आनन्दगिरिटीका (तैत्तिरीय)
शीक्षावल्ली: प्रथमोऽनुवाकः
यत् प्रकाशसुखाभिन्नं यन्मन्त्रेण प्रकाशितम् ।
विवृतं ब्राह्मणे तत्स्यामदृश्यं ब्रह्म निर्भयम् ॥१॥
यजुर्वेदशाखाभेदतैत्तिरीयकोपनिषदं व्याचिख्यासुर्भगवान्भाष्यकारस्तत्प्रतिपाद्यं ब्रह्म जगज्जन्मादिकारणत्वेन तटस्थलक्षणेन मन्दमतीन्प्रति सामान्येनोपलक्षितं, सत्यज्ञानादिना च स्वरूपलक्षणेन विशेषतो विनिश्चितं नमस्कारच्छलेन सङ्क्षेपतो दर्शयति –
यस्माज्जातमिति ।
निमित्तोपादानत्वयोः पञ्चम्याः साधरण्यादुभयविधमपि हेतुत्वमविवक्षितम् ।
कार्यविलयस्य प्रकृतावेव नियतत्वाद्विशेषतः प्रकृतित्वमाह –
यस्मिन्निति ।
कार्यधारणस्य निमित्ते धर्मादावपि प्रसिद्धत्वात्साधारणकारणत्वमाह –
येनेति ।
ज्ञानात्मन इति स्वरूपलक्षणसूचनम् ॥१॥
गुरुभक्तेर्विद्याप्राप्तावन्तरङ्गसाधनत्वं ख्यापयितुं गुरून्प्रणमति –
यैरिति ।
पदानि च वाक्यानि च प्रमाणं चानुमानादि तद्विवेचनेन व्याख्याता इत्यर्थः ॥२॥
चिकीर्षितं निर्दिशति –
तैत्तिरीयकेति ।
व्युत्पन्नस्य पदेभ्य एव पदार्थस्मृतिसम्भवात्पदस्मारितपदार्थानां संसर्गस्यैव वाक्यार्थत्वात्सूत्रकारेणोपनिषत्तात्पर्यस्य निरूपितत्वाच्च व्यर्थः पृथग्व्याख्यारम्भ इत्याशङ्याह –
विस्पष्टार्थेति ।
मन्दमतीनां स्वत एव निःशेषपदार्थस्मरणासम्भवादुपनिषद्गतानिःशेषपदार्थानां विशिष्य निःसंशयं ज्ञानं ये रोचयन्ते तेषामुपकारायेत्यर्थः ॥३॥
कर्मविचारेणैवोपनिषदो गतार्थत्वादुपनिषत्प्रयोजनस्य निःश्रेयसस्य कर्मभ्य एव सम्भवात्पृथग्व्याख्यारम्भो न युक्त इत्याशङ्कामपनेतुं कर्मकाण्डार्थमाह –
नित्यानीति ।
“अथाऽतो धर्मजिज्ञासा”(जै.सू. १।१।१) इति जैमिनिना धर्मग्रहणेन सिद्धवस्तुविचारस्य पर्युदस्तत्वान्नोपनिषदो गतार्थत्वमित्यर्थः । तानि च कर्माणि सञ्चितदुरितक्षयार्थानि । “धर्मेण पापमपनुदति”(म. ना. उ. २-१) इति श्रुतेर्न निःश्रेयसार्थानि । न केवलं जीवतोऽवश्यकर्तव्यान्यधिगतानि फलार्थिनां काम्यानि च । न तान्यपि निःश्रेयसार्थानि । “स्वर्गकामः”,“ पशुकामः” इत्यादिवन्मोक्षकामोऽदः कुर्यादित्यश्रवणात् । अतः संसार एव कर्माणां फलमित्यर्थः ।
कर्मकाण्डार्थमुक्त्वा तत्राविचारितमुपनिषदर्थमाह –
इदानीमिति ।
कर्मणामुपादानेऽनुष्ठाने यो हेतुस्तन्निवृत्त्यर्थं ब्रह्मविद्याऽस्मिन्ग्रन्थ आरभ्यते । अतः सनिदानकर्मोन्मूलनार्थत्वादुपनिषदः कर्मकाण्डविरुद्धत्वान्न गतार्थत्वमित्यर्थः ।
कर्मानुष्ठाने हेतुर्नियोगस्तस्य प्रमाणसिद्धत्वान्न विद्यया विरोध इत्याशङ्क्याह –
कर्महेतुरिति ।
अस्येदं साधनमित्येतावच्छास्त्रेण बोध्यते । यस्य यत्राभिलाषः स तत्र प्रवर्तते कामत एव । अतो न नियोगस्य प्रवर्तकसम्भावनापीत्यभिप्रायः । सति कामे प्रवृत्तिरित्यन्वय उक्तः ।
कामाभावे न प्रवृत्तिरिति व्यतिरेकमाह –
आप्तेति ।
अभिलषितविषयप्राप्तिः कामनिवृत्तौ हेतुः । न विद्या ।
अतः कथं कर्महेतुपरिहाराय विद्यारम्भ इत्याशङ्क्याह –
आत्मकामत्वे चेति ।
कामितविषयप्राप्त्या कामस्य तात्कालिकोपशममात्रं न तूच्छेदः । पुनर्विषयाकाङ्क्षादिदर्शनात् । आत्मकामनापि निरङ्कुशाऽऽत्मैव वस्तु नान्यत्ततोऽस्तीत्येवंरूपात्मकामत्वे सति भवति कामयितव्याभावादेव । आत्मानं ह्यद्वयानन्दरूपमजानन्नेव व्यतिरिक्तं विषयं पश्यन्कामयते । ततः कामस्याऽऽत्माविद्यामूलत्वादात्मविद्यैव तन्निवृत्तिहेतुरित्यर्थः ।
भवत्वात्मविद्या कामविरोधिनी कर्महेतुपरिहाराय ब्रह्मविद्या प्रस्तूयत इति कथमुक्तं तत्राह –
आत्मेति ।
आनन्दमयं परमात्मानमादय श्रुतिरुदाहृता ।
एवं तावत्कर्मकाण्डेनागतार्थत्वात्कर्मभ्योऽसम्भाव्यमाननिःश्रेयसप्रयोजनत्वाच्चोपनिषदो व्याख्यारम्भं सम्भाव्य पुनरनारम्भवादिनोऽभिप्रायमुद्भावयति –
काम्यप्रतिषिद्धयोरिति ।
आत्यन्तिकागामिशरीरानुत्पादे स्वरूपावस्थानं निःश्रेयसं, शरीरानुत्पादश्च हेत्वभावादेव सेत्स्यति किं ज्ञानार्थोपनिषदारम्भेणेत्यर्थः ।
मतान्तरमाह –
अथवेति ।
यदेव स्वर्गसाधनं ज्योतिष्टोमादि तदेव मोक्षसाधनं , निरतिशयप्रीतेः स्वर्गपदार्थस्य मोक्षादन्यत्रासम्भवात्सति शरीरे क्लेशावश्यम्भावादित्यर्थः ।
ऐकभविकपक्षे आद्यं मतं प्रत्याख्याति –
नेत्यादिना ।
यद्यपि वर्तमाने देहे काम्यं प्रतिषिद्धं च नाऽऽरभेत मुमुक्षुस्तथाऽपि सञ्चितस्यानेकस्य सम्भवाद्धेत्वभावोऽसिद्ध इत्यर्थः ।
प्रायणेनभिव्यक्तानि सर्वाण्येव कर्माणि सम्भूयैकं शरीरमारभन्ते , तत्र सर्वेषामुपभोगेन क्षयितत्वात्सञ्चितं कर्मैव नास्तीतिशङ्कानिराकरणायोक्तम् –
विरुद्धफलानीति ।
स्वर्गनरकफलानां ज्योतिष्टोमब्रह्महत्यादीनामेकस्मिन्देहे भोगेन क्षयासम्भवात् प्रायेणास्य सर्वाभिव्यञ्चकत्वे प्रमाणाभावात्बलवता प्रतिबद्धस्य दुर्बलस्यावस्थानं सम्भवतीत्यर्थः ।
सम्भावनामात्रमेतन्नात्र प्रमाणमस्तीत्याशङ्क्याऽऽह –
कर्मशेषेति ।
प्रेत्य स्वकर्मफलमनुभूय ततः शेषेण जन्म प्रतिपद्यन्त इति स्वर्गादवरोहतां कर्मशेषसद्भावं दर्शयतीत्यर्थः ।
सञ्चितकर्मसद्भावमङ्गीकृत्य देहान्तरारम्भो न भविष्यतीत्याह –
इष्टेति ।
एतद्भाट्टानां सिद्धान्तविरुद्धमित्याह –
नेति ।
मुमुक्षुणाऽनुष्ठितस्य नित्यादेः सञ्चितकर्मक्षयार्थत्वाभ्युपगमेऽपि नाभिमतसिद्धिरित्याह –
यदि नामेति ।
यच्चोक्तं मुमुक्षुः काम्यानि वर्जयेदिति तदप्यसति विवेकबले दुर्घटम् ।
सति मूलाज्ञाने कामोद्भवस्य दुर्निवारत्वादित्याह –
न च कर्महेतूनामिति ।
ननु कामो नाज्ञानमूलः ।
आत्मविदामपि कामदर्शनादित्यत आह –
स्वात्मनि चेति ।
सर्व आत्मेति पश्यतां तत्त्वतो विषयाभावादेव कामानुपपत्तिः । अशनादिप्रवृत्तिनिमित्तं तु कामाभास एव । वास्तवाभिनिवेशाभावादित्यर्थः ।
तेषामप्यर्चिरादिमार्गेण ब्रह्मप्राप्तेः कामनाऽस्तीति नाऽऽशङ्कनीयमित्याह –
स्वयं चेति ।
यच्चोक्तमकरणनिमित्तप्रत्यवायपरिहारार्थानि नित्यानीति तत्राऽऽह –
नित्यानां चेति ।
आगामि दुःखं प्रत्यवाय उच्यते । तस्य भावरूपस्य नाभावो निमित्तम् । “पापः पापेन”(बृ. उ. ३ । २ । १३) इति श्रुतेः । निषिद्धाचरणनिमित्तत्वाद्दुःखस्येत्यर्थः ।
“अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसज्जंश्चेन्द्रियार्थेषु नरः पतनमृच्छति॥” इति शतृप्रत्ययादकरणस्यापि प्रत्यवायनिमित्तत्वमवगतमित्याशङ्क्याऽऽह –
अतः पूर्वेति ।
यदि यथावन्नित्यनैनिमिकानुष्ठानमभविष्यत्तदा सञ्चितदुरितक्षयोऽभविष्यत् । न चायं विहितकार्षीदित्यतः प्रत्यवायो भविष्यतीति शिष्टैर्लक्ष्यते ।
यथा विचिकित्सञ्श्रोत्रिय इति ।
ततः शतृप्रत्ययस्यान्यथा व्युत्पन्नत्वान्न तद्बलादकरणे हेतुत्वमवगन्तुं शक्यत इत्यर्थः ।
ननु लक्षणहेत्वोः क्रियाया इति शतृप्रत्ययस्योभयत्र विधाने सति किमिति हेतुत्वमेव न गृह्यते , तत्राऽऽह –
अन्यथेति ।
भावरूपस्य कार्यस्य भावरूपमेव कारणमिति प्रत्यक्षादिभिरवगतं , शतृप्रत्ययादभावस्य हेतुत्वाभिधाने सर्वप्रमाणविरोधः स्यादित्यर्थः । ननु त्वयाप्यकरणस्य प्रत्यवायलक्षणत्वमिष्टम् । भाट्टैश्चानुपलम्भस्याभावप्रमितिहेतुत्वमिष्यते । तार्किकैश्च प्रतिबन्धकाभावस्य तत्तत्प्रागभावस्य च तत्तत्कार्यव्यवस्थापकत्वमिष्यते । तत्कथं भावस्यैव कारणत्वम् । तदुक्तम् - “भावो यथा तथाऽभावः कारणं कार्यवन्मतः” इति । उच्यते । अस्माभिस्तावदभावस्य स्वरूपेण कारणं नेष्टम् । किन्तु तज्ज्ञानस्य प्रतवायगमकत्वमिष्टम् । तेन च रूपेण न प्रत्यवायजनकत्वमिष्यते । नित्याकरणज्ञाने प्रत्यवायाभावप्रसङ्गात् । भाट्टानामपि च केषाञ्चिज्ज्ञातस्य योग्यानुपलम्भस्याभावप्रतिमिहेतुत्वं , सत्तया तु प्रमितिहेतुत्वेऽभावप्रमायाः प्रत्यक्षत्वापातः । तार्किकाणामपि प्रतिबन्धकाभावस्य कारणत्वे अन्योन्याश्रयत्वप्रसङ्गान्न प्रामाणिकत्वम् । प्रागभावस्यापि ज्ञातरूपेण जन्यज्ञापकत्वमेव । यस्मादिदं प्राङ्नाऽसीत्तस्मादिदानीं जातमिति । न तु जनकत्वं प्रागभावस्य नियतप्राग्भावित्वेन कारणत्वे प्राक्कालस्य स्ववृत्तितापातः । प्राग्भावित्वमपि चान्यथासिद्धमित्युक्तं _ तत्त्वालोके ।
यस्मादकरणनिमित्तप्रत्यवायपरिहारार्थं न नित्यं कर्म किन्तु “कर्मणा पितृलोकः”(बृ. उ. १ । ५ । १६) “सर्व एते पुण्यलोका भवन्ति इति”(छा. उ. २ । २३ । १) श्रुतेः पितृलोकप्राप्तिफलम् , तस्मान्न यथोक्तचरितस्य शरीरानुत्पाद इत्याह –
आयत्नत इति ।
द्वितीयमतमनूद्य दूषयति –
यच्चोक्तमित्यादिना ।
विद्यासहितेनापि कर्मणाऽऽरभ्यश्चेन्मोक्षस्तर्ह्यनित्य एव ।
यत्कृतकं तदनित्यमिति व्याप्तिदर्शनादित्युक्तं तत्र व्याप्तिभङ्गं मन्वानः शङ्कते –
यद्विनष्ठमिति ।
भावरूपत्वादिति । यद्भावरूपं कार्यं तदनित्यमिति व्याप्तेस्तव च मोक्षस्य निरतिशयप्रीतेर्भावत्वादनित्यत्वं स्यादेवेत्यर्थः । प्रध्वंसाभावस्य कार्यत्वमभ्युपगम्य यत्प्रध्वंसातिरिक्तकार्यं तदनित्यमिति व्याप्तिर्व्याख्यातैव ।
वस्तुतस्तु प्रध्वंसस्य कार्यत्वमपि नास्तीत्याह –
प्रध्वंसेति ।
जन्याश्रयत्वं तावत्प्रध्वंसस्य न कार्यत्वम् । जनेर्नैरुक्तैर्भावविकारत्वाभ्युपगमात् । नापि प्रागसतः सत्तासमवायादिलक्षणम् । तदनभ्युपगमात् । नाप्युत्तरकालयोगः । कालेन सम्भन्धाभावात् । अवच्छेदावच्छेदकभावस्य सम्बन्धान्तरमूलकत्वदर्शनात् , तदुत्तरकालस्य प्रध्वंसावच्छेदकत्वं स्वभावश्चेदन्यावच्छेदकत्वं स्वभावो न स्यात् । तस्मादभावस्य निर्विशेषकत्वात्कार्यत्वं कल्पनामात्रपरमिति भावः ।
किञ्च , अभावस्य भावनिषेधमात्रस्वभावत्वाद्भावविरोधित्वाच्च न भावरूपो धर्मः सम्भवतीत्याह –
भावेति ।
ननु अभावश्चतुर्विधः । तत्रानित्यः प्रागभावः ।
प्रध्वंसादयस्तु नित्याः ततः कथं निर्विशेषत्वमित्याशङ्क्याऽऽह –
यथा हीति ।
विधिप्रत्ययस्यैकाकारत्वादेक एव भावोवच्छेदकभेदाद्भिन्न इव प्रकाशते जायते नश्यति चेति क्रियायोगात्संख्यागुणयोगाद्द्रव्यवदभावो विकल्प्यते । न तु तत्त्वतः सविशेष इत्यर्थः ।
इतश्च न तत्त्वतः सविशेष इत्याह –
न हीति ।
विशेषणं हि विशेष्यान्वयि प्रसिद्धम् । प्रतियोगिना च विशेषणेन नाभावस्य सहभावोऽस्ति । घटप्रध्वंसस्य नित्यत्वे घटस्यापि नित्यत्वप्रसङ्गात् । घटसहभावित्वे च तदभावत्वव्याघाताद्भावाभावयोः सहानवस्थानरूपविरोधाभ्युपगमात् । ततः प्रतियोगिविशेषादभावः सविशेषः कार्यत्वादिधर्मवानिति विभ्रममात्रमित्यर्थः ।
एवं प्रध्वंसदृष्टान्तेन शङ्कितं नित्यत्वं परिहृत्य प्रकारान्तरेणाऽऽशङ्कां निषेधयति –
विद्याकर्मेत्यादिना ।
विद्याकर्मणोः कर्ता नित्य इति साधनसान्तत्यात्साध्यसान्तत्यं न वाच्यम् । कर्तृत्त्वस्यानुपरमेऽनिर्मोक्षप्रसङ्गादुपरमे च साधनसान्तत्याभावान्मोक्षस्य विच्छित्तिः स्यादित्यर्थः । यस्मान्निःश्रेयसं ब्रह्मज्ञानं विना दुष्प्रापं तस्मादित्युपसंहारः ।
ब्रह्मविद्यायामुपनिषच्छब्दप्रसिद्धिरपि विद्याया एव निःश्रेयससाधनत्वे प्रमाणमित्याह –
उपनिषदिति ।
निशातनात् शिथिलीकरणादित्यर्थः । अस्यां विद्यायां निमित्तभूतायां परं श्रेयो ब्रह्म जीवस्योपनिषण्णमात्मतयोपस्थितं भवतीत्यर्थः ।
एवमुपनिषदां व्याख्यारम्भं सम्भाव्य प्रतिपदव्याख्यामारभते –
शं मुखमित्यादिना ।
शं नो भवत्त्विति । सुखकृद्भवत्वित्यर्थः ।
अध्यात्मप्राणकरणाभिमानिनीनां देवतानां सुखकृत्त्वं किमिति प्रार्थ्यते तत्राऽऽह –
तामसु हीति ।
श्रवणं गुरुपादोपसर्पणपूर्वकं वेदान्तानां तात्पर्यावधारणम् । धारणं श्रुतस्याप्यविस्मरणं । उपयोगः शिष्येभ्यो निवेदनम् ।
अन्यद्ब्रह्मवायुश्चान्य इति नाऽऽशङ्कनीयमित्याह –
परोक्षेति ।
ब्रह्मणे इति परोक्षेण “स ब्रह्म त्यदित्याचक्षत ”(बृ. उ. ३ । ९ । ९) इति श्रुतेः । वायुशब्देन च प्रत्यक्षतया निर्देशः । प्राणस्य प्रत्यक्षत्वादित्यर्थः ।
यद्यपि सूत्रात्मरूपेण वायुः परोक्षः तथाऽप्याध्यात्मिकप्राणवायुरूपेण ब्रह्मशब्दवाच्यत्वेऽप्यपरोक्षत्वमित्याह –
किञ्चेति ।
बाह्यं चक्षुरादि रूपदर्शनाद्यनुमेयत्वाद्व्यवहितम् । प्राणस्त्वव्यवधानेन साक्षिवेद्यः सन्निहितश्च भोक्तुरिति चक्षुराद्यपेक्षया प्रत्यक्ष इत्यर्थः । बृहनाद्ब्रह्म । प्राणकृतेन ह्यशनादिना शरीरादेर्बृहणं प्रसिद्धमित्यर्थः ।
यथाराज्ञो दौवारिकं कश्चिद्राजदिदृक्षुराह – “त्वमेव राजा” इति तथा हार्दस्य ब्रह्मणो द्वारपं प्राणं हार्थं ब्रह्म दिदृक्षुर्मुमुक्षुराह –
त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामिति ।
ब्रह्मवदनक्रिया प्राणदेवतास्तुत्यर्था ।
स्तुत्यन्तरमाह –
ऋतमित्यादिना ॥१॥
इति प्रथमोऽनुवाकः ॥
यत्नोपरम इति ।
स्वरोष्मव्यञ्जनप्रमादो मा भूदित्यर्थः । अन्यथा विवक्षितार्थसिद्धिरेव न स्यात् । तदुक्तम् - “मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥”(पा.शि. ५२) इति ।
लक्षणमिति ।
लक्षणं शास्त्रम् । ऋटुरषाणां मूर्धा । इचुयशानां ताल्वित्यादि । तस्यान्यत्रैव सिद्धत्वादिह कर्मव्युप्तत्तिरेव शिक्षाशब्दस्य ग्राह्या ।[रूपमिति] “चक्षिङः ख्याञ्” “वा लिटि ”(पा.सू. २।४।५५) इति सूत्रेण ख्याञादिष्टो यस्तस्येदं रूपं न “ख्या प्रकथेन ” इत्यस्य सोपसर्गस्य , प्रयोगानभिधानादित्यर्थः ॥
इति द्वितीयोऽनुवाकः ॥२॥
संहिता वर्णानां सन्निकर्षस्तद्विषयमुपासनं प्रथमं कथ्यत इत्याह –
अधुनेति ।
सन्निधानाच्च स्वशाखासंहितैव ग्राह्या । शं नो मित्र इत्याशीर्वादः कृत्स्नोपनिषच्छेषः ।
संहितोपनिषच्छेषमशीर्वादान्तरमाह –
तत्रेति ।
वस्तूपासनं हित्वा प्रथमतः शब्दोपासनविधाने हेतुरतः शब्देनोक्त इत्याह –
यतोऽन्यर्थमिति ।
पञ्चस्विति सप्तमी तृतीयार्थे विपरिणेया । अधिकरणशब्दश्च विषयपर्यायः । पञ्चभिः पर्यायैः विशेषितं ज्ञानं वर्णेषु वक्तव्यम् । यथा विष्णुदर्शनं प्रतिमायामित्यर्थः ।
लोकेष्वधीति ।
लोकानाधिकृत्योपादाय ध्येयत्वमित्यर्थः । विद्याशब्देन विद्याप्रतिबद्ध आचार्यादिर्विवक्षितः । तथैव प्रजाशब्देन प्रजाप्रतिबद्धः प्रित्रादिर्विवक्षितः ।
अध्यात्ममिति ।
आत्मानं भोक्तारमधिकृत्य यद्वर्तते जिह्वादि तद्विवक्षितम् । सर्वत्र तत्तदभिमानीनि देवतैव ग्राह्या । अन्यस्योपास्यत्वासम्भवादिति ।
विधिशेषमर्थवादमाह –
ता एता इति ।
संहितोपनिषदः कर्तव्या इत्युत्पत्तिविधिरुक्तः ।
कथं कर्तव्या इत्याकाङ्क्षायां विनियोगविधिमाह –
अथ तासामित्यादिना ।
कर्तुरेकत्वादनुष्ठेयानां बहुत्वादवश्यम्भाविनि क्रमे विशेषनियमर्थोऽथशब्दः । “हृदयसाग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसः” इतिवत् । उपप्रदर्श्यन्ते परामृश्यन्ते । अविकारविधिप्रदर्शनाय, यथा षड्यागाः समुच्चिताः । फलसाधनमधिकारांशेनाभेदात् ।
तथा पञ्चोपनिषदः समुच्चिताः प्रजादिफलकामस्यानुष्ठेया इत्याह –
यः कश्चिदित्यादिना ।
फलकामिनानुष्ठीयमानं संहितोपासनं कामितफलाय भवति । फलानभिसन्धिना त्वनुष्ठीयमानं ब्रह्मविद्यार्थं भवति । मेधाहीनेन ब्रह्मणोऽवगन्तुमश्यक्यत्वान्मेधाकामस्य जपोऽपि ब्रह्मविद्यार्थो भवति । श्रीविहीनेन सत्त्वशुद्ध्यर्थं यागाद्यनुष्ठातुं न शक्यत इति श्रीकामस्य होमोऽपि परम्परया ब्रह्मविद्योपयोगीति महत्तात्पर्यं विद्यासन्निधिसमाम्नातानां सर्वत्र द्रष्ठव्यम् ॥३॥
इति तृतीयोऽनुवाकः ॥
अवान्तरतात्पर्यमभिप्रेत्याह –
यश्छन्दसामित्यादिना ।
सम्बभूवेति जन्मवाचके पदे श्रूयमाणे किमिति “प्रजापतिर्लोकानभ्यतपत्”(छा. उ. २ । २३ । २) इत्यादिश्रुत्यन्तरानुसारेणाऽऽत्मज्ञानयोग्यकार्यश्रेष्ठत्वेन प्रतिभानं व्याख्यायते तत्राऽऽह ।
न हीति ।
पुरुषविपरिणाम इति । भूयासमित्युत्तमपुरुषस्य प्रकृतस्य प्रथमपुरुषत्वेन विपरिणामः कर्तव्य इत्यर्थः ।
अचेतनशब्दं प्रति प्रार्थना कथं ? कथं चेन्द्रशब्देनाभिधानमित्याशङ्क्य ब्रह्माभेदविवक्षयेत्यभिप्रेत्याह –
ब्रह्मण इति ।
ब्रह्माभेदेन प्रार्थितदाने समर्थश्चेदोङ्कारः किमिति सर्वैर्नोपास्यत इत्याशङ्क्याह –
मेधयेति ।
लौकिकप्रज्ञयेति ।
शालग्रामादिश्विव देवताबुद्ध्येत्यर्थः । नैतेष्वार्षेयादि मृग्यम् । ब्राह्मणोत्पन्नत्वात् । “वस निवासे , वस आच्छादने” इति धातुद्वयदुप्रत्ययः शीलेऽर्थे । वसुर्वसनशीलः । पराच्छादनशीलो वा वसुः । अतिशयेन वसुर्वसीयांस्तस्माद्वसीयसः । ईलोपश्छान्दसः ।
वसुमान्वसुशब्देन लक्ष्यत इत्यभिप्रेत्याऽऽह –
वसुमत्तराद्वेति ।
पूर्वोक्तस्य प्रयोजनमाह –
किञ्चेति ।
यदुक्तं “ब्रह्मचारिणो मामायन्तु” इति तत्र दृष्टान्तमाह –
यथेति ।
इति चतुर्थोऽनुवाकः ॥
वृत्तानुवादपूर्वकमुत्तरानुवाकस्य सम्बन्धमाह –
संहिताविषयमित्यादिना ।
व्याहृतीनां श्रद्धागृहीतत्वात्तत्परित्यागेनोपदिश्यमानं ब्रह्म न बुद्धिमारोहेदिति ततो व्याहृतिशरीरं हिरण्यगर्भाख्यं ब्रह्मान्तर्हृदये ध्येयत्वेनोपदिश्यत इत्यर्थः । मह इति व्याहृतावङ्गिब्रह्मदृष्टिः कर्तव्या ।
तत्र किं साम्यमित्यत आह –
महद्धीति ।
यथा देवदत्तस्य पादादीन्यङ्गानि मध्यभागश्चाङ्गी , इतरेषामङ्गानामात्मा कथ्यते व्यापकत्वात् । तथा महोव्याहृतिर्हिरण्यगर्भस्य ब्रह्मणो मध्यभाग आत्मेति कल्प्यते । इतराश्च व्याहृतयः पादाद्यवयवत्वेन कल्प्यन्ते । प्रथमव्याहृतिः पादौ , द्वितीया बाहू , तृतीया शिर इत्यर्थः । व्याहृत्यवयवं ब्रह्मोपासीतेत्युत्पत्तिविधिरुक्तः ।
इदानीमङ्गविशेषविधिः कथ्यते –
भूरिति वा अयं लोक इत्यादिना ।
तत्रैकैका व्याहृतिश्चतुष्प्रकाराऽवगन्तव्येति तात्पर्यमाह –
अयं लोक इत्यादिना ।
एकैका व्य्याहृतयो यदा चतुष्प्रकाराश्चिन्त्यन्ते तदा षोडशकलः पुरुष उपासितो भवतीत्यभिप्रेत्य संक्षेपमाह –
ता वा एता इति ।
स वेद ब्रह्मेति ब्रह्मवेदनं फलत्वेन न सङ्कीर्त्यतेऽधिकारविधिवाक्ये ।
किन्तु वक्ष्यमाणानु वाकेनास्मिन्नेव ब्रह्मोपासने गुणविधानं भविष्यतीति सूचयितुमित्याह –
न तद्विशेषविवक्षुत्वादित्यादिना ।
यदि व्याहृत्यवयवमेव ब्रह्मोत्तरत्रोपास्यते तदैवोपासकस्य प्रथमव्याहृत्यात्मकेऽग्नौ प्रतिष्ठाभिधानं घटेत ।
तस्माद्व्याहृत्यात्मकदेवताप्राप्त्यभिधानं उपासनैकत्वे लिङ्गमाह –
लिङ्गाच्चेति ।
किञ्चैकत्र प्रधानविद्याविधिरपरत्र गुणविधिरित्येवमनुवाकभेदे चरितार्थे नानन्यथासिद्धं भेदकं प्रमाणमुपलभ्यत इत्याह –
विधायकाभावाच्चेति ।
विधायक इति । भिन्नविद्याबोधक इत्यर्थः ।
इति पञ्चमोऽनुवाकः ॥
तदुपलभ्यत्वादिति ।
ज्ञानाकारपरिणामिनि मनस्येवोपलभ्यत्वाद्ध्यायिभिरित्यर्थः । जडस्य मनसः प्रवृत्तिं दृष्ट्वा तदधिष्ठातृतया हिरण्यगर्भोऽनुमीयते । तस्य शास्त्रे सकलकरणाधिष्ठातृत्वेन प्रसिद्धत्वादिति तल्लिङ्गत्वमुक्तमित्यर्थः ।
स्वाराज्यं निरङ्कुशमैश्वर्यं जगत्स्रष्टुत्वादिलक्षणं न भवतीत्याह –
अङ्गभूतानां देवानामिति ।
सावधिकमैश्वर्यमेवाऽऽह –
आप्नोतीत्यादिना ।
इति षष्ठोऽनुवाकः ॥
उत्तरोऽप्यनुवाकः प्रकारान्तरेण हिरण्यगर्भोपासनविषय इत्याह –
यदेतदित्यादिना ।
प्रुथिव्यादेः कथं पाङ्क्तत्वमित्याकाङ्क्षायां पङ्क्त्याख्यस्य च्छन्दसः सम्पादनादित्याह –
पञ्चसंख्येति ।
न केवलं पञ्चसंख्यायोगात्पङ्क्तिच्छन्दःसम्पादनं यज्ञत्वसम्पादनमपि कर्तुं शक्यत इत्याह –
पाङ्क्तश्च यज्ञ इति ।
पत्नीयजमानपुत्रदैवमानुषवित्तैः पञ्चभिः सम्पाद्यत इति यज्ञः पाङ्क्त इत्यर्थः ।
“उत्कृष्टदृष्टिर्निकृष्टे फलवती” इति न्यायाद्बाह्यपाङक्तरूपेणाऽऽध्यात्मिकपाङ्क्तत्रयमवगन्तव्यमित्यभिप्रेत्याऽऽह –
एकात्मतयेति ।
इति सप्तमोऽनुवाकः ॥
वृत्तानुवादपूर्वकमुत्तरानुवाकमवतारयति –
व्याहृत्यात्मन इत्यादिना ।
वेदविदां हि सर्वाः क्रिया ओङ्कारमुच्चार्य प्रवर्तन्ते ततस्तस्य श्रद्धागृहीतत्वात्तत्परिहारेणोपदिष्टं ब्रह्म न बुद्धिमारोहेदतस्तमादायैवोपासनं विधायत इत्यर्थः ।
नन्वोङ्कारस्य शब्दमात्रस्याचेतनत्वादहमनेनोपासित इति ज्ञानाभावात्कथं फलदातृत्व स्यादित्याशङ्क्याऽऽह –
परापरेति ।
प्रतिमाद्यर्चन इव सर्वत्रेश्वर एव फलदातेति भावः ।
ओङ्कारे ब्रह्मत्वाध्यासे किं सादृश्यमित्यत आह –
ओमितीदमिति ।
सर्वास्पदत्वमोङ्कारस्य ब्रह्मणा सादृश्यमित्यर्थः । शस्त्राणि गीतिरहिता ऋच उच्यन्ते ।
प्रतिगरमिति ।
ओऽथामोदैवेति शब्दमध्वर्युः प्रतिगृणाति होतुः शंसनं प्रति प्रतिशसनमुच्चारयतीत्यर्थः ।
प्रवक्ष्यन्निति ।
“वच परिभाषणे” इत्यस्य रूपं प्रथमव्याख्याने । द्वेतीये “वह प्रापणे” इयस्य द्रष्टव्यम् ।
इति अष्टमोऽनुवाकः ॥
व्यवहितानुवाकेन सम्बन्धमाह –
विज्ञानादेवेत्यादिना ।
अपरविद्यासहकारितया तत्फलेनैव फलवत्त्वसिद्ध्यर्थमुत्तरानुवाकारम्भ इत्यर्थः । लौकिकसंव्यवहारो विवाहादिः ।
पुनः पुनः स्वाध्यायप्रवचनग्रहणस्य तात्पर्यमाह –
सर्वैरेतैरिति ।
किमिति तत्नतोऽनुष्ठेये तत्राऽऽह –
स्वाध्यायाधीनमिति ।
त्रयाणामृषीणां मतभेदोपन्यासेन स्वाध्यायप्रवचनयोरेवादरं विवृणोति –
सत्यमित्यादिना ।
इति नवमोऽनुवाकः ॥
स्वाध्यायार्थ इति जपार्थः “ इषे त्वेति शाखां छिनत्ति” इतिवत् । अन्यत्र विनियोजकं श्रुत्यादिप्रमाणमपि नोपलभ्यत इत्याह –
न चान्यार्थत्वमिति ।
अक्षितमसीत्यादिवदुपासनाविधिशेषत्वं वा वक्तुं न शक्यते । ज्ञानसाधनक्रियाविधेः प्रक्रान्तत्वादित्यर्थः । अहं वृक्षस्येतिमन्त्रस्यर्षिस्त्रिशङ्कुः , पङ्क्तिश्छन्दः , परमात्मा देवता , ब्रह्मविद्यार्थे जपे विनियोगः ।
न केवलमस्य जपो विद्यार्थः पूर्वोक्तानि कर्माण्यपीत्याह –
ऋतं चेत्यादिना ।
इति दशमोऽनुवाकः ॥
उत्तरानुवाकस्य तात्पर्यमाह –
वेदमनूच्येत्यादिना ।
विद्योत्पत्त्यर्थं नित्यनैमित्तिकान्यनुष्ठेयानीत्येको नियम उक्तः ।
प्रागेव चानुष्ठेयानीति नियमान्तरमाह –
प्रागुपन्यासाच्च कर्मणामिति ।
संग्रहवाक्यं विवृणोति केवलेत्यादिना । अविद्यया कर्मणा मृत्युमधर्म तीर्त्वेति मन्त्रोऽपि विद्योत्पत्तेः प्रागेव कर्मानुष्ठानं सूचयतीत्यर्थः ।
“ऋतं च स्वाध्यायप्रवचने च”(तै.उ. १ । ९ । १) इत्यादिना पूर्वत्र कर्मानुष्ठानमुक्तमेवातः पौनरुक्त्यमित्याशङ्क्याऽऽह –
ऋतादीनामिति ।
विचारमकृत्वा गुरुकुलान्न निवर्तितव्यम् ।
किन्त्वध्ययनविधेरर्थावबोधनद्वारेण पुरुषार्थपर्यवसायितासिद्ध्यर्थमक्षरग्रहणानन्तरमर्थावबोधे प्रयतितव्यमित्याह –
ग्रन्थग्रहणादन्विति ।
“वेदमधीत्य स्नायात्” इति स्मृतिरप्येतच्छति विरुद्धेत्याह –
अतोऽवगम्यत इति ।
वक्तव्यमिति ।
वचनार्हं परस्य हितमित्यर्थः ।
इत्येकादशोऽनुवाकः ॥
आद्यानुवाके केवलाया विद्याया निःश्रयससाधनत्वमुक्तमपि स्फुटीकर्तुं कर्मविधिमुपलभ्य प्रसङ्गात्पुनर्विचारयितुमुपक्रमते –
अत्रैतच्चिन्त्यत इत्यादिना ।
विवेकार्थमिति पृथक्फलत्वज्ञापनार्थमित्यर्थः । “ भूतं भव्यायोपदिश्यते” इति न्यायेनाऽऽत्मज्ञानस्यापि कर्मकर्तृसंस्कारतया कर्मविधिशेषत्वाच्छुतस्यापि फलस्यार्थवादमात्रत्वात्कर्मभ्य एव परं श्रेय इति पूर्वः पक्षः ।
सिद्धान्तमाह –
न नित्यत्वादित्यादिना ।
यद्यप्यध्ययनविधिप्रयुक्त्या कृत्स्नो वेदार्थं एकेन विचारितव्यस्तथाऽप्यध्ययनविधौ प्रतिवाक्याध्ययनं प्रतिवाक्यार्थविचारं च व्यापारभेदात्तत्प्रयुक्तऽभ्युदयकामस्य कर्मोपयोगिवाक्यार्थज्ञानवत्त्वमात्रेण कर्मण्यधिकारसम्भवाद्ब्रह्मसाक्षात्कारस्य तत्रानुपयोगित्वान्न समस्तवेदार्थज्ञानवतः कर्माधिकारे प्रमाणमस्तीत्याह –
तच्च नेति ।
यद्यपि चाध्ययनविधिप्रयुक्त्या वेदान्तविचारोऽपि कृतो गुरुकुल एव तथाऽपि न समस्तवेदार्थज्ञानवतोऽधिकारः ।
उपासनासाध्यस्य ब्रह्मसाक्षात्कारस्य पृथग्भावादित्याह –
श्रुतज्ञानेति ।
श्रुताद्गुरुकुले विचारिताद्वाक्यात्कर्मानुष्ठानोपयोगि यज्ज्ञानं तावन्मात्रेण कर्मण्यधिक्रियते न ब्रह्मसाक्षात्कारफलमुपासनमपेक्षते व्यतिरेकाभावादित्यर्थः ।
अध्ययनविधिव्यापारोपरमेऽनुष्ठेयं तथाभूतंब्रह्मोपासनमेव नास्ति, मानाभावादिति न वक्तव्यमित्याह –
उपासनं चेति ।
एतच्च कर्ममीमांसान्यायाङ्गीकारमात्रेणोक्तम् । वस्तुतश्च श्रोतव्यविधिप्रयुक्त एवोपनिषद्विचारारम्भो भिन्नाधिकारः । कर्मकाण्डविचारोऽप्युत्तरविधिप्रयुक्त एवेति प्रकटार्थे प्रतिष्ठितम् । केवलं कर्म मोक्षसाधनमिति पक्षं निरस्य विद्यासमुच्चितं मोक्षसाधनमिति पक्षान्तरमाशङ्क्य निषेधत्ति एवं तर्हीत्यादिना । “न स पुनरावर्तते”(शरभोपनिषत्) इति वचनादारभ्योऽपि मोक्षो नित्य इति न शक्यं वक्तुम् । प्रसिद्धपदार्थयोग्यत्वमुपादाय वचनस्य संसर्गज्ञापकत्वात् । न चारभ्यस्य नित्यत्वे योग्यत्वं प्रसिद्धम् । अन्यथा वचनस्य कारकत्वप्रसङ्गात् ।
“अन्धो मणिमविन्दत्” इत्यादिष्वपि योग्यताकल्पनप्रसङ्गादित्याह –
न ज्ञापकत्वादित्यादिना ।
कर्म प्रधानं विद्या चोपसर्जनमिति समुच्चयं निरस्य समसमुच्चयेऽप्यतिदिशति –
एतेनेति ।
अनित्यत्वादिदोषप्रसङ्गेनेत्यर्थः ।
मोक्षेति ।
मोक्षस्य प्रतिबन्धहेतुरविद्याऽधर्मादिस्तन्निवर्तके विद्याकर्मणी न स्वरूपोत्पादके । ततः स्वरूपावस्थानस्य नित्यत्वम् ।
प्रध्वंसस्य च कृतकस्यापि नित्यत्वं प्रसिद्धमित्यर्थः । “भिद्यते हृदयग्रन्थिः”(मु. उ. २ । २ । ९) इत्यादिश्रुतेः केवलविद्यासाध्यैवाविद्यानिवृत्तिः न तत्र विद्यायाः सहकार्यपेक्षा कर्मफलं त्वन्यदेव प्रसिद्धमित्याह –
न कर्मण इति ।
उत्पत्तिः पुरोडाशादेः । संस्कारो व्रीह्यादेः । विकारः सोमस्य । आप्तिर्वेदस्य । कर्मफलं प्रसिद्धम् । आत्मस्वरूपस्य तु मोक्षस्यानादित्वादनाधेयातिशयत्वादविकारत्वान्नित्याप्तत्वाच्च कर्मफलाद्वैपरीत्यमित्यर्थः ।
गतिश्रुतेरिति ।
अर्चिरादिगतिश्रवणाद्ब्रह्माण्डाद्बहिःस्थितब्रह्मप्राप्तिर्मोक्षः । ततो नित्याप्तत्वमसिद्धमित्यर्थः ।
गत्वा प्राप्तिः किं संयोगलक्षणा तादात्म्यलक्षणा वा , नोभयथाऽपीत्याह –
न सर्वगतत्वादिति ।
गत्यादिश्रुतेस्तात्पर्यं शङ्कापूर्वकं दर्शयति –
गत्यैश्वर्येत्यादिना ।
समुच्चयमभ्युपगम्य कर्मकार्यं किञ्चिन्मोक्षे न सम्भवतीत्युक्तम् ।
सोऽपि न सम्भवतीत्याह –
विरोधाच्चेत्यादिना ।
यदि कर्त्रादिकारकभेदस्य सत्यत्वांशमपाबाध्य ब्रह्मज्ञानमुपदिश्यते तदा मिथ्यार्थत्वात्कर्मविधीनामप्रामाण्यं स्यादित्याह –
विहितत्वादिति ।
शङ्कां विवृणोति –
यदीत्यादिना ।
अध्ययनविधिगृहीतानां श्रुतीनां पुरुषार्थोपदर्शकत्वेन प्रामाण्यं वक्तव्यम् । न तु भेदस्य सत्यत्वेन ।
ततः प्रसिद्धिसिद्धं कारकादिभेदमर्थक्रियासमर्थमादाय प्रवृत्तानां प्रामाण्यं न विरुध्यत इत्याह –
न पुरुषार्थेति ।
संग्रहवाक्यं विवृणोति –
विद्योपदेशपरा तावदित्यादिना ।
पूर्वं सतमिथ्याविषयत्वेन विद्याकर्मणोर्विरोधमादाय समुच्चयो निरस्तः ।
इदानीं काम्यकामिविषयत्वेन विरोधमाह –
अपि चेत्यादिना ।
समसमुच्चयं निरस्य गुणप्रधानभावेनापि समुच्चयं निरस्यति –
विरोधादेव चेति ।
विद्या चेत्कर्माणि स्वफले नापेक्षते विरुद्धत्वात्त्रिदण्डिधर्मवदृतुगमनं कथं तर्हि विद्यासन्निधाने कर्माणां पाठ इत्यत आह –
स्वात्मलाभेत्विति ।
कर्मणां विद्यासाधनत्वं श्रुत्वा गार्हस्थ्यमेवैकमनुष्ठेयमिति प्रत्यवतिष्ठन्ते कर्मजडाः –
एवं तर्हीति ।
श्रुतिस्मृतिष्वाश्रमान्तराणामपि विहितत्वविशेषात्तदीयकर्मसु कर्मत्वाविशेषाच्च ग्राम्यधर्मरागिणामेवैतच्चोद्यमित्याह न कर्मनेकत्वादिति ।
असङ्कीर्णत्वादिति ।
हिंसाद्यमिश्रितत्वादित्यर्थः ।
इतश्च कर्मणो विद्यासाधनत्वेऽपि न गार्हस्थ्यमावश्यकमित्याह –
जन्मान्तरेति ।
कामिनां गार्हस्थ्यस्यानुष्ठेयत्वेऽपि न सर्वैरनुष्ठेयत्वमित्यत्र हेत्वन्तरमाह –
लोकार्थत्वाच्चेत्यादिना ।
गार्हस्थ्यस्यानावश्यकत्वेन वैकल्पिकमनुष्ठानमुक्तं तत्रातुल्यबलत्वेन विकल्पमाक्षिपतिकर्म प्रति श्रुतेरिति ।
जन्मान्तरकृतानुग्रहादिति परिहारभाष्यं विवृणोति –
यदुक्तमित्यादिना ।
कर्मणि यत्नाधिकस्यान्यथासिद्धत्वात् विकल्पविघातकत्वं न सम्भवतीत्यर्थः ।
इदानीं गृहस्थाश्रमकर्माणां बहिरङ्गत्वं संन्यासाश्रमकर्मणां त्वन्तरङ्गविद्यासाधनत्वमिति विशेषं दर्शयितुं चोद्यमुद्भावयति –
कर्मनिमित्तत्वादित्यादिना ।
शं नो मित्र इति ।
तदपरं ब्रह्म मामपरविद्यार्थिनमावीदरक्षदित्यर्थः ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां शीक्षावल्ल्यां द्वादशोऽनुवाकः ॥