अद्वैतशारदा

श्रीमद्भगवद्गीताभाष्यम्

दशमोऽध्यायः

व्याख्याः

सप्तमे अध्याये भगवतस्तत्त्वं विभूतयश्च प्रकाशिताः, नवमे च । अथ इदानीं येषु येषु भावेषु चिन्त्यो भगवान् , ते ते भावा वक्तव्याः, तत्त्वं च भगवतो वक्तव्यम् उक्तमपि, दुर्वि­ज्ञे­य­त्वात् , इत्यतः श्रीभगवानुवाच —

श्रीभगवानुवाच —

भूय एव महाबाहो शृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥

भूयः एव भूयः पुनः हे महाबाहो शृणु मे मदीयं परमं प्रकृष्टं निरतिशयवस्तुनः प्रकाशकं वचः वाक्यं यत् परमं ते तुभ्यं प्रीयमाणाय — मद्वचनात् प्रीयसे त्वम् अतीव अमृतमिव पिबन् , ततः — वक्ष्यामि हितकाम्यया हितेच्छया ॥ १ ॥

किमर्थम् अहं वक्ष्यामि इत्यत आह –

न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ २ ॥

न मे विदुः न जानन्ति सुरगणाः ब्रह्मादयः । किं ते न विदुः ? मम प्रभवं प्रभावं प्रभु­श­क्त्य­ति­श­यम् , अथवा प्रभवं प्रभवनम् उत्पत्तिम् । नापि महर्षयः भृग्वादयः विदुः । कस्मात् ते न विदुरित्युच्यते — अहम् आदिः कारणं हि यस्मात् देवानां महर्षीणां च सर्वशः सर्वप्रकारैः ॥ २ ॥

किञ्च —

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ ३ ॥

यः माम् अजम् अनादिं च, यस्मात् अहम् आदिः देवानां महर्षीणां च, न मम अन्यः आदिः विद्यते ; अतः अहम् अजः अनादिश्च ; अनादित्वम् अजत्वे हेतुः, तं माम् अजम् अनादिं च यः वेत्ति विजानाति लोकमहेश्वरं लोकानां महान्तम् ईश्वरं तुरीयम् अज्ञा­न­त­त्का­र्य­व­र्जि­तम् असंमूढः संमोहवर्जितः सः मर्त्येषु मनुष्येषु, सर्वपापैः सर्वैः पापैः मति­पू­र्वा­म­ति­पू­र्व­कृतैः प्रमुच्यते प्रमोक्ष्यते ॥ ३ ॥

इतश्चाहं महेश्वरो लोकानाम् —

बुद्धि­र्ज्ञा­न­म­सं­मोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ ४ ॥

बुद्धिः अन्तःकरणस्य सूक्ष्मा­द्य­र्था­व­बो­ध­न­सा­म­र्थ्यम् , तद्वन्तं बुद्धिमानिति हि वदन्ति । ज्ञानम् आत्मा­दि­प­दा­र्था­ना­म­व­बोधः । असंमोहः प्रत्यु­त्प­न्नेषु बोद्धव्येषु विवेकपूर्विका प्रवृत्तिः । क्षमा आक्रुष्टस्य ताडितस्य वा अविकृतचित्तता । सत्यं यथादृष्टस्य यथाश्रुतस्य च आत्मानुभवस्य पर­बु­द्धि­स­ङ्क्रा­न्तये तथैव उच्चार्यमाणा वाक् सत्यम् उच्यते । दमः बाह्ये­न्द्रि­यो­प­शमः । शमः अन्तःकरणस्य उपशमः । सुखम् आह्लादः । दुःखं सन्तापः । भवः उद्भवः । अभावः तद्विपर्ययः । भयं च त्रासः, अभयमेव च तद्विपरीतम् ॥ ४ ॥

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ ५ ॥

अहिंसा अपीडा प्राणिनाम् । समता समचित्तता । तुष्टिः सन्तोषः पर्या­प्त­बु­द्धि­र्ला­भेषु । तपः इन्द्रि­य­सं­य­म­पू­र्वकं शरीरपीडनम् । दानं यथाशक्ति संविभागः । यशः धर्मनिमित्ता कीर्तिः । अयशस्तु अधर्मनिमित्ता अकीर्तिः । भवन्ति भावाः यथोक्ताः बुद्ध्यादयः भूतानां प्राणिनां मत्तः एव ईश्वरात् पृथग्विधाः नानाविधाः स्वकर्मानुरूपेण ॥ ५ ॥

किञ्च —

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ ६ ॥

महर्षयः सप्त भृग्वादयः पूर्वे अती­त­का­ल­स­म्ब­न्धिनः, चत्वारः मनवः तथा सावर्णा इति प्रसिद्धाः, ते च मद्भावाः मद्गतभावनाः वैष्णवेन सामर्थ्येन उपेताः, मानसाः मनसैव उत्पादिताः मया जाताः उत्पन्नाः, येषां मनूनां महर्षीणां च सृष्टिः लोके इमाः स्थाव­र­ज­ङ्ग­म­ल­क्षणाः प्रजाः ॥ ६ ॥

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ ७ ॥

एतां यथोक्तां विभूतिं विस्तारं योगं च युक्तिं च आत्मनः घटनम् , अथवा योगै­श्व­र्य­सा­मर्थ्यं सर्वज्ञत्वं योगजं योगः उच्यते, मम मदीयं योगं यः वेत्ति तत्त्वतः तत्त्वेन यथावदित्येतत् , सः अविकम्पेन अप्रचलितेन योगेन सम्य­ग्द­र्श­न­स्थै­र्य­ल­क्ष­णेन युज्यते सम्बध्यते । न अत्र संशयः न अस्मिन् अर्थे संशयः अस्ति ॥ ७ ॥

कीदृशेन अविकम्पेन योगेन युज्यते इत्युच्यते —

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ ८ ॥

अहं परं ब्रह्म वासुदेवाख्यं सर्वस्य जगतः प्रभवः उत्पत्तिः । मत्तः एव स्थिति­ना­श­क्रि­या­फ­लो­प­भो­ग­ल­क्षणं विक्रियारूपं सर्वं जगत् प्रवर्तते । इति एवं मत्वा भजन्ते सेवंते मां बुधाः अव­ग­त­प­र­मा­र्थ­तत्त्वाः, भावसमन्विताः भावः भावना पर­मा­र्थ­त­त्त्वा­भि­नि­वेशः तेन समन्विताः संयुक्ताः इत्यर्थः ॥ ८ ॥

किञ्च —

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ ९ ॥

मच्चित्ताः, मयि चित्तं येषां ते मच्चित्ताः, मद्गतप्राणाः मां गताः प्राप्ताः चक्षुरादयः प्राणाः येषां ते मद्गतप्राणाः, मयि उपसंहृतकरणाः इत्यर्थः । अथवा, मद्गतप्राणाः मद्गतजीवनाः इत्येतत् । बोधयन्तः अवगमयन्तः परस्परम् अन्योन्यम् , कथयन्तश्च ज्ञान­ब­ल­वी­र्या­दि­धर्मैः विशिष्टं माम् , तुष्यन्ति च परितोषम् उपयान्ति च रमन्ति च रतिं च प्राप्नुवन्ति प्रियसङ्गत्येव ॥ ९ ॥

ये यथोक्तैः प्रकारैः भजन्ते मां भक्ताः सन्तः —

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १० ॥

१०

तेषां सततयुक्तानां नित्या­भि­यु­क्तानां निवृ­त्त­स­र्व­बा­ह्यै­ष­णानां भजतां सेवमानानाम् । किम् अर्थित्वादिना कारणेन ? नेत्याह — प्रीतिपूर्वकं प्रीतिः स्नेहः तत्पूर्वकं मां भजतामित्यर्थः । ददामि प्रयच्छामि बुद्धियोगं बुद्धिः सम्यग्दर्शनं मत्तत्त्वविषयं तेन योगः बुद्धियोगः तं बुद्धियोगम् , येन बुद्धियोगेन सम्य­ग्द­र्श­न­ल­क्ष­णेन मां परमेश्वरम् आत्मभूतम् आत्मत्वेन उपयान्ति प्रतिपद्यन्ते । के ? ते ये मच्चि­त्त­त्वा­दि­प्र­कारैः मां भजन्ते ॥ १० ॥

किमर्थम् , कस्य वा, त्वत्प्रा­प्ति­प्र­ति­ब­न्ध­हेतोः नाशकं बुद्धियोगं तेषां त्वद्भक्तानां ददासि इत्यपेक्षायामाह —

तेषा­मे­वा­नु­क­म्पा­र्थ­म­ह­म­ज्ञा­नजं तमः ।
नाश­या­म्या­त्म­भा­वस्थो ज्ञानदीपेन भास्वता ॥ ११ ॥

११

तेषामेव कथं नु नाम श्रेयः स्यात् इति अनुकम्पार्थं दयाहेतोः अहम् अज्ञानजम् अविवेकतः जातं मिथ्या­प्र­त्य­य­ल­क्षणं मोहान्धकारं तमः नाशयामि, आत्मभावस्थः आत्मनः भावः अन्तःकरणाशयः तस्मिन्नेव स्थितः सन् ज्ञानदीपेन विवे­क­प्र­त्य­य­रू­पेण भक्ति­प्र­सा­द­स्ने­हा­भि­षि­क्तेन मद्भा­व­ना­भि­नि­वे­श­वा­ते­रि­तेन ब्रह्म­च­र्या­दि­सा­ध­न­सं­स्का­र­व­त्प्र­ज्ञा­व­र्तिना विर­क्ता­न्तः­क­र­णा­धा­रेण विष­य­व्या­वृ­त्त­चि­त्त­रा­ग­द्वे­षा­क­लु­षि­त­नि­वा­ता­प­व­र­क­स्थेन नित्य­प्र­वृ­त्तै­का­ग्र्य­ध्या­न­ज­नि­त­स­म्य­ग्द­र्श­न­भा­स्वता ज्ञान­दी­पे­ने­त्यर्थः ॥ ११ ॥

यथोक्तां भगवतः विभूतिं योगं च श्रुत्वा अर्जुन उवाच —

अर्जुन उवाच —

परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १२ ॥

१२

परं ब्रह्म परमात्मा परं धाम परं तेजः पवित्रं पावनं परमं प्रकृष्टं भवान् । पुुुरुषं शाश्वतं नित्यं दिव्यं दिवि भवम् आदिदेवं सर्वदेवानाम् आदौ भवम् आदिदेवम् अजं विभुं विभवनशीलम् ॥ १२ ॥

ईदृशम् —

आहुस्त्वामृषयः सर्वे देव­र्षि­र्ना­र­द­स्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १३ ॥

१३

आहुः कथयन्ति त्वाम् ऋषयः वसिष्ठादयः सर्वे देवर्षिः नारदः तथा । असितः देवलोऽपि एवमेवाह, व्यासश्च, स्वयं चैव त्वं च ब्रवीषि मे ॥ १३ ॥

सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ १४ ॥

१४

सर्वमेतत् यथोक्तम् ऋषिभिः त्वया च एतत् ऋतं सत्यमेव मन्ये, यत् मां प्रति वदसि भाषसे हे केशव । न हि ते तव भगवन् व्यक्तिं प्रभवं विदुः न देवाः, न दानवाः ॥ १४ ॥

यतः त्वं देवादीनाम् आदिः, अतः —

स्वय­मे­वा­त्म­ना­त्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥

१५

स्वयमेव आत्मना आत्मानं वेत्थ जानासि त्वं निर­ति­श­य­ज्ञा­नै­श्व­र्य­ब­ला­दि­श­क्ति­म­न्तम् ईश्वरं पुरुषोत्तम । भूतानि भावयतीति भूतभावनः, हे भूतभावन । भूतेश भूतानाम् ईशितः । हे देवदेव जगत्पते ॥ १५ ॥

वक्तु­म­र्ह­स्य­शे­षेण दिव्या ह्यात्मविभूतयः ।
याभि­र्वि­भू­ति­भि­र्लो­का­नि­मांस्त्वं व्याप्य तिष्ठसि ॥ १६ ॥

१६

वक्तुं कथयितुम् अर्हसि अशेषेण । दिव्याः हि आत्मविभूतयः । आत्मनो विभूतयो याः ताः वक्तुम् अर्हसि । याभिः विभूतिभिः आत्मनो माहा­त्म्य­वि­स्तरैः इमान् लोकान् त्वं व्याप्य तिष्ठसि ॥ १६ ॥

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १७ ॥

१७

कथं विद्यां विजानीयाम् अहं हे योगिन् त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु वस्तुषु चिन्त्यः असि ध्येयः असि भगवन् मया ॥ १७ ॥

विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ १८ ॥

१८

विस्तरेण आत्मनः योगं योगै­श्व­र्य­श­क्ति­वि­शेषं विभूतिं च विस्तरं ध्येयपदार्थानां हे जनार्दन, अर्दतेः गतिकर्मणः रूपम् , असुराणां देव­प्र­ति­प­क्ष­भू­तानां जनानां नर­का­दि­ग­म­यि­तृ­त्वात् जनार्दनः अभ्यु­द­य­निः­श्रे­य­स­पु­रु­षा­र्थ­प्र­यो­जनं सर्वैः जनैः याच्यते इति वा । भूयः पूर्वम् उक्तमपि कथय ; तृप्तिः परितोषः हि यस्मात् नास्ति मे मम शृण्वतः त्वन्मु­ख­निः­सृ­त­वा­क्या­मृ­तम् ॥ १८ ॥

श्रीभगवानुवाच —

हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १९ ॥

१९

हन्त इदानीं ते तव दिव्याः दिवि भवाः आत्मविभूतयः आत्मनः मम विभूतयः याः ताः कथयिष्यामि इत्येतत् । प्राधान्यतः यत्र यत्र प्रधाना या या विभूतिः तां तां प्रधानां प्राधान्यतः कथयिष्यामि अहं कुरुश्रेष्ठ । अशेषतस्तु वर्षशतेनापि न शक्या वक्तुम् , यतः नास्ति अन्तः विस्तरस्य मे मम विभूतीनाम् इत्यर्थः ॥ १९ ॥

तत्र प्रथममेव तावत् शृणु —

अहमात्मा गुडाकेश सर्व­भू­ता­श­य­स्थितः ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥ २० ॥

२०

अहम् आत्मा प्रत्यगात्मा गुडाकेश, गुडाका निद्रा तस्याः ईशः गुडाकेशः, जितनिद्रः इत्यर्थः ; घनकेश इति वा । सर्व­भू­ता­श­य­स्थितः सर्वेषां भूतानाम् आशये अन्तर्हृदि स्थितः अहम् आत्मा प्रत्यगात्मा नित्यं ध्येयः । तदशक्तेन च उत्तरेषु भावेषु चिन्त्यः अहम् ; यस्मात् अहम् एव आदिः भूतानां कारणं तथा मध्यं च स्थितिः अन्तः प्रलयश्च ॥ २० ॥

एवं च ध्येयोऽहम् —

आदित्यानामहं विष्णु­र्ज्यो­तिषां रविरंशुमान् ।
मरी­चि­र्म­रु­ता­मस्मि नक्षत्राणामहं शशी ॥ २१ ॥

२१

आदित्यानां द्वादशानां विष्णुः नाम आदित्यः अहम् । ज्योतिषां रविः प्रकाशयितॄणाम् अंशुमान् रश्मिमान् । मरीचिः नाम मरुतां मरु­द्दे­व­ता­भे­दा­नाम् अस्मि । नक्षत्राणाम् अहं शशी चन्द्रमाः ॥ २१ ॥

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ २२ ॥

२२

वेदानां मध्ये सामवेदः अस्मि । देवानां रुद्रा­दि­त्या­दीनां वासवः इन्द्रः अस्मि । इन्द्रियाणां एकादशानां चक्षुरादीनां मनश्च अस्मि सङ्क­ल्प­वि­क­ल्पा­त्मकं मनश्चास्मि । भूतानाम् अस्मि चेतना कार्यकरणसङ्घाते नित्याभिव्यक्ता बुद्धिवृत्तिः चेतना ॥ २२ ॥

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ २३ ॥

२३

रुद्राणाम् एकादशानां शङ्करश्च अस्मि । वित्तेशः कुबेरः यक्षरक्षसां यक्षाणां रक्षसां च । वसूनाम् अष्टानां पावकश्च अस्मि अग्निः । मेरुः शिखरिणां शिखरवताम् अहम् ॥ २३ ॥

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ २४ ॥

२४

पुरोधसां च राजपुरोहितानां च मुख्यं प्रधानं मां विद्धि हे पार्थ बृहस्पतिम् । स हि इन्द्रस्येति मुख्यः स्यात् पुरोधाः । सेनानीनां सेनापतीनाम् अहं स्कन्दः देवसेनापतिः । सरसां यानि देवखातानि सरांसि तेषां सरसां सागरः अस्मि भवामि ॥ २४ ॥

महर्षीणां भृगुरहं गिरा­म­स्म्ये­क­म­क्ष­रम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ २५ ॥

२५

महर्षीणां भृगुः अहम् । गिरां वाचां पदलक्षणानाम् एकम् अक्षरम् ओङ्कारः अस्मि । यज्ञानां जपयज्ञः अस्मि, स्थावराणां स्थितिमतां हिमालयः ॥ २५ ॥

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ २६ ॥

२६

अश्वत्थः सर्ववृक्षाणाम् , देवर्षीणां च नारदः देवाः एव सन्तः ऋषित्वं प्राप्ताः मन्त्र­द­र्शि­त्वात्ते देवर्षयः, तेषां नारदः अस्मि । गन्धर्वाणां चित्ररथः नाम गन्धर्वः अस्मि । सिद्धानां जन्मनैव धर्म­ज्ञा­न­वै­रा­ग्यै­श्व­र्या­ति­शयं प्राप्तानां कपिलो मुनिः ॥ २६ ॥

उच्चैः­श्र­व­स­म­श्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥

२७

उच्चैःश्रवसम् अश्वानां उच्चैःश्रवाः नाम अश्वराजः तं मां विद्धि विजानीहि अमृतोद्भवम् अमृ­त­नि­मि­त्त­म­थ­नो­द्भ­वम् । ऐरावतम् इरावत्याः अपत्यं गजेन्द्राणां हस्तीश्वराणाम् , तम् ‘मां विद्धि’ इति अनुवर्तते । नराणां च मनुष्याणां नराधिपं राजानं मां विद्धि जानीहि ॥ २७ ॥

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ २८ ॥

२८

आयुधानाम् अहं वज्रं दधी­च्य­स्थि­स­म्भ­वम् । धेनूनां दोग्ध्रीणाम् अस्मि कामधुक् वसिष्ठस्य सर्वकामानां दोग्ध्री, सामान्या वा कामधुक् । प्रजनः प्रजनयिता अस्मि कन्दर्पः कामः सर्पाणां सर्पभेदानाम् अस्मि वासुकिः सर्पराजः ॥ २८ ॥

अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ २९ ॥

२९

अनन्तश्च अस्मि नागानां नागविशेषाणां नागराजश्च अस्मि । वरुणो यादसाम् अहम् अब्देवतानां राजा अहम् । पितॄणाम् अर्यमा नाम पितृराजश्च अस्मि । यमः संयमतां संयमनं कुर्वताम् अहम् ॥ २९ ॥

प्रह्ला­द­श्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ ३० ॥

३०

प्रह्लादो नाम च अस्मि दैत्यानां दितिवंश्यानाम् । कालः कलयतां कलनं गणनं कुर्वताम् अहम् । मृगाणां च मृगेन्द्रः सिंहो व्याघ्रो वा अहम् । वैनतेयश्च गरुत्मान् विनतासुतः पक्षिणां पतत्रिणाम् ॥ ३० ॥

पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ ३१ ॥

३१

पवनः वायुः पवतां पावयितॄणाम् अस्मि । रामः शस्त्रभृताम् अहं शस्त्राणां धारयितॄणां दाशरथिः रामः अहम् । झषाणां मत्स्यादीनां मकरः नाम जातिविशेषः अहम् । स्रोतसां स्रवन्तीनाम् अस्मि जाह्नवी गङ्गा ॥ ३१ ॥

सर्गा­णा­मा­दि­र­न्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ ३२ ॥

३२

सर्गाणां सृष्टीनाम् आदिः अन्तश्च मध्यं चैव अहम् उत्प­त्ति­स्थि­ति­लयाः अहम् अर्जुन । भूतानां जीवा­धि­ष्ठि­ता­ना­मेव आदिः अन्तश्च इत्याद्युक्तम् उपक्रमे, इह तु सर्वस्यैव सर्गमात्रस्य इति विशेषः । अध्यात्मविद्या विद्यानां मोक्षार्थत्वात् प्रधानमस्मि । वादः अर्थ­नि­र्ण­य­हे­तु­त्वात् प्रवदतां प्रधानम् , अतः सः अहम् अस्मि । प्रव­त्त्कृ­द्वा­रेण वदनभेदानामेव वाद­ज­ल्प­वि­त­ण्डा­नाम् इह ग्रहणं प्रवदताम् इति ॥ ३२ ॥

अक्ष­रा­णा­म­का­रोऽस्मि
द्वन्द्वः सामासिकस्य च ।
अहमेवाक्षयः कालो
धाताहं विश्वतोमुखः ॥ ३३ ॥

३३

अक्षराणां वर्णानाम् अकारः वर्णः अस्मि । द्वन्द्वः समासः अस्मि सामासिकस्य च समाससमूहस्य । किञ्च अहमेव अक्षयः अक्षीणः कालः प्रसिद्धः क्षणाद्याख्यः, अथवा परमेश्वरः कालस्यापि कालः अस्मि । धाता अहं कर्मफलस्य विधाता सर्वजगतः विश्वतोमुखः सर्वतोमुखः ॥ ३३ ॥

मृत्युः सर्व­ह­र­श्चा­ह­मु­द्भ­वश्च भविष्यताम् ।
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ ३४ ॥

३४

मृत्युः द्विविधः धनादिहरः प्राणहरश्च ; तत्र यः प्राणहरः, स सर्वहरः उच्यते ; सः अहम् इत्यर्थः । अथवा, परः ईश्वरः प्रलये सर्वहरणात् सर्वहरः, सः अहम् । उद्भवः उत्कर्षः अभ्युदयः तत्प्रा­प्ति­हे­तुश्च अहम् । केषाम् ? भविष्यतां भाविकल्याणानाम् , उत्क­र्ष­प्रा­प्ति­यो­ग्या­नाम् इत्यर्थः । कीर्तिः श्रीः वाक् च नारीणां स्मृतिः मेधा धृतिः क्षमा इत्येताः उत्तमाः स्त्रीणाम् अहम् अस्मि, यासाम् आभा­स­मा­त्र­स­म्ब­न्धे­नापि लोकः कृतार्थमात्मानं मन्यते ॥ ३४ ॥

बृहत्साम तथा साम्नां गायत्री च्छन्दसामहम् ।
मासानां मार्ग­शी­र्षोऽ­ह­मृ­तूनां कुसुमाकरः ॥ ३५ ॥

३५

बृहत्साम तथा साम्नां प्रधानमस्मि । गायत्री च्छन्दसाम् अहं गाय­त्र्या­दि­च्छ­न्दो­वि­शि­ष्टा­ना­मृचां गायत्री ऋक् अहम् अस्मि इत्यर्थः । मासानां मार्गशीर्षः अहम् , ऋतूनां कुसुमाकरः वसन्तः ॥ ३५ ॥

द्यूतं छलयतामस्मि
तेज­स्ते­ज­स्वि­ना­म­हम् ।
जयोऽस्मि व्यवसायोऽस्मि
सत्त्वं सत्त्ववतामहम् ॥ ३६ ॥

३६

द्यूतम् अक्ष­दे­व­ना­दि­ल­क्षणं छलयतां छलस्य कर्तॄणाम् अस्मि । तेजस्विनां तेजः अहम् । जयः अस्मि जेतॄणाम् , व्यवसायः अस्मि व्यवसायिनाम् , सत्त्वं सत्त्ववतां सात्त्विकानाम् अहम् ॥ ३६ ॥

वृष्णीनां वासुदेवोऽस्मि
पाण्डवानां धनञ्जयः ।
मुनीनामप्यहं व्यासः
कवीनामुशना कविः ॥ ३७ ॥

३७

वृष्णीनां यादवानां वासुदेवः अस्मि अयमेव अहं त्वत्सखः । पाण्डवानां धनञ्जयः

त्वमेव । मुनीनां मननशीलानां सर्व­प­दा­र्थ­ज्ञा­नि­नाम् अपि अहं व्यासः, कवीनां क्रान्त­द­र्शि­नाम् उशना कविः अस्मि ॥ ३७ ॥

दण्डो दमयतामस्मि
नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां
ज्ञानं ज्ञानवतामहम् ॥ ३८ ॥

३८

दण्डः दमयतां दमयितॄणाम् अस्मि अदान्तानां दमनकारणम् । नीतिः अस्मि जिगीषतां जेतुमिच्छताम् । मौनं चैव अस्मि गुह्यानां गोप्यानाम् । ज्ञानं ज्ञानवताम् अहम् ॥ ३८ ॥

यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ ३९ ॥

३९

यच्चापि सर्वभूतानां बीजं प्ररोहकारणम् , तत् अहम् अर्जुन । प्रक­र­णो­प­सं­हा­रार्थं विभू­ति­स­ङ्क्षे­प­माह — न तत् अस्ति भूतं चराचरं चरम् अचरं वा, मया विना यत् स्यात् भवेत् । मया अपकृष्टं परित्यक्तं निरात्मकं शून्यं हि तत् स्यात् । अतः मदात्मकं सर्वमित्यर्थः ॥ ३९ ॥

नान्तोऽस्ति मम दिव्यानां
विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो
विभूतेर्विस्तरो मया ॥ ४० ॥

४०

न अन्तः अस्ति मम दिव्यानां विभूतीनां विस्तराणां परन्तप । न हि ईश्वरस्य सर्वात्मनः दिव्यानां विभूतीनाम् इयत्ता शक्या वक्तुं ज्ञातुं वा केनचित् । एष तु उद्देशतः एकदेशेन प्रोक्तः विभूतेः विस्तरः मया ॥ ४० ॥

यद्य­द्वि­भू­ति­म­त्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम् ॥ ४१ ॥

४१

यद्यत् लोके विभूतिमत् विभूतियुक्तं सत्त्वं वस्तु श्रीमत् ऊर्जितमेव वा श्रीर्लक्ष्मीः तया सहितम् उत्साहोपेतं वा, तत्तदेव अवगच्छ त्वं जानीहि मम ईश्वरस्य तेजोंशसम्भवं तेजसः अंशः एकदेशः सम्भवः यस्य तत् तेजोंशसम्भवमिति अवगच्छ त्वम् ॥ ४१ ॥

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ ४२ ॥

४२

अथवा बहुना एतेन एवमादिना किं ज्ञातेन तव अर्जुन स्यात् सावशेषेण । अशेषतः त्वम् उच्यमानम् अर्थं शृणु — विष्टभ्य विशेषतः स्तम्भनं दृढं कृत्वा इदं कृत्स्नं जगत् एकांशेन एकावयवेन एकपादेन, सर्वभूतस्वरूपेण इत्येतत् ; तथा च मन्त्रवर्णः — ‘पादोऽस्य विश्वा भूतानि’(ऋ. १० । ८ । ९० । ३) इति ; स्थितः अहम् इति ॥ ४२ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ श्रीम­द्भ­ग­व­द्गी­ता­भाष्ये दशमोऽध्यायः ॥