष­ण­स्या­न्यथा नेयत्वादिति साङ्ख्याः शङ्कते –
नन्वात्मेति ।
अकर्तेत्यस्य तत्रे­द­मि­त्य­ने­ना­न्वयः । आत्माऽकर्ता तत्र तथा सतीदं कर्तृ­त्व­व­च­न­म­नु­प­प­न्न­मि­त्यर्थः ।

किञ्च तस्य कर्तृ­त्वा­ङ्गी­का­रेऽपि कर्तुः कुलालादेरिव सह­का­रि­सा­ध­ना­न्त­रा­भा­वा­दा­त्मनो दुःखा­द्य­न­र्थ­हे­तु­प्रा­णा­दि­सं­सा­र­क­र्तृ­त्वा­नु­प­प­त्ते­श्चा­नु­प­पन्नं स्रष्टृ­त्व­व­च­न­मि­त्याह –
आत्मनोऽपीति ।
कर्तृ­त्वेऽ­पी­त्य­पि­श­ब्दा­न्वयः ।

तर्हि किं कर्त्रत आह –
प्रधानमिति ।

कर्त्रिति ।
क्रियाशक्तिमदतः प्रवर्तत इत्यन्वयः ।

ननु प्रधा­न­स्या­चे­त­नस्य प्रयो­ज­ना­पे­क्षा­भा­वा­त्प्र­वृ­त्त्य­नु­प­प­त्ति­रि­त्यत आह –
पुरुषार्थमिति ।
पुरुषस्य चेतनस्य भोगा­प­व­र्ग­रू­प­मर्थं प्रयो­ज­न­मु­द्दिश्य प्रवर्तते वत्स­वि­वृ­द्ध्य­र्थ­म­चे­त­नस्य धेनु­दे­ह­ग­त­क्षी­रस्य सस्या­दि­वि­वृ­द्ध्य­र्थ­म­म्बु­न­श्चा­चे­त­नस्य प्रवृ­त्ति­द­र्श­ना­दि­त्यर्थः ।

ननु प्रधा­न­स्या­प्ये­क­त्वेन सह­का­र्य­भा­वा­त्का­र­ण­त्वा­नु­प­प­त्ता­व­गत्या चेतनस्यैव कथ­ञ्चि­त्क­र्तृत्वं वाच्यमित्यत आह –
सत्त्वादिति ।
सत्त्वा­दि­गु­ण­त्र­यस्य साम्यावस्था प्रधानमिति साङ्ख्यमतम् । तत्र सत्त्वा­दि­गु­णै­र­ने­का­त्मके प्रधाने कारणे सति पुरुषस्य कर्तृ­त्व­व­च­न­म­ग­ते­र­भा­वा­द­नु­प­प­न्न­मि­त्य­न्वयः ।

यदि चेत­ना­न­धि­ष्ठि­त­स्या­चे­त­नस्य प्रवृत्तिर्न दृष्टेति मन्यसे तर्हि पर­मा­णु­का­र­ण­वा­दोऽस्तु तत्रे­श्व­र­स्या­धि­ष्ठातुः सत्त्वादित्याह –
ईश्वरेच्छेति ।
अत्रापि सत्स्वि­त्य­स्या­नु­प­प­न्न­मिति पूर्वेणान्वयः ।

तर्ही­क्ष­ण­श्र­व­णस्य का गतिरत आह –
तस्मादिति ।

पुरुषार्थेनेति ।
पुरुषस्य भोगा­प­व­र्गा­र्थे­ने­त्यर्थः । मुख्य ईक्षितरि विद्यमानेन नियतक्रमेण प्रवर्तमानत्वेन गुणेन योगादैक्षतेति गौणः प्रयोगो माणवके पैङ्ग­ल्य­गु­ण­यो­गे­ना­ग्नि­श­ब्द­प्र­यो­ग­व­दि­त्यर्थः ।

नन्वे­व­म­पी­क्षि­तरि प्रधाने पुरुषशब्दः कथमत आह –
यथा राज्ञ इति ।

तद्वदिति ।
पुरुषस्य भोगापवर्गकारिणि प्रधाने पुरुषशब्द औपचारिक इत्यर्थः ।

स्वतोऽ­क­र्तु­र­प्या­त्मनो मायो­पा­धि­क­क­र्तृत्वं सम्भवतीति हृदि निधाय प्रथममापाततः प्रतिबन्द्या परिहरति –
नेति ।
बुद्धिः कर्त्री भोक्ता पुरुष इति वदद्भिः साङ्ख्यैरात्मनो भोक्तृ­त्व­मु­क्त­मि­त्यर्थः ।

श्रुति­प्रा­मा­ण्या­दिति ।
श्रुत्यु­क्त­ज­ग­त्क­र्तृ­त्व­म­वि­का­रि­णोऽपि कथ­ञ्चि­न्नि­र्वा­ह्य­मि­त्यर्थः ।

साङ्ख्यः प्रति­ब­न्दि­प­रि­हारं शङ्कते ।
तत्त्वान्तरेति ।
भोगो नाम सुखदुःखानुभवः स च पुरुषस्य स्वरूपभूत इति न तत्त्वा­न्त­रा­प­त्ति­ल­क्ष­ण­प­रि­णाम इत्यर्थः । परिणामो हि पूर्व­रू­प­प­रि­त्या­गेन रूपान्तरापत्तिः । सा च सजा­ती­य­रू­पा­न्त­रा­पत्तौ विजा­ती­य­रू­पा­न्त­रा­पत्तौ वाऽनि­त्य­त्वा­दि­क­मा­व­हे­दे­वेति भोज्या­वि­वे­को­पा­धिकं भोक्तृ­त्व­म­ङ्गी­क­र्त­व्यम् ।

तेन तदा­त्म­क­क­र्तृ­त्वेऽपि तुल्य­मि­त्य­भि­प्रेत्य मुख्यपरिहारमाह –
नेति ।
एकस्य वस्तु­तोऽ­स­हा­य­स्या­क­र्तु­रा­प्त­का­म­स्या­पी­त्य­प­रेर्थः । उपा­धि­कृ­त­क­र्तृ­त्व­स­म्भ­वा­द­वि­द्या­रू­प­स­हा­यस्य सम्भ­वा­द्भ्रान्त्या स्वस्मा­द्भि­न्न­जी­वा­ना­म­ना­प्त­का­मानां सम्भ­वा­त्त­त्पु­रु­षा­र्थार्थं स्रष्टृत्वं तथा­वि­धि­स्या­प्यु­प­प­द्यत इति नाचेतनस्य चेतनाधिष्ठितस्य तद्युक्तमिति भावः ।

नामरूपेति ।
अन­भि­व्य­क्त­ना­म­रू­पे­त्यर्थः । बन्ध­मो­क्षा­दी­त्या­दि­श­ब्देन तत्साधनमुच्यते । मोक्षस्यापि बन्ध­प्र­ति­यो­गि­त्वेन सोपा­धि­क­त्व­मु­क्तम् ।

परमार्थस्य श्रुत्ये­क­ग­म्य­त्व­माह –
सर्वेति ।

एव­म्भू­त­स्याऽऽ­त्मनो न स्रष्ट्रु­त्व­मि­त्याह –
न तत्रेति ।

कल्पयित्वेति ।
कल्पयितुं प्रवृत्ता इत्यर्थः । पुरुषस्य निर्विशेषत्वेन तस्मिन्वस्तुतः कर्तृ­त्वा­द्य­यो­गा­त्त­दा­रो­पि­त­मे­वेति कल्पयितुं प्रवृत्ता अपि सर्व­वि­रो­ध­नि­रा­स­का­ग­म­प्र­मा­णै­क­श­र­ण­त्वा­भा­वा­त्प्र­त्य­क्षा­दि­वि­रो­धा­प­त्त्याऽऽ­रो­पि­त­त्वा­ङ्गी­का­राच्च त्रस्यन्तः सर्वे परमार्थत एवेच्छन्ति । तत्राप्यचेतनस्य भोक्तृ­त्वा­यो­गा­त्त­न्मा­त्र­मा­त्म­नोऽ­ङ्गी­कु­र्वन्ति । कर्तृत्वादिकं तु प्रधा­न­स्या­ङ्गी­कु­र्व­न्ती­त्यर्थः ।

(तर्हि तस्य को दोष इत्याशङ्क्य भोक्तृ­त्वा­ङ्गी­कारे तथैव तस्यैव कर्तृत्वमपि स्यादित्यन्यैः शिक्षिताः सन्तः स्वम­ता­त्प्र­च्य­वन्त इत्याह –
अन्येति ।
कृतायाः शिक्षिताया बुद्धेर्विषया अधीनाः शिक्षितबुद्धय इत्यर्थः ।

तर्हि साङ्ख्य­शि­क्ष­कस्य तार्किकस्य मतं ग्राह्यमत आह –
तथेति ।
तस्यापि साङ्ख्येन शिक्षितत्वान्न तदपि ग्राह्य­मि­त्यर्थः । तर्हि त्वया तार्किकमतं किमर्थं दूष्यते ।

तर्हि कस्य तार्किकस्य मतं ग्राह्य­मि­त्या­शङ्क्य न कस्यापीत्याह –
इत्येवमिति ।

परस्परमेव तैर्दू­षि­त­त्वा­त्तव तद्वदेव द्वेषा­दि­म­त्त्व­प्र­स­ङ्गा­च्चे­त्यत आह –
अत इति ।

विरो­धो­द्भ­व­का­र­ण­मिति ।
पारमार्थिकतया भेद­द­र्श­न­मि­त्यर्थः ।

संरक्षितेति ।
भेददर्शनस्य पर­स्प­रो­क्त­दो­ष­ग्र­स्त­त्वा­द­द्वै­त­मेव निर्दुष्टमिति निश्चितबुद्धिः सन्निर्वाति सर्वविकल्पेभ्यः उपशान्तो भवतीत्यर्थः ।

दोषप्रदर्शनं किञ्चित्क्रियत इति यदुक्तं तदेव प्रप­ञ्च­य­न्क­र्तृ­त्वा­दे­रा­रो­पि­त­त्व­मेव परेणापि वक्तव्यमित्याह –
किञ्चेत्यादिना ।

तत्राऽऽदौ भोक्तृ­त्व­क­र्तृ­त्व­यो­र्वि­शे­षस्य वक्तु­म­श­क्य­त्वा­त्त­यो­रा­श्र­य­व्य­वस्था न सम्भवतीत्याह –
भोक्तृत्वेति ।

आश­य­म­वि­द्वा­ञ्श­ङ्का­व­स­रोक्तं विशेषं शङ्कते –
नन्विति ।

स्वात्मस्थी विक्रियत इति ।
चिद्रूपेण विक्रियत इत्यर्थः ।

तत्त्वन्तरेति ।
अने­क­त्वा­शु­द्ध्या­दि­यु­क्त­स्व­वि­ल­क्ष­ण­म­ह­दा­दि­रू­पे­णे­त्यर्थः । पुरुषस्य चिद्रूपेणैव परिणामान्न रूपा­न्त­रा­प­त्ति­र­शु­द्ध्या­दिकं वा । प्रधानस्य त्वाकारान्तरेण परि­णा­मा­त्पू­र्व­रू­प­त्या­गा­द­शु­द्ध्या­दिकं स्यादित्यर्थः । किञ्चिद्रूपेण परिणाम आगन्तुको वा न वा । आद्य आग­न्तु­क­वि­शे­ष­व­त्त्वे­ना­नि­त्य­त्वा­द्या­पत्त्या प्रधानादविशेषः ।

भोगानन्तरं पुनः स्वरू­पा­व­स्था­ना­न्ना­नि­त्य­त्वा­दि­दो­ष­श्चे­त्प्र­धा­न­स्यापि प्रलये तथा­त्वा­ङ्गी­का­रान्न तयोर्विशेषः स्यादिति दूषयति –
नासाविति ।

सङ्ग्रहवाक्यं विवृणोति –
प्रागिति ।

अस्यां कल्पनायामिति ।
चिद्रूपेण तत्त्वा­न्त­र­रू­पेण विक्रि­या­क­ल्प­ना­या­मपि विचा­र्य­मा­णेऽ­र्थतो न कश्चिदपि विशेषो लभ्यत इति तयो­र्वि­शि­ष्ट­वि­क्रि­येति वाङ्मात्रेणैव कल्प्यत उच्यत इत्यर्थः ।

द्वितीयं शङ्कते –
अथेति ।

चिन्मात्र एवेति ।
न त्वागन्तुकं रूपा­न्त­र­मि­त्यर्थः ।

तर्हि कर्मजन्यः कादाचित्को भोगो न सिध्येदित्याह –
न तर्हीति ।

एत­द्दो­ष­प­रि­हा­रा­याऽऽ­ग­न्तुकं परि­णा­म­म­ङ्गी­कृत्य भोग­का­ली­न­वि­क्रि­या­मात्रं भोगः स च पुरुषस्यैव न प्रधानस्येति भोग­स­द­स­त्त्व­वि­शे­ष­मा­त्रेण शङ्कते –
भोगकाल इति ।

तत्रापि किं भोग­का­ली­न­वि­क्रि­या­मात्रं भोग उत तत्का­ली­न­चि­न्मा­त्र­ग­त­वि­क्रिया भोग इति विकल्प्याऽऽद्ये भोगकाले प्रधानस्यापि सुखाद्याकारेण विक्रि­या­व­त्त्वा­द्भोगः स्यादित्याह –
नेति ।

द्वितीयं शङ्कते –
चिन्मा­त्र­स्यै­वेति ।
चिन्मात्रस्यैव विक्रि­ये­त्ये­व­का­रेण धर्म्य­न्त­र­ग­त­वि­क्रि­या­न­पेक्षा चैतन्यविक्रिया भोग इत्युच्यते वा चैतन्यमात्रगता तदसाधारणा विक्रिया भोग इति वा । नाऽऽद्यः । सुखा­दि­रू­प­प्र­धा­न­वि­क्रियां विना भोगासिद्धेः । न द्वितीयः । चैत­न्या­सा­धा­र­ण­वि­क्रि­यैव भोग इत्यत्र हेत्व­भा­वा­त्स्वा­सा­धा­र­ण­वि­क्रिया भोग इति वक्तव्यम् । तथा चातिप्रसङ्गः । सर्वस्यापि स्वासा­धा­र­ण­वि­क्रि­या­व­त्त्वात् । भोग­का­ली­ना­सा­धा­र­ण­वि­क्रि­या­वत्त्वं तु प्रधा­न­स्या­प्यस्ति ।

तत्का­ली­न­सु­खा­दि­वि­क्रि­या­व­त्त्वा­दिति दूषयति –
औष्ण्येति ।

ननु भोगकालीन साधारणविक्रियैव भोगः । न चाग्न्या­दे­स्त­त्काले नियमेन विक्रियाऽस्ति । न च प्रधानस्यापि प्रसङ्ग इष्टापत्तिरिति शङ्कते –
प्रधानेति ।

भोक्ता हि शेषी, उभयोरपि भोक्तृत्वे शेषशेषिभावो न स्यादित्याह –
नेति ।

ननु भोगः सत्त्व­गु­ण­प्र­धा­न­चे­तो­रू­पेण परिणतप्रकृतेरेव धर्मस्तस्या विक्रि­यो­प­प­त्तेर्न पुरुषस्य तस्या­वि­क्रि­य­त्वात् । न च तस्य भोगा­भा­व­प्र­स­ङ्ग­स्तस्य तथा­वि­ध­चि­त्त­प्र­ति­बि­म्बि­त­त्व­मा­त्रेण भोक्तृ­त्व­व्य­प­देश इति शङ्कते –
भोगधर्मवतीति ।

सत्त्वाङ्गिनीति ।
सत्वगुणोऽङ्गी प्रधानं यस्य तस्मिं­श्चे­त­सी­त्यर्थः ।

तर्हि चित्तगतभोगेन चैतन्ये विशेषो जायते वा न वेति विकल्प्य न द्वितीय इत्याह –
नेति ।

किञ्चा­स्मि­न्पक्षे स्वकी­य­शा­स्त्र­प्र­ण­यनं च व्यर्थं स्यादित्याह –
भोगरूपश्चेदिति ।

आद्ये स विशेषः सत्यो वाऽसत्यो वेति विकल्प्य सत्य­वि­शे­ष­वत्त्वे पुरुषस्य विकारित्वं स्यादिति मनसि सन्नि­धा­या­स्याऽऽ­रो­पि­त­वि­शे­ष­व­त्त्व­म­स्ती­त्याद्यं शङ्कते –
अविद्येति ।

अनर्थेति ।
भोगरूपेत्यर्थः । तर्हि भोक्तृ­त्व­वि­शे­ष­व­त्क­र्तृ­त्वा­दि­वि­शे­षस्य प्रधा­ना­दे­श्चाऽऽ­रो­प­त्व­मे­वा­ङ्गी­कर्तुं युक्तं नार्ध­वै­श­स­म­स्म­दु­क्त­रीत्या बन्ध­मो­क्ष­व्य­व­हा­र­सि­ध्यु­प­पत्तेः ।

तथा कल्पनायां प्रयो­ज­ना­भा­वा­त्प्र­मा­णा­भा­वा­त्प्र­त्युत सर्व­श्रु­ति­वि­रो­धा­प­त्ते­श्चे­त्याह –
परमार्थत इति ।
पुरु­षा­द्व­स्त्व­न्तरं च प्रधा­न­मि­त्य­न्वयः ।

उक्तदोषजातं साङ्ख्यस्य मतं मोक्षकामिणा नाऽऽदर्तव्यमिति ज्ञाप­ना­र्थ­मुक्तं न तु द्वेष­प­क्ष­पा­ता­दि­त्या­श­ये­नाऽऽह –
इति नाऽऽदर्तव्येति ।

आत्मै­क­त्व­प­क्षेऽपि निर­स­नी­य­ब­न्धा­भा­वा­च्छा­स्त्र­प्र­ण­य­ना­न­र्थ­क्य­मिति शङ्कते –
एकत्वेऽपीति ।

किमा­त्मै­क­त्व­नि­श्च­य­वन्तं प्रति तस्याऽऽ­न­र्थ­क्य­मु­च्यते तद्विपरीतं प्रति वेति विकल्प्याऽऽद्यं प्रति प्रण­य­ना­भा­वा­दा­न­र्थ­क्य­दो­षा­भा­व­माह –
नाभावादिति ।
दोषा­पा­द­ना­भा­वा­दि­त्यर्थः ।

सङ्ग्रहवाक्यं विवृणोति –
न ह्यात्मैकत्व इति ।
निश्चित इति शेषः । तदभावे शास्त्र­प्र­णे­त्रा­द्य­भाव एवं विक­ल्प­नै­वा­र्थ­व­द­न­र्थकं वेति विक­ल्प­नै­वा­नु­प­प­न्ने­त्यर्थः । नैवानुपपन्नेति पाठे तु तदभाव इत्य­ने­नै­क­त्व­नि­श्च­या­भा­वोऽ­भि­धी­यते ।

तदानीं निर­स­नी­य­ब­न्धा­दि­स­त्वा­दियं कल्पना बन्ध­नि­वृ­त्त्यर्थं शास्त्र­प्र­ण­य­न­क­ल्पना नानुपपन्नेति योज्यम् । किञ्च आत्मै­क­त्व­नि­श्चये जाते तन्नि­श्च­य­ज­न­क­त्वेन शास्त्रा­र्थ­व­त्त्वस्य स्वानु­भ­व­सि­द्ध­त्वा­त्ते­नेयं शङ्का कर्तुमपि न शक्येत्याह –
अभ्युपगत इति ।

प्रमाणार्थ इति ।
प्रमाणस्य शास्त्रस्यार्थः प्रयो­ज­न­मि­त्यर्थः ।

एक­त्व­नि­श्च­य­वन्तं प्रति शास्त्रा­न­र्थ­क्य­क­ल्प­ना­भावः श्रुत्याऽ­प्युक्त इत्याह –
तदभ्युपगमे चेति ।
अत्राभ्युपगमो निश्चयः ।

एक­त्व­नि­श्च­या­भा­व­द­शायां तु निर­स­नी­या­रो­पि­त­ब­न्ध­स­त्त्वा­न्नाऽऽ­न­र्थक्यं तदपि श्रुत्यो­क्त­मि­त्याह –
शास्त्र­प्र­ण­य­नेति ।
अनेन द्वितीयकल्पो निरस्तः ।

श्रुतिगतं यत्रपदं व्याचष्टे –
अन्यत्रेति ।

अथ­र्व­णी­य­म­न्त्रो­प­नि­षदि द्वे विद्ये वेदितव्ये इत्यु­प­क्र­म्या­प­र­विद्या ऋग्वेदादिरूपा परा त्वदृ­श्य­त्वा­दि­गु­ण­क­प्र­त्य­स्त­मि­त­स­र्व­द्वै­त­व­स्तु­वि­ष­ये­त्युक्त्या विद्या­वि­द्य­यो­र्वि­ष­य­भेदः शास्त्र­स्याऽऽ­दा­वेव सूचित इत्याह –
अत्र चेति ।

अद्वैतवादे सर्वशङ्कानां श्रुति­प्रा­मा­ण्ये­नैव निरा­सा­त्ता­र्कि­को­त्प्रे­क्षि­त­श­ङ्का­शू­क­स्यापि नात्र प्रवेश इत्युपसंहरति –
अत इति ।

राजप्रमाणेति ।
प्रमा­ण­रा­जे­त्यर्थः । राज­द­न्ता­दि­त्वा­त्प­र­नि­पातः । वेदा­न्त­प्र­मा­ण­मेव राजेव राजा तद्बा­ह­व­स्त­दु­क्त­न्या­या­स्तै­र्गुप्त आत्मैकत्वमेव विषय इव देश इव देशो रक्षणीयत्वात्स तार्कि­क­चा­ट­भ­टै­र्यो­धैर्न प्रवेश्य इत्यन्वयः ।

पूर्ववाद्युक्तं दोषं निराकरोति –
एतेनेति ।
उपाधिकृता अनेकाः शक्तयः साधनानि च तत्कृतस्य भेद­स्या­ने­क­त्वस्य सत्त्वा­दि­त्यर्थः ।

आत्मेति ।
आत्मनो योऽनर्थः संसा­र­स्त­त्क­र्तृ­त्व­मि­त्यर्थः । आदि­श­ब्दे­नाऽऽ­प्त­का­म­त्वेन प्रयो­ज­ना­पे­क्षा­नु­प­पत्तिः सङ्गृहीता । कल्पनया स्वव्य­ति­रि­क्तस्य जीवस्य सत्त्वात्तस्य संसारो नाऽऽत्मनः । तदी­य­क­र्म­फ­ल­दा­नार्थं चाऽऽप्त­का­म­स्यापि सृष्ट्या­दि­प्र­वृत्तिः सम्भवति । सर्व­व्य­व­हा­र­स्यापि स्वप्न­तु­ल्य­त्वाद्वा स्वप्न इव सर्वमप्युपपद्यत इति सूत्र­भा­ष्या­दा­वेव परिहृत इत्यर्थः ।

साङ्ख्येन स्वपक्षे पुरु­ष­श­ब्द­स्ये­क्ष­णस्य चोपपत्तिरुक्ता तामनूद्य निराकरोति –
यस्त्विति ।

यजमानः प्रस्तर इत्यादावुपचारो दृष्ट इत्याशङ्क्याऽऽह –
तत्र हि गौणीति ।

प्रधानपक्षे न केव­ल­मी­क्ष­ण­श्रु­त्य­नु­प­प­त्ति­र्व­स्तु­त­स्तस्य स्रष्टृत्वमपि न सम्भवतीत्याह –
इह त्विति ।
मुक्ता­न्व­र्ज­यित्वा बद्धान्प्रत्येव प्रवृत्तिः कर्तृ­क­र्मा­द्य­पे­क्षया बन्ध­मो­क्षा­दि­श­ब्दि­त­भो­गा­प­व­र्गार्था व्यवस्थिता प्रवृ­त्ति­र्नो­प­प­द्यत इत्यर्थः । अनेन पुरुषार्थं प्रयो­ज­न­मु­र­री­कृत्य प्रधानं प्रवर्तत इति यदुक्तं शङ्कावसरे तन्निरस्तम् ।

ईश्वरकारणवादे तु न कोऽपि दोष इत्याह –
यथोक्तेति ॥ ३ ॥

एवं परपक्षं निराकृत्य प्रकृ­त­श्रु­ति­व्या­ख्यानं कुर्वन्स प्राण­म­सृ­ज­ते­त्यस्य तात्पर्यार्थमाह –
ईश्वरेणेवेति ।
राज्ञेवेत्यर्थः ।

अक्षरार्थं प्रश्नपूर्वकमाह –
कथमिति ।

हिर­ण्य­ग­र्भा­ख्य­मिति ।
हिरण्यगर्भ इत्याख्या येनो­पा­धि­नाऽऽ­त्मनो भवति तं बुद्ध्यभिन्नं सर्वप्राणं सम­ष्टि­प्रा­ण­मि­त्यर्थः । यथाश्रुते कस्मि­न्न­ह­मु­त्क्रान्त इत्यादिनाऽऽत्मन उत्क्रा­न्त्या­द्यु­पा­धि­सृष्टेः प्रस्तु­त­त्वा­द्धि­र­ण्य­ग­र्भस्य जीव­स्या­त­था­त्वा­दु­प­क्र­म­वि­रो­धा­पत्तेः । हिर­ण्य­ग­र्भा­ख्य­मि­त्यु­क्ति­स्त्वा­त्मनो हिर­ण्य­ग­र्भा­दि­सं­सा­रि­भा­वोऽ­प्ये­त­दु­पा­धिक इति सूचयितुमिति बोध्यम् ।

तस्य समष्टित्वमाह –
सर्वेति ।

अन्तरात्मानमिति ।
सर्व­स्थू­ल­श­री­रा­न्त­र­त्वा­दा­त्म­बु­द्धि­गो­च­र­त्वा­च्चा­न्त­रात्मा स इत्यर्थः । तत इत्या­न­न्त­र्या­र्थेयं पञ्चमी । एवमुत्तरत्रापि । न च भूत­का­र्य­त्वा­त्प्रा­णस्य कथं ततः पूर्व­का­ली­न­त्व­मिति वाच्यम् । सत्यम् । सूक्ष्म­भू­त­सृ­ष्ट्य­न्तरं प्राणमसृजतेति कल्पनीयत्वात् । न चैतदन्तरं भूत­सृ­ष्ट्यु­क्ति­वि­रो­ध­शङ्का । तस्याः पञ्ची­कृ­त­स्थू­ल­भू­त­वि­ष­य­त्वो­प­पत्तेः । अत एव भोग­सा­ध­ना­धि­ष्ठा­ना­नी­त्यु­क्तम् । सूक्ष्माणां तथात्वायोगात् । न चैवमपि स्थूल­भू­त­सृ­ष्ट्य­न­न्त­र­मि­न्द्रि­य­म­नः­सृ­ष्ट्यु­क्ति­वि­रोधः । भूता­र­ब्ध­दे­हा­धि­ष्ठि­ता­ना­मेव तेषां कार्यक्षमत्वेन तेषां तद­न­न्त­र­त्वो­क्ति­रिति भावः ।

भोग­सा­ध­ना­धि­ष्ठा­नत्वं भूतानां तत्का­र­ण­त्वा­दि­त्याह –
कारणभूतानीति ।
तेषां भूतानां लक्षणतया खं शब्द­गु­ण­मि­त्या­दि­नाऽ­सा­धा­र­ण­गुणा उक्ताः । पूर्व­पू­र्व­गु­णा­नु­वृ­त्तिस्तु पूर्व­पू­र्व­स्यो­त्त­रो­त्त­रो­पा­दा­न­त्व­सू­च­नार्थं स्थौल्य­ता­र­त­म्य­सि­द्ध्यर्थं चोक्तेति बोध्यम् ।

वायुमिति ।
श्रुतौ वायु­रि­त्या­दि­प्र­थमा द्वितीयार्थाः । प्राणमसृजतेति द्विती­य­यो­प­क्र­मात् ।

तैरेवेति ।
अप­ञ्ची­कृ­ता­व­स्था­या­मि­त्यर्थः ।

तस्य चेश्वरमिति ।
नियामकमित्यर्थः ।

सङ्की­र्य­मा­णा­ना­मिति ।
अवि­शु­द्ध­स­त्त्व­तया पापाचरणेन तैः पापैः सङ्कीर्यमाणानां सङ्करपरिहाराय चित्त­शु­द्धि­सा­धनं तपोऽ­सृ­ज­ते­त्यर्थः ।

फलमिति ।
लोक्यते भुज्यत इति लोकः फलमित्यर्थः ।

नाम चेति ।
ब्राह्म­णा­दि­ना­म्नो­क्त­व्य­व­हा­रा­स­ङ्क­रा­र्थ­मि­त्यर्थः । नन्वी­श्व­र­सृ­ष्ट­त्वोक्त्या कलानां सत्य­त्व­म­ङ्गी­क­र्त­व्यम् । आरोपे शुक्तिरजतादौ सृष्ट­त्व­व्य­व­हा­र­भा­वा­दि­त्या­श­ङ्क्या­ङ्गु­ल्य­व­ष्ट­म्भ­ने­त्र­म­र्द­ना­दिना प्रयत्नेन सृष्टस्य द्विच­न्द्र­म­श­क­म­क्षि­का­दे­रा­रो­प­त्व­द­र्श­नात् ।

अथ रथा­न्र­थ­यो­गा­न्पथः सृजत इति सृष्ट­त्वे­नो­क्त­स्व­प्न­प­दा­र्थस्य च भ्रम­त्व­द­र्श­ना­न्मै­व­मि­त्याह –
एवमेता इति ।
अवि­द्या­का­म­क­र्मा­दि­दो­ष­रूपं यद्बीजं तदपेक्षया तत्सा­ध­नी­कृ­त्ये­त्यर्थः । तैमिरिकशब्दो नेत्रेऽ­ङ्गु­ल्य­व­ष्ट­म्भा­द्यु­प­ल­क्ष­णार्थः ।

एव­मा­त्म­प्र­ति­प­त्त्य­र्थ­म­प्या­रो­प­मुक्त्वा तदपवादमवतारयति –
पुनस्तस्मिन्नेवेति ॥ ४ ॥

ग्रामा­दि­व­द्भे­देन गन्तव्यत्वभ्रमं वारयति –
आत्मभाव इति ।

अस्तशब्देन नाशो नाभिधीयते भेद­को­पा­धि­ना­म­रू­प­यो­र्ना­शेऽपि स्वरूपस्य समुद्रात्मना विद्य­मा­न­त्वा­दि­त्याह –
नाम­रू­प­ति­र­स्का­र­मिति ।
पूर्व­रू­प­ति­र­स्का­र­मि­त्यर्थः ।

तद्वस्त्विति ।
नाम­रू­प­ना­शा­न­न्तरं परि­शि­ष्ट­मु­द­क­ल­क्षणं वस्तु समुद्र इत्येवोच्यत इत्यन्वयः । पुरुषस्येति कर्मणि षष्ठी । पुरुषं स्वात्मरूपम् । परितः सर्वं स्वरूपत्वेन पश्यत इत्यर्थः ।

द्रष्टु­रि­त्युक्त आगन्तुकस्य दर्शनस्य कर्ता प्रतीयत इत्यत आह –
दर्शनस्य कर्तुः स्वरूपभूतस्येति ।

स्वरूपत्वे दर्शनस्य तत्र कर्तृ­त्वा­नु­प­प­त्ते­स्त­द­र्थ­क­तृ­च्प्र­त्य­य­वि­रोध इत्या­श­ङ्क्यार्कः सर्वतः स्वप्रकाशक इत्यत्र यथा कर्त्रर्थकस्य प्रत्य­य­स्यो­प­च­रि­तत्वं तद्वदिहापीत्याह –
यथाऽर्क इति ।

नदीनामिवेति ।
इव­श­ब्द­स्त­था­श­ब्दार्थे । यथा नदीनां समुद्रोऽयनं तथा पुरु­षोऽ­य­न­मि­त्य­न्वयः ।

अस्त­ग­म­न­स्व­रू­प­माह –
भिद्येते इति ।
नामरूपभेद एवा­स्त­ग­म­न­मि­हे­त्यर्थः ।

यथास्वमिति ।
यस्य यत्स्वरूपं प्राणाद्यात्मकं तदपि भिद्यत इत्यन्वयः ।

पुरुष इत्येवं प्रोच्यत इत्यस्यार्थमाह –
भेदे चेति ।

यदनष्टमिति ।
कलानां हि रूप­मा­रो­प्या­धि­ष्ठा­नो­भ­या­त्मकं सत्या­नृ­त­मि­थु­न­रूपं, तत्राऽऽरोप्यस्य नामरूपात्मकस्य भेदेऽ­धि­ष्ठा­ना­त्मकं रूपं पुरुषात्मनोच्यत इत्यर्थः । यथा समु­द्र­स्व­रू­प­भूतं जलं मेघै­रा­कृ­ष्या­भि­वृष्टं गङ्गा­दि­ना­म­रू­पो­पा­धिना समु­द्रा­द्भि­न्न­मिव व्यवह्रियमाणं तदुपाधिविगमे समुद्रस्वरूपमेव प्रतिपद्यत एव­म­वि­द्या­कृ­त­ना­म­रू­पो­पा­धि­व­शा­दा­त्मनो भिन्नमिव स्थितं सर्वं जग­द्वि­द्य­याऽ­वि­द्या­कृ­त­ना­म­रू­प­वि­गमे ब्रह्म­मा­त्र­त­याऽ­व­शि­ष्यत इत्यर्थः ।

एवं प्राणा­दि­क­लो­पा­धिक आत्मन उत्क्र­म­णा­दि­श­ब्दि­त­म­र­णा­दि­व्य­व­हार इत्युक्तेः प्रयोजनं प्राणा­दि­नि­वृ­त्ता­वु­त्क्र­म­णा­दि­स­र्व­सं­सा­र­ध­र्म­र­हि­ता­त्म­स्व­रू­पा­व­स्था­न­रूपं दर्शयितुं स एष इति वाक्यं व्याचष्टे –
य एवं विद्वा­नि­त्या­दिना ॥ ५ ॥

परिवारा इति ।
नाभेः परितो नाभौ नेम्यां च प्रोता­स्ति­र्य­क्का­ष्ठ­वि­शेषा इत्यर्थः ।

यथाप्रवेशिता: इति ।
यथा­व­त्स­म्य­क्प्र­वे­शिता इत्यर्थः ।

माङोऽर्थं व्यति­रे­क­प्र­द­र्श­नेन स्पष्टयति –
न चेदिति ॥ ६ ॥

शिष्याणां कृता­र्थ­ता­बु­द्धि­ज­न­नार्थं तानित्यदि वाक्यं व्याचष्टे –
तानेवमिति ॥ ७ ॥

प्रकिरणेनेति ।
प्रक्षे­पे­णे­त्यर्थः ।

अतः पितृत्वं तवेति ।
“जनकश्चोपनेता च यश्च विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः” ॥ इति स्मृतेरित्यर्थः ।

योऽस्मा­क­मि­ति­हे­तू­क्ते­स्ता­त्पर्यं वद­न्पि­तृ­त्वो­क्ति­मा­त्रेण विद्या­नि­ष्क्र­यार्थं किं दत्त­मि­त्य­पे­क्षायां स्वशरीरमेव परिचारकतया दासभावेन गुरवे दत्तमित्याह –
इतरस्मादिति ।
पितृत्वादेव किं पूज्यतरत्वं परिचार्यत्वं स्वामित्वं किमु वक्त­व्य­मि­त्यर्थः । अत एव वाजसनेयके मां चापि सह दास्या­ये­ती­त्यु­क्त­मिति भावः ॥ ८ ॥
इत्या­न­न्द­ज्ञा­न­वि­र­चि­त­प्र­श्नो­प­नि­ष­द्भा­ष्य­टी­कायां षष्ठः प्रश्नः ॥ ६ ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­दा­न­न्द­ज्ञा­न­वि­र­चि­ताऽऽ­थ­र्व­ण­प्र­श्नो­प­नि­ष­द्भा­ष्य­टीका समाप्ता ॥