अद्वैतशारदा

आनन्दगिरिटीका (तैत्तिरीय)

शीक्षावल्ली: प्रथमोऽनुवाकः

यत् प्रका­श­सु­खा­भिन्नं यन्मन्त्रेण प्रकाशितम् ।
विवृतं ब्राह्मणे तत्स्यामदृश्यं ब्रह्म निर्भयम् ॥१॥
यजु­र्वे­द­शा­खा­भे­द­तै­त्ति­री­य­को­प­नि­षदं व्याचि­ख्या­सु­र्भ­ग­वा­न्भा­ष्य­का­र­स्त­त्प्र­ति­पाद्यं ब्रह्म जग­ज्ज­न्मा­दि­का­र­ण­त्वेन तटस्थलक्षणेन मन्दमतीन्प्रति सामा­न्ये­नो­प­ल­क्षितं, सत्यज्ञानादिना च स्वरूपलक्षणेन विशेषतो विनिश्चितं नमस्कारच्छलेन सङ्क्षेपतो दर्शयति –
यस्माज्जातमिति ।
निमि­त्तो­पा­दा­न­त्वयोः पञ्चम्याः साध­र­ण्या­दु­भ­य­वि­ध­मपि हेतु­त्व­म­वि­व­क्षि­तम् ।

कार्यविलयस्य प्रकृतावेव निय­त­त्वा­द्वि­शे­षतः प्रकृतित्वमाह –
यस्मिन्निति ।

कार्यधारणस्य निमित्ते धर्मादावपि प्रसि­द्ध­त्वा­त्सा­धा­र­ण­का­र­ण­त्व­माह –
येनेति ।
ज्ञानात्मन इति स्वरू­प­ल­क्ष­ण­सू­च­नम् ॥१॥

गुरु­भ­क्ते­र्वि­द्या­प्रा­प्ता­व­न्त­र­ङ्ग­सा­ध­नत्वं ख्यापयितुं गुरून्प्रणमति –
यैरिति ।
पदानि च वाक्यानि च प्रमाणं चानुमानादि तद्विवेचनेन व्याख्याता इत्यर्थः ॥२॥

चिकीर्षितं निर्दिशति –
तैत्तिरीयकेति ।

व्युत्पन्नस्य पदेभ्य एव पदा­र्थ­स्मृ­ति­स­म्भ­वा­त्प­द­स्मा­रि­त­प­दा­र्थानां संसर्गस्यैव वाक्या­र्थ­त्वा­त्सू­त्र­का­रे­णो­प­नि­ष­त्ता­त्प­र्यस्य निरूपितत्वाच्च व्यर्थः पृथ­ग्व्या­ख्या­रम्भ इत्याशङ्याह –
विस्पष्टार्थेति ।
मन्दमतीनां स्वत एव निःशे­ष­प­दा­र्थ­स्म­र­णा­स­म्भ­वा­दु­प­नि­ष­द्ग­ता­निः­शे­ष­प­दा­र्थानां विशिष्य निःसंशयं ज्ञानं ये रोचयन्ते तेषा­मु­प­का­रा­ये­त्यर्थः ॥३॥

कर्म­वि­चा­रे­णै­वो­प­नि­षदो गता­र्थ­त्वा­दु­प­नि­ष­त्प्र­यो­ज­नस्य निःश्रेयसस्य कर्मभ्य एव सम्भ­वा­त्पृ­थ­ग्व्या­ख्या­रम्भो न युक्त इत्या­श­ङ्का­म­प­नेतुं कर्म­का­ण्डा­र्थ­माह –
नित्यानीति ।
“अथाऽतो धर्मजिज्ञासा”(जै.सू. १।१।१) इति जैमिनिना धर्मग्रहणेन सिद्ध­व­स्तु­वि­चा­रस्य पर्यु­द­स्त­त्वा­न्नो­प­नि­षदो गता­र्थ­त्व­मि­त्यर्थः । तानि च कर्माणि सञ्चि­त­दु­रि­त­क्ष­या­र्थानि । “धर्मेण पापमपनुदति”(म. ना. उ. २-१) इति श्रुतेर्न निःश्रे­य­सा­र्थानि । न केवलं जीव­तोऽ­व­श्य­क­र्त­व्या­न्य­धि­ग­तानि फलार्थिनां काम्यानि च । न तान्यपि निःश्रे­य­सा­र्थानि । “स्वर्गकामः”,“ पशुकामः” इत्या­दि­व­न्मो­क्ष­का­मोऽदः कुर्या­दि­त्य­श्र­व­णात् । अतः संसार एव कर्माणां फलमित्यर्थः ।

कर्म­का­ण्डा­र्थ­मुक्त्वा तत्रा­वि­चा­रि­त­मु­प­नि­ष­द­र्थ­माह –
इदानीमिति ।
कर्म­णा­मु­पा­दा­नेऽ­नु­ष्ठाने यो हेतु­स्त­न्नि­वृ­त्त्यर्थं ब्रह्म­वि­द्याऽ­स्मि­न्ग्रन्थ आरभ्यते । अतः सनि­दा­न­क­र्मो­न्मू­ल­ना­र्थ­त्वा­दु­प­नि­षदः कर्म­का­ण्ड­वि­रु­द्ध­त्वान्न गता­र्थ­त्व­मि­त्यर्थः ।

कर्मानुष्ठाने हेतु­र्नि­यो­ग­स्तस्य प्रमा­ण­सि­द्ध­त्वान्न विद्यया विरोध इत्याशङ्क्याह –
कर्महेतुरिति ।
अस्येदं साध­न­मि­त्ये­ता­व­च्छा­स्त्रेण बोध्यते । यस्य यत्राभिलाषः स तत्र प्रवर्तते कामत एव । अतो न नियोगस्य प्रव­र्त­क­स­म्भा­व­ना­पी­त्य­भि­प्रायः । सति कामे प्रवृ­त्ति­रि­त्य­न्वय उक्तः ।

कामाभावे न प्रवृत्तिरिति व्यतिरेकमाह –
आप्तेति ।
अभि­ल­षि­त­वि­ष­य­प्राप्तिः कामनिवृत्तौ हेतुः । न विद्या ।

अतः कथं कर्म­हे­तु­प­रि­हा­राय विद्यारम्भ इत्याशङ्क्याह –
आत्मकामत्वे चेति ।
कामि­त­वि­ष­य­प्राप्त्या कामस्य तात्का­लि­को­प­श­म­मात्रं न तूच्छेदः । पुन­र्वि­ष­या­का­ङ्क्षा­दि­द­र्श­नात् । आत्मकामनापि निर­ङ्कु­शाऽऽ­त्मैव वस्तु नान्य­त्त­तोऽ­स्ती­त्ये­वं­रू­पा­त्म­का­मत्वे सति भवति काम­यि­त­व्या­भा­वा­देव । आत्मानं ह्यद्व­या­न­न्द­रू­प­म­जा­न­न्नेव व्यतिरिक्तं विषयं पश्यन्कामयते । ततः काम­स्याऽऽ­त्मा­वि­द्या­मू­ल­त्वा­दा­त्म­वि­द्यैव तन्नि­वृ­त्ति­हे­तु­रि­त्यर्थः ।

भवत्वात्मविद्या कामविरोधिनी कर्म­हे­तु­प­रि­हा­राय ब्रह्मविद्या प्रस्तूयत इति कथमुक्तं तत्राह –
आत्मेति ।
आनन्दमयं परमात्मानमादय श्रुतिरुदाहृता ।

एवं ताव­त्क­र्म­का­ण्डे­ना­ग­ता­र्थ­त्वा­त्क­र्म­भ्योऽ­स­म्भा­व्य­मा­न­निः­श्रे­य­स­प्र­यो­ज­न­त्वा­च्चो­प­नि­षदो व्याख्यारम्भं सम्भाव्य पुन­र­ना­र­म्भ­वा­दि­नोऽ­भि­प्रा­य­मु­द्भा­व­यति –
काम्य­प्र­ति­षि­द्ध­यो­रिति ।
आत्य­न्ति­का­गा­मि­श­री­रा­नु­त्पादे स्वरूपावस्थानं निःश्रेयसं, शरीरानुत्पादश्च हेत्वभावादेव सेत्स्यति किं ज्ञाना­र्थो­प­नि­ष­दा­र­म्भे­णे­त्यर्थः ।

मतान्तरमाह –
अथवेति ।
यदेव स्वर्गसाधनं ज्योतिष्टोमादि तदेव मोक्षसाधनं , निरतिशयप्रीतेः स्वर्गपदार्थस्य मोक्षा­द­न्य­त्रा­स­म्भ­वा­त्सति शरीरे क्लेशा­व­श्य­म्भा­वा­दि­त्यर्थः ।

ऐकभविकपक्षे आद्यं मतं प्रत्याख्याति –
नेत्यादिना ।
यद्यपि वर्तमाने देहे काम्यं प्रतिषिद्धं च नाऽऽरभेत मुमु­क्षु­स्त­थाऽपि सञ्चि­त­स्या­ने­कस्य सम्भ­वा­द्धे­त्व­भा­वोऽ­सिद्ध इत्यर्थः ।

प्राय­णे­न­भि­व्य­क्तानि सर्वाण्येव कर्माणि सम्भूयैकं शरीरमारभन्ते , तत्र सर्वेषामुपभोगेन क्षयि­त­त्वा­त्स­ञ्चितं कर्मैव नास्ती­ति­श­ङ्का­नि­रा­क­र­णा­यो­क्तम् –
विरुद्धफलानीति ।
स्वर्गनरकफलानां ज्योति­ष्टो­म­ब्र­ह्म­ह­त्या­दी­ना­मे­क­स्मि­न्देहे भोगेन क्षयासम्भवात् प्रायेणास्य सर्वा­भि­व्य­ञ्च­कत्वे प्रमा­णा­भा­वा­त्ब­ल­वता प्रतिबद्धस्य दुर्ब­ल­स्या­व­स्थानं सम्भवतीत्यर्थः ।

सम्भा­व­ना­मा­त्र­मे­त­न्नात्र प्रमा­ण­म­स्ती­त्या­श­ङ्क्याऽऽह –
कर्मशेषेति ।
प्रेत्य स्वकर्मफलमनुभूय ततः शेषेण जन्म प्रतिपद्यन्त इति स्वर्गादवरोहतां कर्मशेषसद्भावं दर्शयतीत्यर्थः ।

सञ्चि­त­क­र्म­स­द्भा­व­म­ङ्गी­कृत्य देहान्तरारम्भो न भविष्यतीत्याह –
इष्टेति ।

एतद्भाट्टानां सिद्धा­न्त­वि­रु­द्ध­मि­त्याह –
नेति ।

मुमु­क्षु­णाऽ­नु­ष्ठि­तस्य नित्यादेः सञ्चि­त­क­र्म­क्ष­या­र्थ­त्वा­भ्यु­प­ग­मेऽपि नाभि­म­त­सि­द्धि­रि­त्याह –
यदि नामेति ।
यच्चोक्तं मुमुक्षुः काम्यानि वर्जयेदिति तदप्यसति विवेकबले दुर्घटम् ।

सति मूलाज्ञाने कामोद्भवस्य दुर्नि­वा­र­त्वा­दि­त्याह –
न च कर्महेतूनामिति ।
ननु कामो नाज्ञानमूलः ।

आत्मविदामपि कामदर्शनादित्यत आह –
स्वात्मनि चेति ।
सर्व आत्मेति पश्यतां तत्त्वतो विषयाभावादेव कामानुपपत्तिः । अश­ना­दि­प्र­वृ­त्ति­नि­मित्तं तु कामाभास एव । वास्त­वा­भि­नि­वे­शा­भा­वा­दि­त्यर्थः ।

तेषा­म­प्य­र्चि­रा­दि­मा­र्गेण ब्रह्मप्राप्तेः कामनाऽस्तीति नाऽऽश­ङ्क­नी­य­मि­त्याह –
स्वयं चेति ।

यच्चो­क्त­म­क­र­ण­नि­मि­त्त­प्र­त्य­वा­य­प­रि­हा­रा­र्थानि नित्यानीति तत्राऽऽह –
नित्यानां चेति ।
आगामि दुःखं प्रत्यवाय उच्यते । तस्य भावरूपस्य नाभावो निमित्तम् । “पापः पापेन”(बृ. उ. ३ । २ । १३) इति श्रुतेः । निषि­द्धा­च­र­ण­नि­मि­त्त­त्वा­द्दुः­ख­स्ये­त्यर्थः ।

“अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रस­ज्जं­श्चे­न्द्रि­या­र्थेषु नरः पतनमृच्छति॥” इति शतृ­प्र­त्य­या­द­क­र­ण­स्यापि प्रत्य­वा­य­नि­मि­त्त­त्व­म­व­ग­त­मि­त्या­श­ङ्क्याऽऽह –
अतः पूर्वेति ।
यदि यथा­व­न्नि­त्य­नै­नि­मि­का­नु­ष्ठा­न­म­भ­वि­ष्य­त्तदा सञ्चि­त­दु­रि­त­क्ष­योऽ­भ­वि­ष्यत् । न चायं विहि­त­का­र्षी­दि­त्यतः प्रत्यवायो भविष्यतीति शिष्टै­र्ल­क्ष्यते ।

यथा विचि­कि­त्स­ञ्श्रो­त्रिय इति ।
ततः शतृ­प्र­त्य­य­स्या­न्यथा व्युत्प­न्न­त्वान्न तद्बलादकरणे हेतुत्वमवगन्तुं शक्यत इत्यर्थः ।

ननु लक्षणहेत्वोः क्रियाया इति शतृ­प्र­त्य­य­स्यो­भ­यत्र विधाने सति किमिति हेतुत्वमेव न गृह्यते , तत्राऽऽह –
अन्यथेति ।
भावरूपस्य कार्यस्य भावरूपमेव कारणमिति प्रत्य­क्षा­दि­भि­र­व­गतं , शतृ­प्र­त्य­या­द­भा­वस्य हेतुत्वाभिधाने सर्व­प्र­मा­ण­वि­रोधः स्यादित्यर्थः । ननु त्वयाप्यकरणस्य प्रत्य­वा­य­ल­क्ष­ण­त्व­मि­ष्टम् । भाट्टै­श्चा­नु­प­ल­म्भ­स्या­भा­व­प्र­मि­ति­हे­तु­त्व­मि­ष्यते । तार्किकैश्च प्रति­ब­न्ध­का­भा­वस्य तत्त­त्प्रा­ग­भा­वस्य च तत्त­त्का­र्य­व्य­व­स्था­प­क­त्व­मि­ष्यते । तत्कथं भावस्यैव कारणत्वम् । तदुक्तम् - “भावो यथा तथाऽभावः कारणं कार्यवन्मतः” इति । उच्यते । अस्मा­भि­स्ता­व­द­भा­वस्य स्वरूपेण कारणं नेष्टम् । किन्तु तज्ज्ञानस्य प्रत­वा­य­ग­म­क­त्व­मि­ष्टम् । तेन च रूपेण न प्रत्य­वा­य­ज­न­क­त्व­मि­ष्यते । नित्याकरणज्ञाने प्रत्य­वा­या­भा­व­प्र­स­ङ्गात् । भाट्टानामपि च केषा­ञ्चि­ज्ज्ञा­तस्य योग्या­नु­प­ल­म्भ­स्या­भा­व­प्र­ति­मि­हे­तुत्वं , सत्तया तु प्रमि­ति­हे­तु­त्वेऽ­भा­व­प्र­मायाः प्रत्य­क्ष­त्वा­पातः । तार्किकाणामपि प्रति­ब­न्ध­का­भा­वस्य कारणत्वे अन्यो­न्या­श्र­य­त्व­प्र­स­ङ्गान्न प्रामाणिकत्वम् । प्रागभावस्यापि ज्ञातरूपेण जन्य­ज्ञा­प­क­त्व­मेव । यस्मादिदं प्राङ्नाऽ­सी­त्त­स्मा­दि­दानीं जातमिति । न तु जनकत्वं प्रागभावस्य निय­त­प्रा­ग्भा­वि­त्वेन कारणत्वे प्राक्कालस्य स्ववृत्तितापातः । प्राग्भा­वि­त्व­मपि चान्य­था­सि­द्ध­मि­त्युक्तं _ तत्त्वालोके ।

यस्मा­द­क­र­ण­नि­मि­त्त­प्र­त्य­वा­य­प­रि­हा­रार्थं न नित्यं कर्म किन्तु “कर्मणा पितृलोकः”(बृ. उ. १ । ५ । १६) “सर्व एते पुण्यलोका भवन्ति इति”(छा. उ. २ । २३ । १) श्रुतेः पितृ­लो­क­प्रा­प्ति­फ­लम् , तस्मान्न यथोक्तचरितस्य शरीरानुत्पाद इत्याह –
आयत्नत इति ।

द्वितीयमतमनूद्य दूषयति –
यच्चो­क्त­मि­त्या­दिना ।
विद्यासहितेनापि कर्म­णाऽऽ­र­भ्य­श्चे­न्मो­क्ष­स्त­र्ह्य­नित्य एव ।

यत्कृतकं तदनित्यमिति व्याप्ति­द­र्श­ना­दि­त्युक्तं तत्र व्याप्तिभङ्गं मन्वानः शङ्कते –
यद्विनष्ठमिति ।
भावरूपत्वादिति । यद्भावरूपं कार्यं तदनित्यमिति व्याप्तेस्तव च मोक्षस्य निर­ति­श­य­प्री­ते­र्भा­व­त्वा­द­नि­त्यत्वं स्यादेवेत्यर्थः । प्रध्वंसाभावस्य कार्य­त्व­म­भ्यु­प­गम्य यत्प्र­ध्वं­सा­ति­रि­क्त­कार्यं तदनित्यमिति व्याप्ति­र्व्या­ख्या­तैव ।

वस्तुतस्तु प्रध्वंसस्य कार्यत्वमपि नास्तीत्याह –
प्रध्वंसेति ।
जन्याश्रयत्वं ताव­त्प्र­ध्वं­सस्य न कार्यत्वम् । जने­र्नै­रु­क्तै­र्भा­व­वि­का­र­त्वा­भ्यु­प­ग­मात् । नापि प्रागसतः सत्ता­स­म­वा­या­दि­ल­क्ष­णम् । तदनभ्युपगमात् । नाप्यु­त्त­र­का­ल­योगः । कालेन सम्भन्धाभावात् । अव­च्छे­दा­व­च्छे­द­क­भा­वस्य सम्ब­न्धा­न्त­र­मू­ल­क­त्व­द­र्श­नात् , तदुत्तरकालस्य प्रध्वं­सा­व­च्छे­द­कत्वं स्वभा­व­श्चे­द­न्या­व­च्छे­द­कत्वं स्वभावो न स्यात् । तस्मादभावस्य निर्वि­शे­ष­क­त्वा­त्का­र्यत्वं कल्प­ना­मा­त्र­प­र­मिति भावः ।

किञ्च , अभावस्य भाव­नि­षे­ध­मा­त्र­स्व­भा­व­त्वा­द्भा­व­वि­रो­धि­त्वाच्च न भावरूपो धर्मः सम्भवतीत्याह –
भावेति ।
ननु अभावश्चतुर्विधः । तत्रानित्यः प्रागभावः ।

प्रध्वंसादयस्तु नित्याः ततः कथं निर्वि­शे­ष­त्व­मि­त्या­श­ङ्क्याऽऽह –
यथा हीति ।
विधि­प्र­त्य­य­स्यै­का­का­र­त्वा­देक एव भावो­व­च्छे­द­क­भे­दा­द्भिन्न इव प्रकाशते जायते नश्यति चेति क्रिया­यो­गा­त्सं­ख्या­गु­ण­यो­गा­द्द्र­व्य­व­द­भावो विकल्प्यते । न तु तत्त्वतः सविशेष इत्यर्थः ।

इतश्च न तत्त्वतः सविशेष इत्याह –
न हीति ।
विशेषणं हि विशेष्यान्वयि प्रसिद्धम् । प्रतियोगिना च विशेषणेन नाभावस्य सहभावोऽस्ति । घटप्रध्वंसस्य नित्यत्वे घटस्यापि नित्य­त्व­प्र­स­ङ्गात् । घटसहभावित्वे च तद­भा­व­त्व­व्या­घा­ता­द्भा­वा­भा­वयोः सहा­न­व­स्था­न­रू­प­वि­रो­धा­भ्यु­प­ग­मात् । ततः प्रति­यो­गि­वि­शे­षा­द­भावः सविशेषः कार्य­त्वा­दि­ध­र्म­वा­निति विभ्र­म­मा­त्र­मि­त्यर्थः ।

एवं प्रध्वं­स­दृ­ष्टा­न्तेन शङ्कितं नित्यत्वं परिहृत्य प्रका­रा­न्त­रे­णाऽऽ­शङ्कां निषेधयति –
विद्या­क­र्मे­त्या­दिना ।
विद्याकर्मणोः कर्ता नित्य इति साध­न­सा­न्त­त्या­त्सा­ध्य­सा­न्तत्यं न वाच्यम् । कर्तृ­त्त्व­स्या­नु­प­र­मेऽ­नि­र्मो­क्ष­प्र­स­ङ्गा­दु­प­रमे च साध­न­सा­न्त­त्या­भा­वा­न्मो­क्षस्य विच्छित्तिः स्यादित्यर्थः । यस्मा­न्निः­श्रे­यसं ब्रह्मज्ञानं विना दुष्प्रापं तस्मा­दि­त्यु­प­सं­हारः ।

ब्रह्म­वि­द्या­या­मु­प­नि­ष­च्छ­ब्द­प्र­सि­द्धि­रपि विद्याया एव निःश्रे­य­स­सा­ध­नत्वे प्रमाणमित्याह –
उपनिषदिति ।
निशातनात् शिथि­ली­क­र­णा­दि­त्यर्थः । अस्यां विद्यायां निमित्तभूतायां परं श्रेयो ब्रह्म जीव­स्यो­प­नि­ष­ण्ण­मा­त्म­त­यो­प­स्थितं भवतीत्यर्थः ।

एवमुपनिषदां व्याख्यारम्भं सम्भाव्य प्रति­प­द­व्या­ख्या­मा­र­भते –
शं मुखमित्यादिना ।
शं नो भवत्त्विति । सुख­कृ­द्भ­व­त्वि­त्यर्थः ।

अध्या­त्म­प्रा­ण­क­र­णा­भि­मा­नि­नीनां देवतानां सुखकृत्त्वं किमिति प्रार्थ्यते तत्राऽऽह –
तामसु हीति ।
श्रवणं गुरु­पा­दो­प­स­र्प­ण­पू­र्वकं वेदान्तानां तात्प­र्या­व­धा­र­णम् । धारणं श्रुत­स्या­प्य­वि­स्म­रणं । उपयोगः शिष्येभ्यो निवेदनम् ।

अन्य­द्ब्र­ह्म­वा­यु­श्चान्य इति नाऽऽश­ङ्क­नी­य­मि­त्याह –
परोक्षेति ।
ब्रह्मणे इति परोक्षेण “स ब्रह्म त्यदित्याचक्षत ”(बृ. उ. ३ । ९ । ९) इति श्रुतेः । वायुशब्देन च प्रत्यक्षतया निर्देशः । प्राणस्य प्रत्य­क्ष­त्वा­दि­त्यर्थः ।

यद्यपि सूत्रात्मरूपेण वायुः परोक्षः तथाऽ­प्या­ध्या­त्मि­क­प्रा­ण­वा­यु­रू­पेण ब्रह्म­श­ब्द­वा­च्य­त्वेऽ­प्य­प­रो­क्ष­त्व­मि­त्याह –
किञ्चेति ।
बाह्यं चक्षुरादि रूप­द­र्श­ना­द्य­नु­मे­य­त्वा­द्व्य­व­हि­तम् । प्राण­स्त्व­व्य­व­धा­नेन साक्षिवेद्यः सन्निहितश्च भोक्तुरिति चक्षु­रा­द्य­पे­क्षया प्रत्यक्ष इत्यर्थः । बृहनाद्ब्रह्म । प्राणकृतेन ह्यशनादिना शरीरादेर्बृहणं प्रसि­द्ध­मि­त्यर्थः ।

यथाराज्ञो दौवारिकं कश्चि­द्रा­ज­दि­दृ­क्षु­राह – “त्वमेव राजा” इति तथा हार्दस्य ब्रह्मणो द्वारपं प्राणं हार्थं ब्रह्म दिदृ­क्षु­र्मु­मु­क्षु­राह –
त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामिति ।
ब्रह्मवदनक्रिया प्राण­दे­व­ता­स्तु­त्यर्था ।

स्तुत्यन्तरमाह –
ऋतमित्यादिना ॥१॥
इति प्रथमोऽनुवाकः ॥

यत्नोपरम इति ।
स्वरो­ष्म­व्य­ञ्ज­न­प्र­मादो मा भूदित्यर्थः । अन्यथा विव­क्षि­ता­र्थ­सि­द्धि­रेव न स्यात् । तदुक्तम् - “मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥”(पा.शि. ५२) इति ।

लक्षणमिति ।
लक्षणं शास्त्रम् । ऋटुरषाणां मूर्धा । इचुयशानां ताल्वित्यादि । तस्यान्यत्रैव सिद्धत्वादिह कर्म­व्यु­प्त­त्ति­रेव शिक्षाशब्दस्य ग्राह्या ।[रूपमिति] “चक्षिङः ख्याञ्” “वा लिटि ”(पा.सू. २।४।५५) इति सूत्रेण ख्याञादिष्टो यस्तस्येदं रूपं न “ख्या प्रकथेन ” इत्यस्य सोपसर्गस्य , प्रयो­गा­न­भि­धा­ना­दि­त्यर्थः ॥
इति द्वितीयोऽनुवाकः ॥२॥

संहिता वर्णानां सन्नि­क­र्ष­स्त­द्वि­ष­य­मु­पा­सनं प्रथमं कथ्यत इत्याह –
अधुनेति ।
सन्निधानाच्च स्वशाखासंहितैव ग्राह्या । शं नो मित्र इत्याशीर्वादः कृत्स्नो­प­नि­ष­च्छेषः ।

संहि­तो­प­नि­ष­च्छे­ष­म­शी­र्वा­दा­न्त­र­माह –
तत्रेति ।

वस्तूपासनं हित्वा प्रथमतः शब्दोपासनविधाने हेतुरतः शब्देनोक्त इत्याह –
यतोऽन्यर्थमिति ।
पञ्चस्विति सप्तमी तृतीयार्थे विपरिणेया । अधिकरणशब्दश्च विषयपर्यायः । पञ्चभिः पर्यायैः विशेषितं ज्ञानं वर्णेषु वक्तव्यम् । यथा विष्णुदर्शनं प्रति­मा­या­मि­त्यर्थः ।

लोकेष्वधीति ।
लोका­ना­धि­कृ­त्यो­पा­दाय ध्येय­त्व­मि­त्यर्थः । विद्याशब्देन विद्याप्रतिबद्ध आचा­र्या­दि­र्वि­व­क्षितः । तथैव प्रजाशब्देन प्रजाप्रतिबद्धः प्रित्रा­दि­र्वि­व­क्षितः ।

अध्यात्ममिति
आत्मानं भोक्तारमधिकृत्य यद्वर्तते जिह्वादि तद्विवक्षितम् । सर्वत्र तत्तदभिमानीनि देवतैव ग्राह्या । अन्य­स्यो­पा­स्य­त्वा­स­म्भ­वा­दिति ।

विधि­शे­ष­म­र्थ­वा­द­माह –
ता एता इति ।
संहितोपनिषदः कर्तव्या इत्यु­त्प­त्ति­वि­धि­रुक्तः ।

कथं कर्तव्या इत्या­का­ङ्क्षायां विनियोगविधिमाह –
अथ तासामित्यादिना ।
कर्तु­रे­क­त्वा­द­नु­ष्ठे­यानां बहु­त्वा­द­व­श्य­म्भा­विनि क्रमे विशे­ष­नि­य­म­र्थोऽ­थ­शब्दः । “हृद­य­सा­ग्रेऽ­व­द्य­त्यथ जिह्वाया अथ वक्षसः” इतिवत् । उपप्रदर्श्यन्ते परामृश्यन्ते । अवि­का­र­वि­धि­प्र­द­र्श­नाय, यथा षड्यागाः समुच्चिताः । फल­सा­ध­न­म­धि­का­रां­शे­ना­भे­दात् ।

तथा पञ्चोपनिषदः समुच्चिताः प्रजा­दि­फ­ल­का­म­स्या­नु­ष्ठेया इत्याह –
यः कश्चिदित्यादिना ।
फल­का­मि­ना­नु­ष्ठी­य­मानं संहितोपासनं कामितफलाय भवति । फलानभिसन्धिना त्वनुष्ठीयमानं ब्रह्म­वि­द्यार्थं भवति । मेधाहीनेन ब्रह्म­णोऽ­व­ग­न्तु­म­श्य­क्य­त्वा­न्मे­धा­का­मस्य जपोऽपि ब्रह्म­वि­द्यार्थो भवति । श्रीविहीनेन सत्त्व­शु­द्ध्यर्थं यागा­द्य­नु­ष्ठातुं न शक्यत इति श्रीकामस्य होमोऽपि परम्परया ब्रह्म­वि­द्यो­प­यो­गीति महत्तात्पर्यं विद्या­स­न्नि­धि­स­मा­म्ना­तानां सर्वत्र द्रष्ठव्यम् ॥३॥
इति तृतीयोऽनुवाकः ॥

अवा­न्त­र­ता­त्प­र्य­म­भि­प्रे­त्याह –
यश्छ­न्द­सा­मि­त्या­दिना ।
सम्बभूवेति जन्मवाचके पदे श्रूयमाणे किमिति “प्रजा­प­ति­र्लो­का­न­भ्य­त­पत्”(छा. उ. २ । २३ । २) इत्या­दि­श्रु­त्य­न्त­रा­नु­सा­रे­णाऽऽ­त्म­ज्ञा­न­यो­ग्य­का­र्य­श्रे­ष्ठ­त्वेन प्रतिभानं व्याख्यायते तत्राऽऽह ।

न हीति ।
पुरुषविपरिणाम इति । भूया­स­मि­त्यु­त्त­म­पु­रु­षस्य प्रकृतस्य प्रथमपुरुषत्वेन विपरिणामः कर्तव्य इत्यर्थः ।

अचेतनशब्दं प्रति प्रार्थना कथं ? कथं चेन्द्र­श­ब्दे­ना­भि­धा­न­मि­त्या­शङ्क्य ब्रह्मा­भे­द­वि­व­क्ष­ये­त्य­भि­प्रे­त्याह –
ब्रह्मण इति ।

ब्रह्माभेदेन प्रार्थितदाने सम­र्थ­श्चे­दो­ङ्कारः किमिति सर्वैर्नोपास्यत इत्याशङ्क्याह –
मेधयेति ।

लौकिकप्रज्ञयेति ।
शाल­ग्रा­मा­दि­श्विव देव­ता­बु­द्ध्ये­त्यर्थः । नैते­ष्वा­र्षे­यादि मृग्यम् । ब्राह्म­णो­त्प­न्न­त्वात् । “वस निवासे , वस आच्छादने” इति धातु­द्व­य­दु­प्र­त्ययः शीलेऽर्थे । वसुर्वसनशीलः । पराच्छादनशीलो वा वसुः । अतिशयेन वसु­र्व­सी­यां­स्त­स्मा­द्व­सी­यसः । ईलोपश्छान्दसः ।

वसु­मा­न्व­सु­श­ब्देन लक्ष्यत इत्य­भि­प्रे­त्याऽऽह –
वसुमत्तराद्वेति ।

पूर्वोक्तस्य प्रयोजनमाह –
किञ्चेति ।

यदुक्तं “ब्रह्मचारिणो मामायन्तु” इति तत्र दृष्टान्तमाह –
यथेति ।
इति चतुर्थोऽनुवाकः ॥

वृत्ता­नु­वा­द­पू­र्व­क­मु­त्त­रा­नु­वा­कस्य सम्बन्धमाह –
संहि­ता­वि­ष­य­मि­त्या­दिना ।
व्याहृतीनां श्रद्धा­गृ­ही­त­त्वा­त्त­त्प­रि­त्या­गे­नो­प­दि­श्य­मानं ब्रह्म न बुद्धि­मा­रो­हे­दिति ततो व्याहृतिशरीरं हिरण्यगर्भाख्यं ब्रह्मा­न्त­र्हृ­दये ध्येय­त्वे­नो­प­दि­श्यत इत्यर्थः । मह इति व्याहृ­ता­व­ङ्गि­ब्र­ह्म­दृष्टिः कर्तव्या ।

तत्र किं साम्यमित्यत आह –
महद्धीति ।
यथा देवदत्तस्य पादादीन्यङ्गानि मध्यभागश्चाङ्गी , इत­रे­षा­म­ङ्गा­ना­मात्मा कथ्यते व्यापकत्वात् । तथा महो­व्या­हृ­ति­र्हि­र­ण्य­ग­र्भस्य ब्रह्मणो मध्यभाग आत्मेति कल्प्यते । इतराश्च व्याहृतयः पादाद्यवयवत्वेन कल्प्यन्ते । प्रथमव्याहृतिः पादौ , द्वितीया बाहू , तृतीया शिर इत्यर्थः । व्याहृत्यवयवं ब्रह्मो­पा­सी­ते­त्यु­त्प­त्ति­वि­धि­रुक्तः ।

इदा­नी­म­ङ्ग­वि­शे­ष­विधिः कथ्यते –
भूरिति वा अयं लोक इत्यादिना ।

तत्रैकैका व्याहृ­ति­श्च­तु­ष्प्र­का­राऽ­व­ग­न्त­व्येति तात्पर्यमाह –
अयं लोक इत्यादिना ।

एकैका व्य्याहृतयो यदा चतु­ष्प्र­का­रा­श्चि­न्त्यन्ते तदा षोडशकलः पुरुष उपासितो भव­ती­त्य­भि­प्रेत्य संक्षेपमाह –
ता वा एता इति ।
स वेद ब्रह्मेति ब्रह्मवेदनं फलत्वेन न सङ्की­र्त्य­तेऽ­धि­का­र­वि­धि­वाक्ये ।

किन्तु वक्ष्यमाणानु वाकेनास्मिन्नेव ब्रह्मोपासने गुणविधानं भविष्यतीति सूचयितुमित्याह –
न तद्वि­शे­ष­वि­व­क्षु­त्वा­दि­त्या­दिना ।
यदि व्याहृत्यवयवमेव ब्रह्मो­त्त­र­त्रो­पा­स्यते तदैवोपासकस्य प्रथ­म­व्या­हृ­त्या­त्म­केऽग्नौ प्रतिष्ठाभिधानं घटेत ।

तस्मा­द्व्या­हृ­त्या­त्म­क­दे­व­ता­प्रा­प्त्य­भि­धानं उपासनैकत्वे लिङ्गमाह –
लिङ्गाच्चेति ।

किञ्चैकत्र प्रधा­न­वि­द्या­वि­धि­र­प­रत्र गुण­वि­धि­रि­त्ये­व­म­नु­वा­क­भेदे चरितार्थे नानन्यथासिद्धं भेदकं प्रमाणमुपलभ्यत इत्याह –
विधा­य­का­भा­वा­च्चेति ।
विधायक इति । भिन्नविद्याबोधक इत्यर्थः ।
इति पञ्चमोऽनुवाकः ॥

तदु­प­ल­भ्य­त्वा­दिति ।
ज्ञाना­का­र­प­रि­णा­मिनि मन­स्ये­वो­प­ल­भ्य­त्वा­द्ध्या­यि­भि­रि­त्यर्थः । जडस्य मनसः प्रवृत्तिं दृष्ट्वा तदधिष्ठातृतया हिर­ण्य­ग­र्भोऽ­नु­मी­यते । तस्य शास्त्रे सक­ल­क­र­णा­धि­ष्ठा­तृ­त्वेन प्रसि­द्ध­त्वा­दिति तल्लि­ङ्ग­त्व­मु­क्त­मि­त्यर्थः ।

स्वाराज्यं निर­ङ्कु­श­मै­श्वर्यं जग­त्स्र­ष्टु­त्वा­दि­ल­क्षणं न भवतीत्याह –
अङ्गभूतानां देवानामिति ।

साव­धि­क­मै­श्व­र्य­मे­वाऽऽह –
आप्नोतीत्यादिना ।
इति षष्ठोऽनुवाकः ॥

उत्त­रोऽ­प्य­नु­वाकः प्रकारान्तरेण हिर­ण्य­ग­र्भो­पा­स­न­वि­षय इत्याह –
यदेतदित्यादिना ।

प्रुथिव्यादेः कथं पाङ्क्त­त्व­मि­त्या­का­ङ्क्षायां पङ्क्त्याख्यस्य च्छन्दसः सम्पादनादित्याह –
पञ्चसंख्येति ।

न केवलं पञ्च­सं­ख्या­यो­गा­त्प­ङ्क्ति­च्छ­न्दः­स­म्पा­दनं यज्ञ­त्व­स­म्पा­द­न­मपि कर्तुं शक्यत इत्याह –
पाङ्क्तश्च यज्ञ इति ।
पत्नी­य­ज­मा­न­पु­त्र­दै­व­मा­नु­ष­वित्तैः पञ्चभिः सम्पाद्यत इति यज्ञः पाङ्क्त इत्यर्थः ।

“उत्कृ­ष्ट­दृ­ष्टि­र्नि­कृष्टे फलवती” इति न्याया­द्बा­ह्य­पा­ङ­क्त­रू­पे­णाऽऽ­ध्या­त्मि­क­पा­ङ्क्त­त्र­य­म­व­ग­न्त­व्य­मि­त्य­भि­प्रे­त्याऽऽह –
एकात्मतयेति ।
इति सप्तमोऽनुवाकः ॥

वृत्ता­नु­वा­द­पू­र्व­क­मु­त्त­रा­नु­वा­क­म­व­ता­र­यति –
व्याहृत्यात्मन इत्यादिना ।
वेदविदां हि सर्वाः क्रिया ओङ्कारमुच्चार्य प्रवर्तन्ते ततस्तस्य श्रद्धा­गृ­ही­त­त्वा­त्त­त्प­रि­हा­रे­णो­प­दिष्टं ब्रह्म न बुद्धि­मा­रो­हे­द­त­स्त­मा­दा­यै­वो­पा­सनं विधायत इत्यर्थः ।

नन्वोङ्कारस्य शब्द­मा­त्र­स्या­चे­त­न­त्वा­द­ह­म­ने­नो­पा­सित इति ज्ञानाभावात्कथं फलदातृत्व स्यादि­त्या­श­ङ्क्याऽऽह –
परापरेति ।
प्रतिमाद्यर्चन इव सर्वत्रेश्वर एव फलदातेति भावः ।

ओङ्कारे ब्रह्म­त्वा­ध्यासे किं सादृश्यमित्यत आह –
ओमितीदमिति ।
सर्वा­स्प­द­त्व­मो­ङ्का­रस्य ब्रह्मणा सादृ­श्य­मि­त्यर्थः । शस्त्राणि गीतिरहिता ऋच उच्यन्ते ।

प्रतिगरमिति ।
ओऽथामोदैवेति शब्दमध्वर्युः प्रतिगृणाति होतुः शंसनं प्रति प्रति­श­स­न­मु­च्चा­र­य­ती­त्यर्थः ।

प्रवक्ष्यन्निति ।
“वच परिभाषणे” इत्यस्य रूपं प्रथमव्याख्याने । द्वेतीये “वह प्रापणे” इयस्य द्रष्टव्यम् ।
इति अष्टमोऽनुवाकः ॥

व्यवहितानुवाकेन सम्बन्धमाह –
विज्ञा­ना­दे­वे­त्या­दिना ।
अप­र­वि­द्या­स­ह­का­रि­तया तत्फलेनैव फल­व­त्त्व­सि­द्ध्य­र्थ­मु­त्त­रा­नु­वा­का­रम्भ इत्यर्थः । लौकिकसंव्यवहारो विवाहादिः ।

पुनः पुनः स्वाध्या­य­प्र­व­च­न­ग्र­ह­णस्य तात्पर्यमाह –
सर्वैरेतैरिति ।

किमिति तत्नतोऽनुष्ठेये तत्राऽऽह –
स्वाध्या­या­धी­न­मिति ।

त्रयाणामृषीणां मतभेदोपन्यासेन स्वाध्या­य­प्र­व­च­न­यो­रे­वा­दरं विवृणोति –
सत्यमित्यादिना ।
इति नवमोऽनुवाकः ॥

स्वाध्यायार्थ इति जपार्थः “ इषे त्वेति शाखां छिनत्ति” इतिवत् । अन्यत्र विनियोजकं श्रुत्या­दि­प्र­मा­ण­मपि नोपलभ्यत इत्याह –
न चान्या­र्थ­त्व­मिति ।
अक्षि­त­म­सी­त्या­दि­व­दु­पा­स­ना­वि­धि­शे­षत्वं वा वक्तुं न शक्यते । ज्ञान­सा­ध­न­क्रि­या­विधेः प्रक्रा­न्त­त्वा­दि­त्यर्थः । अहं वृक्ष­स्ये­ति­म­न्त्र­स्य­र्षि­स्त्रि­शङ्कुः , पङ्क्तिश्छन्दः , परमात्मा देवता , ब्रह्म­वि­द्यार्थे जपे विनियोगः ।

न केवलमस्य जपो विद्यार्थः पूर्वोक्तानि कर्माण्यपीत्याह –
ऋतं चेत्यादिना ।
इति दशमोऽनुवाकः ॥

उत्तरानुवाकस्य तात्पर्यमाह –
वेद­म­नू­च्ये­त्या­दिना ।
विद्यो­त्प­त्त्यर्थं नित्य­नै­मि­त्ति­का­न्य­नु­ष्ठे­या­नी­त्येको नियम उक्तः ।

प्रागेव चानुष्ठेयानीति नियमान्तरमाह –
प्रागु­प­न्या­साच्च कर्मणामिति ।
संग्रहवाक्यं विवृणोति केवलेत्यादिना । अविद्यया कर्मणा मृत्युमधर्म तीर्त्वेति मन्त्रोऽपि विद्योत्पत्तेः प्रागेव कर्मानुष्ठानं सूचयतीत्यर्थः ।

“ऋतं च स्वाध्या­य­प्र­व­चने च”(तै.उ. १ । ९ । १) इत्यादिना पूर्वत्र कर्मा­नु­ष्ठा­न­मु­क्त­मे­वातः पौन­रु­क्त्य­मि­त्या­श­ङ्क्याऽऽह –
ऋतादीनामिति ।
विचारमकृत्वा गुरुकुलान्न निवर्तितव्यम् ।

किन्त्व­ध्य­य­न­वि­धे­र­र्था­व­बो­ध­न­द्वा­रेण पुरु­षा­र्थ­प­र्य­व­सा­यि­ता­सि­द्ध्य­र्थ­म­क्ष­र­ग्र­ह­णा­न­न्त­र­म­र्था­व­बोधे प्रय­ति­त­व्य­मि­त्याह –
ग्रन्थ­ग्र­ह­णा­द­न्विति ।

“वेदमधीत्य स्नायात्” इति स्मृति­र­प्ये­त­च्छति विरुद्धेत्याह –
अतोऽवगम्यत इति ।

वक्तव्यमिति ।
वचनार्हं परस्य हितमित्यर्थः ।
इत्ये­का­द­शोऽ­नु­वाकः ॥

आद्यानुवाके केवलाया विद्याया निःश्र­य­स­सा­ध­न­त्व­मु­क्त­मपि स्फुटीकर्तुं कर्मविधिमुपलभ्य प्रस­ङ्गा­त्पु­न­र्वि­चा­र­यि­तु­मु­प­क्र­मते –
अत्रै­त­च्चि­न्त्यत इत्यादिना ।
विवेकार्थमिति पृथ­क्फ­ल­त्व­ज्ञा­प­ना­र्थ­मि­त्यर्थः । “ भूतं भव्या­यो­प­दि­श्यते” इति न्याये­नाऽऽ­त्म­ज्ञा­न­स्यापि कर्म­क­र्तृ­सं­स्का­र­तया कर्म­वि­धि­शे­ष­त्वा­च्छु­त­स्यापि फल­स्या­र्थ­वा­द­मा­त्र­त्वा­त्क­र्मभ्य एव परं श्रेय इति पूर्वः पक्षः ।

सिद्धान्तमाह –
न नित्य­त्वा­दि­त्या­दिना ।

यद्य­प्य­ध्य­य­न­वि­धि­प्र­युक्त्या कृत्स्नो वेदार्थं एकेन विचा­रि­त­व्य­स्त­थाऽ­प्य­ध्य­य­न­विधौ प्रति­वा­क्या­ध्य­यनं प्रति­वा­क्या­र्थ­वि­चारं च व्यापा­र­भे­दा­त्त­त्प्र­यु­क्तऽ­भ्यु­द­य­का­मस्य कर्मो­प­यो­गि­वा­क्या­र्थ­ज्ञा­न­व­त्त्व­मा­त्रेण कर्म­ण्य­धि­का­र­स­म्भ­वा­द्ब्र­ह्म­सा­क्षा­त्का­रस्य तत्रा­नु­प­यो­गि­त्वान्न सम­स्त­वे­दा­र्थ­ज्ञा­न­वतः कर्माधिकारे प्रमा­ण­म­स्ती­त्याह –
तच्च नेति ।
यद्यपि चाध्य­य­न­वि­धि­प्र­युक्त्या वेदा­न्त­वि­चा­रोऽपि कृतो गुरुकुल एव तथाऽपि न सम­स्त­वे­दा­र्थ­ज्ञा­न­व­तोऽ­धि­कारः ।

उपासनासाध्यस्य ब्रह्म­सा­क्षा­त्का­रस्य पृथ­ग्भा­वा­दि­त्याह –
श्रुतज्ञानेति ।
श्रुता­द्गु­रु­कुले विचा­रि­ता­द्वा­क्या­त्क­र्मा­नु­ष्ठा­नो­प­योगि यज्ज्ञानं तावन्मात्रेण कर्म­ण्य­धि­क्रि­यते न ब्रह्म­सा­क्षा­त्का­र­फ­ल­मु­पा­स­न­म­पे­क्षते व्यति­रे­का­भा­वा­दि­त्यर्थः ।

अध्य­य­न­वि­धि­व्या­पा­रो­प­र­मेऽ­नु­ष्ठेयं तथा­भू­तं­ब्र­ह्मो­पा­स­न­मेव नास्ति, मानाभावादिति न वक्तव्यमित्याह –
उपासनं चेति ।
एतच्च कर्म­मी­मां­सा­न्या­या­ङ्गी­का­र­मा­त्रे­णो­क्तम् । वस्तुतश्च श्रोत­व्य­वि­धि­प्र­युक्त एवो­प­नि­ष­द्वि­चा­रा­रम्भो भिन्नाधिकारः । कर्म­का­ण्ड­वि­चा­रोऽ­प्यु­त्त­र­वि­धि­प्र­युक्त एवेति प्रकटार्थे प्रतिष्ठितम् । केवलं कर्म मोक्षसाधनमिति पक्षं निरस्य विद्यासमुच्चितं मोक्षसाधनमिति पक्षा­न्त­र­मा­शङ्क्य निषेधत्ति एवं तर्हीत्यादिना । “न स पुनरावर्तते”(शरभोपनिषत्) इति वचनादारभ्योऽपि मोक्षो नित्य इति न शक्यं वक्तुम् । प्रसि­द्ध­प­दा­र्थ­यो­ग्य­त्व­मु­पा­दाय वचनस्य संस­र्ग­ज्ञा­प­क­त्वात् । न चारभ्यस्य नित्यत्वे योग्यत्वं प्रसिद्धम् । अन्यथा वचनस्य कार­क­त्व­प्र­स­ङ्गात् ।

“अन्धो मणिमविन्दत्” इत्यादिष्वपि योग्य­ता­क­ल्प­न­प्र­स­ङ्गा­दि­त्याह –
न ज्ञाप­क­त्वा­दि­त्या­दिना ।

कर्म प्रधानं विद्या चोपसर्जनमिति समुच्चयं निरस्य सम­स­मु­च्च­येऽ­प्य­ति­दि­शति –
एतेनेति ।
अनि­त्य­त्वा­दि­दो­ष­प्र­स­ङ्गे­ने­त्यर्थः ।

मोक्षेति ।
मोक्षस्य प्रति­ब­न्ध­हे­तु­र­वि­द्याऽ­ध­र्मा­दि­स्त­न्नि­व­र्तके विद्याकर्मणी न स्वरूपोत्पादके । ततः स्वरू­पा­व­स्था­नस्य नित्यत्वम् ।

प्रध्वंसस्य च कृतकस्यापि नित्यत्वं प्रसि­द्ध­मि­त्यर्थः । “भिद्यते हृदयग्रन्थिः”(मु. उ. २ । २ । ९) इत्यादिश्रुतेः केव­ल­वि­द्या­सा­ध्यै­वा­वि­द्या­नि­वृत्तिः न तत्र विद्यायाः सहकार्यपेक्षा कर्मफलं त्वन्यदेव प्रसिद्धमित्याह –
न कर्मण इति ।
उत्पत्तिः पुरोडाशादेः । संस्कारो व्रीह्यादेः । विकारः सोमस्य । आप्तिर्वेदस्य । कर्मफलं प्रसिद्धम् । आत्मस्वरूपस्य तु मोक्ष­स्या­ना­दि­त्वा­द­ना­धे­या­ति­श­य­त्वा­द­वि­का­र­त्वा­न्नि­त्या­प्त­त्वाच्च कर्म­फ­ला­द्वै­प­री­त्य­मि­त्यर्थः ।

गतिश्रुतेरिति ।
अर्चि­रा­दि­ग­ति­श्र­व­णा­द्ब्र­ह्मा­ण्डा­द्ब­हिः­स्थि­त­ब्र­ह्म­प्रा­प्ति­र्मोक्षः । ततो नित्या­प्त­त्व­म­सि­द्ध­मि­त्यर्थः ।

गत्वा प्राप्तिः किं संयोगलक्षणा तादात्म्यलक्षणा वा , नोभयथाऽपीत्याह –
न सर्वगतत्वादिति ।

गत्या­दि­श्रु­ते­स्ता­त्पर्यं शङ्कापूर्वकं दर्शयति –
गत्यै­श्व­र्ये­त्या­दिना ।
समु­च्च­य­म­भ्यु­प­गम्य कर्मकार्यं किञ्चिन्मोक्षे न सम्भ­व­ती­त्यु­क्तम् ।

सोऽपि न सम्भवतीत्याह –
विरो­धा­च्चे­त्या­दिना ।

यदि कर्त्रा­दि­का­र­क­भे­दस्य सत्य­त्वां­श­म­पा­बाध्य ब्रह्म­ज्ञा­न­मु­प­दि­श्यते तदा मिथ्या­र्थ­त्वा­त्क­र्म­वि­धी­ना­म­प्रा­माण्यं स्यादित्याह –
विहितत्वादिति ।

शङ्कां विवृणोति –
यदीत्यादिना ।
अध्य­य­न­वि­धि­गृ­ही­तानां श्रुतीनां पुरु­षा­र्थो­प­द­र्श­क­त्वेन प्रामाण्यं वक्तव्यम् । न तु भेदस्य सत्यत्वेन ।

ततः प्रसिद्धिसिद्धं कार­का­दि­भे­द­म­र्थ­क्रि­या­स­म­र्थ­मा­दाय प्रवृत्तानां प्रामाण्यं न विरुध्यत इत्याह –
न पुरुषार्थेति ।

संग्रहवाक्यं विवृणोति –
विद्योपदेशपरा तावदित्यादिना ।
पूर्वं सत­मि­थ्या­वि­ष­य­त्वेन विद्या­क­र्म­णो­र्वि­रो­ध­मा­दाय समुच्चयो निरस्तः ।

इदानीं काम्य­का­मि­वि­ष­य­त्वेन विरोधमाह –
अपि चेत्यादिना ।

समसमुच्चयं निरस्य गुण­प्र­धा­न­भा­वे­नापि समुच्चयं निरस्यति –
विरोधादेव चेति ।

विद्या चेत्कर्माणि स्वफले नापेक्षते विरु­द्ध­त्वा­त्त्रि­द­ण्डि­ध­र्म­व­दृ­तु­ग­मनं कथं तर्हि विद्यासन्निधाने कर्माणां पाठ इत्यत आह –
स्वात्म­ला­भे­त्विति ।

कर्मणां विद्यासाधनत्वं श्रुत्वा गार्ह­स्थ्य­मे­वै­क­म­नु­ष्ठे­य­मिति प्रत्य­व­ति­ष्ठन्ते कर्मजडाः –
एवं तर्हीति ।
श्रुति­स्मृ­ति­ष्वा­श्र­मा­न्त­रा­णा­मपि विहि­त­त्व­वि­शे­षा­त्त­दी­य­क­र्मसु कर्म­त्वा­वि­शे­षाच्च ग्राम्य­ध­र्म­रा­गि­णा­मे­वै­त­च्चो­द्य­मि­त्याह न कर्मनेकत्वादिति ।

अस­ङ्की­र्ण­त्वा­दिति ।
हिंसा­द्य­मि­श्रि­त­त्वा­दि­त्यर्थः ।

इतश्च कर्मणो विद्या­सा­ध­न­त्वेऽपि न गार्ह­स्थ्य­मा­व­श्य­क­मि­त्याह –
जन्मान्तरेति ।

कामिनां गार्ह­स्थ्य­स्या­नु­ष्ठे­य­त्वेऽपि न सर्वै­र­नु­ष्ठे­य­त्व­मि­त्यत्र हेत्वन्तरमाह –
लोका­र्थ­त्वा­च्चे­त्या­दिना ।
गार्ह­स्थ्य­स्या­ना­व­श्य­क­त्वेन वैक­ल्पि­क­म­नु­ष्ठा­न­मुक्तं तत्रा­तु­ल्य­ब­ल­त्वेन विक­ल्प­मा­क्षि­प­ति­कर्म प्रति श्रुतेरिति ।

जन्मा­न्त­र­कृ­ता­नु­ग्र­हा­दिति परिहारभाष्यं विवृणोति –
यदु­क्त­मि­त्या­दिना ।
कर्मणि यत्ना­धि­क­स्या­न्य­था­सि­द्ध­त्वात् विक­ल्प­वि­घा­त­कत्वं न सम्भवतीत्यर्थः ।

इदानीं गृह­स्था­श्र­म­क­र्माणां बहिरङ्गत्वं संन्या­सा­श्र­म­क­र्मणां त्वन्त­र­ङ्ग­वि­द्या­सा­ध­न­त्व­मिति विशेषं दर्शयितुं चोद्यमुद्भावयति –
कर्म­नि­मि­त्त­त्वा­दि­त्या­दिना ।

शं नो मित्र इति ।
तदपरं ब्रह्म माम­प­र­वि­द्या­र्थि­न­मा­वी­द­र­क्ष­दि­त्यर्थः ।
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञा­न­वि­र­चि­तायां तैत्ति­री­यो­प­नि­ष­च्छा­ङ्क­र­भा­ष्य­टी­कायां शीक्षावल्ल्यां द्वादशोऽनुवाकः ॥