आनन्दगिरिटीका (प्रश्न)
षष्ठः प्रश्नः
गताः कालाः पञ्चदश प्रतिष्ठाः कर्मणि विज्ञानमयश्चेति मन्त्रे कर्मभिः सह षोडशकलानां परस्मिंल्लयमुक्त्वा यथा नद्यः स्यन्दमाना इति मन्त्रेण दृष्टान्तोक्तिद्वारा परप्राप्तिरुक्ता तन्मन्त्रयोर्विस्तराभिधानार्थं षष्ठं प्रश्नमारभते –
अथ हैनमिति ।
तस्य पूर्वेण सङ्गतिमुक्तार्थानुवादपूर्वकमाह –
समस्तमित्यादिना ।
अक्षरस्य कारणत्वसिद्ध्यर्थं प्रलयेऽपि तस्मिन्नेव लयमाह –
सामर्थ्यादिति ।
लयाधारत्वेन कारणत्वमाह –
तत इति ।
तदुक्तेः प्रयोजनमाह –
जगत इति ।
यद्यप्यद्वितीयात्मज्ञानान्मुक्तिर्न कारणज्ञानात्तथाऽपि तस्य कारणत्वे तद्व्यतिरेकेण कार्याभावात्तदद्वितीयत्वज्ञानं सिध्यतीति तादृशात्मज्ञानात्परं श्रेय इति । आत्मा वा इदमेक एव । स एतमेव पुरुषं ब्रह्म ततममपश्यत् । प्रज्ञानं ब्रह्म । स एतेन प्रज्ञेनाऽऽत्मनाऽमृतः समभवत् । सदेवैकमेवाद्वितीयमित्युपक्रम्याऽऽचार्यवान्पुरुषो वेद, अथ सम्पत्स्ये, तमेवैकं जानथ । अमृतस्यैष सेतुः, अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवदित्यादिषु निश्चितमित्यर्थः ।
इहापि तादृगात्मज्ञानादेव सर्वात्मभावः श्रेय उक्त इत्याह –
अनन्तरमिति ।
वृत्तमनूद्य वर्तिष्यमाणमाह –
वक्तव्यमिति ।
तदर्थोऽयमिति ।
तस्य शरीरान्तस्थत्वोक्तिद्वारा तस्य प्रत्यगात्मत्वज्ञानार्थमित्यर्थः ।
प्रश्नमिति ।
प्रष्टव्यमित्यर्थः ।
अज्ञाने कारणमिति ।
अज्ञानसम्भावनायां कारणमित्यर्थः ।
अप्रत्ययमिति ।
अविश्वासमित्यर्थः ।
अन्यथा सन्तमिति ।
ज्ञानिनं सन्तमन्यथा कुर्वन्नज्ञानिनं कुर्वन्नारोपयन्नित्यर्थः ।
कथं ते नावक्ष्यमित्यनेन सूचितमर्थमाह –
अत इति ।
समूलो वा इत्यनेन सूचितमाह –
अनृतं चेति ।
स्वरूपेण शल्यत्वाभावादाह –
विज्ञेयत्वेनेति ।
यावज्जिज्ञासितं न ज्ञायते तावत्तद्धृदि शल्यवद्भासत इति शल्यमिवेत्युक्तम् ॥ १ ॥
पुरुषस्य षोडशकलत्वं न साक्षात्सावयवत्वेन किन्तु कलाजनकत्वेन तदुपाधिमत्त्वादिति वक्तुं यस्मिन्नेता इति वाक्यमिति तत्तात्पर्यमाह –
षोडशकलाभिरिति ।
ननु केवल आत्मा प्रदर्श्यतां किं वक्ष्यमाणकलोक्त्येत्यत आह –
तदुपाधीति ।
तथैव स प्रदर्शनीय इत्यत्र हेतुमाह –
अत्यन्तेति ।
अविद्याविषया इति ।
अविद्याधीना इत्यर्थः ।
कालत्रयेऽपि तासां चैतन्यरूपाधिष्ठानाव्यतिरेकाद्रज्जुसर्पवन्मृषात्वमित्यविद्याविषयत्वं साधयति –
चैतन्येति ।
चैतन्याव्यतिरेकेण लक्ष्यमाणत्वं हेतुं विज्ञानवादिभ्रान्त्या दृढीकरोति –
अत एवेति ।
घृतं यथाऽग्निसंयोगाद्द्रवावस्थां प्रतिपद्यत एवमहमाकारमालयविज्ञानमेव वासनावशाद्विषयाकारेण जायत इति वदतां तेषां भ्रमो विषयस्य चैतन्याव्यतिरेके प्रत्ययं गमयति, अन्यथा तथाभ्रमानुपपत्तेरित्यर्थः ।
विषयाणां चैतन्याव्यतिरेकेण प्रतीतिनियमादेव विषयविज्ञानरूपेण चैतन्याभावे सुषुप्त्यादौ शून्यभ्रमो जातः केषाञ्चिदिति तदीयभ्रान्त्याऽपि चैतन्याव्यतिरिक्तप्रतीतिं दृढी करोति –
तन्निरोध इति ।
चैतन्यस्यानित्यस्य कलारोपाधिष्ठानत्वं न सम्भवति कलाकार्यत्वादिति नैयायिकपक्षोक्तिव्याजेन शङ्कते –
घटादीति ।
भूतधर्म इति ।
देहाकारेण संहतभूतधर्म इत्यर्थः ।
चैतन्यस्याऽऽरोपाधिष्ठानत्वसिद्ध्यर्थं नित्यत्वमेकत्वं च वदंस्तान्निराकरोति –
अनपायेति ।
प्रत्यवभासत इति ।
नानात्वेन कार्यत्वेन चेति शेषः ।
सत्यं ज्ञानमिति ।
तथा च श्रुतिविरोधात्ते पक्षा हेया इत्यर्थः ।
किञ्च ज्ञानकाले विषयाणां सद्भावनियमाभावाद्विषयकाले च ज्ञानस्य सद्भावनियमात्तयोर्भेदं इति विज्ञानवादिपक्षं निराकुर्वन्नव्यभिचारादेव ज्ञानस्य नित्यत्वं साधयन्नैयायिकादिपक्षमपि निराकरोति –
स्वरूपेति ।
घटज्ञानकाले घटाभावसम्भवाद्विषयाणां ज्ञानव्यभिचारित्वं ज्ञानस्य तु विषयकालेऽवश्यम्भावनियमादव्यभिचारित्वमित्यर्थः । पटकाले घटज्ञानमपि नास्तीति घटज्ञानस्यापि पटविषयव्यभिचारित्वं तुल्यमित्याशङ्क्य स्वरूपेत्युक्तम् । ज्ञानस्य विषयविशिष्टत्वरूपेणैव व्यभिचारः । विषयस्य तु स्वरूपेणैवेति विशेष इत्यर्थः ।
ज्ञानस्याव्यभिचारित्वमुपपादयति –
यथा यथेति ।
ननूत्पन्नविनष्टादेर्मेरुगुहान्तर्वर्तिनश्चाज्ञायमानत्वाज्ज्ञानस्यापि ज्ञेयाव्यभिचारोऽसिद्ध इत्याशङ्क्य तस्याज्ञाने तत्सद्भावासिद्धेस्तथाभूतपदार्थोऽसिद्ध इत्याह –
वस्तुतत्त्वेति ।
अनुपपत्तिमेव दृष्टान्तेति स्फुटीकरोति –
रूपं चेति ।
ज्ञेयस्य ज्ञानव्यभिचारित्वं ज्ञानकाले सत्त्वनियमाभावरूपं स्पष्टमित्याह –
व्यभिचरति त्विति ।
घटज्ञानकाले कदाचिद्घाटाभावादित्यर्थः ।
पटकाले घटज्ञानस्यापि व्यभिचारस्तुल्य इत्याशङ्क्य विशिष्टरूपेण व्यभिचारेऽपि स्वरूपेणाव्यभिचारं पूर्ववत्सूचितमाह –
न व्यभिचरतीति ।
ज्ञानमित्यस्येहाप्यनुषङ्गः । पूर्ववाक्ये द्वितीयान्तमिह तु प्रथमान्तमिति विशेषः ।
भावादिति ।
स्वरूपेणेत्यर्थः ।
ज्ञानस्य स्वरूपेण सत्तामेव ज्ञेयान्तरस्य ज्ञेयत्वादेव साधयति –
न हीति ।
स्वरूपेणाप्यभावं शङ्कते –
सुषुप्त इति ।
किं तदानीं ज्ञेयाभावेन ज्ञानाभावः साध्यत उत ज्ञानस्यादर्शनाद्वाऽऽद्येऽपि ज्ञेयस्य व्यङ्ग्यत्वात्तदभावाद्व्यञ्जकाभाव इति वोत तयोरैक्यादेकाभाव इतराभाव इति ।
नाऽऽद्यो व्यभिचारादित्याह –
न ज्ञेयेति ।
व्यङ्ग्यज्ञानैककल्पस्य व्यङ्ग्याभावेऽभाव उच्यत आलोकस्य प्रत्यक्षसिद्धत्वान्नैवमिति ज्ञानानुमेयत्ववादिनं प्रति दृष्टान्तान्तरमाह –
न हीति ।
वैनाशिकमते विज्ञानव्यतिरिक्ताकालोकाद्यभावान्न तत्र व्यभिचार इति शङ्कते –
वैनाशिक इति ।
कल्पयत्येवेति ।
उक्तव्यभिचारस्थलाभावेन व्यभिचाराभावादित्यर्थः ।
एवमपि ज्ञानाभावकल्पकस्य ज्ञेयाभावस्य ज्ञानमङ्गीक्रियते न वा । आद्ये न ज्ञानाभावसिद्धिस्तस्यैवाभावज्ञानस्य सत्त्वादित्याह –
येनेति ।
येन ज्ञेयाभावज्ञानेन तदभावं ज्ञानाभावं कल्पयेत्तस्य ज्ञानस्याभावः केन कल्प्यते न केनापि कल्पयितुं शक्य इत्यर्थः ।
न द्वितीय इत्याह –
तदभावस्यापीति ।
ज्ञेयाभावस्याप्यज्ञातस्य ज्ञानाभावकल्पकत्वासम्भवादवश्यं ज्ञेयत्वात्तज्ञानाभावे तदनुपपत्तेः कल्पनानुपपत्तेर्ज्ञानानङ्गीकारपक्षो न युक्त इत्यर्थः ।
आद्यकोटौ द्वितीयकल्पं शङ्कते –
ज्ञेयेति ।
वैनाशिकमतेऽप्यभावस्य ज्ञेयत्वाभ्युपगमाद्बुद्धिबोध्यं त्रयादन्यत्संस्कृतं क्षणिकं च तदिति प्रतिसङ्ख्याऽप्रतिसङ्ख्या निरोधाकाशरूपत्रयव्यतिरिक्तस्यैव क्षणिकत्वेन निरोधशब्दितस्याभावस्य नित्यत्वाङ्गीकारेण तदविज्ञानसन्ततेर्नित्यत्वाङ्गीकारेण तदभिन्नस्य ज्ञानस्यापि सुषुप्ते सत्वं नित्यत्वं च प्राप्तमित्याह –
नाभावस्येति।
ज्ञानस्याभावाभिन्नत्वेनाभावत्वमेव स्यान्न तु भावत्वेन सत्त्वं नित्यत्वं च स्यादित्याशङ्क्याभावस्यापि ज्ञानाभिन्नत्वेऽभावत्वमेव न स्यादित्य्याह -
तदभावस्येति ।
अनित्यत्वं च ज्ञानस्येति वाङ्मात्रमेव स्यादित्यनुषङ्गः । वाङ्मात्रेणाप्यभावस्याभावत्वेन ज्ञानानित्यत्वेन चास्मत्सिद्धान्तसिद्धिरित्याशङ्क्य नाममात्रेण तेन वास्तवनित्यत्वादिविरोधाभावान्नास्माकं क्षतिरित्याह -
न चेति । अभावनामेति ।
अनित्यनामेत्यपि द्रष्टव्यम् । एतद्दोषपरिहारार्थं ज्ञेयस्यापि सतोऽभावस्य ज्ञानाभेदो नाङ्क्रीयत इति शङ्कते -
अथेति ।
तर्हि ज्ञेयाभिन्नत्वेन हेतुना सुषुप्ते ज्ञानाभावो न सिध्यति घटाद्यभावेन तज्ज्ञानाभावसिद्धावप्यभावज्ञानाभावसिद्धेस्तस्याभिन्नत्वाभावादित्याह -
न तर्हीति ।
यद्वाऽभावस्य ज्ञेयस्य ज्ञानाद्भेदे भावस्यापि तथात्वं स्याद्विशेषहेत्वभावात्तथाच न ज्ञेयाभावाज्ज्ञानाभावसिद्धिरित्याह -
न तर्हीति ।
ननु ज्ञेयस्य ज्ञानव्यतिरिक्तमङ्गीक्रियते तथाचाभावस्य ज्ञानव्यतिरिक्तत्वादभावत्वादिकं सिध्यति । ज्ञानस्य तु न ज्ञेयव्यतिरिक्तवम् । तथा च ज्ञेयाभावे ज्ञानाभावसिद्धिरिति निरुद्धगतिकः शङ्कते -
ज्ञेयमिति ।
ज्ञानस्य ज्ञेयाव्यतिरेके ज्ञेयस्यापि तदव्यतिरेकावश्यंभावादन्यथोभयोरत्यन्तभेद एव स्याद्भेदाभेदयोर्विरोधानुपपत्तेरिति दूषयति -
न शब्दमात्रत्वादिति ।
इदमुपलक्षणम् । ज्ञानस्याभावाव्यतिरेकेण नित्यत्वादिकं च स्यादेवेत्यपि द्रष्टव्यम् । यद्येतद्दोषपरिहाराय तस्यापि भेद एवाङ्गीक्रियते तर्हि न सुषुप्तौ ज्ञानाभावसिद्धिरित्युपसंहरति -
ज्ञेयव्यतिरेके त्विति ।
सुषुप्ते ज्ञानस्यादर्शनादेवाभाव इत्याद्ये द्वितीयं शङ्कते -
ज्ञेयाभाव इति ।
अस्तित्वमिति ।
तथा च ज्ञानस्यादर्शनमसिद्धं सुषुप्तेऽपि तदङ्गीकारादित्यर्थः ।
ननु ज्ञेयाभावेन तन्निरूप्यस्य ज्ञानस्यादर्शनमित्युच्यते मया सुषुप्ते च स्वस्यैव स्वज्ञेयत्वाज्ज्ञानदर्शनमुपपद्यतेऽस्मन्मते । त्वन्मते तु स्वज्ञेयत्वानङ्गीकारात्सुषुप्ते चान्यस्याभावान्निरूपकाभावान्न ज्ञानदर्शनास्तित्वमुपपद्यत इति शङ्कते –
तत्रापीति ।
अभावस्थले ज्ञानज्ञेययोर्भेदस्य साधितत्वात्तद्दृष्टान्तेन सर्वत्र ज्ञानज्ञेययोर्भेदसाधनान्न स्वज्ञेयत्वं ज्ञानस्येत्याह –
न भेदस्येति ।
अभावरूपो ज्ञेयो विषयो यस्य तस्य ज्ञानस्याभावरूपो यो ज्ञेयस्तद्व्यतिरेकादित्यर्थः ।
अभावस्थले भेदेऽपि न सर्वत्रेत्याशङ्क्य न्यायस्य तुल्यत्वान्न तदन्यथा कर्तुं शक्यमित्याह –
न हीति ।
ज्ञानस्य स्वव्यतिरिक्तज्ञेयत्वनियमपक्षेऽनवस्थां वैनाशिकः शङ्कते –
ज्ञानस्येति ।
ज्ञेयस्य स्वव्यतिरिक्तज्ञेयत्वनियमाङ्गीकारादस्मन्मते च ज्ञानस्य ज्ञेयत्वानङ्गीकारान्न दोष इत्याह –
न तदिति ।
सर्वस्य वस्तुजातस्य विभागोऽसङ्करो ज्ञानं ज्ञानमेव न ज्ञेयं ज्ञेयमपि ज्ञेयमेव न कदाचिदपि ज्ञानमित्येवंरूपस्तस्योपपत्तेरित्यर्थः । अथवा द्विभागोपपत्तेरिति च्छेदः । ज्ञानज्ञेयरूपभागद्वयमेव राशिद्वयमेवाङ्गी क्रियते न तृतीयो ज्ञानविषयकज्ञानरूपो भावराशिरङ्गी क्रियत इत्यर्थः ।
तामेवाऽऽह –
यदा हीति ।
यस्मिन्पक्षे ज्ञेयं सर्वं स्वव्यतिरिक्तस्य कस्यचिज्ज्ञानस्य ज्ञेयमित्यङ्गीक्रियत इति ज्ञेयपदावृत्त्या स्वव्यतिरिक्तस्येतिपदाध्याहारेण च यदा हीति वाक्यं योज्यम् । अवैनाशिकैरिति च्छेदः ।
तद्विषय इति ।
ज्ञानविषयकज्ञानात्मक इत्यर्थः ।
तर्हि त्वत्पक्षे ज्ञानात्मकस्य ब्रह्मणः सर्वज्ञत्वं न स्यात्स्वेन स्वस्याज्ञानादिति शङ्कते –
ज्ञानस्येति ।
ज्ञातुं योग्यस्य सर्वस्याज्ञाने हि सर्वज्ञत्वहानिः, अन्यथा शशविषाणादेरज्ञानात्सर्वज्ञत्वं कस्यापि मते न स्यादतो नास्मन्मते तस्य दोषस्य प्राप्तिः किन्तु वैनाशिकस्यैव, तेन ज्ञानस्यावश्यज्ञेयत्वाङ्गीकारात्स्वेन स्वस्य ज्ञेयत्वस्य सिद्धं हीति पूर्वग्रन्थे दूषितत्वादन्यज्ञेयत्वस्य चानङ्गीकारात्सर्वज्ञत्वायोगादित्याह –
सोऽपीति ।
तर्हि तव मते कथं सर्वज्ञत्वनिर्वाह इत्याशङ्क्यास्मन्मते तस्य मायिकत्वेन तदनिर्वाहेऽपि न दोष इत्याह –
किं तदिति ।
वस्तुतस्तु सर्वस्य व्यवहारहेतुज्ञानवत्वं सर्वज्ञत्वं तत्तु ज्ञानस्यापि स्वप्रकाशत्वेन स्वव्यवहारहेतुत्वादस्ति ज्ञातुं योग्यं सर्वज्ञानाद्वा तदस्तीति भावः ।
पूर्वोक्तानवस्थादोषोऽपि तस्यैवेत्याह –
अनवस्थेति ।
ननु तेन स्वेनैव ज्ञेयत्वाङ्गीकारान्नानवस्थेत्यत आह –
स्वात्मना चेति ।
सिद्धं हीत्यत्र स्वज्ञेयत्वासम्भवस्योक्तत्वात्परिशेषादन्यज्ञेयत्वे तस्य तस्याप्येवमित्यनवस्थाऽनिवार्येत्यर्थः ।
ज्ञानस्याज्ञेयत्वे तद्व्यवहारासिद्धिर्ज्ञानान्तरज्ञेयत्वे चानवस्था तवापि स्यादिति शङ्कते –
समान एवेति ।
स्वप्रकाशत्वेन स्वव्यवहारसिद्धेर्ज्ञानभेदस्यैवास्माभिरनङ्गीकारादनवस्थायाः प्रसक्तिरेव नास्तीति परिहरति –
न ज्ञानस्येति ।
एकत्वपक्षे भेदप्रतीतिमुपपादयति –
नामरूपेति ।
एवं च चैतन्यस्यैकत्वेन नित्यत्वाज्जगद्भिन्नत्वेन तस्य सत्यत्वाच्चाधिष्ठानत्वोपपत्तेस्तस्मिन्कलानामध्यारोप आत्मप्रतिपत्त्यर्थमिहोच्यत इत्याह –
तथा चेहेति ।
चैतन्यस्य नित्यत्वेनाधिष्ठानत्वे सतीह श्रुताविदं कलानामध्यारोपणमुच्यत इत्यर्थः ।
ननु चैतन्यस्य न नित्यत्वं परिच्छेदश्रुतेः परिच्छिन्नस्य च घटादिवदनित्यत्वादिति शङ्कते –
नन्विति ।
शरीरान्तःस्थत्वं प्रत्यक्त्वविवक्षयोच्यते न परिच्छेदविवक्षया तथा सत्युत्तरवाक्यविरोधादित्याह –
नेति ।
अयोग्यत्वादपि सोऽर्थो न विवक्षित इत्याह –
कलेति ।
स्वोत्पत्तेः पूर्वं स्वस्याभावात्तत्कालीनपुरुषं परिच्छेत्तुं न शक्नोतीत्यर्थः ।
बीजकार्यस्य वृक्षस्य कार्यं फलं स्वकारणवृक्षकारणं बीजमभ्यन्तरीकरोतीति दृष्टमिति नायोग्यत्वमिति शङ्कते –
बीजवृक्षादिवदिति ।
तद्विवृणोति –
यथेति ।
दृष्टान्ते बीजव्यक्तिभेदादविरोधेऽपीह पुरुषव्यक्त्यैक्यात्कारणत्वाभ्यन्तरीभावयोर्विरोध इत्याह –
नेति ।
ननु कारणीभूतबीजस्यैव वृक्षफलतदन्तर्गतबीजरूपेण परिणामात्तयोः कारणकार्ययोर्बीजयोरैक्यमाशङ्क्यैवमपि तस्य सावयवत्वाद्वृक्षवत्फलाकारेण परिणतावयवेभ्यो भिन्नावयवानामेव तदन्तर्गतबीजरूपेण परिणामात्तयोर्भेदेनाऽऽधाराधेयभावः स्यादिह तु निरवयवत्वान्न तथात्वमित्याह –
सावयवत्वाच्चेति ।
आद्यं हेतुं विवृणोति –
दृष्टान्त इति ।
श्रूयत इति ।
यस्मिन्नेताः षोडश कला इति यच्छब्दोक्तस्यैव पुरुषस्यान्तःशरीरे सोम्य स पुरुष इति तच्छब्देनाभिधानादित्यर्थः ।
द्वितीयं हेतुं विवृणोति –
बीजेति ।
निरवयवश्चेति ।
तथा चैकदेशेन कलादिरूपेण परिणाम एकदेशेन तत्रावस्थानं बीजवन्न सम्भवतीत्यर्थः ।
किञ्च कलानां सावयवत्वेन परिच्छेदात्पुरुषस्य तद्विपरीतत्वादपरिच्छिन्नस्य न परिच्छिन्नाधारकत्वं सम्भवतीत्याह –
सावयवाश्चेति ।
यद्वा सावयवत्वेन कार्यतया मृषात्वान्निरवयवतया परमार्थसत्यपुरुषाधारत्वं नोपपद्यत इत्याह –
सावयवाश्चेति ।
नन्वाकाशकार्यशरीर आकाशस्यापरिच्छिन्नस्याभ्यन्तरीभावो दृष्ट इत्याशङ्क्य तस्यापि शरीराकारेणावस्थानमेव च्छिद्रादिविशिष्टस्यैव शरीरत्वान्न तु तदन्तःस्थत्वमित्याह –
एतेनेति ।
युक्त्यसहमपि वचनप्रामाण्यादङ्गीकार्यमिति शङ्कते –
किं दृष्टान्तेनेति ।
वचनस्यापि वस्तुनोऽन्यथाकरणे सामर्थ्याभावाद्वस्तुस्वरूपाविरोधेनैव बोधकत्वादन्यथा विचारवैयर्थ्याद्विरुद्धार्थो न बोधार्ह इत्याह –
वचनस्येति ।
तर्ह्यन्तःशरीर इति श्रुतेः कथमुपपत्तिरित्याशङ्क्य पुरुषस्य शरीरोपादानत्वेन तदनुस्यूतस्य तदन्तर्गतवत्प्रतीतेस्तदभिप्रायेयं श्रुतिरिति सदृष्टान्तमाह –
तस्मादिति ।
अण्डेति ।
अण्डकारणस्य व्योम्नो यथा तदनुस्यूतत्वेन तदन्तर्गतत्वप्रतीतिस्तद्वदित्यर्थः ।
यद्वा लोकभ्रमसिद्धं परिच्छिन्नत्वमनूद्यते श्रुत्येत्याह –
उपलब्धीति ।
तत्राभिव्यक्तेर्वा तदन्तर्गतत्वव्यपदेश इत्याह –
उपलभ्यते चेति ॥ २ ॥
ननु यस्मिन्नेताः षोडश कलाः प्रभवन्तीत्यनेनाध्यारोपस्योक्तत्वात्स ईक्षामित्यादिना पुनः सृष्टिकथनमधिकमित्यत आह –
यस्मिन्निति ।
अत इति ।
क्रमप्रतिपत्त्यर्थं स ईक्षामित्याद्युच्यत इत्यर्थः । तत्प्रतिपत्तिश्च कलोत्पत्तिप्रतिपत्तिसौकर्यार्थं विपर्ययेण तु क्रमोऽत उपपद्यते चेति न्यायेन कार्यस्य स्वस्वकारणक्रमेणापवादसौकर्यार्थं चेत्यर्थः ।
ईक्षणोक्तेः प्रयोजनमाह –
चेतनेति ।
सृष्टीति ।
सृष्टिः प्राणादेः सृष्टिः, तस्या उत्क्रान्त्यादि फलं, क्रमः प्राणाच्छ्रद्धामित्याद्युक्तानन्तर्यम् । आदिशब्देन लोकेषु नाम चेत्याधाराधेयविशेषो गृह्यते ।
नन्वीक्षणोक्त्या न चेतनपूर्वकत्वसिद्धिर्न्यायेन चेतनस्याकर्तृत्वेनाहेतुत्वेऽचेतनस्य प्रधानादेर्विक्रियावत्वेन हेतुत्वे च सतीक्षणस्यान्यथा नेयत्वादिति साङ्ख्याः शङ्कते –
नन्वात्मेति ।
अकर्तेत्यस्य तत्रेदमित्यनेनान्वयः । आत्माऽकर्ता तत्र तथा सतीदं कर्तृत्ववचनमनुपपन्नमित्यर्थः ।
किञ्च तस्य कर्तृत्वाङ्गीकारेऽपि कर्तुः कुलालादेरिव सहकारिसाधनान्तराभावादात्मनो दुःखाद्यनर्थहेतुप्राणादिसंसारकर्तृत्वानुपपत्तेश्चानुपपन्नं स्रष्टृत्ववचनमित्याह –
आत्मनोऽपीति ।
कर्तृत्वेऽपीत्यपिशब्दान्वयः ।
तर्हि किं कर्त्रत आह –
प्रधानमिति ।
कर्त्रिति ।
क्रियाशक्तिमदतः प्रवर्तत इत्यन्वयः ।
ननु प्रधानस्याचेतनस्य प्रयोजनापेक्षाभावात्प्रवृत्त्यनुपपत्तिरित्यत आह –
पुरुषार्थमिति ।
पुरुषस्य चेतनस्य भोगापवर्गरूपमर्थं प्रयोजनमुद्दिश्य प्रवर्तते वत्सविवृद्ध्यर्थमचेतनस्य धेनुदेहगतक्षीरस्य सस्यादिविवृद्ध्यर्थमम्बुनश्चाचेतनस्य प्रवृत्तिदर्शनादित्यर्थः ।
ननु प्रधानस्याप्येकत्वेन सहकार्यभावात्कारणत्वानुपपत्तावगत्या चेतनस्यैव कथञ्चित्कर्तृत्वं वाच्यमित्यत आह –
सत्त्वादिति ।
सत्त्वादिगुणत्रयस्य साम्यावस्था प्रधानमिति साङ्ख्यमतम् । तत्र सत्त्वादिगुणैरनेकात्मके प्रधाने कारणे सति पुरुषस्य कर्तृत्ववचनमगतेरभावादनुपपन्नमित्यन्वयः ।
यदि चेतनानधिष्ठितस्याचेतनस्य प्रवृत्तिर्न दृष्टेति मन्यसे तर्हि परमाणुकारणवादोऽस्तु तत्रेश्वरस्याधिष्ठातुः सत्त्वादित्याह –
ईश्वरेच्छेति ।
अत्रापि सत्स्वित्यस्यानुपपन्नमिति पूर्वेणान्वयः ।
तर्हीक्षणश्रवणस्य का गतिरत आह –
तस्मादिति ।
पुरुषार्थेनेति ।
पुरुषस्य भोगापवर्गार्थेनेत्यर्थः । मुख्य ईक्षितरि विद्यमानेन नियतक्रमेण प्रवर्तमानत्वेन गुणेन योगादैक्षतेति गौणः प्रयोगो माणवके पैङ्गल्यगुणयोगेनाग्निशब्दप्रयोगवदित्यर्थः ।
नन्वेवमपीक्षितरि प्रधाने पुरुषशब्दः कथमत आह –
यथा राज्ञ इति ।
तद्वदिति ।
पुरुषस्य भोगापवर्गकारिणि प्रधाने पुरुषशब्द औपचारिक इत्यर्थः ।
स्वतोऽकर्तुरप्यात्मनो मायोपाधिककर्तृत्वं सम्भवतीति हृदि निधाय प्रथममापाततः प्रतिबन्द्या परिहरति –
नेति ।
बुद्धिः कर्त्री भोक्ता पुरुष इति वदद्भिः साङ्ख्यैरात्मनो भोक्तृत्वमुक्तमित्यर्थः ।
श्रुतिप्रामाण्यादिति ।
श्रुत्युक्तजगत्कर्तृत्वमविकारिणोऽपि कथञ्चिन्निर्वाह्यमित्यर्थः ।
साङ्ख्यः प्रतिबन्दिपरिहारं शङ्कते ।
तत्त्वान्तरेति ।
भोगो नाम सुखदुःखानुभवः स च पुरुषस्य स्वरूपभूत इति न तत्त्वान्तरापत्तिलक्षणपरिणाम इत्यर्थः । परिणामो हि पूर्वरूपपरित्यागेन रूपान्तरापत्तिः । सा च सजातीयरूपान्तरापत्तौ विजातीयरूपान्तरापत्तौ वाऽनित्यत्वादिकमावहेदेवेति भोज्याविवेकोपाधिकं भोक्तृत्वमङ्गीकर्तव्यम् ।
तेन तदात्मककर्तृत्वेऽपि तुल्यमित्यभिप्रेत्य मुख्यपरिहारमाह –
नेति ।
एकस्य वस्तुतोऽसहायस्याकर्तुराप्तकामस्यापीत्यपरेर्थः । उपाधिकृतकर्तृत्वसम्भवादविद्यारूपसहायस्य सम्भवाद्भ्रान्त्या स्वस्माद्भिन्नजीवानामनाप्तकामानां सम्भवात्तत्पुरुषार्थार्थं स्रष्टृत्वं तथाविधिस्याप्युपपद्यत इति नाचेतनस्य चेतनाधिष्ठितस्य तद्युक्तमिति भावः ।
नामरूपेति ।
अनभिव्यक्तनामरूपेत्यर्थः । बन्धमोक्षादीत्यादिशब्देन तत्साधनमुच्यते । मोक्षस्यापि बन्धप्रतियोगित्वेन सोपाधिकत्वमुक्तम् ।
परमार्थस्य श्रुत्येकगम्यत्वमाह –
सर्वेति ।
एवम्भूतस्याऽऽत्मनो न स्रष्ट्रुत्वमित्याह –
न तत्रेति ।
कल्पयित्वेति ।
कल्पयितुं प्रवृत्ता इत्यर्थः । पुरुषस्य निर्विशेषत्वेन तस्मिन्वस्तुतः कर्तृत्वाद्ययोगात्तदारोपितमेवेति कल्पयितुं प्रवृत्ता अपि सर्वविरोधनिरासकागमप्रमाणैकशरणत्वाभावात्प्रत्यक्षादिविरोधापत्त्याऽऽरोपितत्वाङ्गीकाराच्च त्रस्यन्तः सर्वे परमार्थत एवेच्छन्ति । तत्राप्यचेतनस्य भोक्तृत्वायोगात्तन्मात्रमात्मनोऽङ्गीकुर्वन्ति । कर्तृत्वादिकं तु प्रधानस्याङ्गीकुर्वन्तीत्यर्थः ।
(तर्हि तस्य को दोष इत्याशङ्क्य भोक्तृत्वाङ्गीकारे तथैव तस्यैव कर्तृत्वमपि स्यादित्यन्यैः शिक्षिताः सन्तः स्वमतात्प्रच्यवन्त इत्याह –
अन्येति ।
कृतायाः शिक्षिताया बुद्धेर्विषया अधीनाः शिक्षितबुद्धय इत्यर्थः ।
तर्हि साङ्ख्यशिक्षकस्य तार्किकस्य मतं ग्राह्यमत आह –
तथेति ।
तस्यापि साङ्ख्येन शिक्षितत्वान्न तदपि ग्राह्यमित्यर्थः । तर्हि त्वया तार्किकमतं किमर्थं दूष्यते ।
तर्हि कस्य तार्किकस्य मतं ग्राह्यमित्याशङ्क्य न कस्यापीत्याह –
इत्येवमिति ।
परस्परमेव तैर्दूषितत्वात्तव तद्वदेव द्वेषादिमत्त्वप्रसङ्गाच्चेत्यत आह –
अत इति ।
विरोधोद्भवकारणमिति ।
पारमार्थिकतया भेददर्शनमित्यर्थः ।
संरक्षितेति ।
भेददर्शनस्य परस्परोक्तदोषग्रस्तत्वादद्वैतमेव निर्दुष्टमिति निश्चितबुद्धिः सन्निर्वाति सर्वविकल्पेभ्यः उपशान्तो भवतीत्यर्थः ।
दोषप्रदर्शनं किञ्चित्क्रियत इति यदुक्तं तदेव प्रपञ्चयन्कर्तृत्वादेरारोपितत्वमेव परेणापि वक्तव्यमित्याह –
किञ्चेत्यादिना ।
तत्राऽऽदौ भोक्तृत्वकर्तृत्वयोर्विशेषस्य वक्तुमशक्यत्वात्तयोराश्रयव्यवस्था न सम्भवतीत्याह –
भोक्तृत्वेति ।
आशयमविद्वाञ्शङ्कावसरोक्तं विशेषं शङ्कते –
नन्विति ।
स्वात्मस्थी विक्रियत इति ।
चिद्रूपेण विक्रियत इत्यर्थः ।
तत्त्वन्तरेति ।
अनेकत्वाशुद्ध्यादियुक्तस्वविलक्षणमहदादिरूपेणेत्यर्थः । पुरुषस्य चिद्रूपेणैव परिणामान्न रूपान्तरापत्तिरशुद्ध्यादिकं वा । प्रधानस्य त्वाकारान्तरेण परिणामात्पूर्वरूपत्यागादशुद्ध्यादिकं स्यादित्यर्थः । किञ्चिद्रूपेण परिणाम आगन्तुको वा न वा । आद्य आगन्तुकविशेषवत्त्वेनानित्यत्वाद्यापत्त्या प्रधानादविशेषः ।
भोगानन्तरं पुनः स्वरूपावस्थानान्नानित्यत्वादिदोषश्चेत्प्रधानस्यापि प्रलये तथात्वाङ्गीकारान्न तयोर्विशेषः स्यादिति दूषयति –
नासाविति ।
सङ्ग्रहवाक्यं विवृणोति –
प्रागिति ।
अस्यां कल्पनायामिति ।
चिद्रूपेण तत्त्वान्तररूपेण विक्रियाकल्पनायामपि विचार्यमाणेऽर्थतो न कश्चिदपि विशेषो लभ्यत इति तयोर्विशिष्टविक्रियेति वाङ्मात्रेणैव कल्प्यत उच्यत इत्यर्थः ।
द्वितीयं शङ्कते –
अथेति ।
चिन्मात्र एवेति ।
न त्वागन्तुकं रूपान्तरमित्यर्थः ।
तर्हि कर्मजन्यः कादाचित्को भोगो न सिध्येदित्याह –
न तर्हीति ।
एतद्दोषपरिहारायाऽऽगन्तुकं परिणाममङ्गीकृत्य भोगकालीनविक्रियामात्रं भोगः स च पुरुषस्यैव न प्रधानस्येति भोगसदसत्त्वविशेषमात्रेण शङ्कते –
भोगकाल इति ।
तत्रापि किं भोगकालीनविक्रियामात्रं भोग उत तत्कालीनचिन्मात्रगतविक्रिया भोग इति विकल्प्याऽऽद्ये भोगकाले प्रधानस्यापि सुखाद्याकारेण विक्रियावत्त्वाद्भोगः स्यादित्याह –
नेति ।
द्वितीयं शङ्कते –
चिन्मात्रस्यैवेति ।
चिन्मात्रस्यैव विक्रियेत्येवकारेण धर्म्यन्तरगतविक्रियानपेक्षा चैतन्यविक्रिया भोग इत्युच्यते वा चैतन्यमात्रगता तदसाधारणा विक्रिया भोग इति वा । नाऽऽद्यः । सुखादिरूपप्रधानविक्रियां विना भोगासिद्धेः । न द्वितीयः । चैतन्यासाधारणविक्रियैव भोग इत्यत्र हेत्वभावात्स्वासाधारणविक्रिया भोग इति वक्तव्यम् । तथा चातिप्रसङ्गः । सर्वस्यापि स्वासाधारणविक्रियावत्त्वात् । भोगकालीनासाधारणविक्रियावत्त्वं तु प्रधानस्याप्यस्ति ।
तत्कालीनसुखादिविक्रियावत्त्वादिति दूषयति –
औष्ण्येति ।
ननु भोगकालीन साधारणविक्रियैव भोगः । न चाग्न्यादेस्तत्काले नियमेन विक्रियाऽस्ति । न च प्रधानस्यापि प्रसङ्ग इष्टापत्तिरिति शङ्कते –
प्रधानेति ।
भोक्ता हि शेषी, उभयोरपि भोक्तृत्वे शेषशेषिभावो न स्यादित्याह –
नेति ।
ननु भोगः सत्त्वगुणप्रधानचेतोरूपेण परिणतप्रकृतेरेव धर्मस्तस्या विक्रियोपपत्तेर्न पुरुषस्य तस्याविक्रियत्वात् । न च तस्य भोगाभावप्रसङ्गस्तस्य तथाविधचित्तप्रतिबिम्बितत्वमात्रेण भोक्तृत्वव्यपदेश इति शङ्कते –
भोगधर्मवतीति ।
सत्त्वाङ्गिनीति ।
सत्वगुणोऽङ्गी प्रधानं यस्य तस्मिंश्चेतसीत्यर्थः ।
तर्हि चित्तगतभोगेन चैतन्ये विशेषो जायते वा न वेति विकल्प्य न द्वितीय इत्याह –
नेति ।
किञ्चास्मिन्पक्षे स्वकीयशास्त्रप्रणयनं च व्यर्थं स्यादित्याह –
भोगरूपश्चेदिति ।
आद्ये स विशेषः सत्यो वाऽसत्यो वेति विकल्प्य सत्यविशेषवत्त्वे पुरुषस्य विकारित्वं स्यादिति मनसि सन्निधायास्याऽऽरोपितविशेषवत्त्वमस्तीत्याद्यं शङ्कते –
अविद्येति ।
अनर्थेति ।
भोगरूपेत्यर्थः । तर्हि भोक्तृत्वविशेषवत्कर्तृत्वादिविशेषस्य प्रधानादेश्चाऽऽरोपत्वमेवाङ्गीकर्तुं युक्तं नार्धवैशसमस्मदुक्तरीत्या बन्धमोक्षव्यवहारसिध्युपपत्तेः ।
तथा कल्पनायां प्रयोजनाभावात्प्रमाणाभावात्प्रत्युत सर्वश्रुतिविरोधापत्तेश्चेत्याह –
परमार्थत इति ।
पुरुषाद्वस्त्वन्तरं च प्रधानमित्यन्वयः ।
उक्तदोषजातं साङ्ख्यस्य मतं मोक्षकामिणा नाऽऽदर्तव्यमिति ज्ञापनार्थमुक्तं न तु द्वेषपक्षपातादित्याशयेनाऽऽह –
इति नाऽऽदर्तव्येति ।
आत्मैकत्वपक्षेऽपि निरसनीयबन्धाभावाच्छास्त्रप्रणयनानर्थक्यमिति शङ्कते –
एकत्वेऽपीति ।
किमात्मैकत्वनिश्चयवन्तं प्रति तस्याऽऽनर्थक्यमुच्यते तद्विपरीतं प्रति वेति विकल्प्याऽऽद्यं प्रति प्रणयनाभावादानर्थक्यदोषाभावमाह –
नाभावादिति ।
दोषापादनाभावादित्यर्थः ।
सङ्ग्रहवाक्यं विवृणोति –
न ह्यात्मैकत्व इति ।
निश्चित इति शेषः । तदभावे शास्त्रप्रणेत्राद्यभाव एवं विकल्पनैवार्थवदनर्थकं वेति विकल्पनैवानुपपन्नेत्यर्थः । नैवानुपपन्नेति पाठे तु तदभाव इत्यनेनैकत्वनिश्चयाभावोऽभिधीयते ।
तदानीं निरसनीयबन्धादिसत्वादियं कल्पना बन्धनिवृत्त्यर्थं शास्त्रप्रणयनकल्पना नानुपपन्नेति योज्यम् । किञ्च आत्मैकत्वनिश्चये जाते तन्निश्चयजनकत्वेन शास्त्रार्थवत्त्वस्य स्वानुभवसिद्धत्वात्तेनेयं शङ्का कर्तुमपि न शक्येत्याह –
अभ्युपगत इति ।
प्रमाणार्थ इति ।
प्रमाणस्य शास्त्रस्यार्थः प्रयोजनमित्यर्थः ।
एकत्वनिश्चयवन्तं प्रति शास्त्रानर्थक्यकल्पनाभावः श्रुत्याऽप्युक्त इत्याह –
तदभ्युपगमे चेति ।
अत्राभ्युपगमो निश्चयः ।
एकत्वनिश्चयाभावदशायां तु निरसनीयारोपितबन्धसत्त्वान्नाऽऽनर्थक्यं तदपि श्रुत्योक्तमित्याह –
शास्त्रप्रणयनेति ।
अनेन द्वितीयकल्पो निरस्तः ।
श्रुतिगतं यत्रपदं व्याचष्टे –
अन्यत्रेति ।
अथर्वणीयमन्त्रोपनिषदि द्वे विद्ये वेदितव्ये इत्युपक्रम्यापरविद्या ऋग्वेदादिरूपा परा त्वदृश्यत्वादिगुणकप्रत्यस्तमितसर्वद्वैतवस्तुविषयेत्युक्त्या विद्याविद्ययोर्विषयभेदः शास्त्रस्याऽऽदावेव सूचित इत्याह –
अत्र चेति ।
अद्वैतवादे सर्वशङ्कानां श्रुतिप्रामाण्येनैव निरासात्तार्किकोत्प्रेक्षितशङ्काशूकस्यापि नात्र प्रवेश इत्युपसंहरति –
अत इति ।
राजप्रमाणेति ।
प्रमाणराजेत्यर्थः । राजदन्तादित्वात्परनिपातः । वेदान्तप्रमाणमेव राजेव राजा तद्बाहवस्तदुक्तन्यायास्तैर्गुप्त आत्मैकत्वमेव विषय इव देश इव देशो रक्षणीयत्वात्स तार्किकचाटभटैर्योधैर्न प्रवेश्य इत्यन्वयः ।
पूर्ववाद्युक्तं दोषं निराकरोति –
एतेनेति ।
उपाधिकृता अनेकाः शक्तयः साधनानि च तत्कृतस्य भेदस्यानेकत्वस्य सत्त्वादित्यर्थः ।
आत्मेति ।
आत्मनो योऽनर्थः संसारस्तत्कर्तृत्वमित्यर्थः । आदिशब्देनाऽऽप्तकामत्वेन प्रयोजनापेक्षानुपपत्तिः सङ्गृहीता । कल्पनया स्वव्यतिरिक्तस्य जीवस्य सत्त्वात्तस्य संसारो नाऽऽत्मनः । तदीयकर्मफलदानार्थं चाऽऽप्तकामस्यापि सृष्ट्यादिप्रवृत्तिः सम्भवति । सर्वव्यवहारस्यापि स्वप्नतुल्यत्वाद्वा स्वप्न इव सर्वमप्युपपद्यत इति सूत्रभाष्यादावेव परिहृत इत्यर्थः ।
साङ्ख्येन स्वपक्षे पुरुषशब्दस्येक्षणस्य चोपपत्तिरुक्ता तामनूद्य निराकरोति –
यस्त्विति ।
यजमानः प्रस्तर इत्यादावुपचारो दृष्ट इत्याशङ्क्याऽऽह –
तत्र हि गौणीति ।
प्रधानपक्षे न केवलमीक्षणश्रुत्यनुपपत्तिर्वस्तुतस्तस्य स्रष्टृत्वमपि न सम्भवतीत्याह –
इह त्विति ।
मुक्तान्वर्जयित्वा बद्धान्प्रत्येव प्रवृत्तिः कर्तृकर्माद्यपेक्षया बन्धमोक्षादिशब्दितभोगापवर्गार्था व्यवस्थिता प्रवृत्तिर्नोपपद्यत इत्यर्थः । अनेन पुरुषार्थं प्रयोजनमुररीकृत्य प्रधानं प्रवर्तत इति यदुक्तं शङ्कावसरे तन्निरस्तम् ।
ईश्वरकारणवादे तु न कोऽपि दोष इत्याह –
यथोक्तेति ॥ ३ ॥
एवं परपक्षं निराकृत्य प्रकृतश्रुतिव्याख्यानं कुर्वन्स प्राणमसृजतेत्यस्य तात्पर्यार्थमाह –
ईश्वरेणेवेति ।
राज्ञेवेत्यर्थः ।
अक्षरार्थं प्रश्नपूर्वकमाह –
कथमिति ।
हिरण्यगर्भाख्यमिति ।
हिरण्यगर्भ इत्याख्या येनोपाधिनाऽऽत्मनो भवति तं बुद्ध्यभिन्नं सर्वप्राणं समष्टिप्राणमित्यर्थः । यथाश्रुते कस्मिन्नहमुत्क्रान्त इत्यादिनाऽऽत्मन उत्क्रान्त्याद्युपाधिसृष्टेः प्रस्तुतत्वाद्धिरण्यगर्भस्य जीवस्यातथात्वादुपक्रमविरोधापत्तेः । हिरण्यगर्भाख्यमित्युक्तिस्त्वात्मनो हिरण्यगर्भादिसंसारिभावोऽप्येतदुपाधिक इति सूचयितुमिति बोध्यम् ।
तस्य समष्टित्वमाह –
सर्वेति ।
अन्तरात्मानमिति ।
सर्वस्थूलशरीरान्तरत्वादात्मबुद्धिगोचरत्वाच्चान्तरात्मा स इत्यर्थः । तत इत्यानन्तर्यार्थेयं पञ्चमी । एवमुत्तरत्रापि । न च भूतकार्यत्वात्प्राणस्य कथं ततः पूर्वकालीनत्वमिति वाच्यम् । सत्यम् । सूक्ष्मभूतसृष्ट्यन्तरं प्राणमसृजतेति कल्पनीयत्वात् । न चैतदन्तरं भूतसृष्ट्युक्तिविरोधशङ्का । तस्याः पञ्चीकृतस्थूलभूतविषयत्वोपपत्तेः । अत एव भोगसाधनाधिष्ठानानीत्युक्तम् । सूक्ष्माणां तथात्वायोगात् । न चैवमपि स्थूलभूतसृष्ट्यनन्तरमिन्द्रियमनःसृष्ट्युक्तिविरोधः । भूतारब्धदेहाधिष्ठितानामेव तेषां कार्यक्षमत्वेन तेषां तदनन्तरत्वोक्तिरिति भावः ।
भोगसाधनाधिष्ठानत्वं भूतानां तत्कारणत्वादित्याह –
कारणभूतानीति ।
तेषां भूतानां लक्षणतया खं शब्दगुणमित्यादिनाऽसाधारणगुणा उक्ताः । पूर्वपूर्वगुणानुवृत्तिस्तु पूर्वपूर्वस्योत्तरोत्तरोपादानत्वसूचनार्थं स्थौल्यतारतम्यसिद्ध्यर्थं चोक्तेति बोध्यम् ।
वायुमिति ।
श्रुतौ वायुरित्यादिप्रथमा द्वितीयार्थाः । प्राणमसृजतेति द्वितीययोपक्रमात् ।
तैरेवेति ।
अपञ्चीकृतावस्थायामित्यर्थः ।
तस्य चेश्वरमिति ।
नियामकमित्यर्थः ।
सङ्कीर्यमाणानामिति ।
अविशुद्धसत्त्वतया पापाचरणेन तैः पापैः सङ्कीर्यमाणानां सङ्करपरिहाराय चित्तशुद्धिसाधनं तपोऽसृजतेत्यर्थः ।
फलमिति ।
लोक्यते भुज्यत इति लोकः फलमित्यर्थः ।
नाम चेति ।
ब्राह्मणादिनाम्नोक्तव्यवहारासङ्करार्थमित्यर्थः । नन्वीश्वरसृष्टत्वोक्त्या कलानां सत्यत्वमङ्गीकर्तव्यम् । आरोपे शुक्तिरजतादौ सृष्टत्वव्यवहारभावादित्याशङ्क्याङ्गुल्यवष्टम्भनेत्रमर्दनादिना प्रयत्नेन सृष्टस्य द्विचन्द्रमशकमक्षिकादेरारोपत्वदर्शनात् ।
अथ रथान्रथयोगान्पथः सृजत इति सृष्टत्वेनोक्तस्वप्नपदार्थस्य च भ्रमत्वदर्शनान्मैवमित्याह –
एवमेता इति ।
अविद्याकामकर्मादिदोषरूपं यद्बीजं तदपेक्षया तत्साधनीकृत्येत्यर्थः । तैमिरिकशब्दो नेत्रेऽङ्गुल्यवष्टम्भाद्युपलक्षणार्थः ।
एवमात्मप्रतिपत्त्यर्थमप्यारोपमुक्त्वा तदपवादमवतारयति –
पुनस्तस्मिन्नेवेति ॥ ४ ॥
ग्रामादिवद्भेदेन गन्तव्यत्वभ्रमं वारयति –
आत्मभाव इति ।
अस्तशब्देन नाशो नाभिधीयते भेदकोपाधिनामरूपयोर्नाशेऽपि स्वरूपस्य समुद्रात्मना विद्यमानत्वादित्याह –
नामरूपतिरस्कारमिति ।
पूर्वरूपतिरस्कारमित्यर्थः ।
तद्वस्त्विति ।
नामरूपनाशानन्तरं परिशिष्टमुदकलक्षणं वस्तु समुद्र इत्येवोच्यत इत्यन्वयः । पुरुषस्येति कर्मणि षष्ठी । पुरुषं स्वात्मरूपम् । परितः सर्वं स्वरूपत्वेन पश्यत इत्यर्थः ।
द्रष्टुरित्युक्त आगन्तुकस्य दर्शनस्य कर्ता प्रतीयत इत्यत आह –
दर्शनस्य कर्तुः स्वरूपभूतस्येति ।
स्वरूपत्वे दर्शनस्य तत्र कर्तृत्वानुपपत्तेस्तदर्थकतृच्प्रत्ययविरोध इत्याशङ्क्यार्कः सर्वतः स्वप्रकाशक इत्यत्र यथा कर्त्रर्थकस्य प्रत्ययस्योपचरितत्वं तद्वदिहापीत्याह –
यथाऽर्क इति ।
नदीनामिवेति ।
इवशब्दस्तथाशब्दार्थे । यथा नदीनां समुद्रोऽयनं तथा पुरुषोऽयनमित्यन्वयः ।
अस्तगमनस्वरूपमाह –
भिद्येते इति ।
नामरूपभेद एवास्तगमनमिहेत्यर्थः ।
यथास्वमिति ।
यस्य यत्स्वरूपं प्राणाद्यात्मकं तदपि भिद्यत इत्यन्वयः ।
पुरुष इत्येवं प्रोच्यत इत्यस्यार्थमाह –
भेदे चेति ।
यदनष्टमिति ।
कलानां हि रूपमारोप्याधिष्ठानोभयात्मकं सत्यानृतमिथुनरूपं, तत्राऽऽरोप्यस्य नामरूपात्मकस्य भेदेऽधिष्ठानात्मकं रूपं पुरुषात्मनोच्यत इत्यर्थः । यथा समुद्रस्वरूपभूतं जलं मेघैराकृष्याभिवृष्टं गङ्गादिनामरूपोपाधिना समुद्राद्भिन्नमिव व्यवह्रियमाणं तदुपाधिविगमे समुद्रस्वरूपमेव प्रतिपद्यत एवमविद्याकृतनामरूपोपाधिवशादात्मनो भिन्नमिव स्थितं सर्वं जगद्विद्ययाऽविद्याकृतनामरूपविगमे ब्रह्ममात्रतयाऽवशिष्यत इत्यर्थः ।
एवं प्राणादिकलोपाधिक आत्मन उत्क्रमणादिशब्दितमरणादिव्यवहार इत्युक्तेः प्रयोजनं प्राणादिनिवृत्तावुत्क्रमणादिसर्वसंसारधर्मरहितात्मस्वरूपावस्थानरूपं दर्शयितुं स एष इति वाक्यं व्याचष्टे –
य एवं विद्वानित्यादिना ॥ ५ ॥
परिवारा इति ।
नाभेः परितो नाभौ नेम्यां च प्रोतास्तिर्यक्काष्ठविशेषा इत्यर्थः ।
यथाप्रवेशिता: इति ।
यथावत्सम्यक्प्रवेशिता इत्यर्थः ।
माङोऽर्थं व्यतिरेकप्रदर्शनेन स्पष्टयति –
न चेदिति ॥ ६ ॥
शिष्याणां कृतार्थताबुद्धिजननार्थं तानित्यदि वाक्यं व्याचष्टे –
तानेवमिति ॥ ७ ॥
प्रकिरणेनेति ।
प्रक्षेपेणेत्यर्थः ।
अतः पितृत्वं तवेति ।
“जनकश्चोपनेता च यश्च विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः” ॥ इति स्मृतेरित्यर्थः ।
योऽस्माकमितिहेतूक्तेस्तात्पर्यं वदन्पितृत्वोक्तिमात्रेण विद्यानिष्क्रयार्थं किं दत्तमित्यपेक्षायां स्वशरीरमेव परिचारकतया दासभावेन गुरवे दत्तमित्याह –
इतरस्मादिति ।
पितृत्वादेव किं पूज्यतरत्वं परिचार्यत्वं स्वामित्वं किमु वक्तव्यमित्यर्थः । अत एव वाजसनेयके मां चापि सह दास्यायेतीत्युक्तमिति भावः ॥ ८ ॥
इत्यानन्दज्ञानविरचितप्रश्नोपनिषद्भाष्यटीकायां षष्ठः प्रश्नः ॥ ६ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदानन्दज्ञानविरचिताऽऽथर्वणप्रश्नोपनिषद्भाष्यटीका समाप्ता ॥