आनन्दगिरिटीका (तैत्तिरीय)
ब्रह्मानन्दवल्ली: प्रथमोऽनुवाकः
शान्तिद्वयस्यापौनरुक्त्यमाह –
शं नो मित्र इति ।
इदानीं परविद्यार्थिनमप्यवतु साधारण्येन मया पूर्वं प्रर्थितत्वादित्यर्थः ।
असाधारण्येन परविद्योपसर्गशान्त्यर्थमाह –
सह नाववत्विति ।
नावावयोस्तेजस्विनोरधीतं तेजस्व्यस्त्विति योजना ।
वृत्तानुवादपूर्वंकमानन्दवल्ल्यास्तात्पर्यमाह –
संहितादीत्यादिना ।
ननु यथा पूर्वमाप्नोति स्वराज्यमित्यपरविद्याफलमुक्तं संसारगोचरमेव तथा परविद्याफलमुक्तं संसारगोचरमेव तथा परविद्याफलमपि “सोऽश्नुते सर्वान्कामान्”(तै. उ. २ । १ । १) इति सर्वविषयसाध्यानन्दान् संसारगोचरानेव दर्शयिष्यति कथमात्यन्तिकः संसाराभाव इत्यत आह –
प्रयोजनं चास्या इति ।
सर्वकामशब्देन निरतिशयानन्दभिव्यक्तिर्विवक्षिता । सा च स्वभावानन्दानभिव्यक्तिरूपाविद्यानिवृत्तिरेवेति न संसारगोचरं फलमित्यर्थः ।
आद्यवाक्यस्यावान्तरतात्पर्यमाह –
स्वयमेव चेति ।
विद्ययैव केवलया मोक्षः साधयितुं शक्यते ब्रह्मविदितिविशेषणात् ।
सम्बन्धज्ञानस्य पुरुषाकाङ्क्षाविषयतया परप्राप्तिः प्रयोजनं विद्याया इति ज्ञापनस्य वा कुत्रोपयोग इत्याशङ्क्य यज्ञादिपरित्यागेन वेदान्तश्रवणादावेव मुमुक्षुणा प्रवर्तितव्यामित्यत्रेत्याह –
निर्ज्ञातयोर्हीति ।
परशब्देनोत्कृष्टमुच्यते कथं ब्रह्मेति व्याख्यायते तत्राऽऽह –
न हीति ।
आप्नोतिशब्दस्यौपचारिकमर्थं दर्शयितुं शङ्कामुखेन मुख्यार्थो बाधकमाह –
ननु सर्वगतमित्यादिना ।
परमार्थतो ब्रह्मस्वरूपस्यापि सतो जीवस्याविद्यया ब्रह्मस्वरूपस्यापि सतो जीवस्याविद्यया ब्रह्मानाप्त स्यादिति सम्बन्धः । भूतमात्राभिर्भूतांशैः कृता ये बाह्याः परिच्छिन्नाश्चान्नमयादयस्तदात्मत्वदर्शिन इत्यविद्याआ विक्षेपकत्वं स्वरूपमुक्तम् । परमार्थं ब्रह्मस्वरूपं नास्तीत्यभावदर्शनमावरणलक्षणं लिङ्गं यस्याः सा तथोक्ता ।
स्वरूपेप्यग्रहणविपर्ययौ भवत इत्यत्र दृष्टान्तमाह –
प्रकृतेति ।
प्रकृतसंख्यापूरणस्य दशमस्य नवैव वयं वर्तामह इति विपर्ययः स्वरूपादर्शनं च यथेत्यर्थः ।
अदर्शननिमित्तामनाप्तिं विविच्य दर्शननिमित्तामाप्ति विवृणोति –
तस्यैवमिति ।
आद्यं ब्राह्मणवाक्यं व्याख्यायोत्तरं मन्त्रं संक्षेपतोऽर्थकथनेनावतारयति –
ब्रह्मविदाप्नोतीत्यादिना ।
सर्वतो व्यावृत्तो यः स्वरूपविशेषस्तत्समर्पणे समर्थस्य लक्षणस्याभिधानेन स्वरूपनिर्धारणायैषर्गुदाह्रियत इति सम्बन्धः । बृहत्त्वाद्ब्रह्मेति व्युत्पत्तिबलेनास्ति किमपि महद्वस्त्वित्यविशेषेण प्रतीयते । ततो लक्ष्योद्देशेन लक्षणविधानमिति प्रसिद्धिरुपपद्यते । अव्याकृतादि ब्रह्मशब्दवाच्यतया सजातीयं , घटादि विजातीयम् । तस्मात्सजातीयविजातीयव्यावर्तकतया सत्यादिलक्षणस्य लक्षणत्वप्रसिद्धिरुपपद्यते । लक्षणाभिधानद्वारेण स्वरूपविशेषप्रतिपादने तात्पर्यमिति वाक्यस्य व्यर्थतादोषः परिहृतः ।
पूर्वत्र ब्रह्मविदित्यनेनाविशेषेणोक्तं वेदनं यस्य ब्रह्मणस्तस्य यो वेद निहितं गुहायामित्यनेन प्रत्यगात्मतया वेदनं वक्तव्यमित्येवमर्था चर्गुदाह्रियत इत्याह –
अविशेषेण चेति ।
आपातप्रतिपन्नं विशेषणविशेष्यभावमादाय पदानि विभजते –
सत्यादीनि हि त्रीणीति ।
विशेषणार्थानीति ।
व्यावृत्त्यर्थानि ।
कुतो विशेषणविशेष्यभावप्रतीतिरित्यत आह –
विशेषणविशेष्यत्वादेवेति ।
नीलं महत्सुगन्ध्युत्पलमित्यादौ सत्येव विशेषण विशेष्यभावे समानाधिकरणतयैकविभक्त्यन्तानि प्रसिद्धानेतान्यपि च तथाभूतानि नानार्थगतविशेषणविशेष्यभावनिबन्धनानीति गम्यत इत्यर्थः ।
विशेषणविशेष्यभावस्य फलमाह –
एवं हीति ।
विशेषणविशेष्यभावमाक्षिपति –
नन्विति ।
नीलत्वं व्यभिचरदुत्पलं रक्तमपि सम्भवतीति नीलं विशेषणं घटते न तथा सत्यत्वादिकं व्यभिचरद्ब्रह्मान्तरं लोके प्रसिद्धम् । ततः सजातीयस्य व्यवच्छेद्यस्याभावाद्विशेषणविशेष्यभावो न घटत इत्यर्थः ।
विशेषणविशेष्यभावस्य तात्पर्येणाप्रतिपाद्यत्वादव्याकृतादिशास्त्रीयब्रह्मपदार्थव्यवच्छेदेना निर्वाच्यविशेषणविशेष्यभावसम्भवात्तद्द्वारेण ब्रह्मलक्षणं विवक्षितमित्याह –
नेति ।
संग्रहवाक्यं विवृणोति –
नायं दोष इत्यादिना ।
सर्वत एवेति । सजातीयाद्विजातीयाच्च । यथा महाभूतत्वेन सदृशभावात्पृथिव्यादेर्विसदृशाच्चाऽऽत्मादेराकशस्य व्यावर्तकमवकाशदातृत्वमित्यर्थः।एतदुक्तं भवति – अतिव्याप्त्यादिरहितो व्यावर्तको धर्मो लक्षणमिति न्यायवैशेषिकमीमांसकाः ।ब्रह्मपदव्युत्पतिबलेन यदविशेषतः प्रतिपन्नं किञ्चिन्महदस्तीति तत्सत्यं ज्ञानमनन्तमनृतजडपरिच्छेदविरोधिस्वरूपमिति विशेषतः प्रतिपत्तव्यमिति विशेषावगतिशेषभूतं लक्षणं प्रमितिस्तु प्रमाणादेवेति । तार्किकाः पनर्लक्षणं केवलव्यतिरेक्यनुमानमाचक्षते तदा लक्षणादेव स्वभावविशेषप्रमितिः । यथा गुणवद्द्रव्यमिति लक्षणाद्गुणाश्रयत्वयोग्यस्वभावविशेषस्य प्रमितिः सामान्यप्रतिपन्नस्य द्रव्यपदाभिधेयस्य भवति । यद्वा व्यवहारसिद्धिः फलं गणवद्द्रव्यमिति व्यवहर्तव्यं गुणवत्त्वान्न यदेवं न तदेवं यथा रूपं तथा सत्यत्वादिमद्ब्रह्मेति व्यवहर्तव्यं सत्यत्वादिभावान्न यदेवं यथा घट इति । एतच्च खण्डनयुक्त्यसहमानमपि व्यवहाराङ्गं भवतीति नातीव सूक्ष्मेक्षिका कार्या ।
पुनर्विशेषविशेष्यभावपक्षमवलम्ब्याऽऽह –
सत्यादिशब्दा इति ।
सत्यं ब्रह्मेत्युक्ते जाड्यव्यावृत्तिः परिच्छेदव्यावृत्तिश्च यद्यपि लभ्यते , जडस्य परिच्छिन्नस्य सर्वस्यानृतत्वाज्ज्ञानं ब्रह्मेत्युक्ते चानृतपरिच्छेदव्यावृत्तिर्लभ्यते स्वप्रकाशस्य बाधाविषयत्वात्परिच्छेदग्राहकप्रमाणाविषयत्वाच्च लक्षणमपि चैकैकं वैकल्पिकमदुष्टं तथाऽपि मन्दमतिव्युत्पादनाय स्यात्सत्यादिपदार्थव्याख्यानपूर्वकं प्रत्येकं व्यावर्त्यमाह –
सत्यमिति यद्रूपेणेत्यादिना ।
भावसाधन इति । भावव्युत्पत्तिकः । क्रियासामान्यं यद्यप्यन्यत्र भाव उच्यते तथाऽप्यत्र निर्विशेषं चिन्मात्रं भावव्युत्पत्त्या लक्ष्यते सत्यादिशब्दसन्निधानादिति द्रष्टव्यम् ।
विशेषनिषेधः शेषाभ्यनुज्ञाविषय इति न्यायेन प्रासङ्गिकं स्वज्ञातृत्वे तात्पर्यमाशङ्क्य निषेधति –
नान्यद्विजानातीत्यादिना ।
कर्तृत्वं कर्मत्वं चैकक्रियावच्छिन्नं धर्मद्वयं भिन्नाधिकरणं प्रसिद्धम् ।
स्वात्मनि च भेदाभावान्निरूपपत्तिके स्वज्ञातृत्वे तात्पर्यं कल्पयितुं न शक्यत इत्याह –
स्वात्मनि चेति ।
सत्यादीनि व्यावृत्त्यर्थानीत्युक्तं तत्र शङ्कते –
सत्यादीनामिति ।
प्रमाणान्तरसिद्धमुत्पलादि विशेष्यं दृष्टं ब्रह्म तु प्रमाणान्तरासिद्धम् । पदमात्रस्याप्रमाणत्वात्सत्यादीनां च व्यावृत्त्यर्थत्वादसदर्थं वाक्यं स्यादित्यर्थः । सिद्धत्वमात्रेण विशेष्यत्वे सम्भवति प्रमाणान्तरविशेषणमनर्थकं , केवलव्यतिरेकाभावात् ।
मिथ्यार्थस्य रज्जुसर्पादेः सदधिष्ठानत्वदर्शनात्प्रपञ्चस्यापि दृश्यत्वादिहेतुभिर्मिथ्यात्वेनावगतस्य सदधिष्ठानत्वं सम्भाव्यते , तस्य प्रपञ्चाधिष्ठानतया सम्भावितस्य स्वरूपविशेषलक्षणार्थमिदं वाक्यं ततो नासदर्थत्वमित्याह –
न लक्षणार्थत्वादिति ।
विशेषणार्थत्वमभ्युपगम्याऽऽह –
विशेषणार्थत्वेऽपि चेति ।
नीलं महदित्यादिविशेषणपदानि स्वार्थसमर्पणेन तद्विरुद्धव्यावर्तकानि प्रसिद्धानि , तथा सत्यशब्दोऽप्यबाधितसत्त्वे व्युत्पन्नो , ज्ञानशब्दः स्वप्रकाशे विषयसंवेदने , अनन्तोऽयमाकाश इत्यादावनन्तशब्दो व्यापके । ततः स्वार्थसमर्पणेन विरोधिव्यावर्तकत्वान्न व्यावृत्तिमात्रपर्यवसानमित्यर्थः ।
किञ्च विशेषणस्य व्यावर्तकत्वं सति व्यावर्त्ये घटतेऽतो विशेषणत्वानुपपत्त्यैव सदर्थत्वं वाच्यमित्याह –
शून्यार्थत्वे हीति ।
यच्चोक्तं ब्रह्मशब्दोऽप्रसिद्धार्थ इति तत्राऽऽह –
ब्रह्मशब्दोऽपीति ।
“बृह बृहि वृद्धौ” इति धातोर्ब्रह्मेति शब्दो निष्पन्नो वृद्धौ महत्त्वे वर्तते । तच्च महत्त्वं देशतः कालतो वस्तुतश्चानवच्छिन्नत्वं सङ्कोचकमानान्तराभावान्निरतिशयमहत्त्वसम्पन्ने धर्मिणि पर्यवस्यति । ततो वन्ध्यासुतादिशब्दविलक्षणो ब्रह्मशब्द इत्यर्थः ।
सत्यादिषु त्रिषु विशेषणेष्ववान्तरभेदमाह –
तत्रानन्तेति।
अनन्तमित्यनेन चाऽऽत्मैक्यं ब्रह्मण उक्तमित्यभिप्रेत्यैक्ये शास्त्रतात्पर्य दर्शयति –
तस्माद्वावा इत्यादिना ।
ब्रह्मण आत्मैक्यं चेद्विवक्षितं तर्हि ज्ञानशब्दस्य भावसाधनत्वव्याख्यानं हीयेतेत्याह –
एवं तर्हीति ।
इतश्च भावव्युत्पत्तिरसङ्गतेत्याह –
अनित्यत्वप्रसङ्गाच्चेति ।
वत्तिमदन्तःकरणोपहितत्वेनाऽऽत्मनो ज्ञातृत्वं न स्वतः , कार्यत्वं च ज्ञानस्यान्तःकरणवृत्त्युपहितत्वेन तत आत्माभिन्नत्वेऽपि ब्रह्मणो न ज्ञानकर्तृत्वं नापि कार्यत्वं प्रसज्यत इत्याह –
न स्वरूपेति ।
नित्यं चेज्ज्ञानं तर्हि तत्र कर्तृत्वभावे कथं सर्वज्ञत्वमित्यत आह –
सर्वभावानां चेति ।
संविदव्यवधानमेव हि विषयस्य सिद्धिः । सर्व च संवित्स्वभावेन ब्रह्मणाऽव्यवहितमिति सर्वज्ञं ब्रह्मोपचर्यत इत्यर्थः ।
नित्यं ज्ञानं ब्रह्मणि विद्यत इत्यत्र मन्त्रसम्भतिमाह –
मन्त्रवर्णाच्चेति ।
ब्रह्म अनित्यं ज्ञानत्वाल्लौकिकज्ञानवदित्यादि चोद्यमप्युक्तन्यायेन निरस्तमित्याह –
विज्ञातृस्वरूपेति ।
लौकिकज्ञानस्य करणादिसापेक्षत्वादनित्यत्वम् । आत्मस्वरूपं तु ज्ञानं न करणादिसापेक्षं सकलकरणव्यापारोपरमेऽपि सुषुप्ते भावादन्यथा सुषुप्तिसिद्ध्यनुपपत्तेः परामर्शासम्भवप्रसङ्गादतः श्रुतितात्पर्यगम्येऽर्थे न सामान्यतो दृष्टस्य प्रवेश इति भावः ।
आत्मनः स्वरूपभूतं ज्ञानं कारकसाध्यं धात्वर्थत्वादिति चासिद्धमित्याह –
अत इति ।
नित्यात्मस्वरूपत्वादेवेत्यर्थः । अत एव चेति । नित्यत्वादेव ज्ञानस्य न तत्र कर्तृत्वमपि ब्रह्मण आपादयितुं शक्यते ।
लौकिकनित्यज्ञानविलक्षणत्वादेव च ज्ञानशब्दवाच्यमपि ब्रह्म न भवतीत्याह –
तस्मादेव चेति ।
कथं तर्हि विज्ञानं ब्रह्मेति प्रयोगस्तत्राऽऽह –
तथाऽपीति ।
शब्दस्य प्रवृत्तिहेतवो जात्यादिधर्मा गौः शुक्ल इत्यादौ ; तदभावच्छब्दान्तरेणापि वाच्यं न भवतीत्याह –
तथेति ।
तथा सत्यशब्देनापि न वाच्यं ब्रह्मेति शेषः ।
एतस्फुटयति –
सर्वविशेषेति ।
सत्ता यस्यास्ति तत्सत्यमिति लोकरूढिः । सत्ता चानुगतरूपं सामान्यं व्यावृत्ताः सत्ताविशेषः । स चायमनुवृत्तव्यावृत्ताभावो न वस्तु परस्परापेक्षसिद्धत्वादतो यस्मिन्नयं व्यावृत्तानुवृत्तभावः कल्पितस्तदव्यावृत्ताननुगतं ब्रह्म लक्ष्यत इत्यर्थः ।
एवमेकैकस्य शब्दस्यार्थमुक्त्वा वाक्यार्थमाह –
एवं सत्यादीति ।
यद्यपि सत्यादिशब्दानां ब्रह्मणा मुख्योऽन्वयस्तथाऽपि अरुणैकहायन्यादिवत्पार्ष्णिकान्वयेनेतरेतरसन्निधावन्योन्यस्य वृत्तिनियामका भवन्ति । ज्ञानेन विशेषणात्सत्यशब्दो न जडे कारणे वर्तते । सत्येन विशेषणाज्ज्ञानशब्दो न विषयसापेक्षे ज्ञाने वर्तते । ज्ञानेन विशेषणान्नानन्तशब्दो ज्ञातृव्यतिरिक्ते वर्तते । ततश्च सत्यादिशब्देन यल्लौकिकं वाच्यं तद्विलक्षणेन भवितव्यमिति सम्भावयन्तः सकललौकिकाध्यासाधिष्ठानं ब्रह्मत्वेन लक्षयन्तीत्यर्थः ।
ततः किं फलतीत्यत आह –
अतः सिद्धमिति ।
वाचकशक्त्या बोधकत्वानङ्गीकारादवाच्यत्वं सकलानिष्टव्यवच्छेदेनैकस्यैव लक्ष्यत्वाभ्युपगमाच्च गुणगुण्यादिसंभेदरूपवाक्यार्थवैलक्षण्यं च ब्रह्मणः सिद्धमित्यर्थः । बुद्धौ कार्ये यदनुगतं परमं व्योमाव्याकृताख्यं तस्मिन्निहितमिति सप्तमीद्वयं वैयधिकरण्येन व्याख्यातम् ।
व्योमशब्दस्य भूताकाशे रूढिं परित्यज्य किमित्यव्याकृतविषयत्वं व्याख्यायते ? तत्राह –
तद्धीति ।
भूताकाशस्य कार्यत्वेनापरत्वादव्याकृताकाशस्य कारणत्वेन परमत्वविशेषणसम्भवाच्छाखान्तरे शतपथे चाक्षरेण ब्रह्मणा सामीप्यावगमादव्याकृतं व्योमशब्देन लक्ष्यत इत्यर्थः ।
एवं पराभिप्रायेण व्याख्यात स्वाभिप्रायं व्याचष्टे –
हार्दमेव त्विति ।
हृदयावच्छिन्ने भूतकाशे या गृहा तस्यां बुद्धौ साक्षितया निहितमभिव्यक्तं ब्रह्मेति व्याख्यानं युक्तम् । द्रष्टृभेदेन ब्रह्मण आपरोक्ष्यलाभात् । अन्यथा समष्टिरूपेऽव्याकृते मायातत्त्वेऽवस्थितं ब्रह्मेत्युक्ते ब्रह्मणः पारोक्ष्यं प्रसज्येत , पारोक्ष्येण च ज्ञानं नापरोक्षसंसाराध्यासनिवर्तकम् । तस्मादपरोक्षद्रष्टृचैतन्याभेदेन ब्रह्मणः स्वहृदये प्रत्यक्षताया विवक्षितत्वाद्धृदयाकाशमेव विज्ञानशेषभूतं विवक्षितमित्यर्थः । यदुक्तं भूताकाशस्य परमत्वानुपपत्तिरिति तत्राऽऽह । यो वा इति ।
ननु निहितशब्दः स्थितिं ब्रूते कथं विविक्ततया स्फुटतयोपलम्भाभिप्रायेण व्याख्यायते तत्राऽऽह –
न हीति ।
अन्यथेति । उपलम्भव्यतिरेकेण । अविद्यावस्थायां ये सुखविशेषा हिरण्यगर्भाद्युपाधिषु भोग्यत्वेनाभिमतास्तेषां सर्वेषां ब्रह्मानन्दाव्यतिरेकाद्ब्रह्मीभूतो विद्वान्सर्वानेवाऽऽनन्दानश्नुत इत्युपचारेण बहुवचनमित्यर्थः ।
वृत्तमनुवदत्युत्तरग्रन्थावतारणाय –
सर्व एवेत्यादिना ।
आकाशादिकारणत्वाभिधानेनाऽऽनन्त्यप्रपञ्चः क्रियत इति समनन्तरग्रन्थतात्पर्यं दर्शयितुं पूर्वोक्तेष्वर्थविशेषमनुवदति –
तत्र चेति ।
वस्तुत आनन्त्यं व्याख्यातुं वस्तुनोऽन्तवत्त्वं तावदाह –
भिन्नं हीत्यादिना ।
विस्तरेणोक्तमानन्त्यं संक्षिप्याऽऽह –
तस्मात्सिद्धमिति ।
देशतोऽनवच्छिन्नस्याऽऽकाशस्य कारणत्वाद्व्यापकत्वान्निरतिशयमात्मनो देशत आनन्त्यमकार्यत्वाच्च कालत आनन्त्यं तद्यतो व्यावर्तेत तस्य पृथगसत्त्वात्कार्यस्योपादानादन्यत्र सत्त्वायोगाद्वस्तुतोऽप्यानन्त्यं सिद्धमित्यर्थः । अत इति । निरतिशयानन्त्यादेव सत्यत्वमपि सिद्धमन्तवत एव रज्जुसर्पादिवदसत्यत्वादित्यर्थः ।
एवं सृष्टिवाक्यतात्पर्यमुक्त्वा पदानि विभजते –
तस्मादित्यादिना ।
अन्त्यकार्यपर्यन्तं परमात्मनः सर्वत्रोपादानत्वादाकाशभावापन्नात्परमात्मन एव वायुः सम्भूतोऽत एव तद्गुणस्योत्तरत्रानुवृत्तिर्गुणशब्दप्रयोगोऽपि भेदकल्पनया तत्तन्त्रत्वाभिप्रायेण न वैशैषिकपक्षवत्तत्त्वभेदाभिप्रायेण तत्त्वतो भेदे प्रमाणाभावादिति द्रष्टव्यम् ।
पुरुषग्रहणस्य तात्पर्यमाह –
सर्वेषामपीति ।
शक्तत्वादिति विधिनिषेधविवेकसामर्थ्योपेतत्वादित्युक्तम् ।
तत्रैतरेयकश्रुतिसम्भतिमाह –
पुरुषे त्वेवेति ।
ब्राह्मण्यादिजातिमति मनुष्यादिदेह आविस्तरामतिशयेन प्रकट आत्मा ज्ञानातिशयदर्शनादित्यर्थः । मर्त्येन ज्ञानकर्मादिसाधनेनाक्षयफलं प्राप्तुमिच्छतीत्यर्थः ।
येन विवेकज्ञानेन पुरुषस्य प्राधान्यं विवक्षितं तत्पश्वादीनां नास्तीत्याह –
अथेतरेषामिति ।
कोशपञ्चकोपन्यासस्य तात्पर्यमाह –
स हीत्यादिना ।
पक्षपुच्छशब्दप्रयोगात्सुपर्णाकारक्लृप्तिं दर्शयति । उत्तरत्र तत्कल्पनया बाह्यविषयासङ्गव्यपोहेन बुद्धेरात्मनि स्थिरीकरणार्थं नोपासनविधानमिह विवक्षितम् । उपक्रमोपसंहारयोर्ब्रह्मात्मैकत्वप्रतिपादनेनैवोपक्षयान्मध्ये ग्रन्थस्योपासनविधौ तात्पर्येण च वाक्यभेदप्रसङ्गादत एवाङ्गे स्तुतिः परार्थत्वादिति न्यायेन यथा प्रयाजादिषु फलश्रवणमर्थवादस्तथाऽन्नमयादिप्रतिपत्तेरपि फलश्रवणमर्थवाद एव , तत्तद्बुद्धिस्थिरीकारस्य पूर्वपूर्वबुद्धिविलापनेनाऽऽत्मनः प्रतिपत्तिशेषत्वादिति द्रष्टव्यम् ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां द्वितीयब्रह्मवल्ल्यां प्रथमोऽनुवाकः॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां ब्रह्मवल्ल्यां द्वितीयोऽनुवाकः॥
पूर्वपूर्वकोशस्योत्तरोत्तरः कोश एवाऽऽत्मेति व्याख्यातमापातदर्शनेन , तदसत् । आत्मशब्दस्यामुख्यार्थत्वप्रसङ्गात्प्रकृतपरामर्शकैतच्छब्दकोपाच्च । अतः सर्वकोशाध्यासाधिष्ठानभूतश्चिदात्मैवात्राऽऽत्मशब्देन विवक्षित इति तात्पर्यमाह –
तथा स्वाभाविकेनेति ।
अर्थादिति ।
आत्मशब्दसामर्थ्यात्कल्पितस्याधिष्ठानत्वानुपपत्तेश्चेत्यर्थः ।
आसाधारणादिति ।
व्यावृत्तस्वरूपात् । अपक्रम्य तत्राऽऽत्मबुद्धिं हित्वेत्यर्थः ।
साधारणमिति ।
सर्वेन्द्रियसाधारणम् । प्राणकृतेनाशनादिना सर्वेषां पुष्ट्यादिदर्शनादित्यर्थः ।
सर्वभूतानामात्मेति ।
सूत्रात्मना पूर्वस्य य आत्मा चिद्धातुरेष एव तस्य प्राणमयस्याऽऽत्मेति योजना । यजुःशब्देन बाह्यो यजुर्वेद उच्यते ।
तस्य कथमान्तरं मनोमयं प्रति शिरस्त्वमित्याशङ्क्याऽऽह –
मनसो हीति ।
यद्यपि यजुःशब्दो बाह्ये शब्दराशौ रूढस्तथाऽपि श्रुतेरनतिशङ्कनीयत्वात्तत्प्रामाण्याद्विशिष्टमनोवृत्तिर्यजुः सङ्केतविषयभूता यजुर्वेदमधीमह एतत्क्रमका वर्णा यजुर्वेदतयाऽध्येतव्या इत्येवं सङ्कल्परूपा ग्राह्येत्यर्थः ।
श्रुत्यनुग्राहिकां युक्तिमप्याह –
एवं चेति ।
अन्यथेति ।
शब्दानां घटादिद्बाह्यद्रव्यत्वे मनोविषयत्वासम्भवान्मनसो बाह्येऽर्थेऽस्वातन्त्र्यान्मनसो जपो न स्यादित्यर्थः ।
इतश्च मनोवृत्तित्वं मन्त्राणां वच्यमित्याह –
मन्त्रावृत्तिश्चेति ।
शब्दानां घटादिवद्बाह्यद्रव्यत्वे मन्त्राणां घटादिवदावृत्तिर्नोपपद्यते क्रियैव ह्यावर्त्यते ।
आवृत्तिसिद्ध्यनुपपत्त्या क्रियात्वं वाच्यमित्युक्तं तत्रान्यथाऽप्युपपत्तिमाशङ्कते –
अक्षरविषयेति ।
मन्त्रेभ्यः स्मृतेरन्यत्वादन्याऽऽवृत्तिर्गौणी प्रसज्यतेऽतो नान्यथाऽप्युपपत्तिरित्युक्तमेतत्स्फुटयति –
त्रिः प्रथमामित्यादिना ।
सामिधेन्यः समिधो यदाऽध्वर्युणा हूयन्ते तदा “प्र वो वाजा अभिद्यवः”(शतपथब्राह्मणम् १।४।१।७) इत्येकादशर्चं सूक्तं होता शम्सति तासां चर्चां मध्ये प्रथमामृचं सूक्तस्यान्त्यां चर्चं होता त्रिरनुब्रूयादित्यावृत्तिः श्रूयत इत्यर्थः ।
मन्त्राणां मनोवृत्तित्वमुक्त्वा मनोवृत्तीनां सदा चिद्व्याप्तत्वेनैव सिद्धेश्चिदात्मतामाह –
तस्मादिति ।
मन्त्राणां मनोवृत्तित्वेत्तित्वेनाऽऽवृत्तिर्घटत इत्युक्तम् ।
परम्परया चिदात्मत्वेन नित्यत्वमपि घटत इत्यह –
एवं चेति ।
चैतन्यरूपत्वे सति । अन्यथेति । स्वप्रकाचिदात्मत्वानङ्गीकारे रूपादिवद्विषयत्वादनित्यत्वमपि प्रसज्येत । कालिदासादिवाक्यानामप्येतेन न्यायेन नित्यत्वापाताद्युक्त्याभासमेतत् ।
अस्त्वनित्यत्वमिति न वाच्यमित्याह –
नैतदुक्तमिति ।
“वाचा विरूपनित्यया”(तै.सं.२-६-१२) इति श्रुत्या नित्यत्वस्याऽऽवेदितत्वाद्वेदा नित्यत्वं युक्तं न भवतीत्यर्थः । वेदानां जडते स्वप्रकाशेनाऽऽत्मनैकत्वं न सम्भवति जडाजडयोर्विरोधादतो मनोवृत्तिव्यापकचिदात्मत्वं सूचितमित्यर्थः । साक्षितया मनसि भवो मानसीनोऽक्षरे परमे व्योपकल्पे ब्रह्मणि ऋचो विधिनिषेधरूपा निषेदुस्तादात्म्येन व्यवस्थिता इति च मन्त्रवर्ण एकत्वं दर्शयतीत्यर्थः । अतिदेष्टव्यविशेषान्कर्तव्यविशेषानिदमेवं कर्तव्यमित्युपदिशतीत्यर्थः ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां ब्रह्मवल्ल्यां तृतीयोऽनुवाकः॥
वाङ्मनसयोर्वाङ्मनसगोचरत्वं नोपपद्यते स्वात्मनि वृत्तिविरोधादतो वाङ्मनोविशिष्टान्मनोभयाद्वाचो मनसा सह निवर्तन्त इत्यर्थः । तस्य च मनोमयस्य ब्रह्मण उपासनफलभूतमाधिदैविकमानन्दं विद्वान्न बिभेति गर्भवासादिदुःखादित्यर्थः । तथाऽध्यवसायलक्षणं लौकिकमपि विज्ञानं ग्राह्यमित्यर्थः ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां ब्रह्मवल्ल्यां चतुर्थोऽनुवाकः॥
प्रथमजत्वादिति ।
हिरण्यगर्भाभेदेनेत्यर्थः ।
आनन्दमयः परमात्मेति वृत्तिकारैरुक्तं तन्निषेधेन व्याचष्टे –
कार्यत्मप्रतीतिरित्यादिना ।
संक्रामतीत्येतदतिक्रामतीत्यभिप्रायेण व्याख्यातम् ।
प्राप्त्यभिप्रायं कस्मान्न व्याख्यायत इत्यत आह –
न चाऽऽत्मन एवेति ।
अन्नमयादीनामतिक्रमणीयतया प्रकृतत्वादेकस्य कर्तृत्वकर्मत्वासम्भवाच्च प्राप्तिः संक्रमणं न भवतीत्यर्थः ।
आनन्दमयस्य परमात्मत्वासम्भवे हेत्वन्तराण्याह –
शिरादीत्यादिना ।
आनन्दमयस्य परमात्मत्वविवक्षायां मन्त्रे तस्यैवासत्त्वाशङ्का वक्तव्या ।
तदसम्भवाच्च नाऽऽनन्दमयः परमात्मतया प्रतिपाद्यत इत्याह –
मन्त्रोदाहरणानुपपत्तेश्चेति ।
न हि मन्त्रोदाहरणमुपपद्यत इति सम्बन्धः । विशिष्टस्य विशेषणकार्यत्वात्सुख्यहमित्युपलभ्यमानो भोक्ताऽऽनन्दमय इत्युक्तम् ।
कथं तस्य विज्ञानमयादान्तरत्वमित्यत आह –
स चेति ।
कर्त्रपेक्षया भोक्तृत्वस्योत्तरभावित्वं प्रसिद्धमेव श्रुत्योक्तमित्यर्थः ।
एतत्स्फुटयति –
ज्ञानकर्मणोर्हीति ।
शरीरादिभ्य आनन्दसाधनेभ्यः सकाशात्साध्येनाऽऽनन्देन विशिष्टोऽन्तरतमः प्रसिध्यतीत्यर्थः । किञ्च प्रियं च तत्साधनं चोद्दिश्य कर्ता विज्ञानकर्मणी अनुतिष्ठति ।
तत उद्देश्यत्वादस्याऽऽन्तर्यं सिद्धमित्याह –
विद्याकर्मणोरिति ।
प्रियादिविशिष्टस्य स्वप्ने साक्षिणोपलभ्यत्वाच्च न मुख्यात्मत्वमित्याह –
प्रियादिवासनेति ।
यदुक्तं ज्ञानकर्मणोः फलभूत आनन्दमय इति तस्य साध्यत्वमौपाधिकं स्वमतानुसारेणाऽऽह –
आनन्द इति ।
परमिति ।
कथं तर्हि विषयसुखस्य क्षणिकत्वं सातिशयत्वं च व्यञ्चकवृत्तिनिबन्धनमित्याह –
तद्वृत्तिविशेषेति ।
ब्रह्मण आनन्दस्वभावत्व एव किं प्रमाणमित्यत आह –
वक्ष्यति चेति ।
अन्तःकरणशुद्ध्युत्कर्षादेवाऽऽनन्दस्य सातिशयत्वमित्यत्र लिङ्गमाह –
एवं चेति ।
यदि विषयविशेषजन्यत्वेनाऽऽनन्दोत्कर्षस्तदा निष्कामस्य विषयविशेषोपभोगासम्भवादानन्दोत्कर्षो न श्राव्येत । आत्मस्वभावस्यैवाऽऽनन्दस्य व्यञ्जकान्तःकरणशुद्ध्युत्कर्षादेवोत्कर्षं इत्येवं तु सत्यकामहतत्वोत्कर्षादुत्कर्षुः सम्भाव्यत इत्यर्थः । उक्तप्रकारेण विषयानन्दस्य सातिशयत्वे सति तद्विशिष्टस्याऽऽनन्दमयस्याब्रह्मत्वं सिद्धम् । सतिशयत्वेन प्रतिशरीरं भिन्नत्वात् ।
ब्रह्म तु तदध्यासाधिष्ठानमद्वितीयमित्याह –
एवं चेति ।
एतस्मिन्नप्यर्थ इति । आनन्दमयस्य प्रतिष्ठाभूतब्रह्मप्रकाशनपर इत्यर्थः ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां ब्रह्मवल्ल्यां पञ्चमोऽनुवाकः॥
आनन्दमयस्य प्रकाशकोऽयं श्लोक इति केचन तान्प्रत्याह –
तं प्रतीति ।
सविशेषतया प्रत्यक्षत्वादित्यर्थः । सर्वेषां साधरणत्वाच्च ब्रह्मणो व्यवहार्यत्वं सर्वान्प्रति भवेन्न च दृश्यते ततोऽपि नास्तित्वाशङ्का जायत इत्यर्थः । आकशादिकारणत्वादिति । भूतविशिष्टसर्वजीवकारणत्वादित्यर्थः ।
कस्य सामर्थ्येन प्राप्तं प्रश्नान्तरमित्यत आह –
असद्ब्रह्मेतीति ।
चेच्छब्दात्पाक्षिकसत्त्वावगमसामर्थ्यादित्यर्थः । सत्त्वं चेदुपपन्नं ब्रह्मणस्तावतैव सत्यत्वं सिध्यति सतो बाधासम्भवादित्यर्थः । एवमर्थतेति । सत्त्वोपपादनेन सत्यवस्तुविषयतेत्यर्थः ।
ब्रह्मणः सत्त्वसाधनं नामसत्त्वव्यावृत्तिरेवेत्यभिप्रेत्यासत्त्वशङ्कामुद्भावयति –
तत्रासदेवेति ।
विप्रतिपन्नमाकाशादि सत्पूर्वकं कार्यत्वादघटवदिति लौकिकव्याप्त्यवष्टम्भेन सत्कारणं तावत्सिद्धम् । तस्य च देशादिकारणत्वेन देशाद्यनवच्छिन्नत्वाद्ब्रह्मपदवाच्यत्वं सिद्धम् । तस्य विशेषतोऽनुपलम्भेनासच्छङ्का जायते । सा कारणत्वेन व्यावर्त्यतेऽनेन तु कारणत्वात्सत्त्वं साध्यत आश्रयासिद्धिप्रसङ्गादिति भावः ।
इतोऽपि जगदुपादाने नासत्त्वाशङ्का कार्येत्याह –
न चासत इति ।
न्यायत इति । आसदन्वयादर्शनादिति युक्तित इत्यर्थः ।
अवमसत्त्वाशङ्कां निरस्याचेतनत्वाशङ्कां प्रधानवादिनः प्रसङ्गान्निराचष्टे –
तद्यदीति ।
यद्यपि साङ्ख्यमते चेतनस्य निर्विकारत्वात्कामयितृत्वमसिद्धं तथाऽपि लौकिकव्याप्तिबलेन कामयितृत्वादचेतनत्वशङ्का निवर्त्यत इत्याह –
न हीति ।
तर्हि लौकिकव्याप्तिबलेनैवानाप्तकामत्वमपि प्राप्त मित्याशङ्क्याऽऽह –
कामयितृत्वादित्यादिना ।
जीवानामनाप्तानन्दत्वं परवशत्वान्न तदस्ति ब्रह्मण इत्यर्थः ।
कथंभूतास्तर्हि ब्रह्मणः कामा इत्याशङ्कायामाह –
सत्यज्ञानलक्षणा इति ।
सत्यज्ञान–
नं
लक्षणं स्वरूपं येषां ते तथोक्ताः ।
एतदुक्तं मवति , मायाप्रतिबिम्बितं हि ब्रह्म जगतः कारण मायापरिणामैरेव कामैः कामयितृ । तेषां च परिणामानामविद्याद्यनभिभूतचिद्व्याप्तत्वात्सत्यज्ञानात्मकत्वं ब्रह्मतादात्म्याच्चाधर्मद्यननुस्पृष्टत्वेन शुद्धत्वम् । ततो जोवकामवैलक्षण्यं सिद्धमिति ।
तर्हि ब्रह्मणः कामाः पुण्यकारिणामप्यनिष्टफलप्राप्त्यनुकूलाः स्युः स्वातन्त्र्यादित्याशङ्क्याऽऽह –
तेषां त्विति ।
कामस्य शरीरादिसम्बन्धजन्यत्वप्रसिद्धेर्ब्रह्मणः शरीरादिमत्त्वप्रसङ्ग इति नाऽऽशङ्कनीयमित्याह –
साधनान्तरानपेक्षत्वाच्चेति ।
कामसंस्कारवत्या मायया ब्रह्मतादात्म्यात्तत्परिणामानां कामानां ब्रह्मतादात्म्यान्न शरीरादिनिमित्तापेक्षाऽस्तीत्यर्थः ।
तद्द्वारेणैवेति ।
नामरूपशक्त्यात्मकमायापरिणामद्वारेणैव ।
नामरूपशक्त्यात्मिका जडरूपा मायाऽङ्गीकृता चेत्तर्हि सा प्रधानवत्पृथक्सतीत्यद्वैतहानिरित्याशङ्क्याऽऽह –
न हीति ।
आत्मातिरिक्तं किं स्वतः सिध्यति परतो वा ? नाऽऽद्यः । जाड्यहानेरतिरेकहानेश्च । न द्वितीयः । प्रमासंसर्गानिरूपणात् । न च भिन्नदेशकालयोः संयोगादि सम्भवति विषयविषयिभावो वा । नियामकगवेषणात् । न च स्वभाव एव सम्बन्धः । द्वयोः स्वभावयोः सम्बन्धत्वेनैवोपक्षये सम्बन्ध्यभावप्रसङ्गात् । न हि स्वात्मानं प्रति स्वस्यैव सम्बन्धित्वमात्माश्रयापातात् । तथाविधार्थाभावे व्यवहारमात्रप्रवर्तकत्वे च मिथ्याव्यवहारापातादनिर्वचनीयवाद एव पर्यस्यतीति भावः ।
यस्मादात्मातिरिक्तं वस्तु न सम्भाव्यते तस्मादात्मतादात्म्येनैव नामरूपयोः सिद्धिरित्याह –
अत इति ।
तर्हि ब्रह्मणः सप्रपञ्चताप्रसङ्ग इति न वाच्यमित्याह –
न ब्रह्मेति ।
न ब्रह्म तादात्म्यकमजडत्वात्तत्परिहारेणापि सिद्धिसम्भवादित्यर्थः ।
कथं तर्हि ते ब्रह्मात्मके तत्राऽऽह –
ते तदिति ।
स्वप्नावबुद्धनभोभक्षणवदारोपितस्यानुभवप्रत्याख्यानेन सिद्ध्यसम्भवादनुभाव्ये नामरूपे अनुभवात्मकब्रह्मात्मके कथ्येते न त्वैक्याभिप्रायेणेत्यर्थः ।
न केवलं ब्रह्मणो बहुरूपत्वं मायोपाधिकं सर्वव्यवहारास्पदत्वं चेत्याह –
ताभ्यामिति ।
प्रवेशस्यानिर्वाच्यताद्योतनेन जीवस्य ब्रह्मात्मतायां प्रवेशवाक्यस्य तात्पर्यं दर्शयितुं विचारमारभते –
तत्रैतच्चिन्तमित्यादिना ।
विमर्शे सति क्त्वाश्रुत्यनुरोधात्स्रष्टुरेव प्रवेश इत्युक्तं सिद्धान्तिना ।
पूर्ववाद्याह –
ननु न युक्तमिति ।
सृष्टिप्रवेशक्रिययोः पूर्वापरकालीनत्वसम्भवे सति कर्त्रैक्यं क्त्वाश्रुत्या बोध्येत न तु प्रवेशस्योत्तरकालता सम्भवति । सृष्टिसमय एवोपादानस्य कार्यात्मनाऽवस्थितत्वादित्यर्थः ।
एतदेव विवृणोति –
कारणमेव हीति ।
अप्रविष्टे यथा मठादौ देवदत्तस्य प्रवेशो दृष्टस्तथा कार्योत्पत्तेरूर्ध्वं पृथक्प्रवेशो न सम्भवतीत्यर्थः ।
सिद्धान्त्येकदेशिनां मतमुद्भाव्य पूर्ववादी दूषयति –
यथा घट इत्यादिना ।
स्रष्टुरन्यस्य वा प्रवेशो न सम्भवतीति चेत्कथं तर्हि प्रवेशो वाच्य इति सिद्धान्त्येकदेश्याह –
कथमिति ।
नास्त्येवेति न वक्तव्यमित्याहयुक्तश्चेति ।
स एवाऽऽह गतिं –
सावयवमेवेति ।
पूर्ववादी दूषयतो –
नाशून्यत्वादिति ।
कार्यात्मना परिणतस्य ब्रह्मणो नामरूपात्मकं कारमेव देशस्तद्वतिरेकेण न ह्यन्यः प्रदेशोऽस्तीति ।
यत्कारणमेव कार्याकारेण परिणतं तत्प्रति कार्यविशेषो जीवात्मा प्रवेक्ष्यतीति न शङ्कनीयमित्याह –
कारणमेव चेदिति ।
कार्यविशेषस्य प्रवेशमङ्गीकृत्य दूषणमुक्तं स न सम्भवति श्रुतिविरोधादित्याह– –
तदेवेति ।
कारणपरामर्शकेन तच्छब्देन कार्यमुपलक्ष्य कारान्तरस्य तत्र विधीयतेऽप्राप्तदेशसम्भवात् ।
अतो न श्रुतिविरोध इति सिद्धान्तैकदेशिमतमुद्भाव्य दूषयति –
कार्यान्तरमेवेत्यादिना ।
कारणवाचकेन तच्छब्देन कार्यलक्षणायामविवक्षितलक्षणा चेत्प्रसज्येत तर्हि कारणपर एव तच्छब्दोऽस्त्वित्याह्यन्यः सिद्धान्तैकदेशी –
बाह्येति ।
अस्मिन्पक्षे प्रवेशश्रुतेर्मुख्यार्थो न लभ्येतेत्याह –
न बहिष्ठेति ।
अन्यस्य वेदान्तिनो मतमुद्भाव्य दूषयति –
जल इत्यादिना ।
एवं सिद्धान्तैकदेशीयं निरस्य पूर्ववाद्युपसंहरति –
एवं तर्हीति ।
नैवास्ति प्रवेशो ब्रह्मणस्ततोऽन्यस्यापि प्रवेशो न सम्भवतीत्युक्तमित्याह –
न चेति ।
इतरस्यापि प्रवेशः कल्पयितुं न शक्यत इत्याह –
तदेवानुप्राविशदिति ।
सा च श्रुतिः स्रष्टुः प्रवेशमाह । सा चास्माकं मीमांसकानां प्रमाणं ततस्तद्विरोधेनान्यस्य प्रवेशकल्पनाऽयुक्तेति भावः ।
तर्हि श्रुतिशरणतयैव ब्रह्मण एव प्रवेश उच्य्यतामित्याशङ्क्याऽऽह –
न चेति ।
तस्मादन्धो मणिमविन्ददितिवदर्थशून्यमेवेदं वाक्यमिति निगमयति –
हन्तेति ।
शक्तिगोचरस्यार्थस्यासम्भवादर्थशून्यत्वं तात्पर्यगोचरस्य वा ? नाऽऽद्यः ।
आकाशादेरविप्रकृष्टदेशेऽपि जलेऽमूर्तस्य प्रतिबिम्बभाववदमूर्तस्यापि ब्रह्मणोऽनिर्वाचाविद्यासु प्रतिबिम्बितस्य सृष्ट्युत्तरकालमन्तःकरणादिषु प्रतिबिम्बभावसम्भवादित्याह –
नेति ।
न द्वितीय इत्याह –
अन्यार्थत्वादिति ।
एतत्स्फुटयति –
किमर्थमित्यादिना ।
अतः परमिति । बुद्धिगुहाप्रवेशादनन्तरमानन्दमय एव विशिष्टोऽर्थो विशेष्यस्य चिद्धातोर्लिङ्गं विशिष्टस्य विशेष्याव्यभिचारदर्शनात्तदधिगमद्वारेणाऽऽनन्दविवृद्ध्यवसान आत्मा ब्रह्मरूपोऽस्यामेव गुहायामधिगन्तव्य इत्यभिप्रेत्य जले सूर्यप्रवेशवदनिर्वाच्यः प्रवेशोऽभिधीयत इत्यर्थः ।
बुद्धिगुहायामेव ब्रह्मण उपलब्धिसम्भवात्तत्रैव प्रवेशोऽभिधित्सित इत्याह –
न हीति ।
नन्वन्यत्रोपलब्ध्यनर्हं ब्रह्म बुद्धौ वा कथमुपलभ्यत इत्याशङ्क्योपधेर्योग्यताविशेषासम्भवादित्याह –
विशेषेति ।
सन्निकर्षादीति । अन्तःकरणसंसर्गादेव देहघटादिषु चैतन्याभिव्यक्तिर्न स्वतः । अन्तःकरणं चाव्यवधानेनैव चैतन्याभिव्यञ्चकमन्वयव्यतिरेकाभ्यामित्यर्थः ।
यथा चास्वच्छस्वभावके घटादौ मुखं न प्रतिबिम्बते जलादौ स्वच्छस्वभावके प्रतिबिम्बते तथा सत्त्वप्रधानस्यान्तःकरणस्य प्रसादस्वाभाव्याद्घटते तत्र ब्रह्मोपलब्धिरित्याह –
अवभासात्मकत्वाच्चेति ।
किञ्च यथा जाड्यसाम्येऽपि तमोलक्षणावरणाभिभवसमर्थ आलोकोऽङ्गीक्रियते तथा जाड्यसाम्येऽप्यन्तःकरणस्यैव प्रत्ययाकारपरिणतस्याज्ञानलक्षणावरणाभिभवसामर्थ्यमङ्गीकर्तव्यमित्याह –
यथा चेति ।
निलानं गृहप्रासादादिमूर्तसन्निवेशविशेषोऽवयवसंस्थानविशेषराहित्यमनिलयनम् ।
अनिरुक्तत्वाद्यमूर्तंधर्मश्चेद्ब्रह्मण एव किं न स्यादित्यत आह –
त्यदनिरुक्तानिलयनानीति ।
“तत्सत्यमित्याचक्षत”(तै. उ. २ । ६ । १) इत्यस्योपपत्तिमाह –
यस्मादिति ।
पदानि व्याख्याय प्रकृतानुप्रश्ननिराकरणे प्रकरणस्य तात्पर्यं “सोऽकामयत”(तै. उ. २ । ६ । १) इत्यादेर्दर्शयति –
अस्ति नास्तीत्यादिना ।
तस्या बुद्धिगुहायाः अहं कर्ता भोक्तेत्यादयस्त एवावभासविशेषास्तैर्व्यज्यमानं विशिष्टस्य विषयत्वेऽपि स्वरूपस्याविषयत्वादित्यर्थः ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां द्वितीयब्रह्मवल्ल्यां षष्ठोऽनुवाकः॥
सुकृतमिति ।
क्तप्रत्ययः सुष्ठु क्रियत इति कर्माभिधायकोऽपि च्छान्दस्या प्रक्रियया सुष्ठु करोतीति कर्तरि व्याख्यातः ।
एकार्थवृत्तित्वेनेति ।
एकप्रयोजनसाधनत्वेन परस्परायत्ततेत्यर्थः ।
अन्यत्रेति ।
गृहप्रासादादिषु स्वतन्त्रं गृहाद्यनारभ्यं स्वामिनमन्तरेण संहननस्यादर्शनात्कर्यकरणसङ्घातेऽपि विलक्षणः स्वामी शरीरोपचयादिभिरुपचयादिरहितोऽवगम्यते । स च चेतनत्वेन भेदाभावाद्ब्रह्मैवेति तदस्तित्वसिद्धिरित्यर्थः ।
दासोऽयं तस्य देवस्य ममाऽऽराध्यः परमेश्वर इति भेदं विद्वान्कथमज्ञ इत्युव्यते तत्राऽऽह –
असौ योऽयमिति ।
यथा चन्द्रभेदं पश्यन्नप्यविद्वानुच्यतेऽतत्त्वदर्शित्वात्तथेत्यर्थः ।
कथं तर्हि तस्य भयसम्भावनेत्यत आह –
उच्छेदेति ।
संहर्ता हि परमेश्वरो मां संहरिष्यति नरके वा निक्षेप्स्यतीति पश्यतो भयं भवतीत्यर्थः ।
ब्रह्मैवोच्छेदहेतुः कुत इत्यत आह –
अनुच्छेद्यो हीति ।
उच्छेदहेतोरप्युच्छेदत्वेऽनवस्थाप्रसङ्गान्नित्यत्वं वक्तव्यं तच्च ब्रह्मणो नान्यस्य सम्भाव्यत इत्यर्थः ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां ब्रह्मवल्ल्यां सप्तमोऽनुवाकः॥
तच्च भयकारणं ब्रह्माऽऽनन्दरूपमुक्तं यदेष आकाश आनन्दो न स्यादिति । तत्राऽऽनन्दश्च लोके जन्यः प्रसिद्धस्ततो विचारमारभते –
तस्यास्येत्यादिना ।
ब्रह्मानन्दस्य चेन्मीमांसा प्रस्तुता किमर्थस्तर्हि सार्वभौमानन्दाद्युपन्यासस्तत्राऽऽह –
तत्र लौकिक इत्यादिना ।
लौकिक आनन्दः क्वचित्काष्ठां प्राप्तः सातिशयत्वात्परिमाणवदिति ब्रह्मानन्दानुमानार्थो लौकिकोपन्यास इत्यर्थः । विषयेभ्यो व्यावृत्ता व्यावृत्तविषया अविषयब्रह्मात्मैकत्वदर्शिनस्तद्बुद्धिगोचर इत्यर्थः ।
प्रकारान्तरेण ब्रह्मानन्दानुगममाह –
लौकिकोऽपीत्यादिना ।
मनुष्यगन्धर्वानन्दस्योत्कृष्टत्वे निमित्तमाह –
ते ह्यन्तर्धानादीति ।
प्रथममकामहताग्रहणस्य तात्पर्यमाह –
प्रथममिति ।
यदि प्रथमपर्याय एवाकामहतो गृह्येत तदा तस्यैव सार्वभौमानन्देन तुल्य आनन्दः स्यात्तदा च व्याघातो भवेत् । मानुषानन्दे निस्पृहो मानुषानन्दभोगभागी चेति । ततो मनुष्यगन्धर्वानन्देन तुल्यमानन्दं तस्य दर्शयितुं प्रथमपर्याये तदग्रहणमित्यर्थः । अवृजिनत्वमपापत्वं यथोक्तकारित्वं तत्साधुपदाल्लभ्यत इत्यर्थः । त्रयस्त्रिंशत् - अष्टौ वसव , एकादश रुद्रा , द्वादशाऽऽदित्या , इन्द्रः , प्रजापतिश्चेति ।
यदर्थं मीमांसाऽऽरब्धा तस्य निरतिशयानन्दस्य सिद्धौ वाक्यतात्पर्यं दर्शयितुमाह –
तस्याकामहतत्वेति ।
तस्य ब्रह्मणो हिरण्यगर्भस्य आनन्दस्तदुपासकप्रत्यक्षो यस्य मात्रा स एष परमानन्दः स्वाभाविक इति सम्बन्धः ।
हिरण्यगर्भानन्दस्य मात्रात्वे श्रुत्यन्तरं प्रमाणयति –
एतस्यैवेति ।
न केवलं हिरण्यगर्भानन्द एव मात्रा यश्च प्रागुपन्यस्तः सार्वभौमाद्यानन्दः स एष यस्य मात्रा प्रविभक्ता नानात्वमापन्ना सती यत्र निरतिशयानन्देऽकामहतब्रह्मवित्प्रत्यक्षे कैवल्य एकतां गतेति योजना ।
अकामहतप्रत्यक्षत्वाभिधानाद्भेदप्रातिं निरस्यति –
आनन्दानन्दिनोश्चेति ।
प्रत्यक्षत्वाभिधानमज्ञानसंशयादिव्यवधानाभावाभिप्रायं न तु विषयविषयिभावाभिप्रायम् । “अदृश्येऽनात्म्ये”, “उदरमन्तरं कुरुत”(तै. उ. २ । ७ । १) इत्यादिना निषेधादित्यर्थः । मीमांसया निरतिशयानन्दं ब्रह्मास्तीति निर्धारितम् । तस्याकामहतप्रत्यक्षत्वाभिधानादभेदसिद्धिः । न हि परमानन्दः परस्य प्रत्यक्षो भवति । तस्मान्निरतिशयानन्दब्रह्मैकत्वं जीवस्य “ब्रह्मविदाप्नोति परम्”(तै. उ. २ । १ । १) इत्युपक्रान्तं मीमांसया च सिद्धमुपसंह्रियत इत्यर्थः ।
आदित्यग्रहणस्याऽऽधिदैविकोपाधिलक्षणार्थस्याविवक्षितत्वं दर्शयितुं चोद्यमुद्भावयति –
नन्विति ।
“य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः”(बृ. उ. ५ । ५ । २) इत्यादौ श्रुत्यन्तरे मण्डलस्थस्य दक्षिणाक्षिस्येनैक्यस्य प्रसिद्धत्वादिहाप्यादित्यस्थेनैक्यनिर्देशे दक्षिणाक्षिग्रहणं युक्तमित्यर्थः ।
अध्यात्ममधिदवतं च लिङ्गात्मोपासनविवक्षायां तथा तद्विवक्षितमित्याह –
न परेति ।
य एव चिद्धातुर्निरतिशयानन्द उत्कृष्टोपाधौ प्रतिबिम्बितः स एव निकृष्टोपाधौ शिरःपाण्यादिमति पुरुषे प्रतिमिम्बित इति परमानन्दमपेक्ष्य समत्वं विशिष्टयोः स्वभावैक्यं विवक्षितमित्यर्थः ।
वृत्तानुवाचपूर्वकमुत्तरग्रन्थमवतारयति –
अस्ति नास्तीति ।
सन्दिग्धं सप्रयोजनं च विचारमर्हति ।
अत्र च कस्मिन्पक्षे को दोषः को वा लाभ इत्याह –
किं तत इति ।
उभयत्रानुपपतिं संशयकारणमाह –
यद्यन्यः स्यादिति ।
चोद्यमुखेन संशयव्यावुत्तिं प्रयोजनमाह –
यद्युभयथेत्यादिना ।
एतदेव मम विचारारम्भकस्य स्वस्त्ययनं कल्याणं यन्मामेकत्ववादिनं त्वमात्थ ब्रूषेऽप्रतिपन्नवस्तुवादित्वादनेकत्ववादिनोऽप्येकस्य वस्तुनः समतत्वादनेकवस्तुवादिनश्च बहवः प्रतिपक्षः सन्ति ममेत्यर्थतोऽपि कल्याणमनेकत्वस्यान्योन्याश्रयादिदोषदुष्टत्वात्पूर्वपक्षनिराकरणेन सिद्धान्तोपपत्तेश्चेत्यर्थः ।
विचारारम्भमुपपाद्य सिद्धान्तमुपक्रमते –
स एव तु स्यादिति ।
औपाधिकभेदभिन्नोऽप्येवंवित्स्वतः पर एव स्यादित्यर्थः ।
अविद्याध्यारोपिताब्रह्मत्वव्यावृत्तिरेव ब्रह्मप्राप्तिर्विवक्षितेति फलवाक्यस्यैवमर्थता कथमवगम्यते न पुनरप्राप्तप्राप्तिरित्याह –
कथमिति ।
परिहरति –
विद्यामात्रेति ।
अन्यथाऽप्युपपतिं शङ्कते –
मार्गेति ।
गन्तुः स्वतो ग्रामत्वाभावेऽपि यथा मार्गज्ञानोपदेशः सार्थकस्तथा जीवस्य स्वतो ब्रह्मत्वाभावेऽपि विद्योपदेशः , अभ्यासद्वारेण ब्रह्मप्राप्तिहेतुत्वादित्यर्थः । त्वं ग्रामोऽसीति न तत्रोपदेशः ।
अत्राभेदोपदेशः प्रतीयतेऽत उपदेशवैषम्यान्न दृष्टान्तो युक्त इत्याह –
न वैधर्म्यादिति ।
यदि विदुषः सकाशादन्य ईश्वरो भयहेतुर्नास्ति का तर्हि गतिर्व्यतिरिक्तेश्वरदर्शनस्येत्याशङ्क्याऽऽह –
अन्यस्य चेति ।
कल्पितभेदविशिष्टरूपेणेश्वरस्याविद्याकृतत्वे मिथ्यात्वे सति विद्यया तत्रावस्तुत्वदर्शनमुपपद्यते । ईश्वरो मम प्राशास्तेति मिथ्यैतद् , यतस्तस्य मम चैकात्म्यमेव परमार्थमिति विद्वदृष्ट्या विशिष्टस्यासत्त्वमित्यर्थः ।
दृष्टान्तेन वैषम्यं शङ्कते –
नैवमिति ।
यथा चन्द्रैकत्वदर्शनाद्द्वितीयश्चन्द्रो न गृह्यते नैवं ब्रह्मविदा न गृह्यते व्यतिरिक्तेश्वरः । प्रतिनियतप्रपञ्चावभासस्य भोजनादिप्रवृत्त्यनुपपत्त्या जीवन्मुक्तस्याप्यभ्युपगमात्प्रपञ्चप्रतिनियमस्य चेश्वराधीनत्वाभ्युपगमादित्यर्थः । यद्यपि जागरे व्यतिरेकाभासदर्शनं विदुषस्तथाऽपि न तद्भयकारणं न हि मायावी स्वविरचितव्याघ्राभासाद्बिभेति ।
अविदुषोऽपि व्यतिरेकदर्शनं न सदातनमित्याह –
न सुप्तेति ।
सुषुप्ते व्यतिरेकाग्रहणमसत्त्वसाधकं न भवतीत्याह –
सुषुप्त इति ।
यथेषुकार इष्वासक्तमनस्तया तद्व्यतिरिक्तं विद्यमानमपि न पश्यति सुषुप्तेऽपि निद्रासुखासक्ततया सदपि द्वितीयं न पश्यति न त्वाभावादित्यर्थः ।
अनासक्तस्य तद्व्यतिरिक्तादर्शनेऽपि तद्दर्शनमेवास्ति सुषुप्ते तु न किञ्चिदज्ञासिषमिति प्रत्ययात्सुखस्याप्यात्मतादाम्त्यदज्ञानस्य च व्यक्तिरिक्तत्व निर्वचनादतस्तात्त्विकद्वितीयाभावादेवाग्रहणमित्याह –
न सर्वग्रहणादिति ।
सुषुप्ते चेदनुपलम्भादसत्त्वं तर्हि जाग्रत्स्वप्नयोरुपलम्भाद्द्वैतस्य सत्त्वं किं न स्यादित्याह –
जाग्रदिति ।
अनात्मादावात्मत्वादिबुद्धिरविद्या तद्भाव एव द्वैतोपलम्भान्नोपलम्भमात्रं सत्त्वसाधकमन्यथा शुक्तिरूप्यादेरपि सत्त्वप्रसङ्गादित्याह –
नाविद्येति ।
पूर्ववाद्याह –
सुषुप्त इति ।
सुषुप्ते द्वितीयस्याग्रहणमपि लयरूपाविद्याकृतं न तु भेदाभावनिबन्धनमतो यदुक्तं सुषुप्ते सर्वात्मकब्रह्मभूतो जीवः स्वव्यतिरिक्तमभावादेव न पश्यतीति तदसदित्यर्थः । सतोऽपि द्वितीयस्याविद्यावशादग्रहणमिति कोऽर्थः । किं ग्रहणप्रागभवो जायत उताप्रकाशारोपः किंवाऽग्रहणाकाराविकृतस्वरूपावस्थानम् ? नाऽऽद्यः । प्रागभावस्यानादित्वाभ्युपगमात् । न द्वितीयः । परैर्द्वितीयस्यास्वप्रकाशतास्वाभाव्याभ्युपगमेनाप्रकाशारोपानभ्युपगमादप्रकाशारोपे च सर्वस्य स्वप्रकाशब्रह्मात्मतया अभ्युपगन्तव्यत्वेनास्मत्समीहितसिद्धिप्रसङ्गात् ।
न तृतीय इत्याह –
न स्वाभाविकत्वादिति ।
अविकृतस्वरूपावस्थानं नाविद्याकार्यमनागन्तुकत्वादित्यर्थः ।
एतत्स्फुटयति –
द्रव्यस्य हीत्यादिना ।
सन्मात्रं द्रव्यमुच्यते स्वातन्त्र्यसिद्ध्यभिप्रायेण , न वैशेषिकाभिप्रायेण क्रियावद्गुणवत्समवायिकारण द्रव्यं मानाभावादिति द्रष्टव्यम् । अविक्रियेति । विक्रियाभावोपलक्ष्यं स्वरूपमनपेक्ष्य सिद्धत्वादित्यर्थः । ग्रहणादिविक्रिया न स्वाभाविकी परापेक्षत्वात्स्फटिकलौहित्यवदित्यर्थः ।
यदुक्तमनपेक्ष्य सिद्धत्वादविक्रियत्वमिति तत्स्फुटयति –
यद्दीति।
एवं स्वमते चित्सत्ताव्यतिरिक्तेश्वरस्य भयहेतोरभावादभयं विदुषः सम्भवतीत्युपपाद्य द्वैतीयपक्षे तदसम्भवमाह –
येषामिति ।
सतोऽन्यस्य स्वरूपे स्थिते नष्टे वा मा भूद्ध्वंसो व्याघातादनवस्थानाच्च तर्ह्यसत एव ।
भयस्योत्पादेऽभयप्राप्तिर्भविष्यतीत्याशङ्क्याऽऽह –
न चासत इति ।
व्यतिरिक्तेश्वरस्य सत्तामात्रेण न भयहेतुत्वं किन्तु प्राणिकृतधर्माधर्माद्यपेक्षस्य , मुक्तस्य तु तदभावादभयं भविष्यतीत्याशङ्क्य नैतत्साङ्ख्येन वाच्यम् ।
अधर्मादेरपि सतस्तेनात्यन्तासत्त्वानङ्गीकारान्नैयायिकादिमतेऽपि सति हेतौ कार्यात्यन्ताभावस्य दुखधारणत्वात्तेनापि न वाच्यमित्याह –
न तस्यापीति ।
किञ्च सच्चेदसत्त्वमापद्यतेऽधर्मादिकं तर्ह्यात्मन्यपि कः प्रश्वासस्तस्मात्स्वभाववैपरीत्यं सतोऽसत्त्वगमनं कस्यापि मते न घटत इत्याह –
सदसतोरिति ।
स्वमतं निगमयति –
एकत्वपक्ष इति ।
अविद्याकल्पितं भयं विद्यया निवर्तत इति वदता विद्याविद्ययोरात्मधर्मत्वमिष्टं ततो धर्मोत्पादविनाशयोर्विकारित्वमनित्यत्वं च प्रसज्येतेति शङ्कते –
विद्याविद्ययोरिति ।
कल्पितयोर्विद्याविद्ययोरात्मनि भयाभयहेतुत्वसम्भवान्नाऽऽत्मधर्मत्वे प्रमाणमस्ति प्रत्युत वेद्यत्वाद्रूपादिवदात्मधर्मत्वं नास्तीत्यनुमातुं शक्यत इत्याह –
न, प्रत्यक्षत्वादिति ।
चिन्मात्रतन्त्राऽनादिरनिर्वाच्याऽविद्याऽन्तःकरणरूपेण परिणमते तच्चान्तःकरणं तामससात्त्विकावस्थाभेदेन भ्रान्तिसम्यग्ज्ञानाकारेण परिणमते तस्मिन्प्रतिबिम्बितश्चिद्धातुः स्वोपाधिधर्मेणैव भ्रान्तः सम्यग्दर्शीति च व्यवह्रियते न तत्त्वतो विद्याविद्यावत्त्वमित्याह –
ते च पुनरिति ।
उक्तन्यायेन ब्रह्मवित्तत्वतो ब्रह्माभिन्न इत्युक्तम् ।
तत्र परोक्तमुद्भाव्य निरस्यति –
अभेदे एतमित्यादिना ।
नाऽऽनन्दमयः परमात्मा न च तत्र प्रवेशः संक्रमणं किंत्वविषयब्रह्मात्मताज्ञानेनाऽऽनन्दमयस्याऽऽत्मतया भ्रान्तिगृहीतस्यातिक्रमणं बाधोऽत्र विवक्षित इत्यर्थः ।
अन्यथा वेति ।
नीडे पक्षिप्रवेशवद्वेत्यर्थः ।
यद्यप्यन्नमये मुख्यं संक्रमणं न सम्भवति तथाऽपि मनोबुद्ध्योर्बहिर्विषये प्रवृत्तयोस्ततो व्यावृत्त्य स्वरूपेऽवस्थानं संक्रमणं दृष्टं तथा दुःखिन आनन्दमयस्य स्वरूपेऽवस्थानं संक्रमणं भविष्यतीत्याह –
मनोमयस्येति ।
स्वरूपावस्थानस्यानागन्तुकत्वात्प्रक्रमविरोधाच्च न तन्मुख्यं संक्रमणमित्याह –
नेति ।
ज्ञानमात्रत्वे वा संक्रमणस्य किं फलतीत्यत आह –
ज्ञानमात्रत्वे चेति ।
मुख्यासम्भवे गौणार्थग्रहण न्याय्यमेवातोऽधिष्ठानयाथात्म्यप्रतिपत्त्या विशिष्टस्याध्यस्तस्य बाधनमेव संक्रमणं फलतीति भावः ।
इतश्च न मुख्यं संक्रमणमन्वेषणीयमित्याह –
वस्त्वन्तराभावाच्चेति ।
संक्रमणस्यौपचारिकत्वं व्याख्याय प्रकरणस्य महत्तात्पर्यमुपसंहारच्छलेनाऽऽह –
तस्मादिति ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां ब्रह्मवल्ल्यामष्टमोऽनुवाकः॥
साध्वसाधुनी स्तः प्रकाशेते चेति सत्प्रकाशमात्रमात्मतत्त्वमेव तयोः स्वरूपं ततोऽतिरिक्तं यदर्थनर्थहेतुत्वं नामविशेषरूपं तन्न वस्तु सत्प्रकाशान्यत्वेनासत्त्वादप्रकाशमानत्वाच्चेत्यभिप्रेत्याऽऽह –
स्वेन विशेषरूपेणेति ।
आत्मैवाविद्यया साध्वसाधुरूपेण प्रतिपन्न आसीत् । इदानीं तु ये साध्वसाधुनी ममार्थनर्थहेतू बभूवतुस्ते आत्मैवेति ज्ञानेन स्वात्मानं साध्वसाधुकरणेन प्रीणयत्येव लोकदृष्ट्या निष्पद्यमाने पुण्यपापे दृष्ट्वा हृष्यति च विद्वान्न बिभेतीत्याह –
स्पृणुत एवेति ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां ब्रह्मवल्ल्यां नवमोऽनुवाकः॥