अद्वैतशारदा

आनन्दगिरिटीका (तैत्तिरीय)

ब्रह्मानन्दवल्ली: प्रथमोऽनुवाकः

शान्ति­द्व­य­स्या­पौ­न­रु­क्त्य­माह –
शं नो मित्र इति ।
इदानीं पर­वि­द्या­र्थि­न­म­प्य­वतु साधारण्येन मया पूर्वं प्रर्थि­त­त्वा­दि­त्यर्थः ।

असाधारण्येन पर­वि­द्यो­प­स­र्ग­शा­न्त्य­र्थ­माह –
सह नाववत्विति ।
नावा­व­यो­स्ते­ज­स्वि­नो­र­धीतं तेज­स्व्य­स्त्विति योजना ।

वृत्ता­नु­वा­द­पू­र्वं­क­मा­न­न्द­व­ल्ल्या­स्ता­त्प­र्य­माह –
संहि­ता­दी­त्या­दिना ।

ननु यथा पूर्वमाप्नोति स्वरा­ज्य­मि­त्य­प­र­वि­द्या­फ­ल­मुक्तं संसारगोचरमेव तथा पर­वि­द्या­फ­ल­मुक्तं संसारगोचरमेव तथा परविद्याफलमपि “सोऽश्नुते सर्वान्कामान्”(तै. उ. २ । १ । १) इति सर्व­वि­ष­य­सा­ध्या­न­न्दान् संसारगोचरानेव दर्शयिष्यति कथमात्यन्तिकः संसाराभाव इत्यत आह –
प्रयोजनं चास्या इति ।
सर्वकामशब्देन निर­ति­श­या­न­न्द­भि­व्य­क्ति­र्वि­व­क्षिता । सा च स्वभा­वा­न­न्दा­न­भि­व्य­क्ति­रू­पा­वि­द्या­नि­वृ­त्ति­रे­वेति न संसारगोचरं फलमित्यर्थः ।

आद्य­वा­क्य­स्या­वा­न्त­र­ता­त्प­र्य­माह –
स्वयमेव चेति ।
विद्ययैव केवलया मोक्षः साधयितुं शक्यते ब्रह्म­वि­दि­ति­वि­शे­ष­णात् ।

सम्बन्धज्ञानस्य पुरु­षा­का­ङ्क्षा­वि­ष­य­तया परप्राप्तिः प्रयोजनं विद्याया इति ज्ञापनस्य वा कुत्रोपयोग इत्याशङ्क्य यज्ञा­दि­प­रि­त्या­गेन वेदा­न्त­श्र­व­णा­दा­वेव मुमुक्षुणा प्रव­र्ति­त­व्या­मि­त्य­त्रे­त्याह –
निर्ज्ञा­त­यो­र्हीति ।

पर­श­ब्दे­नो­त्कृ­ष्ट­मु­च्यते कथं ब्रह्मेति व्याख्यायते तत्राऽऽह –
न हीति ।

आप्नो­ति­श­ब्द­स्यौ­प­चा­रि­क­मर्थं दर्शयितुं शङ्कामुखेन मुख्यार्थो बाधकमाह –
ननु सर्व­ग­त­मि­त्या­दिना ।
परमार्थतो ब्रह्म­स्व­रू­प­स्यापि सतो जीवस्याविद्यया ब्रह्म­स्व­रू­प­स्यापि सतो जीवस्याविद्यया ब्रह्मानाप्त स्यादिति सम्बन्धः । भूत­मा­त्रा­भि­र्भू­तांशैः कृता ये बाह्याः परि­च्छि­न्ना­श्चा­न्न­म­या­द­य­स्त­दा­त्म­त्व­द­र्शिन इत्यविद्याआ विक्षेपकत्वं स्वरूपमुक्तम् । परमार्थं ब्रह्मस्वरूपं नास्ती­त्य­भा­व­द­र्श­न­मा­व­र­ण­ल­क्षणं लिङ्गं यस्याः सा तथोक्ता ।

स्वरू­पे­प्य­ग्र­ह­ण­वि­प­र्ययौ भवत इत्यत्र दृष्टान्तमाह –
प्रकृतेति ।
प्रकृ­त­सं­ख्या­पू­र­णस्य दशमस्य नवैव वयं वर्तामह इति विपर्ययः स्वरूपादर्शनं च यथेत्यर्थः ।

अद­र्श­न­नि­मि­त्ता­म­नाप्तिं विविच्य दर्श­न­नि­मि­त्ता­माप्ति विवृणोति –
तस्यैवमिति ।

आद्यं ब्राह्मणवाक्यं व्याख्यायोत्तरं मन्त्रं संक्षे­प­तोऽ­र्थ­क­थ­ने­ना­व­ता­र­यति –
ब्रह्म­वि­दा­प्नो­ती­त्या­दिना ।
सर्वतो व्यावृत्तो यः स्वरू­प­वि­शे­ष­स्त­त्स­म­र्पणे समर्थस्य लक्ष­ण­स्या­भि­धा­नेन स्वरू­प­नि­र्धा­र­णा­यै­ष­र्गु­दा­ह्रि­यत इति सम्बन्धः । बृह­त्त्वा­द्ब्र­ह्मेति व्युत्प­त्ति­ब­ले­नास्ति किमपि मह­द्व­स्त्वि­त्य­वि­शे­षेण प्रतीयते । ततो लक्ष्योद्देशेन लक्षणविधानमिति प्रसि­द्धि­रु­प­प­द्यते । अव्याकृतादि ब्रह्म­श­ब्द­वा­च्य­तया सजातीयं , घटादि विजातीयम् । तस्मा­त्स­जा­ती­य­वि­जा­ती­य­व्या­व­र्त­क­तया सत्यादिलक्षणस्य लक्ष­ण­त्व­प्र­सि­द्धि­रु­प­प­द्यते । लक्ष­णा­भि­धा­न­द्वा­रेण स्वरू­प­वि­शे­ष­प्र­ति­पा­दने तात्पर्यमिति वाक्यस्य व्यर्थतादोषः परिहृतः ।

पूर्वत्र ब्रह्म­वि­दि­त्य­ने­ना­वि­शे­षे­णोक्तं वेदनं यस्य ब्रह्मणस्तस्य यो वेद निहितं गुहायामित्यनेन प्रत्यगात्मतया वेदनं वक्त­व्य­मि­त्ये­व­मर्था चर्गुदाह्रियत इत्याह –
अविशेषेण चेति ।

आपातप्रतिपन्नं विशे­ष­ण­वि­शे­ष्य­भा­व­मा­दाय पदानि विभजते –
सत्यादीनि हि त्रीणीति ।

विशेषणार्थानीति ।
व्यावृ­त्त्य­र्थानि ।

कुतो विशे­ष­ण­वि­शे­ष्य­भा­व­प्र­ती­ति­रि­त्यत आह –
विशे­ष­ण­वि­शे­ष्य­त्वा­दे­वेति ।
नीलं मह­त्सु­ग­न्ध्यु­त्प­ल­मि­त्यादौ सत्येव विशेषण विशेष्यभावे समा­ना­धि­क­र­ण­त­यै­क­वि­भ­क्त्य­न्तानि प्रसि­द्धा­ने­ता­न्यपि च तथाभूतानि नाना­र्थ­ग­त­वि­शे­ष­ण­वि­शे­ष्य­भा­व­नि­ब­न्ध­ना­नीति गम्यत इत्यर्थः ।

विशे­ष­ण­वि­शे­ष्य­भा­वस्य फलमाह –
एवं हीति ।

विशे­ष­ण­वि­शे­ष्य­भा­व­मा­क्षि­पति –
नन्विति ।
नीलत्वं व्यभिचरदुत्पलं रक्तमपि सम्भवतीति नीलं विशेषणं घटते न तथा सत्यत्वादिकं व्यभि­च­र­द्ब्र­ह्मा­न्तरं लोके प्रसिद्धम् । ततः सजातीयस्य व्यव­च्छे­द्य­स्या­भा­वा­द्वि­शे­ष­ण­वि­शे­ष्य­भावो न घटत इत्यर्थः ।

विशे­ष­ण­वि­शे­ष्य­भा­वस्य तात्प­र्ये­णा­प्र­ति­पा­द्य­त्वा­द­व्या­कृ­ता­दि­शा­स्त्री­य­ब्र­ह्म­प­दा­र्थ­व्य­व­च्छे­देना निर्वा­च्य­वि­शे­ष­ण­वि­शे­ष्य­भा­व­स­म्भ­वा­त्त­द्द्वा­रेण ब्रह्मलक्षणं विवक्षितमित्याह –
नेति ।

संग्रहवाक्यं विवृणोति –
नायं दोष इत्यादिना ।
सर्वत एवेति । सजा­ती­या­द्वि­जा­ती­याच्च । यथा महाभूतत्वेन सदृ­श­भा­वा­त्पृ­थि­व्या­दे­र्वि­स­दृ­शा­च्चाऽऽ­त्मा­दे­रा­क­शस्य व्याव­र्त­क­म­व­का­श­दा­तृ­त्व­मि­त्य­र्थः।­ए­त­दुक्तं भवति – अति­व्या­प्त्या­दि­र­हितो व्यावर्तको धर्मो लक्षणमिति न्याय­वै­शे­षि­क­मी­मां­सकाः ।ब्र­ह्म­प­द­व्यु­त्प­ति­ब­लेन यदविशेषतः प्रतिपन्नं किञ्चि­न्म­ह­द­स्तीति तत्सत्यं ज्ञान­म­न­न्त­म­नृ­त­ज­ड­प­रि­च्छे­द­वि­रो­धि­स्व­रू­प­मिति विशेषतः प्रति­प­त्त­व्य­मिति विशे­षा­व­ग­ति­शे­ष­भूतं लक्षणं प्रमितिस्तु प्रमाणादेवेति । तार्किकाः पनर्लक्षणं केव­ल­व्य­ति­रे­क्य­नु­मा­न­मा­च­क्षते तदा लक्षणादेव स्वभा­व­वि­शे­ष­प्र­मितिः । यथा गुण­व­द्द्र­व्य­मिति लक्ष­णा­द्गु­णा­श्र­य­त्व­यो­ग्य­स्व­भा­व­वि­शे­षस्य प्रमितिः सामा­न्य­प्र­ति­प­न्नस्य द्रव्य­प­दा­भि­धे­यस्य भवति । यद्वा व्यवहारसिद्धिः फलं गणवद्द्रव्यमिति व्यवहर्तव्यं गुणवत्त्वान्न यदेवं न तदेवं यथा रूपं तथा सत्य­त्वा­दि­म­द्ब्र­ह्मेति व्यवहर्तव्यं सत्य­त्वा­दि­भा­वान्न यदेवं यथा घट इति । एतच्च खण्ड­न­यु­क्त्य­स­ह­मा­न­मपि व्यवहाराङ्गं भवतीति नातीव सूक्ष्मेक्षिका कार्या ।

पुन­र्वि­शे­ष­वि­शे­ष्य­भा­व­प­क्ष­म­व­ल­म्ब्याऽऽह –
सत्यादिशब्दा इति ।

सत्यं ब्रह्मेत्युक्ते जाड्य­व्या­वृत्तिः परि­च्छे­द­व्या­वृ­त्तिश्च यद्यपि लभ्यते , जडस्य परिच्छिन्नस्य सर्व­स्या­नृ­त­त्वा­ज्ज्ञानं ब्रह्मेत्युक्ते चानृ­त­प­रि­च्छे­द­व्या­वृ­त्ति­र्ल­भ्यते स्वप्रकाशस्य बाधा­वि­ष­य­त्वा­त्प­रि­च्छे­द­ग्रा­ह­क­प्र­मा­णा­वि­ष­य­त्वाच्च लक्षणमपि चैकैकं वैकल्पिकमदुष्टं तथाऽपि मन्द­म­ति­व्यु­त्पा­द­नाय स्यात्स­त्या­दि­प­दा­र्थ­व्या­ख्या­न­पू­र्वकं प्रत्येकं व्यावर्त्यमाह –
सत्यमिति यद्रू­पे­णे­त्या­दिना ।
भावसाधन इति । भाव­व्यु­त्प­त्तिकः । क्रियासामान्यं यद्यप्यन्यत्र भाव उच्यते तथाऽप्यत्र निर्विशेषं चिन्मात्रं भाव­व्यु­त्पत्त्या लक्ष्यते सत्या­दि­श­ब्द­स­न्नि­धा­ना­दिति द्रष्टव्यम् ।

विशेषनिषेधः शेषा­भ्य­नु­ज्ञा­वि­षय इति न्यायेन प्रासङ्गिकं स्वज्ञातृत्वे तात्प­र्य­मा­शङ्क्य निषेधति –
नान्य­द्वि­जा­ना­ती­त्या­दिना ।
कर्तृत्वं कर्मत्वं चैक­क्रि­या­व­च्छिन्नं धर्मद्वयं भिन्नाधिकरणं प्रसिद्धम् ।

स्वात्मनि च भेदा­भा­वा­न्नि­रू­प­प­त्तिके स्वज्ञातृत्वे तात्पर्यं कल्पयितुं न शक्यत इत्याह –
स्वात्मनि चेति ।

सत्यादीनि व्यावृ­त्त्य­र्था­नी­त्युक्तं तत्र शङ्कते –
सत्यादीनामिति ।
प्रमा­णा­न्त­र­सि­द्ध­मु­त्प­लादि विशेष्यं दृष्टं ब्रह्म तु प्रमा­णा­न्त­रा­सि­द्धम् । पद­मा­त्र­स्या­प्र­मा­ण­त्वा­त्स­त्या­दीनां च व्यावृ­त्त्य­र्थ­त्वा­द­स­दर्थं वाक्यं स्यादित्यर्थः । सिद्धत्वमात्रेण विशेष्यत्वे सम्भवति प्रमा­णा­न्त­र­वि­शे­ष­ण­म­न­र्थकं , केव­ल­व्य­ति­रे­का­भा­वात् ।

मिथ्यार्थस्य रज्जुसर्पादेः सद­धि­ष्ठा­न­त्व­द­र्श­ना­त्प्र­प­ञ्च­स्यापि दृश्य­त्वा­दि­हे­तु­भि­र्मि­थ्या­त्वे­ना­व­ग­तस्य सदधिष्ठानत्वं सम्भाव्यते , तस्य प्रप­ञ्चा­धि­ष्ठा­न­तया सम्भावितस्य स्वरू­प­वि­शे­ष­ल­क्ष­णा­र्थ­मिदं वाक्यं ततो नास­द­र्थ­त्व­मि­त्याह –
न लक्ष­णा­र्थ­त्वा­दिति ।

विशे­ष­णा­र्थ­त्व­म­भ्यु­प­ग­म्याऽऽह –
विशे­ष­णा­र्थ­त्वेऽपि चेति ।
नीलं मह­दि­त्या­दि­वि­शे­ष­ण­प­दानि स्वार्थसमर्पणेन तद्वि­रु­द्ध­व्या­व­र्त­कानि प्रसिद्धानि , तथा सत्य­श­ब्दोऽ­प्य­बा­धि­त­सत्त्वे व्युत्पन्नो , ज्ञानशब्दः स्वप्रकाशे विषयसंवेदने , अनन्तोऽयमाकाश इत्या­दा­व­न­न्त­शब्दो व्यापके । ततः स्वार्थसमर्पणेन विरो­धि­व्या­व­र्त­क­त्वान्न व्यावृ­त्ति­मा­त्र­प­र्य­व­सा­न­मि­त्यर्थः ।

किञ्च विशेषणस्य व्यावर्तकत्वं सति व्यावर्त्ये घटतेऽतो विशे­ष­ण­त्वा­नु­प­प­त्त्यैव सदर्थत्वं वाच्यमित्याह –
शून्यार्थत्वे हीति ।

यच्चोक्तं ब्रह्म­श­ब्दोऽ­प्र­सि­द्धार्थ इति तत्राऽऽह –
ब्रह्म­श­ब्दोऽ­पीति ।
“बृह बृहि वृद्धौ” इति धातोर्ब्रह्मेति शब्दो निष्पन्नो वृद्धौ महत्त्वे वर्तते । तच्च महत्त्वं देशतः कालतो वस्तु­त­श्चा­न­व­च्छि­न्नत्वं सङ्को­च­क­मा­ना­न्त­रा­भा­वा­न्नि­र­ति­श­य­म­ह­त्त्व­स­म्पन्ने धर्मिणि पर्यवस्यति । ततो वन्ध्या­सु­ता­दि­श­ब्द­वि­ल­क्षणो ब्रह्मशब्द इत्यर्थः ।

सत्यादिषु त्रिषु विशे­ष­णे­ष्व­वा­न्त­र­भे­द­माह –
तत्रानन्तेति।

अनन्तमित्यनेन चाऽऽत्मैक्यं ब्रह्मण उक्त­मि­त्य­भि­प्रे­त्यैक्ये शास्त्रतात्पर्य दर्शयति –
तस्माद्वावा इत्यादिना ।

ब्रह्मण आत्मैक्यं चेद्विवक्षितं तर्हि ज्ञानशब्दस्य भाव­सा­ध­न­त्व­व्या­ख्यानं हीयेतेत्याह –
एवं तर्हीति ।

इतश्च भाव­व्यु­त्प­त्ति­र­स­ङ्ग­ते­त्याह –
अनि­त्य­त्व­प्र­स­ङ्गा­च्चेति ।

वत्ति­म­द­न्तः­क­र­णो­प­हि­त­त्वे­नाऽऽ­त्मनो ज्ञातृत्वं न स्वतः , कार्यत्वं च ज्ञान­स्या­न्तः­क­र­ण­वृ­त्त्यु­प­हि­त­त्वेन तत आत्मा­भि­न्न­त्वेऽपि ब्रह्मणो न ज्ञानकर्तृत्वं नापि कार्यत्वं प्रसज्यत इत्याह –
न स्वरूपेति ।

नित्यं चेज्ज्ञानं तर्हि तत्र कर्तृत्वभावे कथं सर्व­ज्ञ­त्व­मि­त्यत आह –
सर्वभावानां चेति ।
संविदव्यवधानमेव हि विषयस्य सिद्धिः । सर्व च संवित्स्वभावेन ब्रह्म­णाऽ­व्य­व­हि­त­मिति सर्वज्ञं ब्रह्मोपचर्यत इत्यर्थः ।

नित्यं ज्ञानं ब्रह्मणि विद्यत इत्यत्र मन्त्रसम्भतिमाह –
मन्त्रवर्णाच्चेति ।

ब्रह्म अनित्यं ज्ञान­त्वा­ल्लौ­कि­क­ज्ञा­न­व­दि­त्यादि चोद्य­म­प्यु­क्त­न्या­येन निरस्तमित्याह –
विज्ञा­तृ­स्व­रू­पेति ।
लौकिकज्ञानस्य कर­णा­दि­सा­पे­क्ष­त्वा­द­नि­त्य­त्वम् । आत्मस्वरूपं तु ज्ञानं न करणादिसापेक्षं सक­ल­क­र­ण­व्या­पा­रो­प­र­मेऽपि सुषुप्ते भावादन्यथा सुषु­प्ति­सि­द्ध्य­नु­प­पत्तेः परा­म­र्शा­स­म्भ­व­प्र­स­ङ्गा­दतः श्रुति­ता­त्प­र्य­ग­म्येऽर्थे न सामान्यतो दृष्टस्य प्रवेश इति भावः ।

आत्मनः स्वरूपभूतं ज्ञानं कारकसाध्यं धात्व­र्थ­त्वा­दिति चासिद्धमित्याह –
अत इति ।
नित्या­त्म­स्व­रू­प­त्वा­दे­वे­त्यर्थः । अत एव चेति । नित्यत्वादेव ज्ञानस्य न तत्र कर्तृत्वमपि ब्रह्मण आपादयितुं शक्यते ।

लौकि­क­नि­त्य­ज्ञा­न­वि­ल­क्ष­ण­त्वा­देव च ज्ञान­श­ब्द­वा­च्य­मपि ब्रह्म न भवतीत्याह –
तस्मादेव चेति ।

कथं तर्हि विज्ञानं ब्रह्मेति प्रयो­ग­स्त­त्राऽऽह –
तथाऽपीति ।

शब्दस्य प्रवृत्तिहेतवो जात्यादिधर्मा गौः शुक्ल इत्यादौ ; तद­भा­व­च्छ­ब्दा­न्त­रे­णापि वाच्यं न भवतीत्याह –
तथेति ।
तथा सत्यशब्देनापि न वाच्यं ब्रह्मेति शेषः ।

एतस्फुटयति –
सर्वविशेषेति ।
सत्ता यस्यास्ति तत्सत्यमिति लोकरूढिः । सत्ता चानुगतरूपं सामान्यं व्यावृत्ताः सत्ताविशेषः । स चाय­म­नु­वृ­त्त­व्या­वृ­त्ता­भावो न वस्तु पर­स्प­रा­पे­क्ष­सि­द्ध­त्वा­दतो यस्मिन्नयं व्यावृ­त्ता­नु­वृ­त्त­भावः कल्पि­त­स्त­द­व्या­वृ­त्ता­न­नु­गतं ब्रह्म लक्ष्यत इत्यर्थः ।

एवमेकैकस्य शब्द­स्या­र्थ­मुक्त्वा वाक्यार्थमाह –
एवं सत्यादीति ।
यद्यपि सत्यादिशब्दानां ब्रह्मणा मुख्योऽ­न्व­य­स्त­थाऽपि अरु­णै­क­हा­य­न्या­दि­व­त्पा­र्ष्णि­का­न्व­ये­ने­त­रे­त­र­स­न्नि­धा­व­न्यो­न्यस्य वृत्तिनियामका भवन्ति । ज्ञानेन विशे­ष­णा­त्स­त्य­शब्दो न जडे कारणे वर्तते । सत्येन विशे­ष­णा­ज्ज्ञा­न­शब्दो न विषयसापेक्षे ज्ञाने वर्तते । ज्ञानेन विशे­ष­णा­न्ना­न­न्त­शब्दो ज्ञातृ­व्य­ति­रिक्ते वर्तते । ततश्च सत्यादिशब्देन यल्लौकिकं वाच्यं तद्विलक्षणेन भवितव्यमिति सम्भावयन्तः सक­ल­लौ­कि­का­ध्या­सा­धि­ष्ठानं ब्रह्मत्वेन लक्ष­य­न्ती­त्यर्थः ।

ततः किं फलतीत्यत आह –
अतः सिद्धमिति ।
वाचकशक्त्या बोध­क­त्वा­न­ङ्गी­का­रा­द­वा­च्यत्वं सक­ला­नि­ष्ट­व्य­व­च्छे­दे­नै­क­स्यैव लक्ष्य­त्वा­भ्यु­प­ग­माच्च गुण­गु­ण्या­दि­सं­भे­द­रू­प­वा­क्या­र्थ­वै­ल­क्षण्यं च ब्रह्मणः सिद्धमित्यर्थः । बुद्धौ कार्ये यदनुगतं परमं व्योमा­व्या­कृ­ताख्यं तस्मि­न्नि­हि­त­मिति सप्तमीद्वयं वैयधिकरण्येन व्याख्यातम् ।

व्योमशब्दस्य भूताकाशे रूढिं परित्यज्य किमि­त्य­व्या­कृ­त­वि­ष­यत्वं व्याख्यायते ? तत्राह –
तद्धीति ।
भूताकाशस्य कार्य­त्वे­ना­प­र­त्वा­द­व्या­कृ­ता­का­शस्य कारणत्वेन पर­म­त्व­वि­शे­ष­ण­स­म्भ­वा­च्छा­खा­न्तरे शतपथे चाक्षरेण ब्रह्मणा सामी­प्या­व­ग­मा­द­व्या­कृतं व्योमशब्देन लक्ष्यत इत्यर्थः ।

एवं पराभिप्रायेण व्याख्यात स्वाभिप्रायं व्याचष्टे –
हार्दमेव त्विति ।
हृदयावच्छिन्ने भूतकाशे या गृहा तस्यां बुद्धौ साक्षितया निहितमभिव्यक्तं ब्रह्मेति व्याख्यानं युक्तम् । द्रष्टृभेदेन ब्रह्मण आपरोक्ष्यलाभात् । अन्यथा सम­ष्टि­रू­पेऽ­व्या­कृते माया­त­त्त्वेऽ­व­स्थितं ब्रह्मेत्युक्ते ब्रह्मणः पारोक्ष्यं प्रसज्येत , पारोक्ष्येण च ज्ञानं नाप­रो­क्ष­सं­सा­रा­ध्या­स­नि­व­र्त­कम् । तस्मा­द­प­रो­क्ष­द्र­ष्टृ­चै­त­न्या­भे­देन ब्रह्मणः स्वहृदये प्रत्यक्षताया विव­क्षि­त­त्वा­द्धृ­द­या­का­श­मेव विज्ञानशेषभूतं विव­क्षि­त­मि­त्यर्थः । यदुक्तं भूताकाशस्य पर­म­त्वा­नु­प­प­त्ति­रिति तत्राऽऽह । यो वा इति ।

ननु निहितशब्दः स्थितिं ब्रूते कथं विविक्ततया स्फुट­त­यो­प­ल­म्भा­भि­प्रा­येण व्याख्यायते तत्राऽऽह –
न हीति ।
अन्यथेति । उप­ल­म्भ­व्य­ति­रे­केण । अविद्यावस्थायां ये सुखविशेषा हिर­ण्य­ग­र्भा­द्यु­पा­धिषु भोग्य­त्वे­ना­भि­म­ता­स्तेषां सर्वेषां ब्रह्मा­न­न्दा­व्य­ति­रे­का­द्ब्र­ह्मी­भूतो विद्वा­न्स­र्वा­ने­वाऽऽ­न­न्दा­न­श्नुत इत्युपचारेण बहुवचनमित्यर्थः ।

वृत्त­म­नु­व­द­त्यु­त्त­र­ग्र­न्था­व­ता­र­णाय –
सर्व एवेत्यादिना ।

आका­शा­दि­का­र­ण­त्वा­भि­धा­ने­नाऽऽ­न­न्त्य­प्र­पञ्चः क्रियत इति सम­न­न्त­र­ग्र­न्थ­ता­त्पर्यं दर्शयितुं पूर्वो­क्ते­ष्व­र्थ­वि­शे­ष­म­नु­व­दति –
तत्र चेति ।

वस्तुत आनन्त्यं व्याख्यातुं वस्तु­नोऽ­न्त­वत्त्वं तावदाह –
भिन्नं हीत्यादिना ।

विस्त­रे­णो­क्त­मा­नन्त्यं संक्षिप्याऽऽह –
तस्मा­त्सि­द्ध­मिति ।
देश­तोऽ­न­व­च्छि­न्न­स्याऽऽ­का­शस्य कार­ण­त्वा­द्व्या­प­क­त्वा­न्नि­र­ति­श­य­मा­त्मनो देशत आन­न्त्य­म­का­र्य­त्वाच्च कालत आनन्त्यं तद्यतो व्यावर्तेत तस्य पृथ­ग­स­त्त्वा­त्का­र्य­स्यो­पा­दा­ना­द­न्यत्र सत्त्वा­यो­गा­द्व­स्तु­तोऽ­प्या­नन्त्यं सिद्धमित्यर्थः । अत इति । निर­ति­श­या­न­न्त्या­देव सत्यत्वमपि सिद्धमन्तवत एव रज्जु­स­र्पा­दि­व­द­स­त्य­त्वा­दि­त्यर्थः ।

एवं सृष्टि­वा­क्य­ता­त्प­र्य­मुक्त्वा पदानि विभजते –
तस्मादित्यादिना ।
अन्त्य­का­र्य­प­र्यन्तं परमात्मनः सर्व­त्रो­पा­दा­न­त्वा­दा­का­श­भा­वा­प­न्ना­त्प­र­मा­त्मन एव वायुः सम्भूतोऽत एव तद्गु­ण­स्यो­त्त­र­त्रा­नु­वृ­त्ति­र्गु­ण­श­ब्द­प्र­यो­गोऽपि भेदकल्पनया तत्त­न्त्र­त्वा­भि­प्रा­येण न वैशै­षि­क­प­क्ष­व­त्त­त्त्व­भे­दा­भि­प्रा­येण तत्त्वतो भेदे प्रमाणाभावादिति द्रष्टव्यम् ।

पुरुषग्रहणस्य तात्पर्यमाह –
सर्वेषामपीति ।
शक्तत्वादिति विधि­नि­षे­ध­वि­वे­क­सा­म­र्थ्यो­पे­त­त्वा­दि­त्यु­क्तम् ।

तत्रै­त­रे­य­क­श्रु­ति­स­म्भ­ति­माह –
पुरुषे त्वेवेति ।
ब्राह्म­ण्या­दि­जा­ति­मति मनुष्यादिदेह आविस्तरामतिशयेन प्रकट आत्मा ज्ञाना­ति­श­य­द­र्श­ना­दि­त्यर्थः । मर्त्येन ज्ञान­क­र्मा­दि­सा­ध­ने­ना­क्ष­य­फलं प्राप्तु­मि­च्छ­ती­त्यर्थः ।

येन विवेकज्ञानेन पुरुषस्य प्राधान्यं विवक्षितं तत्पश्वादीनां नास्तीत्याह –
अथेतरेषामिति ।

कोश­प­ञ्च­को­प­न्या­सस्य तात्पर्यमाह –
स हीत्यादिना ।
पक्ष­पु­च्छ­श­ब्द­प्र­यो­गा­त्सु­प­र्णा­का­र­क्लृप्तिं दर्शयति । उत्तरत्र तत्कल्पनया बाह्य­वि­ष­या­स­ङ्ग­व्य­पो­हेन बुद्धेरात्मनि स्थिरीकरणार्थं नोपासनविधानमिह विवक्षितम् । उप­क्र­मो­प­सं­हा­र­यो­र्ब्र­ह्मा­त्मै­क­त्व­प्र­ति­पा­द­ने­नै­वो­प­क्ष­या­न्मध्ये ग्रन्थ­स्यो­पा­स­न­विधौ तात्पर्येण च वाक्य­भे­द­प्र­स­ङ्गा­दत एवाङ्गे स्तुतिः परार्थत्वादिति न्यायेन यथा प्रयाजादिषु फल­श्र­व­ण­म­र्थ­वा­द­स्त­थाऽ­न्न­म­या­दि­प्र­ति­प­त्ते­रपि फलश्रवणमर्थवाद एव , तत्त­द्बु­द्धि­स्थि­री­का­रस्य पूर्व­पू­र्व­बु­द्धि­वि­ला­प­ने­नाऽऽ­त्मनः प्रति­प­त्ति­शे­ष­त्वा­दिति द्रष्टव्यम् ।
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञा­न­वि­र­चि­तायां तैत्ति­री­यो­प­नि­ष­च्छा­ङ्क­र­भा­ष्य­टी­कायां द्विती­य­ब्र­ह्म­वल्ल्यां प्रथमोऽनुवाकः॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञा­न­वि­र­चि­तायां तैत्ति­री­यो­प­नि­ष­च्छा­ङ्क­र­भा­ष्य­टी­कायां ब्रह्मवल्ल्यां द्विती­योऽ­नु­वाकः॥

पूर्व­पू­र्व­को­श­स्यो­त्त­रो­त्तरः कोश एवाऽऽत्मेति व्याख्या­त­मा­पा­त­द­र्श­नेन , तदसत् । आत्म­श­ब्द­स्या­मु­ख्या­र्थ­त्व­प्र­स­ङ्गा­त्प्र­कृ­त­प­रा­म­र्श­कै­त­च्छ­ब्द­को­पाच्च । अतः सर्व­को­शा­ध्या­सा­धि­ष्ठा­न­भू­त­श्चि­दा­त्मै­वा­त्राऽऽ­त्म­श­ब्देन विवक्षित इति तात्पर्यमाह –
तथा स्वाभाविकेनेति ।

अर्थादिति ।
आत्म­श­ब्द­सा­म­र्थ्या­त्क­ल्पि­त­स्या­धि­ष्ठा­न­त्वा­नु­प­प­त्ते­श्चे­त्यर्थः ।

आसाधारणादिति ।
व्यावृ­त्त­स्व­रू­पात् । अपक्रम्य तत्राऽऽ­त्म­बुद्धिं हित्वेत्यर्थः ।

साधारणमिति ।
सर्वे­न्द्रि­य­सा­धा­र­णम् । प्राण­कृ­ते­ना­श­ना­दिना सर्वेषां पुष्ट्या­दि­द­र्श­ना­दि­त्यर्थः ।

सर्व­भू­ता­ना­मा­त्मेति ।
सूत्रात्मना पूर्वस्य य आत्मा चिद्धातुरेष एव तस्य प्राण­म­य­स्याऽऽ­त्मेति योजना । यजुःशब्देन बाह्यो यजुर्वेद उच्यते ।

तस्य कथमान्तरं मनोमयं प्रति शिर­स्त्व­मि­त्या­श­ङ्क्याऽऽह –
मनसो हीति ।
यद्यपि यजुःशब्दो बाह्ये शब्दराशौ रूढस्तथाऽपि श्रुते­र­न­ति­श­ङ्क­नी­य­त्वा­त्त­त्प्रा­मा­ण्या­द्वि­शि­ष्ट­म­नो­वृ­त्ति­र्यजुः सङ्केतविषयभूता यजुर्वेदमधीमह एतत्क्रमका वर्णा यजु­र्वे­द­त­याऽ­ध्ये­तव्या इत्येवं सङ्कल्परूपा ग्राह्येत्यर्थः ।

श्रुत्य­नु­ग्रा­हिकां युक्तिमप्याह –
एवं चेति ।

अन्यथेति ।
शब्दानां घटा­दि­द्बा­ह्य­द्र­व्यत्वे मनो­वि­ष­य­त्वा­स­म्भ­वा­न्म­नसो बाह्येऽ­र्थेऽ­स्वा­त­न्त्र्या­न्म­नसो जपो न स्यादित्यर्थः ।

इतश्च मनोवृत्तित्वं मन्त्राणां वच्यमित्याह –
मन्त्रा­वृ­त्ति­श्चेति ।
शब्दानां घटा­दि­व­द्बा­ह्य­द्र­व्यत्वे मन्त्राणां घटा­दि­व­दा­वृ­त्ति­र्नो­प­प­द्यते क्रियैव ह्यावर्त्यते ।

आवृ­त्ति­सि­द्ध्य­नु­प­पत्त्या क्रियात्वं वाच्यमित्युक्तं तत्रा­न्य­थाऽ­प्यु­प­प­त्ति­मा­श­ङ्कते –
अक्षरविषयेति ।

मन्त्रेभ्यः स्मृते­र­न्य­त्वा­द­न्याऽऽ­वृ­त्ति­र्गौणी प्रसज्यतेऽतो नान्य­थाऽ­प्यु­प­प­त्ति­रि­त्यु­क्त­मे­त­त्स्फु­ट­यति –
त्रिः प्रथ­मा­मि­त्या­दिना ।
सामिधेन्यः समिधो यदाऽध्वर्युणा हूयन्ते तदा “प्र वो वाजा अभिद्यवः”(शतपथब्राह्मणम् १।४।१।७) इत्येकादशर्चं सूक्तं होता शम्सति तासां चर्चां मध्ये प्रथमामृचं सूक्त­स्यान्त्यां चर्चं होता त्रिर­नु­ब्रू­या­दि­त्या­वृत्तिः श्रूयत इत्यर्थः ।

मन्त्राणां मनो­वृ­त्ति­त्व­मुक्त्वा मनोवृत्तीनां सदा चिद्व्या­प्त­त्वे­नैव सिद्धे­श्चि­दा­त्म­ता­माह –
तस्मादिति ।
मन्त्राणां मनो­वृ­त्ति­त्वे­त्ति­त्वे­नाऽऽ­वृ­त्ति­र्घ­टत इत्युक्तम् ।

परम्परया चिदात्मत्वेन नित्यत्वमपि घटत इत्यह –
एवं चेति ।
चैतन्यरूपत्वे सति । अन्यथेति । स्वप्र­का­चि­दा­त्म­त्वा­न­ङ्गी­कारे रूपा­दि­व­द्वि­ष­य­त्वा­द­नि­त्य­त्व­मपि प्रसज्येत । कालि­दा­सा­दि­वा­क्या­ना­म­प्ये­तेन न्यायेन नित्य­त्वा­पा­ता­द्यु­क्त्या­भा­स­मे­तत् ।

अस्त्व­नि­त्य­त्व­मिति न वाच्यमित्याह –
नैतदुक्तमिति ।
“वाचा विरूपनित्यया”(तै.सं.२-६-१२) इति श्रुत्या नित्य­त्व­स्याऽऽ­वे­दि­त­त्वा­द्वेदा नित्यत्वं युक्तं न भवतीत्यर्थः । वेदानां जडते स्वप्र­का­शे­नाऽऽ­त्म­नै­कत्वं न सम्भवति जडा­ज­ड­यो­र्वि­रो­धा­दतो मनो­वृ­त्ति­व्या­प­क­चि­दा­त्मत्वं सूचितमित्यर्थः । साक्षितया मनसि भवो मानसीनोऽक्षरे परमे व्योपकल्पे ब्रह्मणि ऋचो विधिनिषेधरूपा निषे­दु­स्ता­दा­त्म्येन व्यवस्थिता इति च मन्त्रवर्ण एकत्वं दर्शयतीत्यर्थः । अति­दे­ष्ट­व्य­वि­शे­षा­न्क­र्त­व्य­वि­शे­षा­नि­द­मेवं कर्त­व्य­मि­त्यु­प­दि­श­ती­त्यर्थः ।
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञा­न­वि­र­चि­तायां तैत्ति­री­यो­प­नि­ष­च्छा­ङ्क­र­भा­ष्य­टी­कायां ब्रह्मवल्ल्यां तृतीयोऽनुवाकः॥

वाङ्म­न­स­यो­र्वा­ङ्म­न­स­गो­च­रत्वं नोपपद्यते स्वात्मनि वृत्तिविरोधादतो वाङ्म­नो­वि­शि­ष्टा­न्म­नो­भ­या­द्वाचो मनसा सह निवर्तन्त इत्यर्थः । तस्य च मनोमयस्य ब्रह्मण उपा­स­न­फ­ल­भू­त­मा­धि­दै­वि­क­मा­नन्दं विद्वान्न बिभेति गर्भ­वा­सा­दि­दुः­खा­दि­त्यर्थः । तथाऽ­ध्य­व­सा­य­ल­क्षणं लौकिकमपि विज्ञानं ग्राह्य­मि­त्यर्थः ।
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञा­न­वि­र­चि­तायां तैत्ति­री­यो­प­नि­ष­च्छा­ङ्क­र­भा­ष्य­टी­कायां ब्रह्मवल्ल्यां चतुर्थोऽनुवाकः॥

प्रथमजत्वादिति ।
हिर­ण्य­ग­र्भा­भे­दे­ने­त्यर्थः ।

आनन्दमयः परमात्मेति वृत्ति­का­रै­रुक्तं तन्निषेधेन व्याचष्टे –
कार्य­त्म­प्र­ती­ति­रि­त्या­दिना ।
संक्रा­म­ती­त्ये­त­द­ति­क्रा­म­ती­त्य­भि­प्रा­येण व्याख्यातम् ।

प्राप्त्य­भि­प्रायं कस्मान्न व्याख्यायत इत्यत आह –
न चाऽऽत्मन एवेति ।
अन्न­म­या­दी­ना­म­ति­क्र­म­णी­य­तया प्रकृ­त­त्वा­दे­कस्य कर्तृ­त्व­क­र्म­त्वा­स­म्भ­वाच्च प्राप्तिः संक्रमणं न भवतीत्यर्थः ।

आनन्दमयस्य पर­मा­त्म­त्वा­स­म्भवे हेत्वन्तराण्याह –
शिरादीत्यादिना ।
आनन्दमयस्य पर­मा­त्म­त्व­वि­व­क्षायां मन्त्रे तस्यै­वा­स­त्त्वा­शङ्का वक्तव्या ।

तदसम्भवाच्च नाऽऽनन्दमयः परमात्मतया प्रतिपाद्यत इत्याह –
मन्त्रो­दा­ह­र­णा­नु­प­प­त्तेश्चेति ।
न हि मन्त्रो­दा­ह­र­ण­मु­प­प­द्यत इति सम्बन्धः । विशिष्टस्य विशे­ष­ण­का­र्य­त्वा­त्सु­ख्य­ह­मि­त्यु­प­ल­भ्य­मानो भोक्ताऽऽनन्दमय इत्युक्तम् ।

कथं तस्य विज्ञा­न­म­या­दा­न्त­र­त्व­मि­त्यत आह –
स चेति ।
कर्त्रपेक्षया भोक्तृ­त्व­स्यो­त्त­र­भा­वित्वं प्रसिद्धमेव श्रुत्यो­क्त­मि­त्यर्थः ।

एतत्स्फुटयति –
ज्ञान­क­र्म­णो­र्हीति ।
शरीरादिभ्य आनन्दसाधनेभ्यः सका­शा­त्सा­ध्ये­नाऽऽ­न­न्देन विशि­ष्टोऽ­न्त­र­तमः प्रसि­ध्य­ती­त्यर्थः । किञ्च प्रियं च तत्साधनं चोद्दिश्य कर्ता विज्ञानकर्मणी अनुतिष्ठति ।

तत उद्दे­श्य­त्वा­द­स्याऽऽ­न्तर्यं सिद्धमित्याह –
विद्या­क­र्म­णो­रिति ।

प्रिया­दि­वि­शि­ष्टस्य स्वप्ने साक्षि­णो­प­ल­भ्य­त्वाच्च न मुख्या­त्म­त्व­मि­त्याह –
प्रियादिवासनेति ।

यदुक्तं ज्ञानकर्मणोः फलभूत आनन्दमय इति तस्य साध्य­त्व­मौ­पा­धिकं स्वम­ता­नु­सा­रे­णाऽऽह –
आनन्द इति ।
परमिति ।

कथं तर्हि विषयसुखस्य क्षणिकत्वं सातिशयत्वं च व्यञ्च­क­वृ­त्ति­नि­ब­न्ध­न­मि­त्याह –
तद्वृ­त्ति­वि­शे­षेति ।

ब्रह्मण आनन्दस्वभावत्व एव किं प्रमाणमित्यत आह –
वक्ष्यति चेति ।

अन्तः­क­र­ण­शु­द्ध्यु­त्क­र्षा­दे­वाऽऽ­न­न्दस्य साति­श­य­त्व­मि­त्यत्र लिङ्गमाह –
एवं चेति ।
यदि विष­य­वि­शे­ष­ज­न्य­त्वे­नाऽऽ­न­न्दो­त्क­र्ष­स्तदा निष्कामस्य विष­य­वि­शे­षो­प­भो­गा­स­म्भ­वा­दा­न­न्दो­त्कर्षो न श्राव्येत । आत्म­स्व­भा­व­स्यै­वाऽऽ­न­न्दस्य व्यञ्ज­का­न्तः­क­र­ण­शु­द्ध्यु­त्क­र्षा­दे­वो­त्कर्षं इत्येवं तु सत्य­का­म­ह­त­त्वो­त्क­र्षा­दु­त्कर्षुः सम्भाव्यत इत्यर्थः । उक्तप्रकारेण विषयानन्दस्य सातिशयत्वे सति तद्वि­शि­ष्ट­स्याऽऽ­न­न्द­म­य­स्या­ब्र­ह्मत्वं सिद्धम् । सतिशयत्वेन प्रतिशरीरं भिन्नत्वात् ।

ब्रह्म तु तद­ध्या­सा­धि­ष्ठा­न­म­द्वि­ती­य­मि­त्याह –
एवं चेति ।
एतस्मिन्नप्यर्थ इति । आनन्दमयस्य प्रति­ष्ठा­भू­त­ब्र­ह्म­प्र­का­श­न­पर इत्यर्थः ।
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञा­न­वि­र­चि­तायां तैत्ति­री­यो­प­नि­ष­च्छा­ङ्क­र­भा­ष्य­टी­कायां ब्रह्मवल्ल्यां पञ्चमोऽनुवाकः॥

आनन्दमयस्य प्रकाशकोऽयं श्लोक इति केचन तान्प्रत्याह –
तं प्रतीति ।
सविशेषतया प्रत्य­क्ष­त्वा­दि­त्यर्थः । सर्वेषां साधरणत्वाच्च ब्रह्मणो व्यवहार्यत्वं सर्वान्प्रति भवेन्न च दृश्यते ततोऽपि नास्तित्वाशङ्का जायत इत्यर्थः । आक­शा­दि­का­र­ण­त्वा­दिति । भूत­वि­शि­ष्ट­स­र्व­जी­व­का­र­ण­त्वा­दि­त्यर्थः ।

कस्य सामर्थ्येन प्राप्तं प्रश्ना­न्त­र­मि­त्यत आह –
असद्ब्रह्मेतीति ।
चेच्छ­ब्दा­त्पा­क्षि­क­स­त्त्वा­व­ग­म­सा­म­र्थ्या­दि­त्यर्थः । सत्त्वं चेदुपपन्नं ब्रह्मणस्तावतैव सत्यत्वं सिध्यति सतो बाधा­स­म्भ­वा­दि­त्यर्थः । एवमर्थतेति । सत्त्वोपपादनेन सत्य­व­स्तु­वि­ष­य­ते­त्यर्थः ।

ब्रह्मणः सत्त्वसाधनं नाम­स­त्त्व­व्या­वृ­त्ति­रे­वे­त्य­भि­प्रे­त्या­स­त्त्व­श­ङ्का­मु­द्भा­व­यति –
तत्रासदेवेति ।
विप्र­ति­प­न्न­मा­का­शादि सत्पूर्वकं कार्य­त्वा­द­घ­ट­व­दिति लौकि­क­व्या­प्त्य­व­ष्ट­म्भेन सत्कारणं तावत्सिद्धम् । तस्य च देशादिकारणत्वेन देशा­द्य­न­व­च्छि­न्न­त्वा­द्ब्र­ह्म­प­द­वा­च्यत्वं सिद्धम् । तस्य विशे­ष­तोऽ­नु­प­ल­म्भे­ना­स­च्छङ्का जायते । सा कारणत्वेन व्याव­र्त्य­तेऽ­नेन तु कार­ण­त्वा­त्सत्त्वं साध्यत आश्र­या­सि­द्धि­प्र­स­ङ्गा­दिति भावः ।

इतोऽपि जगदुपादाने नासत्त्वाशङ्का कार्येत्याह –
न चासत इति ।
न्यायत इति । आस­द­न्व­या­द­र्श­ना­दिति युक्तित इत्यर्थः ।

अव­म­स­त्त्वा­शङ्कां निर­स्या­चे­त­न­त्वा­शङ्कां प्रधानवादिनः प्रस­ङ्गा­न्नि­रा­चष्टे –
तद्यदीति ।

यद्यपि साङ्ख्यमते चेतनस्य निर्वि­का­र­त्वा­त्का­म­यि­तृ­त्व­म­सिद्धं तथाऽपि लौकि­क­व्या­प्ति­ब­लेन काम­यि­तृ­त्वा­द­चे­त­न­त्व­शङ्का निवर्त्यत इत्याह –
न हीति ।

तर्हि लौकि­क­व्या­प्ति­ब­ले­नै­वा­ना­प्त­का­म­त्व­मपि प्राप्त मित्या­श­ङ्क्याऽऽह –
काम­यि­तृ­त्वा­दि­त्या­दिना ।
जीवा­ना­म­ना­प्ता­न­न्दत्वं परवशत्वान्न तदस्ति ब्रह्मण इत्यर्थः ।

कथंभूतास्तर्हि ब्रह्मणः कामा इत्याशङ्कायामाह –
सत्यज्ञानलक्षणा इति ।

सत्यज्ञान–
नं
लक्षणं स्वरूपं येषां ते तथोक्ताः ।
एतदुक्तं मवति , माया­प्र­ति­बि­म्बितं हि ब्रह्म जगतः कारण मायापरिणामैरेव कामैः कामयितृ । तेषां च परि­णा­मा­ना­म­वि­द्या­द्य­न­भि­भू­त­चि­द्व्या­प्त­त्वा­त्स­त्य­ज्ञा­ना­त्म­कत्वं ब्रह्म­ता­दा­त्म्या­च्चा­ध­र्म­द्य­न­नु­स्पृ­ष्ट­त्वेन शुद्धत्वम् । ततो जोव­का­म­वै­ल­क्षण्यं सिद्धमिति ।

तर्हि ब्रह्मणः कामाः पुण्य­का­रि­णा­म­प्य­नि­ष्ट­फ­ल­प्रा­प्त्य­नु­कूलाः स्युः स्वात­न्त्र्या­दि­त्या­श­ङ्क्याऽऽह –
तेषां त्विति ।

कामस्य शरी­रा­दि­स­म्ब­न्ध­ज­न्य­त्व­प्र­सि­द्धे­र्ब्र­ह्मणः शरी­रा­दि­म­त्त्व­प्र­सङ्ग इति नाऽऽश­ङ्क­नी­य­मि­त्याह –
साध­ना­न्त­रा­न­पे­क्ष­त्वाच्चेति ।
कामसंस्कारवत्या मायया ब्रह्म­ता­दा­त्म्या­त्त­त्प­रि­णा­मानां कामानां ब्रह्म­ता­दा­त्म्यान्न शरी­रा­दि­नि­मि­त्ता­पे­क्षाऽ­स्ती­त्यर्थः ।

तद्द्वारेणैवेति ।
नाम­रू­प­श­क्त्या­त्म­क­मा­या­प­रि­णा­म­द्वा­रे­णैव ।

नाम­रू­प­श­क्त्या­त्मिका जडरूपा मायाऽङ्गीकृता चेत्तर्हि सा प्रधा­न­व­त्पृ­थ­क्स­ती­त्य­द्वै­त­हा­नि­रि­त्या­श­ङ्क्याऽऽह –
न हीति ।
आत्मातिरिक्तं किं स्वतः सिध्यति परतो वा ? नाऽऽद्यः । जाड्य­हा­ने­र­ति­रे­क­हा­नेश्च । न द्वितीयः । प्रमा­सं­स­र्गा­नि­रू­प­णात् । न च भिन्नदेशकालयोः संयोगादि सम्भवति विषयविषयिभावो वा । नियामकगवेषणात् । न च स्वभाव एव सम्बन्धः । द्वयोः स्वभावयोः सम्ब­न्ध­त्वे­नै­वो­प­क्षये सम्ब­न्ध्य­भा­व­प्र­स­ङ्गात् । न हि स्वात्मानं प्रति स्वस्यैव सम्ब­न्धि­त्व­मा­त्मा­श्र­या­पा­तात् । तथाविधार्थाभावे व्यव­हा­र­मा­त्र­प्र­व­र्त­कत्वे च मिथ्या­व्य­व­हा­रा­पा­ता­द­नि­र्व­च­नी­य­वाद एव पर्यस्यतीति भावः ।

यस्मा­दा­त्मा­ति­रिक्तं वस्तु न सम्भाव्यते तस्मा­दा­त्म­ता­दा­त्म्ये­नैव नामरूपयोः सिद्धिरित्याह –
अत इति ।

तर्हि ब्रह्मणः सप्र­प­ञ्च­ता­प्र­सङ्ग इति न वाच्यमित्याह –
न ब्रह्मेति ।
न ब्रह्म तादा­त्म्य­क­म­ज­ड­त्वा­त्त­त्प­रि­हा­रे­णापि सिद्धि­स­म्भ­वा­दि­त्यर्थः ।

कथं तर्हि ते ब्रह्मात्मके तत्राऽऽह –
ते तदिति ।
स्वप्ना­व­बु­द्ध­न­भो­भ­क्ष­ण­व­दा­रो­पि­त­स्या­नु­भ­व­प्र­त्या­ख्या­नेन सिद्ध्य­स­म्भ­वा­द­नु­भाव्ये नामरूपे अनु­भ­वा­त्म­क­ब्र­ह्मा­त्मके कथ्येते न त्वैक्या­भि­प्रा­ये­णे­त्यर्थः ।

न केवलं ब्रह्मणो बहुरूपत्वं मायोपाधिकं सर्व­व्य­व­हा­रा­स्प­दत्वं चेत्याह –
ताभ्यामिति ।

प्रवे­श­स्या­नि­र्वा­च्य­ता­द्यो­त­नेन जीवस्य ब्रह्मात्मतायां प्रवेशवाक्यस्य तात्पर्यं दर्शयितुं विचारमारभते –
तत्रै­त­च्चि­न्त­मि­त्या­दिना ।
विमर्शे सति क्त्वाश्रु­त्य­नु­रो­धा­त्स्र­ष्टु­रेव प्रवेश इत्युक्तं सिद्धान्तिना ।

पूर्ववाद्याह –
ननु न युक्तमिति ।
सृष्टि­प्र­वे­श­क्रि­ययोः पूर्वा­प­र­का­ली­न­त्व­स­म्भवे सति कर्त्रैक्यं क्त्वाश्रुत्या बोध्येत न तु प्रवे­श­स्यो­त्त­र­का­लता सम्भवति । सृष्टिसमय एवोपादानस्य कार्या­त्म­नाऽ­व­स्थि­त­त्वा­दि­त्यर्थः ।

एतदेव विवृणोति –
कारणमेव हीति ।
अप्रविष्टे यथा मठादौ देवदत्तस्य प्रवेशो दृष्टस्तथा कार्यो­त्प­त्ते­रूर्ध्वं पृथक्प्रवेशो न सम्भवतीत्यर्थः ।

सिद्धा­न्त्ये­क­दे­शिनां मतमुद्भाव्य पूर्ववादी दूषयति –
यथा घट इत्यादिना ।

स्रष्टुरन्यस्य वा प्रवेशो न सम्भवतीति चेत्कथं तर्हि प्रवेशो वाच्य इति सिद्धा­न्त्ये­क­दे­श्याह –
कथमिति ।
नास्त्येवेति न वक्त­व्य­मि­त्या­ह­यु­क्त­श्चेति ।

स एवाऽऽह गतिं –
सावयवमेवेति ।

पूर्ववादी दूषयतो –
नाशून्यत्वादिति ।
कार्यात्मना परिणतस्य ब्रह्मणो नामरूपात्मकं कारमेव देश­स्त­द्व­ति­रे­केण न ह्यन्यः प्रदेशोऽस्तीति ।

यत्कारणमेव कार्याकारेण परिणतं तत्प्रति कार्यविशेषो जीवात्मा प्रवेक्ष्यतीति न शङ्कनीयमित्याह –
कारणमेव चेदिति ।

कार्यविशेषस्य प्रवे­श­म­ङ्गी­कृत्य दूषणमुक्तं स न सम्भवति श्रुति­वि­रो­धा­दि­त्याह– –
तदेवेति ।
कारणपरामर्शकेन तच्छब्देन कार्यमुपलक्ष्य कारान्तरस्य तत्र विधी­य­तेऽ­प्रा­प्त­दे­श­स­म्भ­वात् ।

अतो न श्रुतिविरोध इति सिद्धा­न्तै­क­दे­शि­म­त­मु­द्भाव्य दूषयति –
कार्या­न्त­र­मे­वे­त्या­दिना ।

कारणवाचकेन तच्छब्देन कार्य­ल­क्ष­णा­या­म­वि­व­क्षि­त­ल­क्षणा चेत्प्रसज्येत तर्हि कारणपर एव तच्छ­ब्दोऽ­स्त्वि­त्या­ह्यन्यः सिद्धान्तैकदेशी –
बाह्येति ।

अस्मिन्पक्षे प्रवे­श­श्रु­ते­र्मु­ख्यार्थो न लभ्येतेत्याह –
न बहिष्ठेति ।

अन्यस्य वेदान्तिनो मतमुद्भाव्य दूषयति –
जल इत्यादिना ।

एवं सिद्धा­न्तै­क­दे­शीयं निरस्य पूर्व­वा­द्यु­प­सं­ह­रति –
एवं तर्हीति ।

नैवास्ति प्रवेशो ब्रह्म­ण­स्त­तोऽ­न्य­स्यापि प्रवेशो न सम्भ­व­ती­त्यु­क्त­मि­त्याह –
न चेति ।

इतरस्यापि प्रवेशः कल्पयितुं न शक्यत इत्याह –
तदे­वा­नु­प्रा­वि­श­दिति ।
सा च श्रुतिः स्रष्टुः प्रवेशमाह । सा चास्माकं मीमांसकानां प्रमाणं तत­स्त­द्वि­रो­धे­ना­न्यस्य प्रवे­श­क­ल्प­नाऽ­यु­क्तेति भावः ।

तर्हि श्रुतिशरणतयैव ब्रह्मण एव प्रवेश उच्य्य­ता­मि­त्या­श­ङ्क्याऽऽह –
न चेति ।

तस्मादन्धो मणि­म­वि­न्द­दि­ति­व­द­र्थ­शू­न्य­मे­वेदं वाक्यमिति निगमयति –
हन्तेति ।
शक्ति­गो­च­र­स्या­र्थ­स्या­स­म्भ­वा­द­र्थ­शू­न्यत्वं तात्पर्यगोचरस्य वा ? नाऽऽद्यः ।

आका­शा­दे­र­वि­प्र­कृ­ष्ट­दे­शेऽपि जलेऽमूर्तस्य प्रति­बि­म्ब­भा­व­व­द­मू­र्त­स्यापि ब्रह्म­णोऽ­नि­र्वा­चा­वि­द्यासु प्रतिबिम्बितस्य सृष्ट्यु­त्त­र­का­ल­म­न्तः­क­र­णा­दिषु प्रति­बि­म्ब­भा­व­स­म्भ­वा­दि­त्याह –
नेति ।

न द्वितीय इत्याह –
अन्या­र्थ­त्वा­दिति ।

एतत्स्फुटयति –
किम­र्थ­मि­त्या­दिना ।
अतः परमिति । बुद्धि­गु­हा­प्र­वे­शा­द­न­न्त­र­मा­न­न्द­मय एव विशिष्टोऽर्थो विशेष्यस्य चिद्धा­तो­र्लिङ्गं विशिष्टस्य विशे­ष्या­व्य­भि­चा­र­द­र्श­ना­त्त­द­धि­ग­म­द्वा­रे­णाऽऽ­न­न्द­वि­वृ­द्ध्य­व­सान आत्मा ब्रह्म­रू­पोऽ­स्या­मेव गुहा­या­म­धि­ग­न्तव्य इत्यभिप्रेत्य जले सूर्य­प्र­वे­श­व­द­नि­र्वाच्यः प्रवेशोऽभिधीयत इत्यर्थः ।

बुद्धिगुहायामेव ब्रह्मण उप­ल­ब्धि­स­म्भ­वा­त्त­त्रैव प्रवे­शोऽ­भि­धि­त्सित इत्याह –
न हीति ।

नन्व­न्य­त्रो­प­ल­ब्ध्य­नर्हं ब्रह्म बुद्धौ वा कथमुपलभ्यत इत्या­श­ङ्क्यो­प­धे­र्यो­ग्य­ता­वि­शे­षा­स­म्भ­वा­दि­त्याह –
विशेषेति ।
सन्निकर्षादीति । अन्तः­क­र­ण­सं­स­र्गा­देव देहघटादिषु चैत­न्या­भि­व्य­क्तिर्न स्वतः । अन्तःकरणं चाव्यवधानेनैव चैत­न्या­भि­व्य­ञ्च­क­म­न्व­य­व्य­ति­रे­का­भ्या­मि­त्यर्थः ।

यथा चास्व­च्छ­स्व­भा­वके घटादौ मुखं न प्रतिबिम्बते जलादौ स्वच्छस्वभावके प्रतिबिम्बते तथा सत्त्व­प्र­धा­न­स्या­न्तः­क­र­णस्य प्रसा­द­स्वा­भा­व्या­द्घ­टते तत्र ब्रह्मो­प­ल­ब्धि­रि­त्याह –
अव­भा­सा­त्म­क­त्वा­च्चेति ।

किञ्च यथा जाड्यसाम्येऽपि तमो­ल­क्ष­णा­व­र­णा­भि­भ­व­स­मर्थ आलो­कोऽ­ङ्गी­क्रि­यते तथा जाड्य­सा­म्येऽ­प्य­न्तः­क­र­ण­स्यैव प्रत्य­या­का­र­प­रि­ण­त­स्या­ज्ञा­न­ल­क्ष­णा­व­र­णा­भि­भ­व­सा­म­र्थ्य­म­ङ्गी­क­र्त­व्य­मि­त्याह –
यथा चेति ।
निलानं गृह­प्रा­सा­दा­दि­मू­र्त­स­न्नि­वे­श­वि­शे­षोऽ­व­य­व­सं­स्था­न­वि­शे­ष­रा­हि­त्य­म­नि­ल­य­नम् ।

अनि­रु­क्त­त्वा­द्य­मू­र्तं­ध­र्म­श्चे­द्ब्र­ह्मण एव किं न स्यादित्यत आह –
त्यद­नि­रु­क्ता­नि­ल­य­ना­नीति ।

“तत्स­त्य­मि­त्या­च­क्षत”(तै. उ. २ । ६ । १) इत्य­स्यो­प­प­त्ति­माह –
यस्मादिति ।

पदानि व्याख्याय प्रकृ­ता­नु­प्र­श्न­नि­रा­क­रणे प्रकरणस्य तात्पर्यं “सोऽकामयत”(तै. उ. २ । ६ । १) इत्या­दे­र्द­र्श­यति –
अस्ति नास्तीत्यादिना ।
तस्या बुद्धिगुहायाः अहं कर्ता भोक्तेत्यादयस्त एवा­व­भा­स­वि­शे­षा­स्तै­र्व्य­ज्य­मानं विशिष्टस्य विषयत्वेऽपि स्वरू­प­स्या­वि­ष­य­त्वा­दि­त्यर्थः ।
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञा­न­वि­र­चि­तायां तैत्ति­री­यो­प­नि­ष­च्छा­ङ्क­र­भा­ष्य­टी­कायां द्विती­य­ब्र­ह्म­वल्ल्यां षष्ठोऽनुवाकः॥

सुकृतमिति ।
क्तप्रत्ययः सुष्ठु क्रियत इति कर्माभिधायकोऽपि च्छान्दस्या प्रक्रियया सुष्ठु करोतीति कर्तरि व्याख्यातः ।

एका­र्थ­वृ­त्ति­त्वे­नेति ।
एक­प्र­यो­ज­न­सा­ध­न­त्वेन पर­स्प­रा­य­त्त­ते­त्यर्थः ।

अन्यत्रेति ।
गृहप्रासादादिषु स्वतन्त्रं गृहाद्यनारभ्यं स्वामिनमन्तरेण संह­न­न­स्या­द­र्श­ना­त्क­र्य­क­र­ण­स­ङ्घा­तेऽपि विलक्षणः स्वामी शरी­रो­प­च­या­दि­भि­रु­प­च­या­दि­र­हि­तोऽ­व­ग­म्यते । स च चेतनत्वेन भेदा­भा­वा­द्ब्र­ह्मै­वेति तद­स्ति­त्व­सि­द्धि­रि­त्यर्थः ।

दासोऽयं तस्य देवस्य ममाऽऽराध्यः परमेश्वर इति भेदं विद्वान्कथमज्ञ इत्युव्यते तत्राऽऽह –
असौ योऽयमिति ।
यथा चन्द्रभेदं पश्य­न्न­प्य­वि­द्वा­नु­च्य­तेऽ­त­त्त्व­द­र्शि­त्वा­त्त­थे­त्यर्थः ।

कथं तर्हि तस्य भयसम्भावनेत्यत आह –
उच्छेदेति ।
संहर्ता हि परमेश्वरो मां संहरिष्यति नरके वा निक्षेप्स्यतीति पश्यतो भयं भवतीत्यर्थः ।

ब्रह्मै­वो­च्छे­द­हेतुः कुत इत्यत आह –
अनुच्छेद्यो हीति ।
उच्छे­द­हे­तो­र­प्यु­च्छे­द­त्वेऽ­न­व­स्था­प्र­स­ङ्गा­न्नि­त्यत्वं वक्तव्यं तच्च ब्रह्मणो नान्यस्य सम्भाव्यत इत्यर्थः ।
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञा­न­वि­र­चि­तायां तैत्ति­री­यो­प­नि­ष­च्छा­ङ्क­र­भा­ष्य­टी­कायां ब्रह्मवल्ल्यां सप्तमोऽनुवाकः॥

तच्च भयकारणं ब्रह्माऽऽ­न­न्द­रू­प­मुक्तं यदेष आकाश आनन्दो न स्यादिति । तत्राऽऽनन्दश्च लोके जन्यः प्रसिद्धस्ततो विचारमारभते –
तस्या­स्ये­त्या­दिना ।

ब्रह्मानन्दस्य चेन्मीमांसा प्रस्तुता किमर्थस्तर्हि सार्व­भौ­मा­न­न्दा­द्यु­प­न्या­स­स्त­त्राऽऽह –
तत्र लौकिक इत्यादिना ।
लौकिक आनन्दः क्वचित्काष्ठां प्राप्तः साति­श­य­त्वा­त्प­रि­मा­ण­व­दिति ब्रह्मा­न­न्दा­नु­मा­नार्थो लौकिकोपन्यास इत्यर्थः । विषयेभ्यो व्यावृत्ता व्यावृत्तविषया अवि­ष­य­ब्र­ह्मा­त्मै­क­त्व­द­र्शि­न­स्त­द्बु­द्धि­गो­चर इत्यर्थः ।

प्रकारान्तरेण ब्रह्मा­न­न्दा­नु­ग­म­माह –
लौकि­कोऽ­पी­त्या­दिना ।

मनु­ष्य­ग­न्ध­र्वा­न­न्द­स्यो­त्कृ­ष्टत्वे निमित्तमाह –
ते ह्यन्त­र्धा­ना­दीति ।

प्रथ­म­म­का­म­ह­ता­ग्र­ह­णस्य तात्पर्यमाह –
प्रथममिति ।
यदि प्रथमपर्याय एवाकामहतो गृह्येत तदा तस्यैव सार्वभौमानन्देन तुल्य आनन्दः स्यात्तदा च व्याघातो भवेत् । मानुषानन्दे निस्पृहो मानु­षा­न­न्द­भो­ग­भागी चेति । ततो मनु­ष्य­ग­न्ध­र्वा­न­न्देन तुल्यमानन्दं तस्य दर्शयितुं प्रथमपर्याये तद­ग्र­ह­ण­मि­त्यर्थः । अवृ­जि­न­त्व­म­पा­पत्वं यथोक्तकारित्वं तत्सा­धु­प­दा­ल्ल­भ्यत इत्यर्थः । त्रयस्त्रिंशत् - अष्टौ वसव , एकादश रुद्रा , द्वादशाऽऽदित्या , इन्द्रः , प्रजापतिश्चेति ।

यदर्थं मीमांसाऽऽरब्धा तस्य निरतिशयानन्दस्य सिद्धौ वाक्यतात्पर्यं दर्शयितुमाह –
तस्या­का­म­ह­त­त्वेति ।
तस्य ब्रह्मणो हिरण्यगर्भस्य आन­न्द­स्त­दु­पा­स­क­प्र­त्यक्षो यस्य मात्रा स एष परमानन्दः स्वाभाविक इति सम्बन्धः ।

हिर­ण्य­ग­र्भा­न­न्दस्य मात्रात्वे श्रुत्यन्तरं प्रमाणयति –
एतस्यैवेति ।
न केवलं हिरण्यगर्भानन्द एव मात्रा यश्च प्रागुपन्यस्तः सार्व­भौ­मा­द्या­नन्दः स एष यस्य मात्रा प्रविभक्ता नानात्वमापन्ना सती यत्र निर­ति­श­या­न­न्देऽ­का­म­ह­त­ब्र­ह्म­वि­त्प्र­त्यक्षे कैवल्य एकतां गतेति योजना ।

अका­म­ह­त­प्र­त्य­क्ष­त्वा­भि­धा­ना­द्भे­द­प्रातिं निरस्यति –
आन­न्दा­न­न्दि­नो­श्चेति ।
प्रत्य­क्ष­त्वा­भि­धा­न­म­ज्ञा­न­सं­श­या­दि­व्य­व­धा­ना­भा­वा­भि­प्रायं न तु विष­य­वि­ष­यि­भा­वा­भि­प्रा­यम् । “अदृ­श्येऽ­नात्म्ये”, “उदरमन्तरं कुरुत”(तै. उ. २ । ७ । १) इत्यादिना निषेधादित्यर्थः । मीमांसया निरतिशयानन्दं ब्रह्मास्तीति निर्धारितम् । तस्या­का­म­ह­त­प्र­त्य­क्ष­त्वा­भि­धा­ना­द­भे­द­सिद्धिः । न हि परमानन्दः परस्य प्रत्यक्षो भवति । तस्मा­न्नि­र­ति­श­या­न­न्द­ब्र­ह्मै­कत्वं जीवस्य “ब्रह्म­वि­दा­प्नोति परम्”(तै. उ. २ । १ । १) इत्युपक्रान्तं मीमांसया च सिद्ध­मु­प­सं­ह्रि­यत इत्यर्थः ।

आदि­त्य­ग्र­ह­ण­स्याऽऽ­धि­दै­वि­को­पा­धि­ल­क्ष­णा­र्थ­स्या­वि­व­क्षि­तत्वं दर्शयितुं चोद्यमुद्भावयति –
नन्विति ।
“य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षि­णेऽ­क्ष­न्पु­रुषः”(बृ. उ. ५ । ५ । २) इत्यादौ श्रुत्यन्तरे मण्डलस्थस्य दक्षि­णा­क्षि­स्ये­नै­क्यस्य प्रसि­द्ध­त्वा­दि­हा­प्या­दि­त्य­स्थे­नै­क्य­नि­र्देशे दक्षि­णा­क्षि­ग्र­हणं युक्तमित्यर्थः ।

अध्यात्ममधिदवतं च लिङ्गा­त्मो­पा­स­न­वि­व­क्षायां तथा तद्वि­व­क्षि­त­मि­त्याह –
न परेति ।
य एव चिद्धा­तु­र्नि­र­ति­श­या­नन्द उत्कृष्टोपाधौ प्रतिबिम्बितः स एव निकृष्टोपाधौ शिरःपाण्यादिमति पुरुषे प्रतिमिम्बित इति पर­मा­न­न्द­म­पेक्ष्य समत्वं विशिष्टयोः स्वभावैक्यं विव­क्षि­त­मि­त्यर्थः ।

वृत्ता­नु­वा­च­पू­र्व­क­मु­त्त­र­ग्र­न्थ­म­व­ता­र­यति –
अस्ति नास्तीति ।
सन्दिग्धं सप्रयोजनं च विचारमर्हति ।

अत्र च कस्मिन्पक्षे को दोषः को वा लाभ इत्याह –
किं तत इति ।

उभयत्रानुपपतिं संशयकारणमाह –
यद्यन्यः स्यादिति ।

चोद्यमुखेन संशयव्यावुत्तिं प्रयोजनमाह –
यद्यु­भ­य­थे­त्या­दिना ।
एतदेव मम विचारारम्भकस्य स्वस्त्ययनं कल्याणं यन्मा­मे­क­त्व­वा­दिनं त्वमात्थ ब्रूषेऽ­प्र­ति­प­न्न­व­स्तु­वा­दि­त्वा­द­ने­क­त्व­वा­दि­नोऽ­प्ये­कस्य वस्तुनः सम­त­त्वा­द­ने­क­व­स्तु­वा­दि­नश्च बहवः प्रतिपक्षः सन्ति ममेत्यर्थतोऽपि कल्या­ण­म­ने­क­त्व­स्या­न्यो­न्या­श्र­या­दि­दो­ष­दु­ष्ट­त्वा­त्पू­र्व­प­क्ष­नि­रा­क­र­णेन सिद्धा­न्तो­प­प­त्ते­श्चे­त्यर्थः ।

विचा­रा­र­म्भ­मु­प­पाद्य सिद्धा­न्त­मु­प­क्र­मते –
स एव तु स्यादिति ।
औपा­धि­क­भे­द­भि­न्नोऽ­प्ये­वं­वि­त्स्वतः पर एव स्यादित्यर्थः ।

अवि­द्या­ध्या­रो­पि­ता­ब्र­ह्म­त्व­व्या­वृ­त्ति­रेव ब्रह्म­प्रा­प्ति­र्वि­व­क्षि­तेति फल­वा­क्य­स्यै­व­म­र्थता कथमवगम्यते न पुन­र­प्रा­प्त­प्रा­प्ति­रि­त्याह –
कथमिति ।

परिहरति –
विद्यामात्रेति ।

अन्य­थाऽ­प्यु­प­पतिं शङ्कते –
मार्गेति ।
गन्तुः स्वतो ग्राम­त्वा­भा­वेऽपि यथा मार्ग­ज्ञा­नो­प­देशः सार्थकस्तथा जीवस्य स्वतो ब्रह्म­त्वा­भा­वेऽपि विद्योपदेशः , अभ्यासद्वारेण ब्रह्म­प्रा­प्ति­हे­तु­त्वा­दि­त्यर्थः । त्वं ग्रामोऽसीति न तत्रोपदेशः ।

अत्राभेदोपदेशः प्रतीयतेऽत उपदेशवैषम्यान्न दृष्टान्तो युक्त इत्याह –
न वैधर्म्यादिति ।

यदि विदुषः सकाशादन्य ईश्वरो भयहेतुर्नास्ति का तर्हि गति­र्व्य­ति­रि­क्ते­श्व­र­द­र्श­न­स्ये­त्या­श­ङ्क्याऽऽह –
अन्यस्य चेति ।
कल्पि­त­भे­द­वि­शि­ष्ट­रू­पे­णे­श्व­र­स्या­वि­द्या­कृ­तत्वे मिथ्यात्वे सति विद्यया तत्रा­व­स्तु­त्व­द­र्श­न­मु­प­प­द्यते । ईश्वरो मम प्राशास्तेति मिथ्यैतद् , यतस्तस्य मम चैकात्म्यमेव परमार्थमिति विद्वदृष्ट्या विशि­ष्ट­स्या­स­त्त्व­मि­त्यर्थः ।

दृष्टान्तेन वैषम्यं शङ्कते –
नैवमिति ।
यथा चन्द्रै­क­त्व­द­र्श­ना­द्द्वि­ती­य­श्चन्द्रो न गृह्यते नैवं ब्रह्मविदा न गृह्यते व्यति­रि­क्ते­श्वरः । प्रति­नि­य­त­प्र­प­ञ्चा­व­भा­सस्य भोज­ना­दि­प्र­वृ­त्त्य­नु­प­पत्त्या जीव­न्मु­क्त­स्या­प्य­भ्यु­प­ग­मा­त्प्र­प­ञ्च­प्र­ति­नि­य­मस्य चेश्व­रा­धी­न­त्वा­भ्यु­प­ग­मा­दि­त्यर्थः । यद्यपि जागरे व्यति­रे­का­भा­स­द­र्शनं विदुषस्तथाऽपि न तद्भयकारणं न हि मायावी स्ववि­र­चि­त­व्या­घ्रा­भा­सा­द्बि­भेति ।

अविदुषोऽपि व्यतिरेकदर्शनं न सदातनमित्याह –
न सुप्तेति ।

सुषुप्ते व्यति­रे­का­ग्र­ह­ण­म­स­त्त्व­सा­धकं न भवतीत्याह –
सुषुप्त इति ।
यथेषुकार इष्वा­स­क्त­म­न­स्तया तद्व्यतिरिक्तं विद्यमानमपि न पश्यति सुषुप्तेऽपि निद्रा­सु­खा­स­क्त­तया सदपि द्वितीयं न पश्यति न त्वाभा­वा­दि­त्यर्थः ।

अनासक्तस्य तद्व्य­ति­रि­क्ता­द­र्श­नेऽपि तद्द­र्श­न­मे­वास्ति सुषुप्ते तु न किञ्चि­द­ज्ञा­सि­ष­मिति प्रत्य­या­त्सु­ख­स्या­प्या­त्म­ता­दा­म्त्य­द­ज्ञा­नस्य च व्यक्तिरिक्तत्व निर्व­च­ना­द­त­स्ता­त्त्वि­क­द्वि­ती­या­भा­वा­दे­वा­ग्र­ह­ण­मि­त्याह –
न सर्वग्रहणादिति ।

सुषुप्ते चेद­नु­प­ल­म्भा­द­सत्त्वं तर्हि जाग्र­त्स्व­प्न­यो­रु­प­ल­म्भा­द्द्वै­तस्य सत्त्वं किं न स्यादित्याह –
जाग्रदिति ।

अना­त्मा­दा­वा­त्म­त्वा­दि­बु­द्धि­र­विद्या तद्भाव एव द्वैतो­प­ल­म्भा­न्नो­प­ल­म्भ­मात्रं सत्त्व­सा­ध­क­म­न्यथा शुक्ति­रू­प्या­दे­रपि सत्त्व­प्र­स­ङ्गा­दि­त्याह –
नाविद्येति ।

पूर्ववाद्याह –
सुषुप्त इति ।
सुषुप्ते द्विती­य­स्या­ग्र­ह­ण­मपि लय­रू­पा­वि­द्या­कृतं न तु भेदा­भा­व­नि­ब­न्ध­न­मतो यदुक्तं सुषुप्ते सर्वा­त्म­क­ब्र­ह्म­भूतो जीवः स्वव्य­ति­रि­क्त­म­भा­वा­देव न पश्यतीति तदसदित्यर्थः । सतोऽपि द्विती­य­स्या­वि­द्या­व­शा­द­ग्र­ह­ण­मिति कोऽर्थः । किं ग्रहणप्रागभवो जायत उताप्रकाशारोपः किंवाऽ­ग्र­ह­णा­का­रा­वि­कृ­त­स्व­रू­पा­व­स्था­नम् ? नाऽऽद्यः । प्राग­भा­व­स्या­ना­दि­त्वा­भ्यु­प­ग­मात् । न द्वितीयः । परै­र्द्वि­ती­य­स्या­स्व­प्र­का­श­ता­स्वा­भा­व्या­भ्यु­प­ग­मे­ना­प्र­का­शा­रो­पा­न­भ्यु­प­ग­मा­द­प्र­का­शा­रोपे च सर्वस्य स्वप्र­का­श­ब्र­ह्मा­त्म­तया अभ्यु­प­ग­न्त­व्य­त्वे­ना­स्म­त्स­मी­हि­त­सि­द्धि­प्र­स­ङ्गात् ।

न तृतीय इत्याह –
न स्वाभा­वि­क­त्वा­दिति ।
अवि­कृ­त­स्व­रू­पा­व­स्थानं नावि­द्या­का­र्य­म­ना­ग­न्तु­क­त्वा­दि­त्यर्थः ।

एतत्स्फुटयति –
द्रव्यस्य हीत्यादिना ।
सन्मात्रं द्रव्यमुच्यते स्वात­न्त्र्य­सि­द्ध्य­भि­प्रा­येण , न वैशे­षि­का­भि­प्रा­येण क्रिया­व­द्गु­ण­व­त्स­म­वा­यि­का­रण द्रव्यं मानाभावादिति द्रष्टव्यम् । अविक्रियेति । विक्रि­या­भा­वो­प­लक्ष्यं स्वरूपमनपेक्ष्य सिद्ध­त्वा­दि­त्यर्थः । ग्रह­णा­दि­वि­क्रिया न स्वाभाविकी परा­पे­क्ष­त्वा­त्स्फ­टि­क­लौ­हि­त्य­व­दि­त्यर्थः ।

यदुक्तमनपेक्ष्य सिद्ध­त्वा­द­वि­क्रि­य­त्व­मिति तत्स्फुटयति –
यद्दीति।

एवं स्वमते चित्स­त्ता­व्य­ति­रि­क्ते­श्व­रस्य भयहेतोरभावादभयं विदुषः सम्भ­व­ती­त्यु­प­पाद्य द्वैतीयपक्षे तदसम्भवमाह –
येषामिति ।
सतोऽन्यस्य स्वरूपे स्थिते नष्टे वा मा भूद्ध्वंसो व्याघा­ता­द­न­व­स्था­नाच्च तर्ह्यसत एव ।

भय­स्यो­त्पा­देऽ­भ­य­प्रा­प्ति­र्भ­वि­ष्य­ती­त्या­श­ङ्क्याऽऽह –
न चासत इति ।
व्यति­रि­क्ते­श्व­रस्य सत्तामात्रेण न भयहेतुत्वं किन्तु प्राणि­कृ­त­ध­र्मा­ध­र्मा­द्य­पे­क्षस्य , मुक्तस्य तु तदभावादभयं भवि­ष्य­ती­त्या­शङ्क्य नैतत्साङ्ख्येन वाच्यम् ।

अधर्मादेरपि सत­स्ते­ना­त्य­न्ता­स­त्त्वा­न­ङ्गी­का­रा­न्नै­या­यि­का­दि­म­तेऽपि सति हेतौ कार्या­त्य­न्ता­भा­वस्य दुख­धा­र­ण­त्वा­त्ते­नापि न वाच्यमित्याह –
न तस्यापीति ।

किञ्च सच्चे­द­स­त्त्व­मा­प­द्य­तेऽ­ध­र्मा­दिकं तर्ह्यात्मन्यपि कः प्रश्वा­स­स्त­स्मा­त्स्व­भा­व­वै­प­रीत्यं सतोऽसत्त्वगमनं कस्यापि मते न घटत इत्याह –
सदसतोरिति ।

स्वमतं निगमयति –
एकत्वपक्ष इति ।

अविद्याकल्पितं भयं विद्यया निवर्तत इति वदता विद्या­वि­द्य­यो­रा­त्म­ध­र्म­त्व­मिष्टं ततो धर्मो­त्पा­द­वि­ना­श­यो­र्वि­का­रि­त्व­म­नि­त्यत्वं च प्रसज्येतेति शङ्कते –
विद्या­वि­द्य­यो­रिति ।

कल्पि­त­यो­र्वि­द्या­वि­द्य­यो­रा­त्मनि भया­भ­य­हे­तु­त्व­स­म्भ­वा­न्नाऽऽ­त्म­ध­र्मत्वे प्रमाणमस्ति प्रत्युत वेद्य­त्वा­द्रू­पा­दि­व­दा­त्म­ध­र्मत्वं नास्ती­त्य­नु­मातुं शक्यत इत्याह –
न, प्रत्य­क्ष­त्वा­दिति ।

चिन्मा­त्र­त­न्त्राऽ­ना­दि­र­नि­र्वा­च्याऽ­वि­द्याऽ­न्तः­क­र­ण­रू­पेण परिणमते तच्चान्तःकरणं ताम­स­सा­त्त्वि­का­व­स्था­भे­देन भ्रान्ति­स­म्य­ग्ज्ञा­ना­का­रेण परिणमते तस्मि­न्प्र­ति­बि­म्बि­त­श्चि­द्धातुः स्वोपा­धि­ध­र्मे­णैव भ्रान्तः सम्यग्दर्शीति च व्यवह्रियते न तत्त्वतो विद्या­वि­द्या­व­त्त्व­मि­त्याह –
ते च पुनरिति ।
उक्तन्यायेन ब्रह्म­वि­त्त­त्वतो ब्रह्माभिन्न इत्युक्तम् ।

तत्र परोक्तमुद्भाव्य निरस्यति –
अभेदे एतमित्यादिना ।
नाऽऽनन्दमयः परमात्मा न च तत्र प्रवेशः संक्रमणं किंत्व­वि­ष­य­ब्र­ह्मा­त्म­ता­ज्ञा­ने­नाऽऽ­न­न्द­म­य­स्याऽऽ­त्म­तया भ्रान्ति­गृ­ही­त­स्या­ति­क्र­मणं बाधोऽत्र विवक्षित इत्यर्थः ।

अन्यथा वेति ।
नीडे पक्षि­प्र­वे­श­व­द्वे­त्यर्थः ।

यद्यप्यन्नमये मुख्यं संक्रमणं न सम्भवति तथाऽपि मनो­बु­द्ध्यो­र्ब­हि­र्वि­षये प्रवृत्तयोस्ततो व्यावृत्त्य स्वरूपेऽवस्थानं संक्रमणं दृष्टं तथा दुःखिन आनन्दमयस्य स्वरूपेऽवस्थानं संक्रमणं भविष्यतीत्याह –
मनोमयस्येति ।

स्वरू­पा­व­स्था­न­स्या­ना­ग­न्तु­क­त्वा­त्प्र­क्र­म­वि­रो­धाच्च न तन्मुख्यं संक्रमणमित्याह –
नेति ।

ज्ञानमात्रत्वे वा संक्रमणस्य किं फलतीत्यत आह –
ज्ञानमात्रत्वे चेति ।
मुख्यासम्भवे गौणार्थग्रहण न्याय्य­मे­वा­तोऽ­धि­ष्ठा­न­या­था­त्म्य­प्र­ति­पत्त्या विशि­ष्ट­स्या­ध्य­स्तस्य बाधनमेव संक्रमणं फलतीति भावः ।

इतश्च न मुख्यं संक्र­म­ण­म­न्वे­ष­णी­य­मि­त्याह –
वस्त्व­न्त­रा­भा­वाच्चेति ।

संक्र­म­ण­स्यौ­प­चा­रि­कत्वं व्याख्याय प्रकरणस्य मह­त्ता­त्प­र्य­मु­प­सं­हा­र­च्छ­ले­नाऽऽह –
तस्मादिति ।
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञा­न­वि­र­चि­तायां तैत्ति­री­यो­प­नि­ष­च्छा­ङ्क­र­भा­ष्य­टी­कायां ब्रह्म­व­ल्ल्या­म­ष्ट­मोऽ­नु­वाकः॥

साध्वसाधुनी स्तः प्रकाशेते चेति सत्प्र­का­श­मा­त्र­मा­त्म­त­त्त्व­मेव तयोः स्वरूपं ततोऽतिरिक्तं यद­र्थ­न­र्थ­हे­तुत्वं नामविशेषरूपं तन्न वस्तु सत्प्र­का­शा­न्य­त्वे­ना­स­त्त्वा­द­प्र­का­श­मा­न­त्वा­च्चे­त्य­भि­प्रे­त्याऽऽह –
स्वेन विशेषरूपेणेति ।

आत्मैवाविद्यया साध्वसाधुरूपेण प्रतिपन्न आसीत् । इदानीं तु ये साध्वसाधुनी ममार्थनर्थहेतू बभूवतुस्ते आत्मैवेति ज्ञानेन स्वात्मानं साध्वसाधुकरणेन प्रीणयत्येव लोकदृष्ट्या निष्पद्यमाने पुण्यपापे दृष्ट्वा हृष्यति च विद्वान्न बिभेतीत्याह –
स्पृणुत एवेति ।
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञा­न­वि­र­चि­तायां तैत्ति­री­यो­प­नि­ष­च्छा­ङ्क­र­भा­ष्य­टी­कायां ब्रह्मवल्ल्यां नवमोऽनुवाकः॥