अद्वैतशारदाचिह्नितानि

अपरोक्षानुभूतिः

१ अध्यायः

श्रीहरिं पर­मा­न­न्द­मु­प­दे­ष्टा­र­मी­श्व­रम् ।
व्यापकं सर्वलोकानां कारणं तं नमाम्यहम् ॥ १ ॥

१

अप­रो­क्षा­नु­भू­तिर्वै प्रोच्यते मोक्षसिद्धये ।
सद्भिरेव प्रयत्नेन वीक्षणीया मुहुर्मुहुः ॥ २ ॥

२

स्वव­र्णा­श्र­म­ध­र्मेण तपसा हरितोषणात् ।
साधनं च भवेत्पुंसां वैरा­ग्या­दि­च­तु­ष्ट­यम् ॥ ३ ॥

३

ब्रह्मा­दि­स्था­व­रा­न्तेषु वैराग्यं विषयेष्वनु ।
यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम् ॥ ४ ॥

४

नित्य­मा­त्म­स्व­रूपं हि दृश्यं तद्विपरीतगम् ।
एवं यो निश्चयः सम्यग्विवेको वस्तुनः स वै ॥ ५ ॥

५

सदैव वासनात्यागः शमोऽयमिति शब्दितः ।
निग्रहो बाह्यवृत्तीनां दम इत्यभिधीयते ॥ ६ ॥

६

विषयेभ्यः परावृत्तिः परमोपरतिहिं सा ।
सहनं सर्वदुःखानां तितिक्षा सा शुभा मता ॥ ७ ॥

७

निग­मा­चा­र्य­वा­क्येषु भक्तिः श्रद्धेति विश्रुता ।
चित्तैकाग्र्यं तु सल्लक्ष्ये समाधानमिति स्मृतम् ॥ ८ ॥

८

संसा­र­ब­न्ध­नि­र्मुक्तिः कथं मे स्यात्कदा विधे ।
इति या सुदृढा बुद्धि­र्व­क्तव्या सा मुमुक्षुता ॥ ९ ॥

९

उक्तसाधनयुक्तेन विचारः पुरुषेण हि ।
कर्त्तव्यो ज्ञान­सि­द्ध्य­र्थ­मा­त्मनः शुभमिच्छता ॥ १० ॥

१०

नोत्पद्यते विना ज्ञानं विचा­रे­णा­न्य­सा­धनैः ।
यथा पदार्थमानं हि प्रकाशेन विना क्वचित् ॥ ११ ॥

११

कोऽहं कथमिदं जातं को वै कर्ताऽस्य विद्यते ।
उपादानं किमस्तीह विचारः सोऽयमीदृशः ॥ १२ ॥

१२

नाहं भूतगणो देहो नाहं चाक्षगणस्तथा ।
एतद्विलक्षणः कश्चिद्विचारः सोऽयमीदृशः ॥ १३॥

१३

अज्ञानप्रभवं सर्वं ज्ञानेन प्रविलीयते ।
सङ्कल्पो विविधः कर्त्ता विचारः सोऽयमीदृशः ॥ १४ ॥

१४

एत­यो­र्य­दु­पा­दा­न­मेकं सूक्ष्मं सदव्ययम् ।
यथैव मृद्घटादीनां विचारः सोऽयमीदृशः ॥ १५ ॥

१५

अहमेकोऽपि सूक्ष्मश्च ज्ञाता साक्षी सदव्ययः।
तदहं नात्र सन्देहो विचारः सोऽयमीदृशः ॥ १६॥

१६

आत्मा विनिष्कलो ह्येको देहो बहुभिरावृत:।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम्॥ १७॥

१७

आत्मा निया­म­क­श्चा­न्त­र्देहो बाह्यो नियम्यकः।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १८॥

१८

आत्मा ज्ञानमय: पुण्यो देहो मांसमयोऽशुचिः।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम्॥ १९॥

१९

आत्मा प्रकाशक: स्वच्छो देहस्तामस उच्यते।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम्॥ २० ॥

२०

आत्मा नित्यो हि सद्रूपो देहोऽनित्यो ह्यसन्मयः।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम्॥ २१॥

२१

आत्म­न­स्त­त्प्र­का­शत्वं यत्प­दा­र्था­व­भा­स­नम्।
नाग्न्या­दि­दी­प्ति­व­द्दी­प्ति­र्भ­व­त्यान्ध्यं यतो निशि॥ २२॥

२२

देहोऽहमित्ययं मूढो धृत्वा तिष्ठत्यहो जनः ।
ममायमित्यपि ज्ञात्वा घटद्रष्टेव सर्वदा ॥ २३॥

२३

ब्रह्मैवाहं समः शान्तः सच्चि­दा­न­न्द­ल­क्षणः।
नाहं देहो ह्यसद्रूपो ज्ञान­मि­त्यु­च्यते बुधैः ॥ २४॥

२४

निर्विकारो निराकारो निर­व­द्योऽ­ह­म­व्ययः ।
नाहं देहो ह्यसद्रूपो ज्ञान­मि­त्यु­च्यते बुधैः ॥ २५॥

२५

निरामयो निराभासो निर्वि­क­ल्पोऽ­ह­मा­ततः ।
नाहं देहो ह्यसद्रूपो ज्ञान­मि­त्यु­च्यते बुधैः ॥ २६ ॥

२६

निर्गुणो निष्क्रियो नित्यो नित्य­मु­क्तोऽ­ह­म­च्युतः ।
नाहं देहो ह्यसद्रूपो ज्ञान­मि­त्यु­च्यते बुधैः ॥ २७ ॥

२७

निर्मलो निश्चलोऽनन्तः शुद्धोऽ­ह­म­ज­रोऽ­मरः ।
नाहं देहो ह्यसद्रूपो ज्ञान­मि­त्यु­च्यते बुधैः ॥ २८ ॥

२८

स्वदेहे शोभनं सन्तं पुरुषाख्यं च सम्मतम् ।
किं मूर्ख ! शून्यमात्मानं देहातीतं करोषि भोः ॥ २९ ॥

२९

त्वात्मानं शृणु मूर्ख ! त्वं श्रुत्या युक्त्या च पूरुषम् ।
देहातीतं सदाकारं सुदुर्दर्शं भवादृशैः ॥ ३० ॥

३०

अहंशब्देन विख्यात एक एव स्थितः परः ।
स्थूल­स्त्व­ने­कतां प्राप्तः कथं स्याद्देहकः पुमान् ॥ ३१ ॥

३१

अहं द्रष्टृतया सिद्धो देहो दृश्यतया स्थितः ।
ममायमिति निर्देशात्कथं स्याद्देहकः पुमान् ॥ ३२ ॥

३२

अहं विकारहीनस्तु देहो नित्यं विकारवान् ।
इति प्रतीयते साक्षात्कथं स्याद्देहकः पुमान् ॥ ३३ ॥

३३

यस्मात्परमिति श्रुत्या तया पुरुषलक्षणम् ।
विनिर्णीतं विमूढेन कथं स्याद्देहकः पुमान् ॥ ३४ ॥

३४

सर्व पुरुष एवेति सूक्ते पुरुषसंज्ञिते ।
अप्युच्यते यतः श्रुत्या कथं स्याद्देहकः पुमान् ॥ ३५ ॥

३५

असङ्गः पुरुषः प्रोक्तो बृहदारण्यकेऽपि च ।
अन­न्त­म­ल­सं­श्लिष्टः कथं स्याद्देहकः पुमान् ॥ ३६ ॥

३६

तत्रैव च समाख्यातः स्वयंज्योतिर्हि पुरुषः ।
जडः परप्रकाश्योऽसौ कथं स्याद्देहकः पुमान् ॥ ३७ ॥

३७

प्रोक्तोऽपि कर्मकाण्डेन ह्यात्मा देहाद्विलक्षणः ।
नित्यश्च तत्फलं भुङ्क्ते देहपातादनन्तरम् ॥ ३८ ॥

३८

लिङ्गं चानेकसंयुक्तं चलं दृश्यं विकारि च ।
अव्यापकमसद्रूपं तत्कथं स्यात् पुमानयम् ॥ ३९ ॥

३९

एवं देहद्वयादन्य आत्मा पुरुष ईश्वरः ।
सर्वात्मा सर्वरूपश्च सर्वा­ती­तोऽ­ह­म­व्ययः ॥ ४० ॥

४०

इत्या­त्म­दे­ह­भा­गेन प्रपञ्चस्यैव सत्यता ।
यथोक्ता तर्कशास्त्रेण ततः किंपुरुषार्थता ॥ ४१ ॥

४१

इत्या­त्म­दे­ह­भे­देन देहात्मत्वं निवारितम् ।
इदानीं देहभेदस्य ह्यसत्त्वं स्फुटमुच्यते ॥ ४२ ॥

४२

चैत­न्य­स्यै­क­रू­प­त्वाद् भेदो युक्तो न कर्हिचित् ।
जीवत्वं च मृषा ज्ञेयं रज्जौ सर्पग्रहो यथा ॥ ४३ ॥

४३

रज्ज्वज्ञानात् क्षणेनैव यद्वद्रज्जुर्हि सर्पिणी ।
भाति तद्वाच्चितिः साक्षा­द्वि­श्वा­का­रेण केवला ॥ ४४ ॥

४४

उपादानं प्रपञ्चस्य ब्रह्मणोऽन्यन्न विद्यते ।
तस्मा­त्स­र्व­प्र­प­ञ्चोऽयं ब्रह्मैवास्ति न चेतरत् ॥ ४५ ॥

४५

व्याप्यव्यापकता मिथ्या सर्वमात्मेति शासनात् ।
इति ज्ञाते परे तत्त्वे भेदस्यावसरः कुतः ॥ ४६ ॥

४६

श्रुत्या निवारितं नूनं नानात्वं स्वमुखेन हि ।
कथं भासो भवेदन्यः स्थिते चाद्वयकारणे ॥ ४७ ॥

४७

दोषोऽपि विहितः श्रुत्या मृत्योर्मृत्युं स गच्छति ।
इह पश्यति नानात्वं मायया वञ्चितो नरः ॥ ४८ ॥

४८

ब्रह्मणः सर्वभूतानि जायन्ते परमात्मनः ।
तस्मादेतानि ब्रह्मैव भव­न्ती­त्य­व­धा­र­येत् ॥ ४९ ॥

४९

ब्रह्मैव सर्वनामानि रूपाणि विविधानि च ।
कर्माण्यपि समग्राणि बिभर्तीति श्रुतिर्जगौ ॥ ५० ॥

५०

सुव­र्णा­ज्जा­य­मा­नस्य सुवर्णत्वं च शाश्वतम् ।
ब्रह्मणो जायमानस्य ब्रह्मत्वं च तथा भवेत् ॥ ५१ ॥

५१

स्वल्पमप्यन्तरं कृत्वा जीवा­त्म­प­र­मा­त्मनोः ।
यः सन्तिष्ठति मूढात्मा भयं तस्याभिभाषितम् ॥ ५२ ॥

५२

यत्रा­ज्ञा­ना­द्भ­वेद् द्वैतमितरस्तत्र पश्यति ।
आत्मत्वेन यदा सर्वं नेतरस्तत्र चाण्वपि ॥ ५३ ॥

५३

यस्मिन् सर्वाणि भूतानि ह्यात्मत्वेन विजानतः ।
न वै तस्य भवेन्मोहो न च शोकोऽद्वितीयतः ॥ ५४ ॥

५४

अयमात्मा हि ब्रह्मैव सर्वात्मकतया स्थितः ।
इति निर्धारितं श्रुत्या बृह­दा­र­ण्य­सं­स्थया ॥ ५५ ॥

५५

अनुभूतोऽप्ययं लोको व्यवहारक्षमोऽपि सन् ।
असद्रूपो यथा स्वप्न उत्तरक्षणबाधतः ॥ ५६ ॥

५६

स्वप्नो जागरणेऽलीकः स्वप्नेऽपि न हि जागरः ।
द्वयमेव लये नास्ति लयोऽपि ह्युभयोर्न च ॥ ५७ ॥

५७

त्रयमेव भवेन्मिथ्या गुण­त्र­य­वि­नि­र्मि­तम् ।
अस्य द्रष्टा गुणातीतो नित्यो ह्येक­श्चि­दा­त्मकः ॥ ५८ ॥

५८

यद्वन्मृदि घटभ्रातिं शुक्तौ वा रजतस्थितिम् ।
तद्वद्ब्रह्मणि जीवत्वं वीक्ष्यमाणे न पश्यति ॥ ५९ ॥

५९

यथा मृदि घटो नाम कनके कुण्डलाभिधा ।
शुक्तौ हि रज­त­ख्या­ति­र्जी­व­श­ब्द­स्तथा परे ।। ६० ॥
यथैव व्योम्नि नीलत्वं यथा नीरं मरुस्थले ।
पुरुषत्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि ॥ ६१ ॥

६१

यथैव शून्ये वैतालो गन्धर्वाणां पुरं यथा ।
यथाऽऽकाशे द्विचन्द्रत्वं तद्वत्सत्ये जगत्स्थितिः ॥ ६२ ॥

६२

यथा तर­ङ्ग­क­ल्लो­ले­र्ज­ल­मेव स्फुरत्यलम् ।
पात्ररूपेण ताम्रं हि ब्रह्मा­ण्डौ­घै­स्त­थाऽऽ­त्मता ॥ ६३ ॥

६३

घटनाम्ना यथा पृथ्वी पटनाम्ना हि तन्तवः ।
जगन्नाम्ना चिदाभाति ज्ञेयं तत्तदभावतः ॥ ६४ ॥

६४

सर्वोऽपि व्यवहारस्तु ब्रह्मणा क्रियते जनैः ।
अज्ञानान्न विजानन्ति मृदेव हि घटादिकम् ॥ ६५ ॥

६५

कार्यकारणता नित्यमास्ते घटमृदोर्यथा ।
तथैव श्रुति­यु­क्तिभ्यां प्रप­ञ्च­ब्र­ह्म­णो­रिह ॥ ६६ ॥

६६

गृह्यमाणे घटे यद्वन्मृत्तिका भाति वै बलात् ।
वीक्ष्यमाणे प्रपञ्चेऽपि ब्रह्मैवाभाति भासुरम् ॥ ६७ ॥

६७

सदैवात्मा विशुद्धोऽस्ति ह्यशुद्धो भाति वै सदा ।
यथैव द्विविधा रज्जु­र्ज्ञा­नि­नोऽ­ज्ञा­नि­नोऽ­नि­शम् ॥ ६८ ॥

६८

यथैव भृन्मयः कुम्भ­स्त­द्व­द्दे­होऽपि चिन्मयः ।
आत्मा­ना­त्म­वि­भा­गोऽयं मुधैव क्रियतेऽबुधैः ॥ ६९ ॥

६९

सर्पत्वेन यथा रज्जू रजतत्वेन शुक्तिका ।
विनिर्णीता विमूढेन देहत्वेन तथाऽऽत्मता ॥ ७० ॥

७०

घटत्वेन यथा पृथ्वी पटत्वेनेव तन्तवः ।
विनिर्णीता विमूढेन देहत्वेन तथाऽऽत्मता ॥ ७१ ॥

७१

कनकं कुण्डलत्वेन तरङ्गत्वेन वै जलम् ।
विनिर्णीता विमूढेन देहत्वेन तथाऽऽत्मता ॥ ७२ ॥

७२

पुरुषत्वे यथा स्थाणुर्जलत्वेन मरीचिका ।
विनिर्णीता विमूढेन देहत्वेन तथाऽऽत्मता ॥ ७३ ॥

७३

गृहवेनेव काष्ठानि खड्गत्वेनेव लोहता ।
विनिर्णीता विमूढेन देहत्वेन तथाऽऽत्मता ॥ ७४ ॥

७४

यथा वृक्षविपर्यासो जलाद्भवति कस्यचित् ।
तद्वदात्मनि देहत्वं पश्य­त्य­ज्ञा­न­यो­गतः ॥ ७५ ॥

७५

पोतेन गच्छतः पुंसः सर्वं भातीव चञ्चलम् ।
तद्वदात्मनि देवत्वं पश्य­त्य­ज्ञा­न­यो­गतः ॥ ७६ ॥

७६

पीतत्वं हि यथा शुभ्रे दोषाद्भवति कस्यचित् ।
तद्वदात्मनि देहत्वं पश्य­त्य­ज्ञा­न­यो­गतः ।। ७७ ॥
चक्षुर्भ्यां भ्रमशीलाभ्यां सर्वं भाति भ्रमात्मकम् ।
तद्वदात्मनि देहत्वं पश्य­त्य­ज्ञा­न­यो­गतः ॥ ७८ ॥

७८

अलातं भ्रमणेनैव वर्तुलं भाति सूर्यवत् ।
तद्वदात्मनि देहत्वं पश्य­त्य­ज्ञा­न­यो­गतः ॥ ७९ ॥

७९

महत्वे सर्व­व­स्तू­ना­म­णुत्वं ह्यतिदूरतः ।
तद्वदात्मनि देहत्वं पश्य­त्य­ज्ञा­न­यो­गतः ॥ ८० ॥

८०

सूक्ष्मत्वे सर्वभावानां स्थूलत्वं चोपनेत्रतः ।
तद्वदात्मनि देहत्वं पश्य­त्य­ज्ञा­न­यो­गतः ॥ ८१ ॥

८१

काचभूमौ जलत्वं वा जलभूमौ हि काचता ।
तद्वदात्मनि देहत्वं पश्य­त्य­ज्ञा­न­यो­गतः ॥ ८२ ॥

८२

यद्वदग्नौ मणित्वं हि मणौ वा वह्निता पुमान् ।
तद्वदात्मनि देहत्वं पश्य­त्य­ज्ञा­न­यो­गतः ॥ ८३ ॥

८३

अभ्रेषु सत्सु धावत्सु सोमो धावति भाति वै ।
तद्वदात्मनि देहत्वं पश्य­त्य­ज्ञा­न­यो­गतः ॥ ८४ ॥

८४

यथैव दिग्विपर्यासो मोहाद्भवति कस्यचित् ।
तद्वदात्मनि देहत्वं पश्य­त्य­ज्ञा­न­यो­गतः ॥ ८५ ॥

८५

यथा शशी जले भाति चञ्चलत्वेन कस्यचित् ।
तद्वदात्मनि देहत्वं पश्य­त्य­ज्ञा­न­यो­गतः ॥ ८६ ॥

८६

एव­मा­त्म­न्य­वि­द्यातो देहाध्यासो हि जायते ।
स एवा­त्म­प­रि­ज्ञा­ना­ल्ली­यते च परात्मनि ॥ ८७ ॥

८७

सर्वमात्मतया ज्ञातं जग­त्स्था­व­र­ज­ङ्ग­मम् ।
अभा­वा­त्स­र्व­भा­वानां देहस्य चात्मता कुतः ॥ ८८ ॥

८८

आत्मानं सततं जानन्कालं नय महाद्युते ।
प्रारब्धमखिलं भुञ्जन्नोद्वेगं कर्तुमर्हसि ॥ ८९ ॥

८९

उत्प­न्नेऽ­प्या­त्म­वि­ज्ञाने प्रारब्धं नैव मुञ्चति ।
इति यच्छ्रूयते शास्त्रे तन्नि­रा­क्रि­य­तेऽ­धुना ॥ ९० ॥

९०

तत्त्व­ज्ञा­नो­द­या­दूर्ध्वं प्रारब्धं नैव विद्यते ।
देहा­दी­ना­म­स­त्य­त्वा­द्यथा स्वप्नो विबोधतः ॥ ९१ ॥

९१

कर्म जन्मान्तरीयं यत्प्रारब्धमिति कीर्तितम् ।
तत्तु जन्मा­न्त­रा­भा­वा­त्पंसो नैवास्ति कहिंचित् ॥ ९२ ॥

९२

स्वप्नदेहो यथाऽ­भ्य­स्त­स्त­थै­वायं हि देहकः ।
अध्यस्तस्य कुतो जन्म जन्माभावे हि तत्कुतः ॥ ९३ ॥

९३

उपादानं प्रपञ्चस्य मृद्भाण्डस्येव कथ्यते ।
अज्ञानं चैव वेदा­न्त­स्त­स्मि­न्नष्टे क्व विश्वता ॥ ९४ ॥

९४

यथा रज्जुं परित्यज्य सर्पं गृह्णाति वै भ्रमात् ।
तद्व­त्स­त्य­म­वि­ज्ञाय जगत्पश्यति मूढधीः ॥ ९५ ॥

९५

रज्जुरूपे परिज्ञाते सर्पभ्रान्तिर्न तिष्ठति ।
अधिष्ठाने तथा ज्ञाते प्रपञ्चः शून्यतां व्रजेत् ॥ ९६ ॥

९६

देहस्यापि प्रप­ञ्च­त्वा­त्प्रा­र­ब्धा­व­स्थितिः कृतः ।
अज्ञा­नि­ज­न­बो­धार्थं प्रारब्धं वक्ति वै श्रुतिः ॥ ९७ ॥

९७

क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ।
बहुत्वं तनिषेधार्थं श्रुत्या गीतं च यत्स्फुटम् ॥ ९८ ॥

९८

उच्य­तेऽ­ज्ञै­र्ब­ला­च्चै­त­त्त­दाऽ­न­र्थ­द्व­या­गमः ।
वेदान्तमतहानं च यतो ज्ञानमिति श्रुतिः ॥ ९९ ॥

९९

त्रिप­ञ्चा­ङ्गा­न्यथो वक्ष्ये पूर्वोक्तस्य हि लब्धये ।
तैश्च सर्वैः सदा कार्यं निदिध्यासनमेव तु ॥ १०० ॥

१००

नित्या­भ्या­सा­दृते प्राप्तिर्न भवे­त्स­च्चि­दा­त्मनः ।
तस्माद्ब्रह्म निदि­ध्या­से­ज्जि­ज्ञासुः श्रेयसे चिरम् ॥ १०१ ॥

१०१

यमो हि नियमस्त्यागो मौनं देशश्च कालता ।
आसनं मूलबन्धश्च देहसाम्यं च दृक्स्थितिः ॥ १०२ ॥

१०२

प्राणसंयमनं चैव प्रत्याहारश्च धारणा ।
आत्मध्यानं समाधिश्च प्रोक्ता­न्य­ङ्गानि वै क्रमात् ॥ १०३ ॥

१०३

सर्वं ब्रह्मेति विज्ञा­ना­दि­न्द्रि­य­ग्रा­म­सं­यमः ।
यमोऽयमिति सम्प्रो­क्तोऽ­भ्य­स­नीयो मुहुर्मुहुः ॥ १०४ ॥

१०४

सजातीयप्रवाहश्च विजा­ती­य­ति­र­स्कृतिः ।
नियमो हि परानन्दो नियमात्क्रियते बुधैः ॥ १०५ ॥

१०५

त्यागः प्रपञ्चरूपस्य चिदा­त्म­त्वा­व­लो­क­नात् ।
त्यागो हि महतां पूज्यः सद्यो मोक्षमयो यतः ॥ १०६ ॥

१०६

यस्माद्वाचो निवर्तन्ते अप्राप्य मनसा सह ।
यन्मौनं योगिभिर्गम्यं तद्भवेत्सर्वदा बुधः ॥ १०७ ॥

१०७

वाचो यस्मा­न्नि­व­र्तन्ते तद्वक्तुं न शक्यते ।
प्रपञ्चो यदि वक्तव्यः सोऽपि शब्दविवर्जितः ॥ १०८ ॥

१०८

इति वा तद्भवेन्मौनं सतां सहजसंज्ञितम् ।
गिरा मौनं तु बालानां प्रयुक्तं ब्रह्मवादिभिः ॥ १०९ ॥

१०९

आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते ।
येनेदं सततं व्याप्तं स देशो विजनः स्मृतः ॥ ११० ॥

११०

कल­ना­त्स­र्व­भू­तानां ब्रह्मादीनां निमेषतः ।
कालशब्देन निर्दिष्टो ह्यखण्डानन्द अद्वयः ॥ १११ ॥

१११

सुखेनैव भवे­द्य­स्मि­न्न­जस्रं ब्रह्मचिन्तनम् ।
आसनं तद्वि­जा­नी­या­न्ने­त­र­त्सु­ख­ना­श­नम् ॥ ११२ ॥

११२

सिद्धं यत्सर्वभूतादि विश्वा­धि­ष्ठा­न­म­व्य­यम् ।
यस्मिन् सिद्धाः समा­वि­ष्टा­स्तद्वै सिद्धासनं विदुः ॥ ११३ ॥

११३

यन्मूलं सर्वभूतानां यन्मूलं चित्तबन्धनम् ।
मूलबन्धः सदा सेव्यो योग्योऽसौ राजयोगिनाम् ॥ ११४ ॥

११४

अङ्गानां समतां विद्यात् समे ब्रह्मणि लीयते ।
नो चेन्नैव समानत्वमृजुत्वं शुष्कवृक्षवत् ॥ ११५ ॥

११५

दृष्टिं ज्ञानमयीं कृत्वा पश्येद् ब्रह्ममयं जगत् ।
सा दृष्टिः परमोदारा न नासाग्रावलोकिनी ॥ ११६ ॥

११६

दृष्टि­द­र्श­न­दृ­श्यानां विरामो यत्र वा भवेत् ।
दृष्टिस्तत्रैव कर्त्तव्या न नासाग्रावलोकिनी ॥ ११७ ॥

११७

चित्ता­दि­स­र्व­भा­वेषु ब्रह्मत्वेनैव भावनात् ।
निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते ॥ ११८ ॥

११८

निषेधनं प्रपञ्चस्य रेचकाख्यः समीरणः ।
ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरितः ॥ ११९ ॥

११९

तत­स्त­द्वृ­त्ति­नै­श्चल्यं कुम्भकः प्राणसंयमः ।
अयं चापि प्रबु­द्धा­ना­म­ज्ञानां घ्राणपीडनम् ॥ १२० ॥

१२०

विषयेष्वात्मतां दृष्ट्वा मनसश्चिति मज्जनम् ।
प्रत्याहारः स विज्ञे­योऽ­भ्य­स­नीयो मुमुक्षुभिः ॥ १२१ ॥

१२१

यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् ।
मनसो धारणं चैव धारणा सा परा मता ॥ १२२ ॥

१२२

ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः ।
ध्यानशब्देन विख्याता परमानन्ददायिनी ॥ १२३ ॥

१२३

निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः ।
वृत्तिविस्मरणं सम्यक् समा­धि­र्ज्ञा­न­सं­ज्ञकः ॥ १२४ ॥

१२४

इमं चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् ।
वश्यो याव­त्क्ष­णा­त्पुंसः प्रयुक्तः सम्भवेत्स्वयम् ॥ १२५ ॥

१२५

ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् ।
तत्स्वरूपं न चैतस्य विषयो मनसो गिराम् ॥ १२६ ॥

१२६

समाधौ क्रियमाणे तु विघ्ना आयान्ति वै बलात् ।
अनु­स­न्धा­न­रा­हि­त्य­मा­लस्यं भोगलालसम् ॥ १२७ ॥

१२७

लयस्तमश्च विक्षेपो रसास्वादश्च शून्यता ।
एवं यद्वि­घ्न­बा­हुल्यं त्याज्यं ब्रह्मविदा शनैः ॥ १२८ ॥

१२८

भाववृत्त्या हि भावत्वं शून्यवृत्त्या हि शून्यता ।
ब्रह्मवृत्त्या हि पूर्णत्वं तया पूर्ण­त्व­म­भ्य­सेत् ॥ १२९ ॥

१२९

ये हि वृत्तिं जहत्येनां ब्रह्माख्यां पावनीं पराम् ।
ते तु वृथैव जीवन्ति पशुभिश्च समा नराः ॥ १३० ॥

१३०

ये हि वृत्तिं विजानन्ति ज्ञात्वापि वर्धयन्ति ये ।
ते वै सत्पुरुषा धन्या वन्द्यास्ते भुवनत्रये ॥ १३१ ॥

१३१

येषां वृत्तिः समा वृद्धा परिपक्वा च सा पुनः
ते वै सद्ब्रह्मतां प्राप्ता नेतरे शब्दवादिनः ॥ १३२ ॥

१३२

कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः ।
तेऽप्यज्ञानितया नूनं पुनरायान्ति यान्ति च ॥ १३३ ॥

१३३

निमेषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना ।
यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुकादयः ॥ १३४ ॥

१३४

कार्ये कारणताऽऽयाता कारणे नहि कार्यता ।
कारणत्वं ततो गच्छे­त्का­र्या­भावे विचारतः ॥ १३५ ॥

१३५

अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरम् ।
द्रष्टव्यं मृद्घटेनैव दृष्टान्तेन पुनः पुनः ॥ १३६ ॥

१३६

अनेनैव प्रकारेण वृत्ति­र्ब्र­ह्मा­त्मिका भवेत् ।
उदेति शुद्धचित्तानां वृत्तिज्ञानं ततः परम् ॥ १३७ ॥

१३७

कारणं व्यतिरेकेण पुमानादौ विलोकयेत् ।
अन्वयेन पुनस्तद्धि कार्ये नित्ये प्रपश्यति ॥ १३८ ॥

१३८

कार्ये हि कारणं पश्ये­त्प­श्चा­त्कार्यं विसर्जयेत् ।
कारणत्वं ततो गच्छेदवशिष्टं भवेन्मुनिः ॥ १३९ ॥

१३९

भावितं तीव्रवेगेन यद्वस्तु निश्चयात्मना ।
पुमांस्तद्धि भवेच्छीघ्र ज्ञेयं भ्रमरकीटवत् ॥ १४० ॥

१४०

अदृश्यं भावरूपं च सर्वमेव चिदात्मकम् ।
सावधानतया नित्यं स्वात्मानं भावयेद्बुधः ॥ १४१ ॥

१४१

दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् ।
विद्वा­न्नि­त्य­सुखे तिष्ठेद्धिया चिद्रसपूर्णया ॥ १४२ ॥

१४२

एभिरङ्गैः समायुक्तो राजयोग उदाहृतः ।
किञ्चि­त्प­क्व­क­षा­याणां हठयोगेन संयुतः ॥ १४३ ॥

१४३

परिपक्वं मनो येषां केवलोऽयं च सिद्धिदः ।
गुरु­दै­व­त­भ­क्तानां सर्वेषां सुलभो जवात् ॥ १४४ ॥

१४४

॥ इति श्रीम­च्छ­ङ्क­र­भ­ग­व­त्पा­दा­चा­र्य­वि­र­चि­ताऽ­प­रो­क्षा­नु­भूतिः समाप्ता ॥