अद्वैतशारदा

श्रीमद्भगवद्गीताभाष्यम्

प्रथमोऽध्यायः

व्याख्याः

नारायणः परोऽ­व्य­क्ता­द­ण्ड­म­व्य­क्त­स­म्भ­वम् ।
अण्ड­स्या­न्त­स्त्विमे लोकाः सप्तद्वीपा च मेदिनी ॥

स भगवान् सृष्ट्वेदं जगत् , तस्य च स्थितिं चिकीर्षुः, मरीच्यादीनग्रे सृष्ट्वा प्रजापतीन् , प्रवृत्तिलक्षणं धर्मं ग्राहयामास वेदोक्तम् । ततोऽन्यांश्च सन­क­स­न­न्द­ना­दी­नु­त्पाद्य, निवृत्तिलक्षणं धर्मं ज्ञान­वै­रा­ग्य­ल­क्षणं ग्राहयामास । द्विविधो हि वेदोक्तो धर्मः, प्रवृत्तिलक्षणो निवृ­त्ति­ल­क्ष­णश्च, जगतः स्थितिकारणम् । प्राणिनां साक्षा­द­भ्यु­द­य­निः­श्रे­य­स­हे­तुर्यः स धर्मो ब्राह्म­णा­द्यै­र्व­र्णि­भि­रा­श्र­मि­भिश्च श्रेयोर्थिभिः अनुष्ठीयमानो दीर्घेण कालेन । अनुष्ठातॄणां कामोद्भवात् हीय­मा­न­वि­वे­क­वि­ज्ञा­न­हे­तु­केन अधर्मेण अभिभूयमाने धर्मे, प्रवर्धमाने च अधर्मे, जगतः स्थितिं परिपिपालयिषुः स आदिकर्ता नारायणाख्यो विष्णुः भौमस्य ब्रह्मणो ब्राह्मणत्वस्य रक्षणार्थं देवक्यां वसुदेवादंशेन कृष्णः किल सम्बभूव । ब्राह्मणत्वस्य हि रक्षणे रक्षितः स्याद्वैदिको धर्मः, तद­धी­न­त्वा­द्व­र्णा­श्र­म­भे­दा­नाम् ॥

स च भगवान् ज्ञानै­श्व­र्य­श­क्ति­ब­ल­वी­र्य­ते­जोभिः सदा सम्पन्नः त्रिगुणात्मिकां स्वां मायां मूलप्रकृतिं वशीकृत्य, अजोऽव्ययो भूतानामीश्वरो नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भा­वोऽपि सन् , स्वमायया देहवानिव जात इव च लोकानुग्रहं कुर्वन् लक्ष्यते । स्वप्र­यो­ज­ना­भा­वेऽपि भूतानुजिघृक्षया वैदिकं धर्मद्वयम् अर्जुनाय शोकमोहमहोदधौ निमग्नाय उपदिदेश, गुणाधिकैर्हि गृही­तोऽ­नु­ष्ठी­य­मा­नश्च धर्मः प्रचयं गमिष्यतीति । तं धर्मं भगवता यथोपदिष्टं वेदव्यासः सर्वज्ञो भगवान् गीताख्यैः सप्तभिः श्लोक­श­तै­रु­प­नि­ब­बन्ध ॥

तदिदं गीताशास्त्रं सम­स्त­वे­दा­र्थ­सा­र­स­ङ्ग्र­ह­भूतं दुर्वि­ज्ञे­या­र्थम् , तद­र्था­वि­ष्क­र­णा­या­ने­कै­र्वि­वृ­त­प­द­प­दा­र्थ­वा­क्या­र्थ­न्या­य­मपि अत्य­न्त­वि­रु­द्धा­ने­का­र्थ­व­त्वेन लौकि­कै­र्गृ­ह्य­मा­ण­मु­प­लभ्य अहं विवे­क­तोऽ­र्थ­नि­र्धा­र­णार्थं सङ्क्षेपतो विवरणं करिष्यामि ॥

तस्य अस्य गीताशास्त्रस्य सङ्क्षेपतः प्रयोजनं परं निःश्रेयसं सहेतुकस्य संसारस्य अत्य­न्तो­प­र­म­ल­क्ष­णम् । तच्च सर्व­क­र्म­सं­न्या­स­पू­र्व­का­दा­त्म­ज्ञा­न­नि­ष्ठा­रू­पात् धर्मात् भवति । तथा इममेव गीतार्थं धर्ममुद्दिश्य भगवतैवोक्तम् — ‘स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने’(अश्व. १६ । १२) इति अनुगीतासु । तत्रैव चोक्तम् — ‘नैव धर्मी न चाधर्मी न चैव हि शुभाशुभी । ’(अश्व. १९ । ७) ‘यः स्यादेकासने लीनस्तूष्णीं किञ्चि­द­चि­न्त­यन्’(अश्व. १९ । १) ॥ इति ‘ज्ञानं संन्यासलक्षणम्’(अश्व. ४३ । २६) इति च । इहापि च अन्ते उक्तमर्जुनाय — ‘सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज’(भ. गी. १८ । ६६) इति । अभ्युदयार्थोऽपि यः प्रवृत्तिलक्षणो धर्मो वर्णा­ना­श्र­मां­श्चो­द्दिश्य विहितः, स देवा­दि­स्था­न­प्रा­प्ति­हे­तु­रपि सन् , ईश्व­रा­र्प­ण­बुद्ध्या अनुष्ठीयमानः सत्त्वशुद्धये भवति फला­भि­स­न्धि­व­र्जितः । शुद्धसत्त्वस्य च ज्ञान­नि­ष्ठा­यो­ग्य­ता­प्रा­प्ति­द्वा­रेण ज्ञानो­त्प­त्ति­हे­तु­त्वेन च निःश्रे­य­स­हे­तु­त्व­मपि प्रतिपद्यते । तथा चेम­म­र्थ­म­भि­स­न्धाय वक्ष्यति — ‘ब्रह्मण्याधाय कर्माणि’(भ. गी. ५ । १०) ‘योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वा­त्म­शु­द्धये’(भ. गी. ५ । ११) इति ॥

इमं द्विप्रकारं धर्मं निःश्रे­य­स­प्र­यो­ज­नम् , परमार्थतत्त्वं च वासुदेवाख्यं परं ब्रह्मा­भि­धे­य­भूतं विशेषतः अभिव्यञ्जयत् विशि­ष्ट­प्र­यो­ज­न­स­म्ब­न्धा­भि­धे­य­व­द्गी­ता­शा­स्त्रम् । यतः तदर्थविज्ञाने सम­स्त­पु­रु­षा­र्थ­सिद्धिः, अतः तद्विवरणे यत्नः क्रियते मया ॥

धृतराष्ट्र उवाच —

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १ ॥

सञ्जय उवाच —

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचा­र्य­मु­प­स­ङ्गम्य राजा वचनमब्रवीत् ॥ २ ॥

पश्यैतां पाण्डु­पु­त्रा­णा­मा­चार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥

धृष्ट­के­तु­श्चे­कि­तानः काशीराजश्च वीर्यवान् ।
पुरु­जि­त्कु­न्ति­भो­जश्च शैब्यश्च नरपुङ्गवः ॥ ५ ॥

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ ७ ॥

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च सौम­द­त्ति­र्ज­य­द्रथः ॥ ८ ॥

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नाना­श­स्त्र­प्र­ह­रणाः सर्वे युद्धविशारदाः ॥ ९ ॥

अपर्याप्तं तदस्माकं बलं भीष्मा­भि­र­क्षि­तम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥

१०

अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्म­मे­वा­भि­र­क्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥

११

तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १२ ॥

१२

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सह­सै­वा­भ्य­ह­न्यन्त स शब्द­स्तु­मु­लोऽ­भ­वत् ॥ १३ ॥

१३

ततः श्वेतै­र्ह­यै­र्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १४ ॥

१४

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १५ ॥

१५

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १६ ॥

१६

काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्य­कि­श्चा­प­रा­जितः ॥ १७ ॥

१७

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ १८ ॥

१८

स घोषो धार्त­रा­ष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ १९ ॥

१९

अथ व्यव­स्थि­ता­न्दृष्ट्वा धार्त­रा­ष्ट्रा­न्क­पि­ध्वजः ।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ २० ॥

२०

हृषीकेशं तदा वाक्यमिदमाह महीपते ।
अर्जुन उवाच —
सेन­यो­रु­भ­यो­र्मध्ये रथं स्थापय मेऽच्युत ॥ २१ ॥

२१

याव­दे­ता­न्नि­री­क्षेऽहं योद्धु­का­मा­न­व­स्थि­तान् ।
कैर्मया सह योद्ध­व्य­म­स्मि­न्र­ण­स­मु­द्यमे ॥ २२ ॥

२२

योत्स्य­मा­ना­न­वे­क्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बु­द्धे­र्युद्धे प्रियचिकीर्षवः ॥ २३ ॥

२३

सञ्जय उवाच —

एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेन­यो­रु­भ­यो­र्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥

२४

भीष्म­द्रो­ण­प्र­मु­खतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यै­ता­न्स­म­वे­ता­न्कु­रू­निति ॥ २५ ॥

२५

तत्रा­प­श्य­त्स्थि­ता­न्पार्थः पितॄनथ पितामहान् ।
आचा­र्या­न्मा­तु­ला­न्भ्रा­तॄ­न्पु­त्रा­न्पौ­त्रा­न्स­खीं­स्तथा ॥ २६ ॥

२६

श्वशु­रा­न्सु­हृ­द­श्चै­व­से­न­यो­रु­भ­यो­रपि ।
तान्समीक्ष्य स कौन्तेयः सर्वा­न्ब­न्धू­न­व­स्थि­तान् ॥ २७ ॥

२७

कृपया परयाविष्टो विषी­द­न्नि­द­म­ब्र­वीत् ।
अर्जुन उवाच —
दृष्ट्वे­मा­न्स्व­ज­ना­न्कृष्ण युयु­त्सू­न्स­मु­प­स्थि­तान् ॥ २८ ॥

२८

सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ २९ ॥

२९

गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
न च शक्नो­म्य­व­स्थातुं भ्रमतीव च मे मनः ॥ ३० ॥

३०

निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽ­नु­प­श्यामि हत्वा स्वजनमाहवे ॥ ३१ ॥

३१

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ ३२ ॥

३२

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणां­स्त्यक्त्वा धनानि च ॥ ३३ ॥

३३

आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः स्यालाः सम्बन्धिनस्तथा ॥ ३४ ॥

३४

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलो­क्य­रा­ज्यस्य हेतोः किं नु महीकृते ॥ ३५ ॥

३५

निहत्य धार्त­रा­ष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पाप­मे­वा­श्र­ये­द­स्मा­न्ह­त्वै­ता­ना­त­ता­यिनः ॥ ३६ ॥

३६

तस्मान्नार्हा वयं हन्तुं धार्त­रा­ष्ट्रा­न्स­बा­न्ध­वान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३७ ॥

३७

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३८ ॥

३८

कथं न ज्ञेयमस्माभिः पापा­द­स्मा­न्नि­व­र्ति­तुम् ।
कुलक्षयकृतं दोषं प्रप­श्य­द्भि­र्ज­ना­र्दन ॥ ३९ ॥

३९

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्न­म­ध­र्मोऽ­भि­भ­व­त्युत ॥ ४० ॥

४०

अध­र्मा­भि­भ­वा­त्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ ४१ ॥

४१

सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्त­पि­ण्डो­द­क­क्रियाः ॥ ४२ ॥

४२

दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ४३ ॥

४३

उत्स­न्न­कु­ल­ध­र्माणां मनुष्याणां जनार्दन ।
नरके नियतं वासो भव­ती­त्य­नु­शु­श्रुम ॥ ४४ ॥

४४

अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्रा­ज्य­सु­ख­लो­भेन हन्तुं स्वजनमुद्यताः ॥ ४५ ॥

४५

यदि माम­प्र­ती­का­र­म­शस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४६ ॥

४६

सञ्जय उवाच —

एव­मु­क्त्वा­र्जुनः सं‍ख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ ४७ ॥

४७

इति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीम­द्भ­ग­व­द्गी­ता­सू­प­नि­षत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृ­ष्णा­र्जु­न­सं­वादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥