अद्वैतशारदा

आनन्दगिरिटीका (तैत्तिरीय)

भृगुवल्ली: प्रथमोऽनुवाकः

वृत्ता­नु­वा­द­पू­र्वं­क­मु­त्त­र­व­ल्ली­स­म्ब­न्ध­माह –
सत्यं ज्ञानमित्यादिना ।

तप इति ।
पदार्थविवरणं वाक्या­र्थ­ज्ञा­न­सा­ध­न­मि­त्यर्थः ।

अधीहीति ।
अध्यापय स्मारय । “इक् स्मरणे” इति धातु­पा­ठा­दि­त्यर्थः ।

ब्रह्मो­प­ल­ब्धा­विति ।
लक्ष्य­त्व­म­र्थ­वि­वे­काय द्वाराणि शरी­रा­दि­चे­ष्टा­न्य­था­नु­प­पत्त्या हि साक्षि­भू­त­श्चि­द्धा­तु­र्वि­वि­च्यत इति भावः । न केवलं त्वमर्थज्ञानं वाक्या­र्थ­ज्ञा­न­सा­धनं किन्तु तत्प­दा­र्थ­ज्ञा­न­म­पी­त्य­भि­प्रेत्य तदर्थस्य ब्रह्मणो लक्ष­ण­मु­क्त­वा­नि­त्यर्थः ।

सावशेषोक्तेरिति ।
पदा­र्थो­प­ल­क्ष­ण­स्यै­वा­भि­धा­ना­द­ख­ण्ड­वा­क्या­र्थ­स्या­प्र­ति­पा­द­ना­त्प­दा­र्थ­भे­द­ज्ञा­नाच्च पुरु­षा­र्था­स­म्भ­वात् “उदरमन्तरं कुरुत”(तै. उ. २ । ७ । १) इति निन्दितत्वादतो वाक्या­र्था­व­ग­ति­प­र्यन्तं तात्पर्येण लक्ष्य­प­दा­र्थ­वि­चा­रणं आवृ­त्त्याऽ­नु­ष्ठि­त­वा­नि­त्यर्थः ।
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञा­न­वि­र­चि­तायां तैत्ति­री­यो­प­नि­ष­च्छा­ङ्क­र­भा­ष्य­टी­कायां तृती­य­भृ­गु­वल्ल्यां प्रथमोऽनुवाकः॥

स च तपस्तप्त्वेति ।
कुत्रेदं पित्रोक्तं लक्षणं क्वेदं लक्षणं वर्तते पूरिपूर्णं भवतीत्येकाग्रेण चेतसां पर्यालोच्यान्नं ब्रह्मेति व्यजानात् । अद्यते भुज्यत उपलभ्यते सर्वैरिति सर्व­प्र­ति­प­त्तृ­सा­धा­रणं स्थूलदेहकारणं भूतपञ्चकं विरा­ट्सं­ज्ञ­क­म­न्न­श­ब्दे­नो­च्यते । तस्य स्थूल­भौ­ति­क­का­र­ण­त्वात् । “यतो वा इमानि भूतानि”(तै.उ. ३-१-१) इतिलक्षणस्य यत्र योजयितुं शक्य­त्वा­त्त­द्ब्र­ह्मेति प्रति­प­न्न­वा­नि­त्यर्थः ।
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञा­न­वि­र­चि­तायां तैत्ति­री­यो­प­नि­ष­च्छा­ङ्क­र­भा­ष्य­टी­कायां भृगुवल्ल्यां द्विती­योऽ­नु­वाकः॥

विराज उत्प­त्ति­द­र्श­ना­च्छ्रु­ति­स्मृ­तिषु लक्षणं तत्र सम्पूर्णं न भवतीति पुनस्तपोऽतप्यत । विचार्य च तत्कारणं क्रिया­श­क्ति­वि­शि­ष्ट­तया प्राण­श­ब्द­लक्ष्यं हिरण्यगर्भं सङ्क­ल्पा­ध्य­व­सा­य­श­क्ति­वि­शि­ष्ट­तया च मनो­वि­ज्ञा­न­श­ब्द­लक्ष्यं ब्रह्मेति व्यजानात् ।
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञा­न­वि­र­चि­तायां तैत्ति­री­यो­प­नि­ष­च्छा­ङ्क­र­भा­ष्य­टी­कायां भृगुवल्ल्यां तृतीयोऽनुवाकः॥