आनन्दगिरिटीका (तैत्तिरीय)
भृगुवल्ली: प्रथमोऽनुवाकः
वृत्तानुवादपूर्वंकमुत्तरवल्लीसम्बन्धमाह –
सत्यं ज्ञानमित्यादिना ।
तप इति ।
पदार्थविवरणं वाक्यार्थज्ञानसाधनमित्यर्थः ।
अधीहीति ।
अध्यापय स्मारय । “इक् स्मरणे” इति धातुपाठादित्यर्थः ।
ब्रह्मोपलब्धाविति ।
लक्ष्यत्वमर्थविवेकाय द्वाराणि शरीरादिचेष्टान्यथानुपपत्त्या हि साक्षिभूतश्चिद्धातुर्विविच्यत इति भावः । न केवलं त्वमर्थज्ञानं वाक्यार्थज्ञानसाधनं किन्तु तत्पदार्थज्ञानमपीत्यभिप्रेत्य तदर्थस्य ब्रह्मणो लक्षणमुक्तवानित्यर्थः ।
सावशेषोक्तेरिति ।
पदार्थोपलक्षणस्यैवाभिधानादखण्डवाक्यार्थस्याप्रतिपादनात्पदार्थभेदज्ञानाच्च पुरुषार्थासम्भवात् “उदरमन्तरं कुरुत”(तै. उ. २ । ७ । १) इति निन्दितत्वादतो वाक्यार्थावगतिपर्यन्तं तात्पर्येण लक्ष्यपदार्थविचारणं आवृत्त्याऽनुष्ठितवानित्यर्थः ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां तृतीयभृगुवल्ल्यां प्रथमोऽनुवाकः॥
स च तपस्तप्त्वेति ।
कुत्रेदं पित्रोक्तं लक्षणं क्वेदं लक्षणं वर्तते पूरिपूर्णं भवतीत्येकाग्रेण चेतसां पर्यालोच्यान्नं ब्रह्मेति व्यजानात् । अद्यते भुज्यत उपलभ्यते सर्वैरिति सर्वप्रतिपत्तृसाधारणं स्थूलदेहकारणं भूतपञ्चकं विराट्संज्ञकमन्नशब्देनोच्यते । तस्य स्थूलभौतिककारणत्वात् । “यतो वा इमानि भूतानि”(तै.उ. ३-१-१) इतिलक्षणस्य यत्र योजयितुं शक्यत्वात्तद्ब्रह्मेति प्रतिपन्नवानित्यर्थः ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां भृगुवल्ल्यां द्वितीयोऽनुवाकः॥
विराज उत्पत्तिदर्शनाच्छ्रुतिस्मृतिषु लक्षणं तत्र सम्पूर्णं न भवतीति पुनस्तपोऽतप्यत । विचार्य च तत्कारणं क्रियाशक्तिविशिष्टतया प्राणशब्दलक्ष्यं हिरण्यगर्भं सङ्कल्पाध्यवसायशक्तिविशिष्टतया च मनोविज्ञानशब्दलक्ष्यं ब्रह्मेति व्यजानात् ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां भृगुवल्ल्यां तृतीयोऽनुवाकः॥